ज्ञानबाध्यत्वमपि तु न सिद्धं प्रतिवादिनः
अनिर्वचनीयलक्षणनिरासः
ज्ञानबाध्यत्वमपि तु न सिद्धं प्रतिवादिनः
सुधा
अथवाऽनिवर्चनीयममुख्यं सदित्युक्तम् । तत्र किमिदमनिर्वचनीयत्वम् । किं निरुक्तिविरहः । किंवा निरुक्तिनिमित्तविरहः । नाद्यः । अनिर्वचनीयमित्यादिनिरुक्तेः सत्त्वेनासम्भवित्वात् । द्वितीयेऽपि निरुक्तिनिमित्तं ज्ञानमर्थो वा स्यात् । नाद्यः । ज्ञानस्यो भयवादिसिद्धिसद्भावात् । न द्वितीयः । यथाप्रतिभासमर्थस्यालौकिकस्य रजतादेर्मायावादि-नाऽभ्युपगतत्वादित्याशङ्क्य परेणानिर्वचनीयस्य लक्षणद्वयमभिहितम् । सदसद्विलक्षणत्व-मनिर्वचनीयत्वं ज्ञानबाध्यत्वं चेति । तत्राद्यं तावन्निराकरोति ॥ वैलक्षण्यं सतश्चेति ॥ व्याख्यानानि तु पूर्ववदेव । तत्र यावत्सु पक्षेषु सिद्धार्थत्वपर्यवसानं तावत्स्वनिर्वचनीयत्वस्य सत्त्वाविरोधित्वेन न सन्प्रपञ्चः किन्त्वनिर्वचनीय इत्यारम्भासङ्गतिर्दोषोऽवगन्तव्यः । यत्र पुनर्बाधादिपर्यवसानं तत्राव्याप्तिरवगन्तव्या । अथवाऽनिर्वचनीयत्वेन वियदादिकं शुक्तिरजतादिकं च परस्याभिमतम् । तत्र सत एव सत्त्वेन प्रमितस्यैव वियदादेर्विश्वस्यासद्विलक्षणत्वमेव स्वयं सत् । एवमसत एवासत्त्वेन प्रमितस्यैव शुक्तिरजतादेर्विश्वस्य सर्वस्याप्यारोपितस्य सद्विलक्षणत्वमेव स्वयं सत् । वियदादावसद्विलक्षणत्वमेवास्ति । सद्वैलक्षण्यं तु प्रमाणबाधितम् । तथा शुक्तिरजतादौ सद्विलक्षणत्वमेवास्ति । असद्वैलक्षण्यं तु प्रमाणविरुद्धम् । अतोऽसम्भविना तेन लक्षणेनोक्तेन कथं तेऽनिष्टं निग्रहस्थानं न भवेदित्यादियोजना द्रष्टव्या । भेदवादिन इत्यनेन मायावादिनो वियदादौ सद्वैलक्षण्याङ्गीकारः शुक्तिरजतादौ चासद्विलक्षणत्वाभ्युपगतिराग्रहमात्रमूलैवेत्यभिप्रैति ॥ यद्युच्यत इत्यत्राप्युक्तरीत्याऽसम्भवित्वादिकं ज्ञातव्यम् । सन्मात्रत्वमित्यनेनातिव्याप्तिरुच्यते । तता हि । ब्रह्मणोऽपि सन्मात्रत्वं सत्त्वानधिकरणत्वमिति यावत् । मायावादिनाऽभ्युपगतमिति शेषः । निर्धर्मकत्वाङ्गीकारात् । असत्त्वानधिकरणत्वं तु निश्चितमेव । तस्मात्तदपि ब्रह्मापि सन्नो भवेत्किन्त्वनिर्वाच्यं प्रसज्येतेति । सत्त्वेनासत्त्वेन च विचारासहत्वमनिर्वचनीयत्वं न पुनः सत्त्वासत्वधर्मानधिकरणत्वम् । ब्रह्म तु सत्त्वेन विचारसहं कथमनिर्वचनीयं स्यादिति चेन्न । सत्त्वेनेति त्वप्रत्ययार्थस्यानभ्युपगमात् । किञ्च यो वियदादौ विचारः स ब्रह्मण्यपि समान इति कथं न तस्यानिर्वचनीयत्वम् । यथोक्तम् । ‘सर्ववैलक्षण्याङ्गीकारादि’त्यादि । निराकरिष्यते चासौ दुर्विचारस्तत्र तत्रेति ॥
द्वितीयमपि लक्षणं निराकरोति ॥ ज्ञानबाध्यत्वमिति ॥ यदि ज्ञानबाध्यत्वं नामोक्तविधया ज्ञाननिवर्त्यत्वं तदा वियदादौ शुक्तिरजतादौ च न सिद्धम् । वियदादेः सत्त्वेन शुक्तिरजतादेश्चा-सत्वेनाविद्योपादानकत्वाभावात् । ततश्चासम्भवित्वं लक्षणदोषः । यदि पुनर्ज्ञानविनाश्यत्वमात्रम् । तथाऽपि वियदादौ नित्ये नित्यत्वादेव शुक्तिरजतादौ चासत्वान्न सिद्धमित्यव्याप्तिः । यदि च प्रतिपन्नौपाधौ निषेधप्रतियोगित्वं तदपि वियदादौ न सिद्धमित्यव्याप्तिरेव । उपपत्तयस्तूक्ता वक्ष्यमाणाश्चानुसन्धेयाः । ननु भवताऽपि बाध्यत्वं किमप्यङ्गीकरणीयमेव । पदस्य निरर्थकत्वा-योगात् । तदेवास्माकमनिर्वचनीयलक्षणं भवत्वित्यत आह ॥ प्रतिवादिनो विज्ञातस्येति ॥ प्रतिवादिनो मम मतमिति सम्बन्धः । तच्चात्मन्यनिर्वचनीयेऽप्यस्तीत्यतिव्याप्तमिति शेषः । अत्रान्यथाविज्ञानमेव भ्रान्तिः । तत्प्रसञ्जितान्यथाऽऽकारलोडनं सम्यग्विज्ञानमेव बाध इत्यवधारयता मतान्तराणि निरस्तानि वेदितव्यानि । हिशब्देन तत्र प्रमाणप्रसिद्धिं सूचयति ॥
वाक्यार्थचन्द्रिका
एवं लक्षणप्रमाणाभ्यां वस्तुसिद्धावपि लक्षणस्येतरव्यावृत्तवस्तु- स्वरूपोपस्थितिमात्रहेतुत्वेन प्रमाणस्यैव च तत्सत्तानिश्चायकतया प्राधान्यात्तत्क्रममनुसन्धाय सदसद्विलक्षणत्वरूपानिर्वचनीयत्वे साक्षात्प्रमाणस्य निरासाज्ज्ञानबाध्यत्वरूपे तस्मिन्हेतुनिरासन्यायेन प्रमाणनिरासलाभेनानिर्वचनीयत्वप्रमाणनिराकरणस्य वैलक्षण्यं सतश्चापीति श्लोकत्रयेण लाभाल्लक्षणा-निरासप्रयुक्तभाष्यन्यूनतापरिहारायानिर्वचनीयलक्षणनिरासपरतयाऽपि तद्-व्याख्याति ॥ अथवेति ॥ ननु मिथ्यात्वसाधकत्वोभयोपपादकतया सदसद्वैलक्षण्यप्रसक्तावपि नानिर्वचनीयत्वप्रसक्तिरिति तल्लक्षण-निरासपरतया व्याख्यानमनुपपन्नमिति चेन्न । प्रमाणनिराकरणपरतयेव लक्षणनिराकरणपरतयाऽपि भाष्यकारस्य लाभाद्भाष्ये लक्षणनिरासोऽप्यभिप्रेत एव । स च पूर्वत्र सामान्याभिप्रायाकल्पनेऽनुपपन्न इति पूर्वत्र सामान्याभिप्रायेऽवश्यं कल्पनीयेऽनिर्वचनीयत्वमपि प्रसक्तमेवेति नानुपपत्तिरित्याशयेन पूर्वं स्वयमेव दर्शितामनिर्वचनीयत्वसामान्यप्रसक्तिं सूचयति ॥ अनिर्वचनीयमिति ॥ ननु तथाऽपि भाष्ये न्यूनतैव । लक्षणद्वयनिराकरणेऽप्यनिर्वचनीयशब्दार्थभूतलक्षणान्तरानिराकरणादित्यतः परेण लक्षणान्तराण्याशङ्क्य निराकृत्यैतल्लक्षणद्वयस्यैव व्यवस्थापिततयाऽन्येषां परानभिप्रेततया तदभि-प्रेतयोश्च दूषणान्न न्यूनतेत्याशयेन भाष्यमवतारयति ॥ तत्रेति ॥ अत्र निरुक्तिर्निर्वचनीयं भावेऽनीयर् । न विद्यते निर्वचनीयं यत्र तदनिर्वचनीयं निरुक्तिविरह एवेत्याशयेनाऽऽद्यः कल्पः । निर्वचनसम्बन्धि निर्वचननिमित्तमिति यावन् निर्वचनीयमिदमर्थे छः । न विद्यते निर्वचनीयं यत्रेत्यनिर्वचनीयम् । निर्वचननिमित्तरहितं तस्य भावो निमित्तविरहोऽनिर्वचनीयत्वमित्याशयेन द्वितीय इति ज्ञेयम् । शब्दप्रयोगे करणतया ज्ञानस्य विषयतयाऽर्थस्य च निमित्तत्वाद्विकल्पयति ॥ द्वितीयेऽपीति ॥ विषयज्ञानं हि शब्दप्रयोगे कारणम् । तच्च त्वयाऽप्यभ्युपेयत एवेत्याह ॥ नाद्य इति ॥ यथा प्रतिभासमिति ॥ ननु रजताभ्युपगमे तदुचितार्थक्रियाप्रसङ्ग इत्यतोऽर्थक्रियानर्हत्वरूपालौकिकत्वेन रजतादिकं विशेषितम् । ननु तर्हि तदभ्युपगमो व्यर्थ इत्यतोऽसतः प्रतिभासासम्भवादस्य च प्रतिभासादाविद्यकतदभ्युपगम इत्याशयेन यथाप्रतिभासमित्युक्तम् । यद्वा तत्तदुचितर्थक्रियानर्हत्वे कुतस्तस्य रजतादित्वमित्यतस्तथा तथा प्रतिभासनादित्याशयेन तदुक्तम् । अथवाऽर्थक्रियानर्हत्व-रूपालौकिकत्वोपपादकत्वहेतुसूचनाय तदुक्तिरिति ध्येयम् ।
यदि पूर्ववदेव व्याख्यानं तर्हि तद्बोधितानां सिद्धसाधनत्वादीनामलक्षणदोषत्वाल्लक्षणनिरासकत्वा-सिद्धिरित्यत आह ॥ तत्रेति ॥ आरम्भासङ्गतिरिति ॥ न ह्यत्र लक्षणदूषणं प्रधानप्रयोजनं किन्तु न सन्प्रपञ्चः किन्त्वनिर्वचनीयः । एवं च साधकत्वाद्युपपत्तिरिति परोक्तखण्डनम् । तच्च द्वेधा सम्भवति । एवंलक्षणकेऽनिर्वचनीयत्वे तस्य सत्त्वाविरोधित्वान्न सन्प्रपञ्चः किन्त्वनिर्वचनीय इति वदता च सत्त्वविरोधिन एव तस्य कथनीयत्वादुक्तासिद्धिरिति प्रतिपादनेन । अव्याप्त्यादिना लक्षणस्यासम्भवेना-निर्वचनीयत्वानुपपत्त्योक्तानुपपत्तिरिति वा प्रतिपादनेन । तत्र सिद्धसाधनतादिपर्यवसाने द्वितीयप्रकारेण खण्डनासम्भवेऽपि प्रथमप्रकारेण खण्डनमक्षतमेवेति भावः । बाधादीत्यत्रादिपदेन व्याहतिपरिग्रहः । पूर्वव्याख्यानाभ्युपगमे सिद्धसाधनतापर्यवसानपक्षेऽसाधारणलक्षणदोषालाभाद्बाधादिपर्यवसारे पूर्व-व्याख्यानरीत्याऽव्याप्तिलाभेऽप्यसम्भवालाभात्तल्लाभाय प्रकारान्तरेण भाष्यं योजयति ॥ अथवेति ॥ नन्वत्र वियदादौ सद्वैलक्षण्याभावप्रतिपादनमात्रेण नासम्भवः । शुक्तिरजतादौ लक्षणसम्भवेन यावल्लक्ष्यावृत्तित्वाभावात् । न च विश्वशब्देन शुक्तिरजतादेरारोपितस्य सर्वस्यापि विवक्षिततया तत्र सद्वैलक्षण्यसत्त्वेऽप्यसद्वैलक्षण्याभावेन तत्राप्यनेनैव लक्षणाभावः प्रतिपाद्यत इति वाच्यम् । तथाऽपि यावल्लक्ष्यावृत्तित्वाप्रतिपादनेना सम्भवप्रतिपादकत्वायोगादित्यतो व्यावहारिकवियदादेः प्रातिभासिक-शुक्तिरजतादेरेव च परस्यानिर्वचनीयत्वेनाभिमतत्वात्तदुभयत्र लक्षणासम्भवप्रतिपादनेऽसम्भवसिद्धि-रित्याशयेनाह ॥ अनिर्वचनीयत्वेनेति ॥ एवं योजनाबललब्धं तत्तल्लक्ष्ये व्यवस्थिततत्तदंशाभाव-प्रयुक्तलक्षणासम्भवं प्रदर्शयति ॥ वियदादाविति ॥ इत्यादीति ॥ यतोऽसत एव सद्वैलक्षण्यमेव स्वयं सदतः सद्वैलक्षण्योक्तावसत्त्वमुक्तं स्यात् । पुनस्तस्यासद्वैलक्षण्योक्तिर्व्याहता । एवं यतः सत एवा-सद्वैलक्षण्यमेव स्वयं सदतोऽसद्वैलक्षण्योक्तौ सत्त्वमेवोक्तं स्यात् । पुनस्तस्य सद्वैलक्षण्योक्तिर्व्याहता । ततश्च व्याहतेनात एवासम्भविना तेन लक्षणेनोक्तेन कथं तेऽनिष्टं न भवेदिति व्याहतिपक्षेऽप्य-सम्भवपरत्वेन योजना, बाधपक्षेऽस्मदुक्तयोजना वा द्रष्टव्येत्यर्थः । ननु यदस्ति यच्च बाधितं तस्य भेदवादिनं प्रतीव मायावादिनं प्रत्यपि सत्त्वाद्बाधितत्वाच्च भेदवादिन इत्युक्तेर्न फलमित्यतः सदपि बाधितमपि भेदवादिनं प्रति सद्बाधितमित्युक्त्या सदपि मायावादिनं प्रति न सद्बाधितमपि मायावादिनं प्रति न बाधितमिति मायावादिनस्तदनङ्गीकारस्य प्रमाणविरुद्धाङ्गीकारस्य च सूचनात्सतोऽप्य-नङ्गीकारस्य प्रमाणविरुद्धाङ्गीकारस्य च प्रमाणमूलकत्वासम्भवेनाग्रहमात्रमूलकत्वं ज्ञापयितुं तदुक्ति-रित्याशयेनाह ॥ भेदवादिन इति ॥
उक्तरीत्येति ॥ वियदादौ सर्वानेकसत्त्वानधिकरणत्वस्य साध्यत्वपक्षे पूर्वोक्तयोजनानुसारेणाप-सिद्धान्तव्याहतिपर्यवसानेऽव्याप्तिः । वैलक्षण्यं सतश्चेत्यधुनोक्तयोजनान्यायेन वियदादिशुक्त्यादि-विषयकतया यद्युच्यत इत्यस्य योजनान्तरे त्वसम्भवः । योजनान्तरं तु वियदादीनां शुक्तिरजतादीनां चानिर्वचनीयत्वेन तवाभिमतत्वात्तयोश्च सर्वस्मादनेकस्मात्सर्वस्माच्च वैलक्षण्यम् । सर्वानेकसत्त्वा-नधिकरणत्वमिति यावत् । लक्षणतया यद्युच्यत तर्ह्युक्तरीत्याऽनेकसर्वसत्त्वानभ्युपगमेऽनेकेत्यादि-विशेषणवैयर्थ्यापत्त्या सद्भेदसंस्थितिः । अनेकसर्वसत्त्वाधिकारणान्यभ्युपेयानि । तेषां च वियदादि-शुक्तिरजतादिव्यतिरिक्तानामभावात्तेषामेव च तदनधिकरणत्वासम्भवात्सद्वैलक्षण्यासम्भवेन वियदादाव सद्वैलक्षण्यसम्भवेऽपि विशिष्टासम्भवाच्छुक्तिरजतादौ चोक्तरीत्या सद्वैलक्षण्यस्य वस्तुगत्याऽ-सद्वैलक्षण्यस्याप्यभावेनोभयाभावाद्विशिष्टासम्भव इति द्रष्टव्यमित्यर्थः ॥ सन्मात्रत्वमित्यनेनेति ॥ अतिव्याप्तिरप्युच्यत इति पाठे पूर्ववाक्योक्तासम्भवादिसमुच्चयो वा सन्मात्रत्वमित्यस्य पूर्वव्याख्यानानु-सारेण सिद्धसाधनपर्यवसाने आरम्भासङ्गत्या समुच्चयो वाऽप्यर्थो द्रष्टव्यः । अत्र सन्मात्रत्वमिति ब्रह्मणि लक्षणप्रतिपादके पादेऽसद्य्वावृत्तसत्त्वस्य सन्मात्रपदेन विवक्षायां तस्य ब्रह्मणि सत्त्वात्तद्वै-लक्षण्यानुपपत्तिः । सत्त्वानधिकरणत्वं सन्मात्रत्वमिति विवक्षायामपि ब्रह्मणोऽपि लक्षणान्तः-प्रविष्टसत्त्वाधिकरणतयाऽनुपपत्तिरेव । परमतानुसारेण तथोक्तौ च तदीयतयाऽङ्गीकारे ज्ञापकाभावः । असत्त्वानधिकरणत्वानुपपादनान्न्यूनता च तस्मात्तदपीति द्वितीयपादस्य ब्रह्मालक्ष्यत्वप्रतिपादकता च न स्फुटेत्यत आह ॥ तथा हीति ॥ भाष्योक्तातिव्याप्तेः सत्त्वासत्त्वानधिकरणत्वपक्ष एवोपपन्नत्वात्तमेव पक्षं शेषयित्वा परप्रसञ्जितपक्षान्तरं निराकर्तुं शङ्कते ॥ सत्त्वेनेति ॥ एवं परिशेषाभिप्रायेण भाष्यं व्याख्यातम् । अधुनैतत्पक्षदूषणमपि भाष्यारूढमेव सन्मात्रत्वं सत्त्वेन विचारासहत्वं ब्रह्मणोऽपीति योजनोपपत्तेरित्याशयेनाह ॥ किञ्चेति ॥ ननु भिन्नत्वाभिन्नत्वसत्त्वासत्त्वादिविकल्पेन विशिष्टादि-निरासकतर्काणां वियदादौ प्रवृत्त्या तस्य विचारासहत्वेऽपि न ब्रह्मणस्तथात्वमित्यतस्तेषां जगतीव ब्रह्मण्यपि प्रवृत्तिरप्रत्यूहा । ‘सर्ववैलक्षण्याङ्गीकाराद्दुर्घटमपि ब्रह्मप्रमाणादङ्गीक्रियत एव । जगतो भिन्नमभिन्नं ‘वेत्यादिविकल्पस्तत्रापि युज्यत’ इत्यादिना तत्त्वोद्योते भगवत्पादैरेवास्यार्थस्य निपुणतरं प्रतिपादितत्वादित्याशयेनाह ॥ यथोक्तमिति ॥ ननु सच्चेन्न बाध्येतासच्चेन्न प्रतीयेतेत्यादिविचारस्य वियदादाविव न ब्रह्मणि संभवः । ब्रह्मणो बाधाभावेन सत्त्वनिश्चयसम्भवादित्यतो बाधायोगात्सत इति बाधाभावत एवहि प्रतीतिर्नासत इति वदन्नित्याद्यनुव्याख्याने वियदादावपि बाधाभावादेः प्रतिपादयिष्यमाणत्वान्नानुपपत्तिरित्याशयेनाह ॥ निराकरिष्यते चेति ॥
अत्र स्वपराभिमतज्ञानबाध्यत्वपक्षदूषणानामेकप्रकारत्वाभावात्तत्तत्पक्ष दूषणं विविच्य दर्शयति ॥ यदीत्यादिना ॥ अत्राविद्यानिराकरणेनाविद्योपादानकत्वाभावस्य वियदादेर्वियत्पादे स्वरूपनाशाभावस्य न हि नाशोऽसतो भवेदित्यादिनाऽसतो नाशाभावस्योपपादयिष्यमाणत्वान्नेह नानेतिवाक्यस्योपपत्ति-विरुद्धत्वेन प्रतिपन्नोपाधौ निषेधप्रतियोगित्वा प्रतिपादकत्वस्योक्तत्वा’न्नासीदस्ति भविष्यच्चे’त्यादिना वक्ष्यमाणत्वाच्च नानुपपत्तिरित्याह ॥ उपपत्तय इति ॥ नन्वत्र शुक्तिरजतादाविव वियदादौ बाध्यत्व-व्यवहाराभावेन पूर्वत्रेव व्यवहारविरोधेरभावादुत्तरवाक्यवैयर्थ्यमित्यतः सतोऽपि बाध्यत्वमस्त्विति वदता त्रैकालिकनिषेधप्रतियोगित्वादेर्बाध्यपदार्थतया वक्तुमशक्यतया वियदादिशुक्तिरजतादिसाधारणस्यैव वक्तव्यत्वात्तस्य चानिर्वचनीयलक्षणत्वेनोक्तौ नाव्याप्त्यादिकमित्याशयेन प्राप्तशङ्कापरिहारकत्वेन तत्सङ्गमयति ॥ नन्विति ॥ तदेव लक्षणमस्त्विति शङ्कापरिहारो मूलान्न प्रतीयतेऽतः शेषं पूरयति ॥ तच्चेति ॥ ननु टीकाकारीयोऽख्यात्यादिपक्षनिरासो न सङ्गतः । भाष्यव्याख्यानं प्रतिज्ञायोद्भाष्यं बहुप्रमेयप्रतिपादनानौचित्यादित्यतो भाष्यकारेणैव ह्येवशब्दौ प्रयुञ्जानेन सूचितप्रमेयस्य व्युत्पादनीयतया तदर्थोत्तरग्रन्थस्यातिसङ्गतत्वादित्याशयेन तच्छब्दद्वयस्य सूचितमर्थं दर्शयति ॥ अत्रेति ॥
परिमल
पूर्वमनिर्वचनीयत्वप्रमाणखण्डनपरतया व्याख्यातं वैलक्षण्यं सतश्चापीत्यादि-श्लोकत्रयम् । तल्लक्षणखण्डनपरतयाऽपि व्याख्यातुमाह ॥ अथवेति ॥ उक्तमिति ॥ ‘सत्रैविध्यं च मानेने’त्यत्रोक्तमित्यर्थः ॥ आरम्भासङ्गतिः ॥ उपक्रमानानुगुण्यम् । आद्यपद्यं प्रकारान्तरेणाद्य-लक्षणस्यासंभवोक्तिपरतया व्याचष्टे ॥ अथवेति ॥ चोऽवधारण इति भावेन सत एवेत्यनुवादः । सत्त्वेन प्रमितस्यैवेति व्याख्या । असतश्च वैलक्षण्यमित्यस्यार्थोऽसद्विलक्षणत्वमेवेति । असत एवेत्यनुवादो ध्येयः । विश्वस्येत्यनुवादः । सर्वस्यारोपितस्येति व्याख्या । सतश्च वैलक्षण्यमित्यावृत्तस्यार्थः सद्विलक्षणत्वमेवेति । तात्पर्यमाह ॥ वियदादाविति ॥ चतुर्थपादं व्याचष्टे ॥ अत इति ॥ इत्यादीत्यादिपदेन सतो घटादेः सतो वैलक्षण्यं च सदन्तरपटादिवैलक्षण्यमेव स्वयं सन् न तु सर्वात्मना सद्वैलक्षण्यम् । एवमसतोऽसत्त्वेन प्रमितशुक्तिरूप्यादेरसदन्तरवैलक्षण्यमेव प्रमितं न सर्वात्मनाऽ-सद्वैलक्षण्यम् । अतोऽसंभविना तेन लक्षणेनेत्यादियोजनाग्रहः । ‘यद्युच्यतेऽपि सर्वस्मादि’तीत्यर्ध-श्लोकस्यापि लक्षणखण्डनपरत्वं लेशेन दर्शयति ॥ यद्युच्यत इत्यत्रापीति ॥ उक्तरीत्येति ॥ मानखण्डनपरतया कृतयोजनायामुक्तरीत्येत्यर्थः । यद्वा सत्त्वेन प्रमितस्य वियदादेर् असद्विलक्षणत्व-मेवेत्युक्तरीत्येत्यर्थः । तथाच सर्वस्मात्सतो वैलक्षण्यं सर्वसत्त्वानधिकरणत्वादिरूपसद्वैलक्षण्यं यद्युच्यते । तर्हि सद्भेद एव प्राप्त इति वियदादौ लक्षणमसंभवि । शुक्तिरूप्यादौ सर्वसद्वैलक्षण्यभावेऽपि वियदादावभावादव्याप्तिरित्येवं ज्ञेयमिति भावः ॥
इत्यनेनेति ॥ इत्यर्धेनेत्यर्थः । शङ्कते ॥ सत्वेनेति ॥ अनभ्युपगमात् । ब्रह्मणीति योज्यम् । काल्पनिकं तदस्तीति मन्वानं प्रत्याह ॥ किञ्चेति ॥ यो विचार इति ॥ सत्त्वेनासत्त्वेन नित्यत्वानित्यत्वादिना केनापि रूपेण विचारसहं नेति विचारासह इत्यर्थः ॥ यथोक्तमिति ॥ तत्वोद्योते । ‘दृष्टस्य वस्तुनो बलवद्दृष्टिं विना नान्यद्बाधकमिति दुर्घटत्वे सुघटत्वे वा नानिवर्चनीय-सिद्धिरि’ति पूर्ववाक्ये प्रमाणसिद्धेऽर्थे तर्कविरोधोऽकिञ्चित्कर इत्युक्ते तत्कथमित्याकाङ्क्षायां ‘सर्व-वैलक्षण्याङ्गीकाराद् दुर्घटमपि ब्रह्म प्रमाणादङ्गीक्रियत एव । जगतो भिन्नमभिन्नं वेत्यादि विकल्पस्तत्रापि युज्यत’ इत्यादिना जगतः सत्त्वादिदौर्घट्यवद् ब्रह्मणोऽपि दौर्घट्यमुक्तमित्यर्थः ॥ असौ दुर्विचारः ॥ सत्त्वेनासत्त्वेन वा विचारासहत्वरूपो दुर्विचारः प्रकृतिश्च ‘नाभाव उपलब्धः’ ‘पृथगुपदेशादि’त्याद्यधिकरण व्याख्याऽवसरे तत्र तत्रेत्यर्थः । उक्तविधयेति ॥ पूर्वयोजनायाम् उक्तविधयाऽज्ञानलक्षणोपादाननिवृत्तिद्वारा निवर्त्यत्वं यदीत्यर्थः । ननु वियदादेः सत्त्वे शुक्ति-रूप्यादेरसत्त्वे चोपपत्तयो वाच्या इत्यत आह ॥ उपपत्तयस्त्विति ॥ मिथ्यात्वमपि बन्धस्येत्यादिना उक्ताः साक्षिविरुद्धत्वं नेहनानेत्यादेर्मिथ्यात्वाप्रतिपादकत्वं तद्वादिनां कथकत्वाभाव इत्यादयः, प्रकृतिनयादौ वक्ष्यमाणा विश्वभ्रान्त्यादेर् ब्रह्माद्यधिष्ठानत्वायोगो ऽर्थक्रियाकारित्वायोगः श्रुत्यादि-विरोध इत्यादयो ज्ञेयाः ॥
यादुपत्यं
निरुक्तिनिमित्तेति ॥ निर् पूर्वकाद् वच् परिभाषण इत्यस्माद् भावेऽनीयर् प्रत्यये आद्यपक्षस्य, निर्वचनशब्दात्तस्येदमित्यर्थे छप्रत्यये तस्येयादेशे निमित्तनैमित्तिकभावस्य सम्बन्धत्व-विवक्षायां द्वितीयपक्षस्य प्रसक्तिरित्याहुः ॥ ज्ञानस्येति ॥ मायिमते ज्ञाने ज्ञेयस्याध्या-साङ्गीकारेणाधिष्ठानरूपज्ञानस्य सत्यत्वादिति भावः । यथा चैतत्तथोक्तमधस्तात् । खण्डनेऽप्युक्तम् । ‘विज्ञानव्यतिरिक्तं पुनरिदं विश्वं सदसत्त्वाभ्यामनिर्वचनीयं ब्रह्मवादिनः सङ्गिरन्त’ इति ॥ अलौकिकेति ॥ प्रातिभासिकरजतादेर्लौकिकरजताद्युचितार्थक्रियाऽभावादेवालौकिकत्व मित्यवगन्तव्यम् । बाधादीत्यादिपदेन व्याहतिसंग्रहः ॥ अव्याप्तिरिति ॥ इदं च दृष्टान्ते लक्षणसद्भावमभ्युपेत्योक्तम् । अन्यथाऽसम्भव एवेति ज्ञातव्यम् । आरम्भासङ्गतिर्न लक्षणदोष इत्यरुचेराह ॥ अथवेति ॥ उक्तरीत्येति ॥ अनेकसत्त्वानधिकरणत्वसर्वसत्त्वानधिकरणत्वसत्तासामान्यानधिकरणत्वरूपलक्षणानां सद्भेद-संस्थितिरित्युक्तसद्भेदाङ्गीकारप्रसङ्गभीत्या कुत्रापि परेणोपपादयितुमशक्यत्वादसम्भव इत्यर्थः । आद्यलक्षणद्वये एकैकसत्तास्वीकारापत्तेरित्युक्तत्वेन तृतीयलक्षणे चातिरिक्तानुगतसामान्यानङ्गीकारा-दित्युक्त्या सिद्धसाधनताया उपपादितत्वाद् आरम्भासङ्गतिरत्रादिशब्दार्थतया ज्ञातव्या ॥ यथोक्तमिति ॥ तत्त्वोद्योत इति शेषः । सर्ववैलक्षण्याङ्गीकारादित्यस्य चेतनाचेतनादिभावस्य परेण निर्धर्मके ब्रह्मण्यनङ्गीकारेण ब्रह्माप्यनिर्वचनीयं स्यादित्यर्थः ॥
श्रीनिवासतीर्थीया
पूर्वमनिर्वचनीयत्वप्रमाणखण्डनपरतया वैलक्षण्यं सतश्चापीत्यादि श्लोकत्रयं व्याख्यातम् । इदानीं तल्लक्षणखण्डनपरतया व्याकरोति ॥ अथवेति ॥ निरुक्तिर्व्यवहारः । अलौकिकस्य व्यावहारिकभिन्नस्य प्रातिभासिकस्येत्यर्थः ॥ अव्याप्तिरिति ॥ सिद्धिलक्षणत्वस्याभावे सत्वेऽपि वियदादावभावेनाव्याप्तिरित्यर्थः । एवमसद्विलक्षणत्वेति द्रष्टव्यम् । प्रमाणबाधितत्वोपपादनाय सत एव सत्त्वेन प्रमितस्येत्याद्युक्तम् । सन्घट इत्यादिना सत्त्वेन प्रमितस्यैवेत्यर्थः ॥ एवमसत्त्वेन प्रमितस्यैवेति ॥ असदेव रजतं प्रत्यभादित्युत्तरकालीनानुभवादित्यर्थः । अस्यां योजनायां त इति पष्ठ्या निर्दिष्टस्य मायावादिनो विशेषणम् । भेदवादिन इति तदभिप्रायमाह ॥ भेदवादिन इत्यनेनेति ॥ सदसतोः प्रत्येकं भेदवादिन इत्यर्थः । सत्त्वेन प्रमितस्यापि वियदादेः सद्विलक्षणत्वाङ्गीकारेऽ-सत्वापत्त्याऽसत्वेन प्रमितस्यापि शुक्तिरजतादेरसद्विलक्षणत्वाङ्गीकारे सत्त्वापत्त्या सदसद्भेदवादित्वं न स्यादित्याशयः । ॥ विचारासहत्वमिति ॥ ‘प्रत्येकं सदसत्त्वाभ्यां विचारपदवीं न यत् । गाहते तदनिर्वाच्यमाहुर्वेदान्तवादिन’ इतिवचनादिति भावः॥ अनभ्युपगमादिति ॥ सत्त्वेन विचारसहत्वं नाम सत्त्वप्रकारकविचारगोचरत्वम् । तत्र विचारसहत्वस्याङ्गीकृतत्वेऽपि त्वप्रत्ययार्थभूतसत्त्वप्रकारकत्व-रूपधर्मस्यानभ्युपगमादित्यर्थः ॥ विचार इति ॥ निरुक्तानिर्वचनीयत्वप्रतिपादनायेत्यर्थः ॥ समान इति ॥ तथाच ब्रह्मणोऽप्यनिर्वाच्यत्वं स्यादित्यर्थः । कथं समान इत्यतस्तत्र तत्त्वोद्योतसम्मतिमाह ॥ यथोक्तमिति ॥ उक्तविधयेति ॥ ‘ज्ञानेनाज्ञाने निवृत्ते तत्कार्यं स्वयमेव नश्यती’त्युक्तविधयेत्यर्थः । ननु वियदादेः सर्वस्याप्यविद्योपादानकत्वेन ज्ञानेनाज्ञाने निवृत्ते तत्कार्यं स्वयमेव निवर्तत इत्युक्तविधया ज्ञाननिवर्त्यत्वं सिद्धमेवेत्यत आह ॥ वियदादेरिति ॥ यदि पुनरिति ॥ ज्ञानेनाज्ञाने निवृत्ते तत्कार्यं स्वयमेव निवर्तत इत्येवंरूपं ज्ञाननिवर्त्यत्वं नाभिप्रेतं किं नाम घटस्य मुद्गरप्रहारादिवत्ज्ञानजन्यध्वंस प्रतियोगित्वमात्रमित्यर्थः ॥ तदपीति ॥ तथात्वेऽसत्वप्राप्तेरित्यर्थः ॥
वाक्यार्थरत्नमाला
एवं बाधलक्षणपदकृत्यकथनमूलटीकायां लक्ष्यत्वादित्याद्युक्तितात्पर्य-विषयतया लक्ष्यतावच्छेदकधर्मस्य तत्र तत्र व्याख्यानेन तद्बाधत्वोपपादनेन लक्ष्यत्ववचनादेरुपपत्तेः कृतत्वाल्लक्ष्यतावच्छेदकपरतया तत्र तत्र क्रियमाणव्यवहारस्य लक्षणव्यवहारस्य चाविवेकमूलाव्याप्ति-परिहाराद्यसाङ्गत्यशङ्का गर्भस्रावेण गतेति सूरयो विदांकुर्वन्तु ।
वैलक्षण्यं सतश्चापीत्यादिश्लोकत्रयमनिर्वचनीयत्वप्रमाणनिरासपरत्वेन योजयित्वा पश्चात्तल्लक्षण-निरासपरतया योज्यते मूले । तत्कथम् । लक्षणप्रमाणाभ्यां हि वस्तुसिद्धिस्तत्रापि लक्षणविशिष्टे प्रमाणाकाङ्क्षा । तथैव जन्माधिकरणमूले प्रतिपादयिष्यमाणत्वात् । ततोऽनिर्वचनीयत्वं निराकुर्वता प्रथमप्राप्ततल्लक्षणनिरासपरतयोक्तभाष्यं योजयित्वाऽनन्तरं तत्प्रमाणनिरासपरतया तद्योजनायाः कर्तव्यत्वादित्याशङ्कां परिहरन् पूर्वग्रन्थार्थकथनपूर्वकं तत्सङ्गतत्वेनोत्तरग्रन्थमवतारयति एवं लक्षण-प्रमाणाभ्यामित्यादिना । अत्रैवमनिर्वचनीयत्वप्रमाणनिराकरणस्य वैलक्षण्यं सतश्चापीति श्लोकत्रयेण लाभादित्यादि व्याख्यातीत्यन्तं प्रथमतो योज्यम् । तत्र च लाभादित्यस्य लाभमुपवर्ण्येत्यर्थकत्वं पञ्चम्या ल्यबन्तलोपनिमित्तकत्वाल्लभ्यते । अन्ये तु लाभादित्यनन्तरं तेन तत्प्रमाणनिरासेऽपीति पूरणीयम् । लक्षणानिरासेत्यस्य च लक्षणानिरासात्तत्प्रयुक्तेति योजना कार्येत्याहुस् तद्व्याख्यातीति । तत्पदेन श्लोकत्रयपरामर्शः । अस्य प्रमाणनिरासकत्वे च नैकप्रकारमिति दर्शयितुं तद्विवेकमाह सदसद्विलक्षणत्व इत्यादि । हेतुनिरासन्यायेनेति । तन्निरासरूपोपायेन प्रमाणनिरासलाभेनेत्यस्यार्थतः प्रमाणनिरासादित्यर्थः । प्रमाणनिरासपरतयोपवर्णनानन्तर्यं लक्षणनिरासस्य कथमित्यत उक्तं लक्षणप्रमाणाभ्यामित्यादि । अत्र सिद्धावपीत्यन्तेन जन्माधिकरणे तत्क्रिमोपादानं सहेतुकमस्तीति सूचयताऽत्र शङ्काबीजमुक्तम् । क्रममनुसन्धायेत्यस्यानिर्वचनीयत्वप्रमाणेत्यादिसम्बन्धः । मिथ्यात्व-साधकत्वेति । मिथ्यात्वं च साधकत्वं चेत्येतदुभयेत्यर्थः । मिथ्यात्वोपपादकतया सद्वैलक्षण्यस्य साधकत्वोपपादकतया चासद्वैलक्षण्यस्येति विवेकः । नानिर्वचनीयत्वेति । अनिर्वचनीयत्वस्य प्रसक्ति-र्नेत्यर्थः । ननु नामुख्यं सदसदित्याशङ्काग्रन्थे किन्त्वनिर्वचनीयमित्यनिर्वचनीयत्वस्यैवोक्तयनन्तरं न च तदपि दुर्वचमित्याशङ्कापरिहारायैव सदसद्विलक्षणत्वस्य तत्त्वादित्युक्तत्वेन वैलक्षण्यं सदसतोरित्ये-तद्व्यावर्त्यशङ्काग्रन्थादेवानिर्वचनीयत्वस्य प्रसक्तिसत्त्वात्कथं तदभावोक्तिरिति चेत्सत्यम् । मिथ्यात्व-साधकत्वोभयनिर्वाहाय सदसद्विलक्षणत्वस्यैव वाच्यत्वेऽनिर्वचनीयत्वमुखेन तत्रापि तस्यावाच्यत्वादि-त्यभिप्रायात् । अत एव पूर्वत्र सामान्याभिप्रायकल्पनमुपपादयिष्यत इति ज्ञेयम् । प्रमाणेति । सदसद्विलक्षणत्वे प्रमाणेत्यर्थः । वस्तुतस्तु वैलक्षण्यं सतश्चापीत्यादिश्लोकत्रयस्य प्रमाणलक्षणयोर्मध्ये प्रमाणनिरासपरतयेति संमुग्ध एवार्थः । लक्षणेत्यत्रापि संमुग्धेनार्थः । तच्च लक्षणमनिर्वचनीयत्वस्येति सिद्धमेव । पूर्वत्रेति । वैलक्षण्यं सदसतोरित्येतदवतारशङ्कायामनिर्वचनीयत्वरूपसामान्यमुखेन प्रवृत्त्यभिप्रायाकल्पने भाष्यकारस्य विशिष्य सदसद्वैलक्षण्यस्यैवाशङ्काभिप्रायकल्पने चेत्यर्थः । पूर्वमिति । अनेन तदुपपादनं च प्राक्कृतं स्मारितम् । उक्तं च प्राङ् नामुख्यमित्येतद्व्याख्यावसरे । यद्यप्यत्रेत्यादि किन्तु सदसद्विलक्षणमित्युक्तौ लाघवमित्यन्तमिति ज्ञेयम् ।
नानुपपत्तिरिति । अप्रसक्तलक्षणनिरासपरतया व्याख्यानानुपपत्तिर्नास्तीत्यर्थः । परेणेति । तत्त्वप्रदीपिकाकृता चित्सुखेनेत्यर्थः । किं निरुक्तिविरहः निरुक्तिनिमित्तविरहो वेति विकल्पद्वयस्या-निर्वचनीयपदात्कथमुपस्थितिरित्यतो द्वितीयेऽपि निरुक्तिनिमित्तमित्येतदुपपादनस्य नयनप्रसादिन्यां कृतत्वेऽपि प्रथमविकल्पस्य तत्रानुपपादनात्तत्त्वप्रदीपिकानुवादमूलाभिमततयोक्तविकल्पप्रवृत्तिमाह अत्र निरुक्तिरिति । भावेऽनीयरिति दीर्घनीकारपाठः । तव्यत्तव्यानीयर इति सूत्रेण निरुपसृष्टाद्वचपरिभाषण इत्यस्मादनीयर्प्रत्यय इत्यर्थः । तदनिर्वचनीयमिति । निर्वचनीयपदार्थनिरुक्तेर्विरहवदित्यर्थः । निरुक्ति-विरह एवेति । निरुक्तिविरहवतो भाव इत्युक्ते तद्विरहस्यैव प्राप्तत्वादित्याशयः । निर्वचनसम्बन्धि हि निर्वचनीयम् । तच्च निमित्तमपि भवतीति नयनप्रसादिनीमप्युपपादयन्नाह निर्वचनसम्बन्धीति । इदमर्थ इति । यज्ञदत्तीयं प्रयोजकीयमित्यादाविव वा नामधेयस्येति सूत्रेण निर्वचनशब्दस्य वृद्धसञ्ज्ञायां वृद्धाच्छ इति सूत्रेण तस्येदमित्यर्थे छप्रत्यये तस्य ईयादेशे यस्येति चेत्यकारलोपे च निर्वचनीयमिति सिध्यतीति भावः । निमित्तरहितमिति । निमित्तविरहवदित्यर्थः । ज्ञानस्येति । निमित्तत्वादित्युत्तरेण सम्बन्धः । यद्यपि तत्त्वप्रदीपिकायामर्थस्यापि सतो विरहेऽसत्ख्यात्यापत्तिरसतो विरहे सत्ख्यात्यापत्ति-रित्यादिकमाद्यपक्षदूषणविस्तरेणोक्तं तथापि ग्रन्थगौरवभयेन मूले यथा प्रतिभासमर्थस्येत्यादिना तन्निष्कर्ष एवोक्तः । तत्रालौकिकपदव्यावर्त्यप्रदर्शनपूर्वकं तत्तात्पर्यं प्रकृतानुगुणतया दर्शयति ननु रजतेत्यादिना । आविद्यकतदिति । आविद्यकस्य तस्य रजतादेरभ्युपगमः क्रियत इति शेषः । अनेन प्रतिभासरूपान्निमित्तादभ्युपगतत्वादित्यभ्युपगमविशेषणतया यथाप्रतिभासमित्येतद्योजितं भवति । तथा तथेति । रजतत्वोरगत्वादिना प्रतिभासनादित्यर्थः । अनेन रजतत्वोरगत्वादिना प्रतिभासाद्रजतादेः रजतत्वादिकं प्राप्तस्येत्येवं यथा प्रतिभासादित्यस्य रजतादेरित्यनेन सम्बन्धो दर्शितो भवति । हेत्विति । अनेन यथाप्रतिभासं प्रातिभासिकत्वादलौकिकमिति यथाप्रतिभासमित्यस्यालौकिकेत्यनेन सम्बन्ध इति सूचयति । द्वयमभिहितमिति मूलम् । यद्यपीदमपि द्वयं परेण शङ्कावसर एव निराकृतम् । तथापि अत्रोच्यते । ‘प्रत्येकं सदसत्त्वाभ्यां विचारपदवीं न यत् । गाहते तदनिर्वाच्यमाहुर्वेदान्तवादिन इत्यादिसिद्धान्तग्रन्थे विशिष्योपपादितैतल्लक्षणद्वयमभिप्रेत्य तदभिहितत्वोक्तिः । अत एवोत्तरत्र सत्त्वेनासत्त्वेन च विचारासहत्वमिति प्रतिपन्नोपाधाविति च तन्निष्कर्षमप्याशंक्य निराकरिष्यति । अधिकं सत्त्वेनेत्येतट्टीकाव्याख्यावसरे स्पष्टयिष्याम इति ज्ञेयम् ।
व्याख्यानमिति जातावेकवचनम् । व्याख्यानानीति यावत् । तद्बोधितानां तत्तद्व्याख्या-नैर्बोधितानाम् । उक्तरीत्या पर्यायेण बोधितानामित्यर्थः । आदिपदेनांशे सिद्धार्थत्वादिग्रहणम् । अलक्षणेति । लक्षणदोषान्यत्वादित्यर्थः । यद्वाऽतच्छब्दादित्यादाविव नञर्थस्योपरिसम्बन्धाल्लक्षण-दोषत्वाभावादित्यर्थः । आरम्भासङ्गतेरपि कथं लक्षणदोषत्वम् । अव्याप्त्यादिरूपत्वाभावात् । तद्रूपत्वा-भावेऽपि तदुद्भावने वा लक्षणदूषणं कथं सिध्येदित्यतोऽभिप्रायमाह न ह्यत्रेति । साधकत्वादि-त्यादिपदेन श्रुत्यादिना मिथ्यात्वप्रतिपादनपरिग्रहः । सत्त्वाभावान्मिथ्यात्वप्रतिपादनोपपत्तिः । अनिर्वचनीयत्वोक्तयाऽसद्विलक्षणत्वलाभात्साधकत्वोपपत्तिरिति यत्परोक्तं तस्य खण्डनं प्रधान-प्रयोजनमिति योज्यम् । एवंलक्षणक इति । अनिर्वचनीयत्वे प्रोच्यमाने उक्तासिद्धिर्न सन्नित्यादेरसिद्धिः । तत्र हेतुः सत्त्वाविरोधित्वादिति योज्यम् । सत्त्वाविरोधिभूतमपि कुतो न कथनीयमित्यत आह न सन्प्रपञ्च इत्यादि । लक्षणस्यासम्भवेनेति । तदनुपपन्नत्वेनेत्यर्थः । उक्तपदम् उक्तार्थम् । इति वा प्रतिपादनेनेत्यस्येति शब्दाध्याहारेणेति द्वेधाऽपीति पूर्वेण सम्बन्धः । प्रथमप्रकारेणेति । एवंलक्षणक इति प्रथमप्रकार एवारम्भासङ्गतिपदोक्त इति भावः । असाधारणलक्षणदोषेति । सत्त्वाविरोधित्वादुक्ता-सिद्धिरूपदूषणस्य लक्षणदूषणत्वमप्यस्ति । उक्तासिद्धिर्यत्र यत्रायाति तावत्प्रमेयदूषणत्वादुक्तासिद्धेः । किन्तु लक्षणमात्रदोषत्वेन प्रसिद्धो दोषो न लभ्यत इत्यर्थः । तल्लाभपरतयाऽपि योजनासम्भवे त्यागायोगादिति भावः । वियदादिवच्छुक्तिरजतादेरपि लक्ष्यत्वकीर्तनस्य तथा तदुभयस्यैव लक्ष्यत्व-कीर्तनस्य चायोगं वक्तुं तदुभयव्यावर्त्यशङ्कामाह नन्वत्रेति । सद्वैलक्षण्याभावेति । वियदादेर्विश्वस्य सद्विलक्षणत्वमेव सदित्युक्ते सद्विलक्षणत्वस्य प्रमाणबाधिततया तदभावप्रतिपादनादिति भावः । लक्षणसम्भवेनेति । सद्विलक्षणत्वासम्भवेन हि वियदादौ लक्षणाभाव उक्तस्तच्च सद्विलक्षणत्वं शुक्तिरजतादौ सम्भवत्येवेति तत्र लक्षणाभावानुपपत्तेर्यत्किञ्चिल्लक्ष्यावृत्तित्वमात्रेण चासम्भवाख्य-लक्षणदोषायोगादित्यर्थः । सद्विलक्षणत्वासद्विलक्षणत्वरूपलक्षणे विश्वशब्दरूढवियदादिविवक्षयैव सद्विलक्षणत्वासम्भवमुखेन लक्षणाभावप्रतिपादनं कृतम् । शुक्तिरजतादिविवक्षायां तु सद्विलक्षणत्वांशं विहायासद्विलक्षणत्वांशासम्भवप्रयुक्तलक्षणाभावप्रतिपादनमेव विवक्षितम् । तथा च शुक्तिरजता-दावप्यंशान्तराभावाप्रयुक्तो लक्षणाभाव एवेति विशिष्टलक्षणस्य सकललक्ष्यवृत्तित्वाभावः प्राप्त एवेत्याशङ्कते न च विश्वेति । वियदादिप्रपञ्चवाचिविश्वशब्दस्य शुक्तिरजतादिवाच्यसत इत्यनेनान्वया-योगं परिहर्तुं मूले सर्वार्थकतया विश्वशब्दं व्याख्याय शुक्तिरजतादेरित्यादिपदसङ्ग्राह्यकथनायारोपितस्ये-त्युक्तम् । तदनुवादोऽयं शुक्तिरजतादेरित्यादि । सर्वस्यापीत्यपिपदेन वियदादिकं समुच्चिनोति । न केवलं विश्वशब्देन वियदादिकं विवक्षितम् । किन्तु शुक्तिरजतादिकमारोपितं सर्वमपीत्यर्थः ।
अनेनैवेति । लक्षणासम्भवप्रतिपादकश्लोकेनैव तदुत्तरार्धेनेति यावत् । लक्षणाभावप्रतिपादनं च सद्विलक्षणत्वमेवेत्यवधारणासम्भवप्रतिपादकं श्लोकेनैव तदुत्तरार्धेनेति यावत्सलक्षणाभावप्रतिपादनं च सद्विलक्षणत्वमेवेत्यवधारणलभ्यम् । तथापि यावल्लक्ष्येति । वियदादिशुक्तिरजतादिसमस्तारोपिताभ्या-मन्यस्यापि लक्ष्यतायां तत्र लक्षणासम्भवप्रतिपादनोपायाप्रतीतेस्तत्र लक्षणाभावासिध्याऽसम्भवाख्य-दोषाप्राप्तेरवर्जनीयत्वाद् इत्याशयः । लक्षणासम्भवप्रतिपादन इति । लक्षणस्य तत्र च सत्त्वायोग-प्रतिपादन इत्यर्थः । असम्भवसिद्धिरिति । तदुभयातिरिक्तलक्ष्यान्तरसद्भावे हि तत्र लक्षणसद्भाव-शङ्कयाऽसम्भवासिद्धिः स्यादिति भावः । तत्तदंशाभावेति । अनेन मूले विशिष्टलक्षणाभाव उभयत्र नैकप्रकार इति स्पष्टीकृतं भवति । तेऽनिष्टमिति । ते तवेति न पादादाविति निषेधात्तेनोपपन्नमिति केचिन्मतानुसारीदम् । अस्मदुक्तेति । अथवा निर्वचनीयत्वेनेतीदानीमेवोक्तेत्यर्थः । यदस्ति यच्चेत्यादि । अत्र यदस्ति तस्य सत्त्वात् । यच्च बाधितं तस्य बाधितत्वादिति क्रमेण सम्बन्धः । सत्प्रतियोगि बाध्यमित्यसदित्यस्य बाधितमित्यनुवादः । सतोऽसद्विलक्षणत्वमस्तीत्यस्य फलतः कीर्तनं सत्त्वादिति । एवमसतः सद्वैलक्षण्यमस्तीत्यस्य फलतोऽभिधानं बाधितत्वादिति । न फलमिति । वस्तुनो द्वैरूप्यायोगात्सर्वान्प्रति सदेव । बाधितं च बाधितमेव । ततो व्यावर्त्याभावाद्भेदवादिन इत्येतद्व्यर्थ-मित्यर्थः । सदपीत्यादि । सदपि भेदवादिनं प्रत्येव सत् । असद्रूपं बाधितमपि भेदवादिनं प्रत्येव बाधितमित्युक्तयेत्यर्थः । तथा च न सर्वान्प्रति वस्तुन एकप्रकारतेति व्यावर्त्यसद्भावादित्युक्तं भवति । तदनङ्गीकारस्येति । सति सत्त्वानङ्गीकारस्य बाधिते चासत्त्वरूपबाधितत्वानङ्गीकारस्येत्यर्थः । प्रमाणविरुद्धेति । सति सत्त्वाभावस्य बाधिते च बाधितत्वाभावस्य प्रमाणविरुद्धतया तदङ्गीकारः प्रमाणविरुद्धाङ्गीकार इति ज्ञेयम् । सतोऽपीति । विद्यमानस्यापीत्यर्थः । वस्तुतो यद्विद्यमानं तदङ्गीकार एव कर्तव्यः । प्रमाणमूलकत्वात्तदनङ्गीकारस्तु न प्रमाणमूलक इति योज्यम् । अनेन सद्वैलक्षण्ये-त्यादिमूलं सत्त्वानङ्गीकारादेरुपलक्षणमिति सूचितम् । मूलकत्वमिति ज्ञापयितुमिति पाठः स्वरस एव । इतिशब्दाभावे तु तदर्थान्तर्भावेन व्याख्येयम् । मूलकत्वमित्यस्य मूलकतयाऽनुपपन्नत्वमित्यर्थः । अत्र वैकल्यशङ्कानिरासाय सतोऽपीत्यादि तदुक्तिरित्यन्तेन फलवत्वकीर्तनम् । ज्ञापनप्रकारनिरूपणं सदपीत्यादीति विवेकः । सर्वानेकेति । अनेकसर्वेति वक्तव्ये सर्वपदस्याल्पाच्तरतया पूर्वप्रयोग इति प्रागेवोक्तम् । पूर्वयोजनेत्यादि । द्वितीये दूषणान्तरमाहेति योजनायामपसिद्धान्ते पर्यवसानम् । अथवा किमिदं सत्त्वमित्येतद्योजनायां तु कथं तर्हि तेषामेव तदनधिकरणत्वसाधनमित्युक्तव्याघाते पर्यवसानमिति योज्यम् । अव्याप्तिरिति । यद्युच्यत इत्यस्योक्तयोजनाद्वयेऽपि विश्वपक्षीकारेणैव प्रवृत्त्या तदनुसारेणात्र लक्ष्यतया वियदादिविश्वस्यैव प्राप्तेस्तत्राव्याप्तिरित्यर्थः ।
सतश्चेत्यधुनोक्तेति । वैलक्षण्यं सतश्चेत्यस्याधुनोक्ता या योजना लक्षणदूषणपरतया अथवाऽ-निर्वचनीयत्वेन वियदादिकमित्यादिरूपा तन्न्यायेन यद्युच्यत इत्यस्य यद्योजनान्तरं तस्मिन्निति सम्बन्धः । प्रागुक्तयोजनाद्वये विश्वमात्रविषयत्वमत्र तु विश्वशब्दोक्तवियदादेरिव शुक्तिरजतादेरपि विषयत्वमिति विशेष इति युक्तं योजनान्तरत्वे असम्भवप्रापणमित्याशयेन योजनान्तरत्वविशदीकरणं वियदादिशुक्तिरजतादिविषयतयेति । क्वचिच्छुक्तयादीति पाठस्तत्र रजतपदाभावो लेखकागतः । शुक्तिरजतादीनां चेत्याद्युत्तरवाक्यानुसारेण रजतपदोपेतपाठस्यैव टीकायां सिद्धत्वात् । असम्भव इति । पराभिमतलक्ष्ये वियदादौ शुक्तिरजतादौ च लक्षणाभावे यावल्लक्ष्यावृत्तित्वलाभादित्याशयः । किं तद्योजनान्तरमित्यतस्तत्स्वयं दर्शयति योजनान्तरं त्विति । सर्वस्मादनेकस्मादिति । सर्वशब्दोऽनेकार्थ इति विवक्षित्वा सर्वस्मादित्यनूद्यानेकस्मादिति व्याख्यानम् । तेनानेकसत्त्वानधिकरणत्वमिति पक्षलाभः । सर्वस्माच्चेत्यनेन तु यथाश्रुतानुवादः । तेन सर्वसत्त्वानधिकरणत्वमित्येतत्पक्षलाभः । तदेतदाह सर्वानेकसत्त्वानधिकरणत्वमिति यावदिति । प्रागल्पाच्तरशास्त्रानुसरणेऽपि दूषणक्रम-व्यक्तयर्थमत्रानेकसर्वसत्त्वेत्येव वक्तव्यमित्याशयेनोक्तमुक्तरीत्याऽनेकसर्वेति । रजतमिदमिति द्वे विज्ञाने स्मृत्यनुभवरूपे इत्युत्तरमूले प्रकारद्वयसंमतेष्टीकायामुपपादनस्य करिष्यमाणत्वात्सांव्यावहारिकमेतदिति न दोषः । इदमुक्तं भवति । विश्वमनेकसत्त्वानधिकरणमिति प्रतिजानताऽनेकसत्त्वान्यङ्गीक्रियन्ते न वेत्यादि प्रागुक्तरीत्या कथं तर्हि तेषामेव तदनधिकरणत्वमित्युक्तरीत्या चेत्यर्थः । वियदादौ शुक्ति-रजतादौ च सद्वैलक्षण्यासम्भावकमभिधाय विशिष्टलक्षणस्याभावप्रतिपादने भेदसत्त्वाद्भेदेन लक्षणा-सम्भवं प्रतिपादयति सद्वैलक्षण्यासम्भवेनेत्यादिना । अत्र च वियदादौ सद्वैलक्षण्यासम्भवेना-सद्वैलक्षण्यसम्भवेऽपि विशिष्टासम्भवादिति योज्यम् । सद्वैलक्षण्यासम्भवे च तेषामेव तदनधिकरणत्वा सम्भवादित्युक्त एव हेतुः । शुक्तिरजतादौ त्वेतद्धेतुना सद्वैलक्षण्याभावं पृथगेव वक्ष्यति उक्तरीत्या सद्वैलक्षण्यस्येत्यादिना । तथा च तेषामेवेति वियदादेः शुक्तिरजतादेश्च प्रक्रमेऽपि विशिष्टा-भावोपपादनावसरे पृथगेव सद्वैलक्षण्याभावप्रतिपादनात्सद्वैलक्षण्यासम्भवेन वियदादावित्यत्र वियदादेरेव तदसम्भवप्रतिपादनमिति ज्ञातव्यम् । शुक्तिरजतादौ चोक्तेति । तेषां च वियदादि-शुक्तिरजतादीत्युक्तरीत्येत्यर्थः । तद्वैलक्षण्यस्याभावेनेत्युत्तरेणान्वयः । वस्तुगत्याऽसद्वैलक्षण्यस्यापीति । तस्य वस्तुतोऽसत्त्वेन तद्वैलक्षण्यस्य तत्राभावादित्यर्थः । अतिव्याप्तिरपीति क्वाचित्कापिपदोपेतपाठमपि घटयति अतिव्याप्तिरप्युच्यत इति पाठ इति । अत्रेति पाठ इति वदता तथा पाठः स्वरसः ।
अर्थाधिक्यलाभादिति सूचितम् असम्भवादिसमुच्चयो वेति । अप्यर्थ इत्युत्तरेण सम्बन्धः । अनेन न केवलं वैलक्षण्यं सतश्चेत्यादि पूर्ववाक्योक्तासम्भवादिकं किं त्वतिव्याप्तिरपीत्युच्यत इति योजनीय-मित्युक्तं भवति । वाक्यान्तरोक्तिदूषणसमुच्चयार्थेऽरुचिं मत्त्वा तद्वाक्योक्तदूषणान्तरसमुच्चयार्थतामाह सन्मात्रत्वमित्यस्येति । सिद्धसाधनेति । अब्रह्मत्वरूपसद्वैलक्षण्यसाधने सिद्धसाधनतेति प्रागुक्ति-लाभादिति भावः । आरम्भासङ्गत्येति । न सन्प्रपञ्चः किन्त्वनिर्वचनीय इत्यारम्भेत्यर्थः । उपपादनं च प्रागेव सिद्धत्वान्न कृतम् । अप्यर्थ इति । अपिशब्दार्थ इत्यर्थः । सन्मात्रत्वमितीति । ब्रह्मणोऽपीत्यन्त-पाद इत्यर्थः । लक्षणेति । अलक्ष्ये लक्षणसत्त्वस्यैवातिव्याप्तिरूपतया तत्सिध्यर्थं लक्षणसद्भावाल्लक्ष्यत्व-योरुपपादनीयतया पादद्वयेन चात्र क्रमेण तदुपपादनमिति सिद्धं कृत्वा लक्षणप्रतिपादक इत्यादिरनुवाद इति ज्ञेयम् । असद्व्यावृत्तेति । ब्रह्मणोऽपि सन्मात्रत्वमस्तीत्यनेन यद्यसद्व्यावृत्तं सत्त्वं ब्रह्मणोऽप्यस्तीति प्रतिपादितं भवेन् न तर्हि तेनातिव्याप्तिप्रतिपादनम् । तादृशसत्त्वस्य ब्रह्मणि सत्त्वादेव सत्त्वाधिकरणत्वस्यैव तेन प्रतिपादितत्वप्राप्त्या सत्त्वानधिकरणत्वरूपसद्वैलक्षण्यस्य लक्षणभूतस्य अनुपपत्तिर् ब्रह्मणि तेन प्रतिपादनानुपपत्तिः । तत्प्रतिपादनाभाव इति यावत् । अनेन पादेन ब्रह्मणि लक्षणप्रतिपादनाय प्रवृत्तेनासद्व्यावृत्तसत्त्वसद्भावमात्रप्रतिपत्तिप्रतिपादनेऽपि सत्त्वानधिकरणत्वरूप-सद्वैलक्षण्याख्यलक्षणसद्भावप्रतिपादनाभाव एवेत्यतिव्याप्तिलाभाभावादसङ्गतिरित्याशयः । अत एवोक्तं लक्षणप्रतिपादक इति । एतेन पादाश्रितदूषणालाभशङ्कानवकाशः । अनेन सत्त्वानधिकरणत्वमिति व्याख्यानबीजमुक्तम् । मायेत्यादिशेषपूरणनिमित्तमाह इति विवक्षायामपीति । यदि ब्रह्मणोऽपि सन्मात्रत्वं सत्त्वानधिकरणत्वमस्तीति प्रतिपादितं स्यात् तदाऽनेनालक्ष्ये लक्षणप्रतिपादनमुखेनाति-व्याप्तिलाभात्पूर्ववदसङ्गतिशङ्कानवकाशेऽपि तल्लक्षणप्रतिपादनं न सम्भवतीत्यनुपपत्तिरस्त्येव । सत्त्वा-नधिकरणत्वरूपलक्षणान्तर्गतं तदभावप्रतियोगिसत्त्वं तदधिकरणत्वस्यैव ब्रह्मणि सत्त्वेन तदभावाधि-करणत्वायोगात् । यद्वा अभावप्रतियोग्यधिकरणत्वनिरूपकसत्त्वाधिकरणतया तदधिकरणत्वा-भावानुपपत्तिरिति व्याख्येयम् । अस्मन्मते ब्रह्मणि सत्त्वाधिकरणत्वसद्भावेऽपि मायावादिना सत्त्वा-नङ्गीकारात्तन्मतरीत्या सत्त्वानधिकरणत्वोपपत्तेरत्र च पादे तद्रीत्यैव तत्प्रतिपादनाद्युक्तमतिव्याप्ति-फलकलक्षणसद्भावप्रतिपादकत्वमस्येत्याशंक्य परिहरति परमतेति । ज्ञापकाभाव इति । येन निमित्तेन परस्य तथाङ्गीकारस्तस्यात्रानुक्तेरिति भावः ।
निर्धर्मकत्वाङ्गीकारादित्येतद्व्यावर्त्य शङ्काऽनेन दर्शिता । असत्त्वेति । विशिष्टलक्षणप्रतिपादन एवातिव्याप्तिलाभादेतत्पादेन च लक्षणैकदेशभूतसद्विलक्षणत्वोपपादनेऽप्यसद्विलक्षणत्वांशस्योप-पादनाभावान् न्यूनतेत्यर्थः । निश्चितमेवेत्येतद्व्यावर्त्यमिदम् । न स्फुटेति । अनिर्वाच्यं भवेदित्यनुक्तेरिति भावः । अनिर्वाच्यं प्रसज्येतेत्येतद्व्यावर्त्यमिदम् । तमेव पक्षमिति । तत्पक्षावलम्बनेनैवातिव्याप्तेरभिधानं भाष्ये इत्येतत्स्पष्टं कृत्वा तदुपयुक्ततया तमेव शेषयित्वा शेषयितुं यत्पक्षेऽतिव्याप्तिर्नायाति तं पक्षं परप्रसञ्जित• निराकर्तुमाशङ्कत इत्यर्थः । यद्यपि अत्रोच्यते प्रत्येकं सदसत्त्वाभ्यां विचारेत्यादिना विचारासहत्वमेव लक्षणत्वेन परेणोक्तम् । तस्यैव च प्राङ्निराकरणमुपक्रान्तम् । लक्षणद्वय-मभिहितमिति पूर्वमूलात् । तथापि सत्त्वासत्त्वानधिकरणत्वस्यैवानिर्वचनीयपदार्थतया तत्र प्रतिपादनं परसंमतम् । विचारपर्यन्तं गमनं तु ब्रह्मव्यावृत्त्यर्थमेवेति पराशयं स्पष्टयितुं सत्त्वासत्त्वेति लक्षणे ब्रह्मण्यतिव्याप्तिं योजयित्वा तदुपमर्देन विचारासहत्वं प्रकारान्तरतयाशङ्क्य तन्निराकरणं क्रियत इति मूलाभिप्रायात् । एवमेवानिर्वचनीयख्यातिसाधकानुमाननिरासस्थलीययन्नसदित्येतदवतारटीकास्थं सत्त्वादिना विचारासहत्वमनिर्वचनीयत्वमिति तत्त्वेत्याद्युक्तिरपि व्याख्येयेति ज्ञेयम् । अधुनेति । परप्रसञ्जितपक्षान्तरनिराकरणं बहिरेवेत्याश्रित्य परिशिष्टशिष्टपक्षनिरासाभिप्रायेण भाष्यं प्रवृत्तमित्या-श्रयणापेक्षया तत्पक्षनिराकरणमपि भाष्य एवास्तीति स्वीकरणं स्वरसमित्याशयेन तथा योजनान्तर-माहेत्यर्थः । विचारासहत्वं ब्रह्मणोऽपीति वदता यद्विचारासहत्वं प्रपञ्चे त्वयोच्यते स विचारो यो यादृशो वियदादौ स तादृशो ब्रह्मण्यपि समानस्तद्विचारासहत्वं ब्रह्मण्यपीति यावदिति मूलं योजनीयमिति सूचयति इत्यादिनेति । मूलस्थादिपदार्थविवरणं दुर्घटमपीत्यादि युक्तिच्छलकर्त्रोरभिधानं तत्त्वोद्योत इत्यादि । तदुपपादनमत्रानावश्यकम् । तस्य तद्ग्रन्थ एव बाहुल्येन कृततयाऽत्र सङ्कोचेन कथनस्य वैयर्थ्याद्विस्तरस्य च प्रस्थानभेदेनात्र करणानुपपत्तेः । अन्यथा ग्रन्थयोर्गतार्थत्वप्रसङ्ग इत्याशयेनोक्तं निपुणतरमिति । प्रकरणत्वादेव तत्र स्वल्पप्रतिपादनादत्र तद्विस्तरस्यावश्यकत्वमित्यत उक्तं निपुणतरमितीत्यप्याहुः । इत्याद्यनुव्याख्यान इति । पृथगधिकरणीयानुव्याख्याने आदिपदोक्त ……………….. अधिकरणीये चानुव्याख्यात इत्यर्थः ।
स्वपराभिमतेति । प्रथमतो दूष्यस्य विशिष्टज्ञाननिवर्त्यत्वरूपबाध्यत्वस्य पराभिमततया परस्वाभिमतयोरिति वक्तव्येऽल्पाच्तरतया स्वपरेत्युक्तम् । अत्र विशिष्टं ज्ञाननिवर्त्यत्वं पराभिमतं ज्ञानविनाश्यत्वमात्रं स्वाभिमतम् । प्रतिपन्नोपाधावित्येतत्तु स्वपराभिमतमिति विवेकः । स्वाभिमतत्वं च न ज्ञानबाध्यत्वरूपतया स्वाङ्गीकृतत्वमपि तु ज्ञानबाध्यत्वरूपतया परेणोक्तस्य स्वमते वस्तुतोऽङ्गीकारसत्त्वमात्रमिति द्रष्टव्यम् । मूले उक्तविधयेति । अज्ञानोपादानकस्य समाने विषये विरोधिना ज्ञानेनोपादानेऽज्ञाने निवृत्ते स्वयमेव विलपनमित्युक्तविधयेत्यर्थः । असिद्धत्वे हेतोरेकस्या-भावात्तत्तद्योग्यहेतुकथनेनासिद्धत्वमुपपादयति वियदादेः सत्त्वेनेत्यादि मूलम् । त्रिरूपज्ञानबाध्यत्व-निराकरणमुपपत्तिसापेक्षं तत्र कास्ता उपपत्तय इत्यतो मूले उपपत्तयस्त्विति प्रवृत्तम् । तत्रोक्तत्व-वक्ष्यमाणत्वे व्यवस्थया दर्शयति अत्राविद्येति । अविद्याप्रमाणाद्यभावोपपादनेन अविद्यानिराकरणस्य करिष्यमाणतया तेनैव अत्रैवाधिकरणेऽविद्योपादानकत्वाभावस्योपपादयिष्यमाणत्वादिति सम्बन्धः । उक्तविधया ज्ञाननिवर्त्यत्वं वा ज्ञानबाध्यत्वमित्यस्योक्तं यदसम्भवित्वं तत्रोपपत्तिरियम् । ज्ञान-विनाश्यत्वमात्रस्योक्ताव्याप्त्युपपादकोपपत्तिमाह वियत्पाद इत्यादि । तत्र स्वरूपनाशाभावस्येत्यन्तेन वियदादौ न हीत्यादिना चासति नाशाभावोपपादनमिति विवेकः । वियत्पादे वियदादेः स्वरूप-नाशाभावस्योपपादयिष्यमाणत्वादिति सम्बन्धः । न हि नाश इत्यादिकं यथाश्रुतम् । तत्र नाशाभावस्य चेति चशब्दार्थान्तर्भावेन व्याख्येयम् । वियत्पाद इति वर्तते । उक्तत्वस्य प्रथमोक्तावप्युपपाद-यिष्यमाणत्वस्योक्तेऽर्थेऽपि सत्त्वेन बह्वर्थविषयत्वेन चोक्तोपपादयिष्यमाणत्वयोः क्रमोल्लङ्घनेन प्रदर्शनमिति न दोषः । पूर्वत्रेवेति । दृष्टान्तप्रत्याख्यानपरतया योजनायां बाध्यं बाध्यमित्यनुगतव्यवहार-विरोधोऽपसिद्धान्तश्चेति दूषणद्वयपरिहाराय व्यवहारसंपादकस्वाभिमतबाध्यत्वस्वरूपनिरूपणाय विज्ञातस्येत्येतद्योजना यथा कृता तथाऽत्र व्यवहाराद्युपपादकतया स्वाभिमतबाध्यत्वस्वरूपनिरूपण-परतया योजनाया असम्भवात् तद्वाक्यवैयर्थ्यमित्यर्थः । इति वदतेति । सत्यत्ववादिनेति शेषः । प्रतियोगित्वादेरित्यादिपदेन प्रागुक्तासत्त्वपरिग्रहः । सदसत्साधारणबाध्यत्वव्यवहारस्य प्रतिपन्नेत्यादिना निर्वाहायोगादित्याशयः । वक्तव्यत्वादिति । तथा च यदेव भवता तादृशव्यवहारनिर्वाहकं बाध्यत्वमुच्यते तदेवाहं लक्षणत्वेन प्रतिपादयिष्यामि । तस्य च सकललक्ष्यवृत्तितायास्त्वत्संमतेर्नाव्याप्त्यादिकं त्वयोद्भावयितुं शक्यमित्यर्थः । अत्र च यथाश्रुत एव वाक्यार्थः स्पष्टः । न तु दृष्टान्तप्रत्याख्यानस्थलीय-विज्ञातस्येत्येतदवतारतद्व्याख्यानटीकावद् योजनीयोंऽश इति ज्ञेयम् ।
अख्यात्यादिमतान्तरनिरासादेर्भाष्यस्थैवशब्दहिशब्दसूचितत्वकथनं मूले कुतः क्रियत इत्यतः स्वयं करिष्यमाणतन्मतनिरासस्योद्भाष्यत्वशङ्कापरिहाराय तत्कथनमिति मूलाशयं स्पष्टयितुं तत्कथनपरोत्तर-वाक्यव्यावर्त्यशङ्कामुत्थाप्य तन्मतनिरासपरोत्तरग्रन्थप्रवृत्त्युपयोगितया तन्मतनिरासस्य व्युत्पादन-सापेक्षतां च वदन् उत्तरवाक्यं तच्छङ्कानिरासपरत्वेनावतारयति ननु टीकाकारीय इति । अस्याः शङ्कायाष् टीकाकारं प्रत्येव प्रवृत्तेर्भवदीय इत्यपरोक्षतया व्याख्येयम् । अन्यथा मूलकारेण यत्र भाष्यघटना क्रियते तत्र भाष्यकारीयमित्यादि परोक्षव्यवहारदर्शनेनान्यदीयग्रन्थस्यान्यं प्रत्यसङ्गतिशङ्कायां तेन सा परिह्रियत इति भ्रान्तिः स्यात् । तथाविधस्थल एव परोक्षनिर्देशस्वारस्यात् । टीकाकारीय इत्युक्तिस्तु भवदीयपदार्थस्पष्टीकरणायैवेति न दोषः । अत एवोत्तरग्रन्थस्यातिसङ्गतत्वादिति वक्ष्यति । तथा च भाष्यव्याख्यानं प्रतिज्ञायेत्यादियुक्तया भवदीयाख्यात्यादिपक्षनिरासपरोत्तरग्रन्थो न सङ्गत इत्याशङ्का-परिहाराय टीकाकारो भाष्यसूचितप्रमेयव्युत्पादनपरोत्तरस्वकीयग्रन्थस्यातिसङ्गतत्वमित्याशयेनेति योजनीयम् । फलतस्तु टीकाकारोऽख्यात्यादिमतनिरासपरस्वकीयोत्तरग्रन्थस्य भाष्यव्याख्यानत्वाभाव-प्रयुक्तासङ्गतिशङ्का न कार्या । व्युत्पादनसापेक्षभाष्यसूचितप्रमेयव्युत्पादनपरत्वेनातिसङ्गतत्वादित्याशये-नोत्तरग्रन्थव्युत्पाद्यप्रमेयं भाष्यस्थह्येवशब्दसूचितार्थतया दर्शयतीति सिध्यतीति ज्ञेयम् । उद्भाष्यमिति क्रियाविशेषणम् ।