०५ बाध्यत्वनिर्वचनम्

विज्ञातस्यान्यथा सम्यग्विज्ञानं ह्येव तन्मतम्

बाध्यत्वनिर्वचनम्

विज्ञातस्यान्यथा सम्यग्विज्ञानं ह्येव तन्मतम्

सुधा

अथवा दृष्टान्तं प्रत्याचष्टे ॥ ज्ञानबाध्यत्वमिति ॥ अपिपदेन सदसद्विलक्षणत्वलक्षणं साध्यमनिर्वाच्यत्वं समुच्चिनोति । तुशब्दो ज्ञानबाध्यत्वमभिमताद्य्ववच्छिनत्ति ॥ न सिद्धं शुक्ति-रजतादाविति शेषः । शुक्तिरजतादेरनिर्वचनीयत्वं तावत्प्रतिवादिनो ममासिद्धम् । मयाऽत्यन्ता-सत्त्वेनाङ्गीकृतत्वात् । अत एव ज्ञानबाध्यत्वं मम तत्रासंमतम् । तद्धिज्ञाननिवर्त्यत्वं परस्याभि-मतम् । न चासतस्तत्संभवति । तस्य नित्यनिवृत्तत्वात् । अतः साध्यसाधनविकलोऽयं दृष्टान्ता-भासः । ननु प्रतिपन्नोपाधौ निषेधप्रतियोगित्वं बाध्यत्वमस्त्येव शुक्तिरजतादौ । मैवम् । तथा सत्यसत्त्वप्रसङ्गात् । वक्ष्यते चैतत् । यदि तर्हि न बाध्यत्वं शुक्तिरजतादेः । (बाढम् । ननु) सकललोकविरोधादिप्रसङ्गः । मैवम् । त्वदभिमतस्याऽभावेऽप्यन्यस्य बाध्यत्वस्य तत्र विद्यमान-त्वात् । किं तदित्यत आह ॥ विज्ञातस्येति ॥ बाध्यत्वमिति प्रकृतप्रकृत्यर्थः बाधं तदिति सामान्येन परामृशति । केचिन्नेदं रजतमिति ह्यध्यस्तवस्त्वभावबोधं बाधमाहुः । अपरे तु शुक्तिरियमिति विरोधिभावान्तरज्ञानम् । तदुभयं प्रत्येकमव्यापकम् । शाब्दादौ द्वयोरपि बाधत्वप्रसिद्धेः । तस्मा-दुभयानुगतमेतदुच्यते । रजतत्वादिना विज्ञातस्य पुरोवर्तिनः शुक्तित्वादिना विज्ञानं खल्वन्यथा-विज्ञातस्य सम्यग्विज्ञानं भवति । एवमसतो रजतस्य सत्त्वादिनाऽवगतस्यासत्त्वादिना विज्ञान-मप्यन्यथाविज्ञातस्य सम्यग्विज्ञानं भवत्येव । सम्यग्विज्ञानं बाध इत्येवोक्ते सर्वमपि सम्यग्ज्ञानं बाधः प्रसज्येत । न च तथा व्यवहारः । तन्निवृत्त्यर्थमन्यथाविज्ञातस्येत्युक्तम् । अन्यथाविज्ञातस्य ज्ञानमित्येवोक्ते धारावाहिकभ्रमे रजतत्वेनावगतस्य शुक्तिकाशकलस्य पुनर्नागवङ्गत्वादिज्ञानेऽपि प्रसङ्गः । तन्निरासाय सम्यगित्युक्तम् । अन्यथेति । तत्स्वरूपापेक्षया । तेन घटस्यैव पटाद्यपेक्षयाऽ-न्यथा घटत्वेन ज्ञातस्य पुनर्घटत्वेन ज्ञाने प्रसङ्गो निरस्तः । छलप्रसङ्गात् । तथाऽपि रजतत्वेनाव-गतस्य शुक्तिकाशकलस्य शुक्लत्वादिज्ञाने प्रसङ्गस्तदवस्थः । एवमेकेनान्यथाविज्ञातस्य पुरुषान्तर-संबन्धिनि तस्यैव वा पुरुषस्य कालान्तरभाविन्याजानसिद्धे सम्यग्विज्ञाने प्रसङ्गोऽपीति चेन्मैवम् । बाधतिः खलु लोडने पठ्यते । तच्च ज्ञानस्यार्थस्य वाऽस्तु । न तावज्ज्ञानस्य । तस्य क्षणिकत्वेन स्वत एव लोडितत्वात् । सम्यग्विज्ञानस्याप्युत्तरज्ञानविनाश्यस्य बाधितत्वव्यवहारप्रसङ्गात् । नाप्यर्थस्य । शुक्तिशकलादेस्तादवस्थ्यात् । रजतादेर्नित्यलोडितत्वात् । अतः पूर्वज्ञानप्रसञ्जितस्या-न्यथाकारस्य लोडनमिवेति वक्तव्यम् । तथा च सति कोऽतिप्रसङ्गः । तत्किं वक्तव्यमेतत् । न हि । कथमनुच्यमानं ज्ञास्यते । अन्यथाविज्ञातस्येति वचनसामर्थ्यात् । अन्यथा सम्यग्विज्ञान-मित्येवावक्ष्यत् । किमनेनेति । तद्विषयत्वं बाध्यत्वमिति शेषः ।

वाक्यार्थचन्द्रिका

दृष्टान्तदूषणानुक्त्या न्यूनतां भाष्ये परिहर्तुमिदमेव भाष्यं तद्दूषण-परतयाऽपि योजयति ॥ अथवेति ॥ नन्वत्र शुक्तिरजतादौ साध्यवैकल्यासम्भवे साधनवैकल्यमपि न स्यात् । अत्यन्तासत्त्वेन तत्र साधनवैकल्यसम्भवे च साध्यवैकल्यमपि तत एव सम्भवति । साध्यवैकल्यसम्भवे च साधनवैकल्यमात्रोक्तिर्भाष्यकारीया न्यूनतेति न दृष्टान्तदोषो भाष्याभिमत इत्यतोऽनुक्तसमुच्चयार्थापिपदेन तस्याप्युक्तेर्न न्यूनतेत्याशयेनाह ॥ अपिपदेनेति ॥ ननु वक्ष्यमाणस्य वा प्रतिपन्नोपाधौ निषेधप्रतियोगित्वरूपस्य वा बाध्यत्वस्य दृष्टान्ते प्रतिवादिनोऽपि सम्मत्या न तद्वैकल्यमित्यत आह ॥ तुशब्द इति ॥ अभिमतादिति ॥ दृष्टान्ते प्रतिवादिनोऽभिमतादित्यर्थः । अनभिमतादिति पाठे दृष्टान्तेऽसत्त्वेनानभिमतादित्यर्थः । अस्य दृष्टान्तदूषणपरत्वं घटयितुं योग्य-मध्याहरति ॥ शुक्तीति ॥ असद्विलक्षणज्ञप्त्यै इत्याद्युत्तरानुव्याख्यानेऽसत्त्वेपि शुक्तिरजतादेः प्रतीत्युपपादनादिना लब्धमत्र प्रतिवादिन इत्युक्तिसूचितमत्यन्तासत्त्वं साध्यवैकल्यादौ हेतुतया योजयति शुक्तीति ॥ नात्र ज्ञानबाध्यत्वपदेन प्रपञ्च इव शुक्तिरजतादावुभयविधमपि तुशब्देनाभिप्रेयते किन्तु ज्ञाननिवर्त्यत्वमात्रम् । तस्यैव तत्र प्रतिवादिनाऽनभ्युपगमादित्याशयेनाह ॥ तद्धीति ॥ ‘निवृत्तिश्चा-प्रवृत्तस्य कथमेवोपपद्यत’ इत्यनुव्याख्यानं मनसि निधायाह ॥ तस्येति ॥ ज्ञानप्रयोज्यतिरोभावादि-रूपनिवृत्ते प्रादुर्भावादिरूपनिवृत्तेरसत्त्वेन निरुपादानकतया नित्यनिवृत्तेऽसम्भवादिति वाऽभिप्रायः । अत्र प्रतिपन्नोपाधौ निषेधप्रतिपादनमशक्यमिति ततः पृथक्कृत्य साधनवैकल्यकथनावसरे तद्वैकल्य-स्यावश्यप्रतिपादनीयत्वात्तद्वैकल्यं प्रतिपादयितुं शङ्कते ॥ नन्विति ॥ ‘नासीदस्ति भविष्यच्चे’त्याद्यनु-व्याख्यानं मनसि निधायाऽह ॥ तथा सतीति ॥ त्रैकालिकसत्तानिषेधस्य बाधत्वे सत्ताविरह-व्यतिरेकेणासत्त्वस्य दुर्निरूपतयाऽऽपसिद्धान्तप्रसङ्गात्साधनवैकल्यं तदवस्थमेवेति भावः । ननु रजतादेः प्रतीतत्वेनासत्त्वानुपपत्तौ निषेधस्य सत्त्वोत्सारण एव पर्यवसानम् । न च सत्ताविरह-व्यतिरेकेणासत्त्वं दुर्निरूपमिति वाच्यम् । निरुपाख्यत्वमसत्त्वमिति तन्निरूपणात् । तथा चासत्त्वा-नापातेनापसिद्धान्ताभावान्न साधनवैकल्यमित्यत आह ॥ वक्ष्यते चैतदिति ॥ असतः प्रतीत्यभावे हि सर्वमिदं भवेदिति शेषः । न चैवमि‘त्यसद्विलक्षणज्ञप्त्यै’ ‘निषेधो ह्यप्रतीतस्ये’त्याद्यनुव्याख्याने वक्ष्यत इत्यर्थः । नन्वियता दृष्टान्तदूषणस्य पर्यवसानात्प्रकृताननुगुणं दृष्टान्ते बाध्यत्वस्योपपदकमुत्तरवाक्य-मनुपपन्नमित्यतस्तन्निवर्त्यां शङ्कां दर्शयति ॥ यदीति ॥ आदिपदेनापसिद्धान्तसंग्रहः । यदि प्रतिपन्नोपाधौ निषेधप्रतियोगित्वमेवासत्त्वं तर्हि सतोऽपि बाध्यत्वमस्त्विति वदता त्वयाऽसत्त्वमेव न बाध्यत्वं वक्तुं शक्यत इति सदसत्साधारणबाध्यत्वव्यवहारस्य प्रतिपन्नोपाधौ निषेधप्रतियोगित्वेना-निर्वाह्यत्वात्सकललोकानुगतव्यवहारादिप्रयोजकबाध्यत्वमन्यदेव वाच्यम् । तदेव दृष्टान्तेऽहमपि प्रतिपादयिष्यामीत्याशयः ।

अत्र विज्ञानविषयत्वमिति निर्देष्टव्ये यद्विज्ञानमिति निर्दिशति यच्चाभावघटिततया विरोधि-भावान्तरघटिततया वा निर्देष्टव्येऽन्यथाविज्ञातस्य सम्यगिति सामान्येन निर्दिशति तेन ज्ञायते उभय-साधारण्येनैव बाधलक्षणनिष्कर्षो द्रष्टव्य इत्यपि भाष्यकारस्याभिमतमिति मनसि निधाय प्रकृत्यर्थ-भूतोभयविधबाधस्य तदिति सामान्येन परामर्शे नपुंसकं तद्विषयत्वं बाध्यत्वमिति शेषपूरणेन च वाक्यं योजनीयमित्याह ॥ बाध्यत्वमितीति ॥ न चैतट्टीकाकाराशयज्ञापकाभाव इति वाच्यम् । प्रकृत-प्रधानबाध्यत्वस्य तदिति परामर्शेन विज्ञानशब्दस्य च पूर्ववत्तद्विषयत्वलक्षणामात्राभ्युपगमेन व्याख्यानोपपत्तौ बाध्यत्वशब्देनोपसर्जनतया प्रकृतबाधसामान्यपरामर्शे शेषपूरणादेरेव तद्गमकत्वात् । न चैवमस्मिन्व्याख्याने कुसृष्टिरिति वाच्यम् । अधिकार्थलाभेन तस्या आदरणीयत्वात् । अत्र प्रकृत्यर्थ-बाधनिर्देशेन तदिति नपुंसकोपपत्तावपि वस्त्वभावबोधो बाधो विरोधिभावान्तरज्ञानं बाध इत्यनेकभिन्न-लिङ्गनिर्दिष्टयोः सामान्येन परामर्शेन व्याख्याने उभयोरपि लक्ष्यत्वसूचनेन परोक्तलक्षणयोरव्याप्ति-सूचनमपि सिध्यतीत्येवं व्याख्यातमिति द्रष्टव्यम् । ननु बाधस्यैकप्रकारत्वेनानेकप्रकारतया कस्याप्यभ्युपगमो नापि भिन्नलिङ्गतया निर्देश इत्यतो वादिविप्रतिपत्तिमाह ॥ केचिदिति ॥ ननु तैस्तैरपरस्यालक्ष्यत्वाङ्गीकारान्नाव्याप्तिरित्यतः स्थाणुरयं शब्दो द्रव्यमित्येतद्बाधकतया न स्थाणुर्न द्रव्यमिति वाक्यानुमानयोरपि पुरुषोऽयं शब्दो गुण इति वाक्यादेरपि बाधकत्वप्रसिद्ध्या प्रत्यक्षस्थले चाध्यस्तवस्त्वभावबोधे विरोधिभावान्तरभाननियमेन निर्णयासम्भवेऽपि समानन्यायतया तत्राप्यु-भयोरपि बाध्यत्वनिश्चयसम्भवात्पराङ्गीकारस्य चाग्रहमात्रमूलत्वादव्याप्तिः स्यादेवेत्याह ॥ शाब्दा-दाविति ॥ अन्यथाविज्ञातस्येतद्-व्याख्यानरूप‘मसतः सत्त्वप्रतीतिः सतोऽसत्त्वप्रतीतिरित्यन्यथाप्रतीतेरेव भ्रान्तित्वादि’ति तत्त्वनिर्णयवाक्यं मनसि निधायोक्तोभयानुगममुपपादयति ॥ रजतत्वादिनेत्यादिना ॥ नन्वस्य लक्षणत्वे पूर्वविशेषणाधिक्यम् । न च घटादिज्ञानानां बाधत्वनिवृत्त्यर्थं तदिति वाच्यम् । द्रव्यादिवद्बाधत्वजात्याक्रान्तस्य कस्यचिदभावात्तस्य लक्ष्यत्वेऽप्यदोषादित्यतः परीक्षकैर्लोकव्यवहारान-ुसारेणैव लक्षणस्य प्रणेतव्यत्वात्सम्यग्ज्ञानमात्रस्य चातथात्वाद्युक्तं विशेषणमित्याशयेन पूर्वविशेषण-व्यावर्त्यं दर्शयति ॥ सम्यगिति ॥ विरोधिविषयत्वविवक्षायामप्यतिव्याप्तिरेवेत्याह ॥ रजतत्वेनेति ॥ नागं सीसं वङ्गं त्रपु ॥ तन्निरासायेति ॥ न च पूर्वज्ञानप्रसञ्जितान्यथाकारलोडनरूपतया तस्यापि बाधत्वेन लक्ष्यत्वात्तन्निरासो युक्त इति वाच्यम् । भ्रमविषयत्वेन शुक्तिरजतादितुल्यस्य नागवङ्गत्वादिरूपस्यान्यथाऽकारमात्रस्यान्यथाविज्ञातस्येत्यनेन ग्राह्यतया तल्लोडनरूपत्वस्य सम्यग्ज्ञान एव सम्भवेन तस्यैव लक्ष्यत्वेन विवक्षणीयतया भ्रमनिरासस्यावश्यकत्वात् ॥ (अन्यथाकारलोटन-रूपस्येति । लुटविलोडने भ्वादिः । अयं दिवादावपि । भाषार्थश्चुरादौ । प्रतिघाते द्युतादौ । डान्तोऽयमित्येके ॥ ततश्च टवर्गप्रथमान्तपाठस्तृतीयान्तपाठोऽपि साधुरेवेति बोध्यम्) ।

ननु तथाऽपि न्यूनताऽतिप्रसङ्गान्तरनिरासाय विशेषणान्तरस्याप्यावश्यकत्वादित्यत ञाह ॥ अन्यथेति ॥ ननु स्वरूपापेक्षयेत्यविशेषणेनातिप्रसङ्गानिरास इत्यतः शब्दसमभिव्याहारबललब्धार्था-दर्थान्तरकल्पनया दूषणस्य छलप्रसङ्गेनानुपपत्त्या समभिव्याहारबलेनैवातिप्रसङ्गाप्रसक्तौ तदर्थं विशेषण स्यानावश्यकत्वादित्याह ॥ छलेति ॥ ननु तथाऽपि न्यूनतैव स्थलान्तरेऽतिप्रसङ्गतादवस्थ्यादित्यतो बाधशब्दार्थनिर्वचनपरेणानेन वाक्येन बाधशब्दार्थपरधातुसूत्रपर्यालोचनायां पूर्वज्ञानप्रसञ्जितान्यथाकार-लोडनरूपस्य सम्यग्ज्ञानस्य लक्षणत्वेन लाभान्न दोष इत्याशयेन धातुसूत्रमुदाहरति ॥ बाधतिरिति ॥ नन्वस्तु लोडनं तदर्थस्तद्यथाकथञ्चिदतिप्रसङ्गविषयेऽप्यस्तीत्यतस्तन्निष्कर्षं दर्शयति ॥ तच्चेति ॥ स्वत एवेति ॥ बाधकानवतारेऽपि व्यासङ्गादित एवेत्यर्थः । अन्यथोत्तरक्षण एव बाधकावतारा-नियमात्क्षणिकत्वानुपपत्तिः । एवं च बाधकज्ञानस्य न तत्र प्रयोजकतेत्याशयः । ज्ञाननाशप्रयोजकज्ञाने बाधकत्वं नास्त्यपि । न चात्र विवादः । व्यवहाराभावेन निश्चयोपपत्तेरित्याशयेनाह ॥ सम्यगिति ॥ नापीति ॥ बाधोत्तरमप्यनुवृत्तेरित्याशयः । तर्हि स्मृत्यर्थ एवानुपपन्न इत्यत आह ॥ अत इति ॥ नन्वन्यथाकारस्यासत्त्वान्न लोडनमित्यत उक्तमिवेति । पूर्वज्ञानप्रसञ्जितान्यथाकारस्यात्त्वेऽपि तद-सहनतया ज्ञायमानत्वात्तज्जनितप्रवृत्त्यादिफलपरम्पराविघटकतया तन्निवर्तकसाम्यमिवार्थ इत्याशयः । अत एव निबन्धे उदयने ‘नाप्ययमेव विषयापहारो यत्तद्विषयाधिक्षेपस्वभावसमुत्पादः स च तत्फलप्रवाह प्रक्षेतिपपर्यन्त’ इत्युक्तमिति ध्येयम् । नन्वेवं स्मृत्यर्थनिष्कर्षेऽपि न शुक्लत्वज्ञानादावति-प्रसङ्गपरिहार इत्यतो लक्षणेऽस्यार्थस्याभिप्रेततया नातिप्रसङ्ग इत्याशयेनाह ॥ तथा चेति ॥ लक्षणे तद्वाचकपदाभावे कथमेतल्लाभ इत्याशङ्कते ॥ तदिति ॥ अन्यथाविज्ञातस्येत्यत्र कर्मणि भूतप्रत्ययेन पूर्वत्वस्य प्रसञ्जितत्वस्य च लाभः । अन्यथेत्यनेनान्यथाकारस्य लोडनमित्यस्य लाभं दर्शयति ॥ अन्यथाविज्ञातस्येतीति ॥ न च सर्वसम्यग्ज्ञानस्य बाधत्वप्रसक्तौ तद्-व्यावृत्तये तद्विशेषणमिति वाच्यम् । तेन तद्-व्यावृत्तावपि शुक्लत्वज्ञानाद्यव्यावृत्त्याऽतिप्रसङ्गापरिहारेणैकदेशमात्रव्यावृत्तेरप्रयोजकतया वैयर्थ्या-निस्तारात् । न चान्यथाज्ञानपूर्वकत्वाच्छुक्लत्वादिज्ञानादेः सङ्ग्राह्यत्वमेव भाष्याभिमतं किं न स्यादिति वाच्यम् । बाधत्वेन व्यवह्रियमाणस्यैव लक्ष्यतयाऽन्यथा ज्ञानपूर्वकेऽपि शुक्लत्वादिज्ञानादौ बाधत्वेन व्यवहाराभावेन तस्याप्यसङ्ग्राह्यत्वात् । एवमपि सङ्ग्राह्यत्वेऽविशेषात्सर्वसम्यग्ज्ञानस्यापि सङ्ग्राह्यतापत्तौ तद्-व्यावृत्त्यर्थमन्यथाविज्ञातस्येति विशेषणानुपादानप्रसङ्गादित्याह ॥ अन्यथेति ॥ तथा च तद्विशेषणबलेन षष्ठ्यर्थतया लोडनरूपसम्बन्धलाभान्न लक्षणे तद्वाचकपदप्रक्षेप इति भावः । किं तद्बाध्यत्वमिति प्रश्नस्य व्यधिकरणमेतदुत्तरमित्यत आह ॥ तदिति ॥

परिमल

अनभिमतादिति ॥ मायावाद्यनभिमतात्सिद्धान्त्यभिमतादित्यर्थः । क्वचिदभि-मतादित्येव पाठः । व्याहतिनिरासाय, दृष्टान्त इत्येवानुक्त्वा, दृष्टान्तत्वेन तवाभिमत इति भावेनोक्तम् ॥ दृष्टान्ताभास इति ॥ वक्ष्यते चैतदिति ॥ ‘नासीदस्ति भविष्यच्च तदिति ज्ञानमेयता । यदि बाधस्तदाऽसत्त्वं तेनैवाङ्गीकृतं पुनरि’ति वियत्पादे ‘पृथगुपदेशादि’त्यधिकरण इति भावः । नपुंसकत्व-निर्वाहायाऽऽह ॥ सामान्येन परामृशतीति ॥ शाब्दादाविति ॥ अग्निना सिञ्चेदित्यादिशाब्दबोधस्थले तदभावबोधनस्य वह्निः शीतः पदार्थत्वादित्यनुमाने च तद्विपरीतभावान्तरज्ञानस्य च बाधत्व-दर्शनादित्यर्थः । उभयानुगतमेतदुच्यत इत्येतद्-व्यनक्ति ॥ रजतत्वादिनेति ॥ छलेति ॥ अन्यथेत्यस्य तत्स्वरूपापेक्षयेत्यस्य विवक्षितत्वादभिप्रायान्तरकल्पने- नातिव्याप्तिं कथयतश् छलोत्तराख्यदूषणं स्यादित्यर्थः ॥ आजानसिद्ध इति ॥ भ्रान्तिपूर्वकत्वं विना स्वभावसिद्ध इत्यर्थः । अतिव्याप्तिं निराकर्तुमुपोद्धातमाह ॥ बाधतिरित्यादिना ॥ अत इत्यन्तेन । बाधृ विलोडन इति धातुपाठादिति भावः ॥ क्षणिकत्वेनेति ॥ आशुविनाशित्वेनेत्यर्थः । परमतेन चैवमुक्तिः ॥ नित्यलोडितत्वादिति ॥ असत्त्वादिति भावः ॥ कोऽतिप्रसङ्ग इति ॥ तथापि रजतत्वेनेत्यादिना शङ्कितस्थलद्वयेऽतिव्याप्ति-रूपदोषो नेत्यर्थः । शङ्कते ॥ तत्किमिति ॥ तदेतत्पूर्वज्ञानप्रसञ्जितस्यान्यथाकारस्य लोडनमिव यद्ज्ञानमस्ति स बाध इत्येतद् विज्ञातस्येत्यादिमूलवाक्ये शेषतया प्रक्षेप्तव्यं किमित्यर्थः । पूर्वज्ञान-प्रसञ्जितस्यान्यथाकारस्य लोडनमिवेत्यंशबोधक पदस्य मूलवाक्येऽनुपलब्धेः । यथा पाणिनीयसूत्रेषु विवक्षितार्थस्याशेषस्याप्राप्तिस्थले वार्तिककृता तत्र तत्र इदं वक्तव्यमिदमुपसङ्ख्येयमित्युच्यते तथेति भावः । सिद्धान्ती परिहरति ॥ न हीति ॥ तदेतन्नहि वक्तव्यमित्यर्थः । शङ्कते ॥ कथमिति ॥ तस्योत्तरमाह ॥ अन्यथेत्यादि ॥ इति वचनसामर्थ्यादनुच्यमानमपि गम्यत इत्यन्वयः ॥ अन्यथेति ॥ अन्यथा विज्ञातस्येत्यंशेन प्राग्विवक्षितार्थस्यालाभे सम्यग्विज्ञानमेव तन्मतमित्येवं ब्रूयात्किमन्यथा-विज्ञातस्येत्यंशेनेत्यर्थः ।

यादुपत्यम्

अनभिमतादिति ॥ सिद्धान्त्यनभिमतादित्यर्थः । ननु ज्ञानबाध्यत्वं नाम न ज्ञाननिवर्त्यत्वं किंतु नास्ति नासीन्न भविष्यतीति बोध्यमानाभावप्रतियोगित्वम् । तच्चास्ति शुक्तिरजता-दावतो न साधनविकलतेत्याशङ्कते ॥ ननु प्रतिपन्नेति ॥ नोक्तप्रतिषेधप्रतियोगित्वमसत्त्वं किन्तु निरुपाख्यत्वादिकमन्यदेवातो नोक्तदोष इत्यत आह ॥ वक्ष्यते चैतदिति ॥ ‘नासीदस्ति भविष्यच्च तदिति ज्ञानमेयता । यदि बाधस्तदाऽसत्त्वं तेनैवाङ्गीकृतं पुनः । प्रतीतिर्नासत इति वदन्नङ्गीकरोति तामि’त्यादिना निरुपाख्यत्वादेरसम्भवित्वादुक्तनिषेधप्रतियोगित्वमेवासत्त्वमङ्गीकार्यमिति वक्ष्यत इत्यर्थः । ननु यदि न बाध्यत्वं शुक्तिरजतादेस्तर्हि सकललोकविरोधादिप्रसङ्ग इत्यन्वयः । नन्विदं रजतमिति प्रत्यक्षस्येयं शुक्तिरिति ज्ञानं न साक्षाद्बाधरूपं ग्राह्याभावानवगाहित्वात् । किन्तु ग्राह्यविरह-व्याप्यावगाहित्वेनानुमानतयैव । न चानुमानस्य प्रत्यक्षबाधकता क्वापि दृष्टेष्टा वा । ‘क्व च प्रत्यक्षतः प्राप्तमनुमागमबाधितमि’ति वक्ष्यमाणत्वात् । अतो विरोधिभावान्तर ज्ञानस्यालक्ष्यत्वान्न तत्राव्याप्ति-र्दोषायेत्यत आह ॥ शाब्दादाविति ॥ भ्रम इति शेषः । तथाच प्रबललिङ्गज्ञानस्य प्रत्यक्षाबाधकत्वेऽपि शाब्दानुमितिरूपभ्रमबाधकताऽस्त्येव । अत एव मीमांसायां निरवकाशलिङ्गस्य श्रुत्यादिबाधकता प्रसिद्धेति भावः । यद्वा विरोधिभावान्तरज्ञानमध्यस्तवस्त्वभावज्ञानं वा यदि प्रत्यक्षरूपं तदा तयोरन्योन्यविषयविषयकत्वं भविष्यति उल्लेखाभावेऽपि सन्निकर्षादिरूपसामग्रीसत्वे तज्ज्ञानसम्भवात् । न हि प्रात्यक्षिके ज्ञाने यावद्विषवीक्रियते तावदुल्लिख्यत इति नियमोऽस्ति । अत उक्तयोरुभयोरपि ज्ञानयोरुभयविधबाधलक्षणसम्भवान्नाव्याप्तिरित्यत आह ॥ शाब्दादाविति ॥ शाब्दयोरनुमिति-रूपयोर्वोक्तज्ञानयोरपि प्रसिद्धिबलाद्बाध्यत्वं तावदस्ति । तत्र च नान्योन्यविषयविषयकत्वं सम्भावितम् । शब्दानुपस्थितस्य व्यापकतावच्छेदकताऽनवच्छिन्नस्य च शाब्दे बोधेऽनुमितौ चाभानात् । अतस्तत्राव्याप्तिः स्यादेवेति भावः । विरोधिभावान्तरज्ञाने स्वबाधलक्षणमुपपाद्याध्यस्तवस्त्वभाव-बोधेऽपि तदुपपादयति ॥ एवमसतो रजतस्येति ॥ नागः सीसम् । वङ्गं रङ्गम् । आजानसिद्धे स्वभावसिद्धे । न तु पूर्वज्ञानबाधकत्वेन प्रवृत्त इत्यर्थः ॥ बाधतिरिति । बाधृ विलोडन इति धातु-व्याख्यानादिति भावः ॥ अस्त्विति ॥ अङ्गीक्रियत इत्यर्थः । उत्तरज्ञानेन लोडनं विवक्षितमिति चेत्तत्राह ॥ सम्पग्ज्ञानस्यापीति ॥ अर्थोऽपि किं शुक्ती रजतं वेति विकल्प्योभयत्रापि दोषमाह ॥ शुक्तिशकलादेरित्यादिना ॥ अन्यथाऽऽकारस्य रजतस्य ॥ लोडनमिवेति ॥ नित्यनिवृत्तत्वेन तस्य मुख्यलोडनासम्भवाद्गौणमेव लोडनमत्र विवक्षितम् । परित्यागरूपगुणस्य मुख्यार्थे भ्रमविषये च साम्यादिति भावः ॥ तत्किं वक्तव्यमेतदिति ॥ लक्षणवाक्य इति शेषः । उत्तरमाह ॥ न हीति ॥

श्रीनिवासतीर्थीया

व्यवच्छिनत्तीति ॥ तथा च मायावाद्यभिमतमित्यर्थः । नन्वियं शुक्तिरिति ज्ञानं न लक्ष्यम् । साक्षाद्ग्राह्याभावानवगाहित्वेन । यदीदं बाधकं तर्हि तस्येदं न रजतं शुक्तित्वादिति ग्राह्याभावव्याप्यशुक्तित्वावगाहित्वेनानुमानिकतया इदं रजतमिति प्रत्यक्षबाधकत्वं न सम्भवति । ‘क्व च प्रत्यक्षतः प्राप्तमनुमागमबाधितमिति वक्ष्यमाणत्वात् । तथा चेयं शुक्तिरिति ज्ञानस्येदं रजतमिति ज्ञानबाधकत्वायोगेनालक्ष्यत्वान्न तत्रात्र्याप्तिर्दोष इत्यत आह ॥ शाब्दादाविति ॥ भ्रम इति शेषः । तथा चेयं शुक्तिरिति ज्ञानस्येदं रजतमिति प्रात्यक्षिकभ्रमबाधकत्वाभावेऽपि इदं रजतमिति शब्देन चाकचक्यादिसादृश्यलिङ्गकानुमित्या वा भ्रमो जातस्तत्रेयं शुक्तिरिति ग्राह्याभाव-व्याप्यावगाहित्वेनानुमानरूपस्यापीयं शुक्तिरिति ज्ञानस्य शाब्दानुमानिकभ्रमबाधकत्वं प्रसिद्धमिति लक्ष्यत्वात्तत्राव्याप्तिर्भविष्यत्येवेत्यर्थः । अत्र द्वयोरिति पदं न स्वरसम् । अथवा नन्विदं लक्षणद्वयं कथं प्रत्येकमव्यापकम् । यथा नेदं रूप्यमिति प्रात्यक्षिके बाधकज्ञाने शुक्तित्वमपि प्रतीतमेव । तथेयं शुक्तिरिति प्रात्यक्षिके बाधकज्ञाने रजताभावोऽपि प्रतीत एवेत्यन्योन्यविषयविषयकत्वमस्ति । न चोल्लेखप्रसङ्ग इति वाच्यम् । प्रात्यक्षिकज्ञाने यावत्प्रतीयते तावतः सर्वस्योल्लेखनियमाभावात् । अत एवोभयोरपि बाधकज्ञानयोरन्योन्यविषयविषयकत्वात्कथं प्रत्येकमव्यापकमिदं लक्षणमित्यत आह ॥ शाब्दादाविति ॥ इदं रजतमिति भ्रमानन्तरं नेदं रूप्यमित्याप्तवाक्यरूपशब्दतो दाहच्छेदानुमानेन बादकज्ञानं जायते । तथेयं शुक्तिरिति शब्दतोऽनुमानेन वा बाधकज्ञानं जायते । तदा शाब्दादौ शब्देनानुमानेन वा जायमानेनेदं रूप्यमियं शुक्तिरिति ज्ञानद्वये द्वयोरपि बाधकत्वं प्रसिद्धम् । न चोक्तरीत्या शाब्दानुमानिकज्ञानयोरप्यन्योन्यविषयविषयकत्वेनोक्तदोष इति वाच्यम् । शाब्दज्ञानस्य शक्यतावच्छेदकमात्रप्रकारकत्वनैयत्येनानुमितेश्च व्यापकताऽवच्छेदकप्रकारकत्वनैयत्येन तदधिकस्य तत्राभासमानत्वेनान्योन्य विषयविषयकत्वाभावेन प्रत्येकमव्यापकं भवत्येवेति भावः । विरोधि-भावान्तरज्ञाने स्वबाधलक्षणमुपपादयति ॥ रजतत्वेनेत्यादिना ॥ असतः सत्वप्रतीतिः सतोऽसत्व-प्रतीतिरित्यन्यथाप्रतीतेरेव भ्रान्तित्वादित्युक्तत्वादिति भावः । अध्यस्तवस्त्वभावबोधेऽपि स्वबाध-लक्षणमुपपादयति ॥ एवमिति ॥ छलेति ॥ अन्यथेत्यस्य तत्स्वरूपापेक्षयेत्यस्य विवक्षितत्वादभि-प्रायान्तरकल्पनेनातिव्याप्तिं कथयतश् छलोत्तरत्वदूषणं स्यादित्यर्थः । शङ्कते ॥ तत्किंवक्तव्यमेतदिति ॥ तदेतत्पूर्वप्रसञ्जितस्यान्यथाकारस्य लोडनमिवेत्येतदवश्यं वक्तव्यमेव, अतो विज्ञातस्येति लक्षणवाक्ये, किं किमर्थमाचार्यैः कण्ठतो नोक्तमित्यर्थः । उत्तरमाह ॥ न हीति ॥ एतदवश्यं लक्षणवाक्ये कण्ठतो न हि वक्तव्यमित्यर्थः । पुनः शङ्कते ॥ नन्विति ॥ कण्ठतोऽनुक्तत्वेऽप्यर्थादुक्तमेवेत्याह ॥ अन्यथेति ॥ अनेनान्यथेति वचनेन ।

वाक्यार्थरत्नमाला

अस्तु साध्यवैकल्यस्यापि सम्भवः । किं तत इत्यत आह साध्यवैकल्य-सम्भवे चेति । भाष्याभिमत इति । यदि भाष्यकारस्य दृष्टान्तदूषणं संमतं स्यात्तर्हि साध्यवैकल्यमपि ब्रूयादुक्तरीत्या तदसम्भवा भावेनासम्भवादेवावचनमित्यस्य वक्तुमशक्यत्वात् । तस्मादर्धजरतीया-योगाद्भाष्यकारस्य दृष्टान्तदूषणपरतयेदं भाष्यं न संमतमित्यर्थः । वक्ष्यमाणस्य वेति । शुक्तिरजतादेर-सतः सत्त्वादिना विज्ञातस्य पुनरसत्त्वादिना सम्यग्विज्ञानं बाधस्तद्विषयत्वरूपस्य वेत्यर्थः । प्रतिपन्नेति । त्रिकालसर्वदेशीयनिषेधप्रतियोगिताया अध्यस्ते सिद्धान्तिना अङ्गीकारादिति भावः । दृष्टान्ते प्रतिवादिसंमतज्ञानबाध्यत्वमुपादाय हि तद्वैकल्पाभावश्चोदितः । तुशब्देनोक्तसंमतातिरिक्तं ज्ञानबाध्यत्वमिति ज्ञापनात्तस्य च वक्ष्यमाणरीत्या ज्ञाननिवर्त्यत्वादिरूपस्य तत्राभावाद्युक्तं साधन-वैकल्यमित्याशयं सूचयंस्तुशब्दो ज्ञानबाध्यत्वमभिमतादिति पाठं प्रकृतानुगुणतया योजयति दृष्टान्ते प्रतिवादिन इति । सत्त्वेनेति शेषः ।

अनभिमतादिति पाठे सिद्धान्त्यनभिमताद्व्यवच्छेद उक्तोतः प्रत्याख्यानपरतया क्रियमाणोत्तर-योजनायां हि शुक्तिरजतादेर्बाध्यत्वस्य लोकव्यवहारसिद्धत्वात् तदनङ्गीकारे लोकव्यवहारविरोधप्रसङ्ग इत्याशङ्कायां त्वदभिमतस्याभावेऽप्यस्मदभिमतस्य तत्र विद्यमानत्वादित्येवं तदुपपादकतया विज्ञात-स्येति भाष्ययोजना सम्भवति । न च तद्वाक्यस्यात्र तथा योजनासम्भवः । प्रतिवादिनस्त्वित्यादि-पदस्वारस्यानुरोधेन भाष्यादेव लब्धस्य पक्षान्तरनिरासस्य मूलकृताभिधानमित्यस्य स्पष्टं प्रतीयमानत्वे भवतीत्यभिमतस्य प्राप्तेस्तस्य च सिद्धान्तिना अङ्गीकारेण प्रतिवादिनो ममासंमतमिति व्याख्यानायोग इत्यतस्तं पाठमपि घटयति अनभिमतादितीति । दृष्टान्तदूषणेति । पक्षे इति पूरणे तत्परत्वायोगादिति भावः । लब्धमित्यादि । अनेनास्य हेतोरुद्भाष्यता नास्तीति सूचितम् । साध्यवैकल्यादाविति । शुक्तीति वाक्येन साध्यवैकल्यं विविच्य मयेत्युत्तरवाक्येन हेतुतया योजयति । तथाऽत एव ज्ञानेत्यादिना साधनवैकल्यं विविच्य न चासत इत्यादिना हेतुतया योजयतीत्यर्थः । प्रपञ्च इवेति । प्रपञ्चे निषेध्यत्वेनेति शेषः । तत्र यथोभयमपि सिद्धान्त्यभिमतविज्ञातस्येत्याद्युक्ताद्व्यवच्छिन्नतया तुशब्देनाभिप्रेत्य तत्र प्रतिवादिनोऽसंमतमिति प्राग्व्याख्यातं तथेत्यर्थः । तस्यैवेति । प्रतिपन्नोपाधाविति द्वितीयस्य प्रतिवादि-नाऽप्यभ्युपगमादित्येवकारार्थः । इत्यनुव्याख्यानमिति । पृथगधिकरणीयमनुव्याख्यानमित्यर्थः । इति वेति । प्रथमस्याभिप्राय इत्युत्तरेण सम्बन्धः । अविद्योपादानकस्येति । अविद्योपादानकं यत्तस्य यज्ज्ञानेन तिरोभावादिरूपा निवृत्तिरिति निवर्त्यनिवर्तकविशिष्टनिवृत्तिस्वरूपकीर्तनम् । उक्तनिवृत्तेः शुक्तिरजतादावसम्भवे हेतुतया मूलोक्तं नित्यनिवृत्तत्वमुपपादितमसत्त्वेन निरुपादानकतयेति । ननु द्विरूपज्ञानबाध्यत्वस्यापि दृष्टान्तेऽभावप्रतिपादनेन तद्वैकल्यं प्रतिपाद्य तयाऽत्र विवक्षितं भवत्येव । सति चैवं ज्ञाननिवर्त्यत्वमात्रस्य वैकल्यं प्रथमतोऽभिधाय पश्चात्प्रतिपन्नेत्यादेर्वैकल्याभिधानमिति तयोः पृथक्करणे निमित्ताभाव इत्यतस्तन्निमित्तं कथयंस्तयोः पृथक्करणमुपपादयन्नवतारयति अत्र प्रतिपन्नेति । यद्यपि द्वयोरपि वैकल्यमत्र विवक्षितम् । तथापि ज्ञाननिवर्त्यत्ववैकल्यं न सिद्धं प्रतिवादिन इत्ये-तद्वाक्यार्थतया वर्णयितुं शक्यं भवतीति प्राक्तदर्थत्वेन तद्वर्णनं कृतम् । प्रतिपन्नेत्यादिरूपज्ञान-बाध्यत्ववैकल्यं तु न तद्वाक्यार्थतया वर्णयितुं शक्यम् । तथाविधबाध्यत्वस्य प्रतिवादिना दृष्टान्तेऽङ्गीकारात् । ततो हेतोर्वाक्यार्थतया वर्णनीयवैकल्यप्रतियोगित्वतदभावरूपविशेषेण प्रतिपन्नेत्यादिरूपबाध्यत्वज्ञाननिवर्त्यत्वात् पृथक्कृत्य तद्वैकल्यं युक्तयन्तरेणात्र प्रतिपाद्यते । न च तर्हि तत्प्रतिपादनमेव मास्त्विति वाच्यम् । साधनवैकल्यप्रतिपादनावसरे तद्वैकल्यप्रतिपादनाभावे साधन-वैकल्यसंपूर्तिर्न स्यात् । तस्माद्वाक्यार्थतया वर्णनानुपपत्तेर्ज्ञाननिवर्त्यत्वात्पृथक्कृतम् । अवश्यप्रतिपादनीय वैकल्यप्रतियोगित्वरूपेण तु प्रतिपन्नेत्यादिकमिदानीमाशङ्क्य तस्यापि वैकल्यं प्रतिपादयतीत्यर्थः ।

इत्यादीति । आदिपदेन ‘‘तदिति ज्ञानमेयता । यदि बाधस्तदाऽसत्त्वं तेनैवाङ्गीकृतं पुनः ॥’’ इति पादत्रयसङ्ग्रहः । कथमसत्त्वापत्तिरित्यतस्तामुपपादयन् अस्तु असत्त्वमपीत्यतस्तत्रेष्टापत्तिं च परिहरति त्रैकालिकेति । असत्त्वापत्त्युपपादनमाक्षिपन् असत्त्वप्रयुक्तदोषाभावं चाशङ्क्य तत्परिहारकतयोत्तर-वाक्यमवतारयति ननु रजतादेरिति । सर्वमिदमिति । भवेदिति शेषः । प्रतीतत्वेनासत्त्वानुपपत्त्यादिकं सर्वमसतः प्रतीत्यभावे हि भवेन्न चैवमस्तीत्येतदित्यर्थः । उत्तरवाक्यमिति । विज्ञातस्येत्युत्तर-भाष्यमित्यर्थः । तद्वाक्यस्य वक्ष्यमाणरीत्या बाध्यत्वाभिमते सर्वत्र बाध्यत्वोपपादनमुखेन दृष्टान्तेऽपि बाध्यत्वोपपादकतयेदानीं योजयिष्यमाणत्वमभिप्रेत्य दृष्टान्ते बाध्यत्वस्योपपादकमित्युक्तिरिति ज्ञेयम् । आदिपदेनापसिद्धान्त इति । अयमत्र यदि तर्हीत्यादिमूलस्य टीकाकृत्संमतोऽर्थः । यदि शुक्तिरजतादि-दृष्टान्ते साधनवैकल्योपपादनाय प्रतिपन्नोपाधौ निषेधप्रतियोगित्वरूपं बाध्यत्वमसत्त्वप्रसङ्गेन नास्तीत्युच्यते तर्हि बाध्यं बाध्यमिति सकललोकव्यवहारविषये तत्र तत्र पदार्थे तद्व्यवहारस्य प्रतिपन्नोपाधौ निषेधप्रतियोगित्वेनासत्त्वप्रसक्तया निर्वाहानुपपत्तिसाम्याद् बाध्यं बाध्यमिति सर्वलोक-व्यवहारविरोधः । व्यवहारानुपपत्तिरिति यावत् । तथा सिद्धान्तेऽपि तत्र तत्र पदार्थे बाध्यत्व-स्याङ्गीकृतत्वेन तस्य च प्रतिपन्नोपाधौ निषेधप्रतियोगित्वरूपताया एव वाच्यत्वात्तत्प्रतियोगित्वस्या-सत्त्वापादकत्वेन निराकरणस्य तत्रापि प्राप्त्याऽपसिद्धान्त इति । यत्तु शुक्तिरजतादेर्बाध्यत्वाभावे तदंश एव सकललोकविरोध इत्यादि व्याख्यानम् । तदसत् । असतः सत्त्वप्रतीतिः सतोऽसत्त्वप्रतीतिरित्ये-तत्तत्त्वनिर्णयमूलकरजतत्वादिना विज्ञातस्य । एवमसत इत्यादि सदसत्साधारणोत्तरमूलविरोधात् । तस्मादुक्त एवार्थः । तस्मिंश्चार्थे एवं शङ्कोदेति । बाध्यं बाध्यमिति व्यवहारेऽपि प्रतिपन्नोपाधौ निषेधप्रतियोगित्वमेव लोकसिद्धान्तयोः प्रयोजकत्वेन संमतम् । तथाच शुक्तिरजतादौ पररीत्या तत्प्रतियोगित्वस्याङ्गीकर्तुमनुचितत्वेऽपि लोकसिद्धान्तयोर्बाध्यत्वाभिमते तत्र तत्र तदङ्गीकारे बाधका-भावेन तत्प्रतियोगित्वेनैव तत्र तत्र तद्व्यवहारोपपत्त्या लोकविरोधाप्रसङ्गोऽपसिद्धान्तप्रसङ्गश्चेति । एतां शङ्कां परिहर्तुं टीकाकारो मूलाशयमाह यदि प्रतिपन्नेत्यादिना । लोके सिद्धान्ते च प्रतिपन्नोपाधौ निषेधप्रतियोगित्वेनैव बाध्यत्वव्यवहार इत्यभ्युपगन्तुं न शक्यं तत्प्रतियोगित्वस्यासत्त्वापादकतया बाध्यत्वाभिमतेऽसत्त्वस्य तत्प्रतियोगित्वाङ्गीकारे लोकसिद्धान्तयोरपि प्राप्तेः । अथ तत्प्रतियोगित्वेना-सत्त्वापत्तिरेव कुत इति चेत् । अत्रेदमुपतिष्ठते । यदि प्रतिपन्नोपाधौ निषेधप्रतियोगित्वमेवासत्त्वं तर्हीति । तदर्थस्तु यदि शुक्तिरजतादौ साधनवैकल्योपपादनाय तत्प्रतियोगित्वमेवासत्त्वमित्युच्यते तर्हि तन्न्यायेनैव लोकसिद्धान्त्यभिमतबाध्येऽपि तत्प्रतियोगित्वेऽसत्त्वप्राप्तेरिति शेष इति ।

ननु परेण शुक्तिरजतादावसत्त्वस्यापसिद्धान्तभयेनाङ्गीकर्तुमनुचितत्वेऽपि लोकसिद्धान्तयोर्बाधका-भावेन बाध्यत्वाभिमते असत्त्वस्याप्यङ्गीकर्तुमुचिततया तत्प्रतियोगित्वेनैव बाध्यत्वव्यवहारोपपत्तिरित्यत उक्तं सतोऽपि बाध्यत्वमित्यादि । तदर्थस्तु बाध्यत्वव्यवहारस्यासतीव सत्यपि सतोऽपि बाध्यत्व-मस्त्विति वदता त्वयाऽङ्गीकारेण तत्प्रयोजकासत्त्वरूपप्रतिपन्नोपाधौ निषेधप्रतियोगित्वस्यासति विद्यमानत्वेऽपि व्याघातापत्त्या सत्यभावेनासत्त्वमेव बाध्यत्वम् । अनुगतबाध्यत्वव्यवहारप्रयोजकम् । न तु वक्तुं शक्यत इति । न बाध्यत्वं वक्तुं शक्यत इति वाक्यात् परं सदसत्साधारणे बाध्यत्वव्यवहारस्य प्रतिपन्नोपाधौ निषेधप्रतियोगित्वेनानिर्वाह्यत्वादित्येतावान् ग्रन्थस्तदुत्तरमिति सकलेत्यादि पाठः । मूलकोशानुसारात् । तद्ग्रन्थस्यायमर्थः । प्रतिपन्नोपाधौ निषेधप्रतियोगित्वं बाध्यत्वव्यवहारप्रयोजक-मङ्गीकुर्वता तत्प्रयोजकवत्यसति तद्व्यवहारनिर्वाहकरणेऽपि न सार्वत्रिकतद्व्यवहारनिर्वाहस्तेन सम्भवति । व्यवहारस्य सतीवासत्यपि विद्यमानत्वेन तत्प्रयोजकस्य चासत्येव सत्त्वेन सत्यविद्यमानेन तेन तन्निर्वाहानुपपत्तेरिति । अनेन वक्तुमशक्यत्वं प्रागुक्तमुपपादितं भवति । इति सकलेति । इतिशब्दो हेतौ । तस्मादित्यर्थः । यस्मादुक्तरीत्या लोकविरोधादिप्रसङ्गो मूलोक्तोऽवर्जनीयस्तस्मात् । तद्विरोधादि-प्रसङ्गवारणायेति यावत् । व्यवहारादीत्यादिपदेन सैद्धान्तिकाभ्युपगमपरामर्शः । अन्यदेवेति । असत्त्व-रूपतत्प्रतियोगित्वादन्यदेव सदसत्साधारणमित्यर्थः । तदेवेति । तदेव दृष्टान्ते शुक्तिरजतादौ विद्यमानं साधनत्वेन विवक्षितमिति भावः । यदुक्तं लोकव्यवहारविरोधादिप्रसङ्गवारणायान्यदेव बाध्यत्वं वाच्यमिति तत्तथैवोच्यत इति समाधत्ते मूले त्वदभिमतस्येति । तत्रेति वक्ष्यमाणस्यात्रापि सम्बन्धः । तथा च तत्र सदसत्साधारणे बाध्यत्वव्यवहारविषये सर्वत्र त्वदभिमतस्य प्रतिपन्नोपाधौ निषेध-प्रतियोगित्वरूपबाध्यत्वस्याभावेऽपीति योज्यम् । अन्यस्य बाध्यत्वस्य तत्रेति । न च तत्र सर्वत्र यदेव बाध्यत्वं भवतोच्यते तदेवाहं दृष्टान्ते प्रतिपादयिष्यामीति मदाशय इति वाच्यम् । वक्ष्यमाणरीत्या सदात्मादिसाधारणस्य तस्यानिर्वचनीयत्वरूपसाध्यं प्रति हेतुत्वेनोपन्यासे व्यभिचाराप्रयोजकत्व-योरापातादित्याशयादिति सूरयो विदांकुर्वन्तु ॥ यदि तर्हीत्यादि मूलटीकागततदाशयौ । योजितौ सूक्ष्मबुद्धिस्तत्सावधानोऽवलोकयेत् ॥ नन्वेतत्प्रकरणेऽन्यथाविज्ञातस्येत्यादिरूपबाध्यत्ववचनं व्यर्थम् । शुक्तिरबाध्या तदारोपितं रजतं बाध्यमिति हि सर्वसंमतो व्यवहारः । न चानेन बाध्यत्वनिर्वचनेनोक्त-व्यवहारनिर्वाहः । प्रत्युत शुक्तेरपि बाधापादकतया व्यवहारविरोध्ये वा कयाचिद्विवक्षया भ्रमाधिष्ठान-मात्रस्य बाध्यत्वसंपादनमात्रमेवैतत् । सत्यत्वप्रतियोगित्वेन प्रसक्तं बाध्यत्वमेव तु वक्तव्यम् । अन्यथाविज्ञातस्येत्येतत्तु न तादृशम् । असतः सत्त्वप्रतीतिरिति तत्त्वनिर्णयानुसारि एवमसत इति मूलवाक्यादसतोऽप्युक्तविधबाध्यत्वोपपादनप्राप्तावपि न मिथ्यात्वव्याप्यतया तत्प्राप्तिः । बाध्यं बाध्यमिति लोकव्यवहारोऽपि अधिष्ठानतया बाधविषयत्वं परित्यज्य निषेध्यत्वेन बाधविषयत्व-मादायैवोपपाद्यः । सदसत्साधारणबाध्यत्वप्रसक्तिस्तु सिद्धान्तिना वृथा कार्या । मिथ्यात्वसाधकभूतस्यैव बाध्यत्वस्य प्रसक्तिप्रतीतेरित्यादि शङ्का परिहरणीयास्ति ।

इति निर्देष्टव्य इति । प्रकृतप्रधानबाध्यत्ववाचि तदिति तच्छब्दार्थेन सामानाधिकरण्योपपत्तय इति शेषः । वा निर्देष्टव्य इति । तथा सत्येवान्यथेत्युक्तप्रकारवैपरीत्यस्य स्पष्टत्वलाभेन सम्यगित्यनु-क्तवाऽध्यस्तवस्त्वभावविज्ञानं विरोधिशुक्तित्वादिभावान्तरविज्ञानमित्येवमेव वक्तव्यत्वादिति भावः । सम्यगिति सामान्येनेति । विज्ञानमित्यस्यापि सम्बन्धे सत्येव सम्यग्विज्ञानमिति संपूर्णार्थप्राप्तावपि तदंशस्यात्र व्यावर्त्यकथनाभावादग्रहणम् । वक्ष्यमाणवादिद्वयरीत्या बाधरूपत्वेन प्राप्तयोरध्यस्त-वस्त्वभावबोधविरोधिभावान्तरभावयोरुभयोरप्यन्यथाविज्ञातस्य सम्यग्ज्ञानरूपत्वेनान्यथाविज्ञातस्य सम्यग्विज्ञानमित्ययं निर्देशस्तदुभयसाधारण इति भावः । तेनेति । भाष्यकारीयनिर्देशद्वयेनेत्यर्थः । उभयसाधारण्येनैवेति । अध्यस्तेत्यादिनोक्तोभयविधबाधसाधारण्येनैवेति द्वितीयनिर्देशज्ञाप्यकथनम् । विज्ञानमिति प्रथमनिर्देशज्ञाप्यकथनं बाधेति । तथा च बाधलक्षणम् अध्यस्तेत्यादिप्रकारेण द्विरूपं प्राप्तम् । तदुभयं वक्ष्यमाणरीत्या प्रत्येकमव्याप्तमित्यतोऽन्यथाविज्ञातस्य सम्यग्विज्ञातत्वरूपेणानुगती-कर्तव्यं तदा चान्यथाविज्ञातस्य सम्यग्विज्ञानं बाध इत्युक्ते अध्यस्तवस्त्वभावबोधो विरोधिभावान्तरज्ञानं वोक्तरूपं भवतीति सर्वत्रैकरूप एव बाधः सिद्धो भवतीत्येवं निष्कर्ष इत्यर्थः । इति मनसीत्यत्रेति शब्दस्तन्त्रेणोपात्तः पूर्वत्रोत्तरत्र च सम्बध्यते । निधायेत्यस्येत्याहेति वक्ष्यमाणेनान्वयः । सामान्येन परामर्शे नपुंसकमिति । भिन्नलिङ्गतयोपस्थितानेकसाधारणपरामर्शे नपुंसकमित्यर्थः । वक्ष्यति च । अनेकभिन्नलिङ्गनिर्दिष्टयोः सामान्येनेत्यादि । शिष्टं तच्चाविशेषमानेनेत्यनुभाष्यमूलटीकायां प्रागुपपादितं द्रष्टव्यम् । शेषपूरणेन चेति । एतद्योजनान्ते मूले तत्पूरणादिति भावः । एतट्टीकाकारेति । एष चासौ टीकाकाराशयश्चेति विग्रहः । उभयसाधारण्येनैवेत्याद्युक्ताशयेत्यर्थः । ननूपसर्जनतया प्रकृतबाध-सामान्यपरामर्शादिकं प्रकारान्तरेण व्याख्यानसम्भवादेव कृतमिति किं न स्यात् । तथा च न तज्ज्ञापकमित्यत उक्तं प्रकृतप्रधानेत्यादि । प्रकृतप्रधानपदोपादानेन अप्रकृताप्रधानबाधपरामर्शापेक्षया बाध्यत्वपरामर्शः स्वरस इति सूचयति । पूर्ववत् । पूर्वत्र विज्ञानमेव तद्विषयत्वेन वेति योजनादिति भावः । लक्षणामात्रेत्यनेन शेषपूरणादि व्यावर्तयति । उपपत्तावित्यनन्तरं तद्विहायेति शेषः । अस्मिन् व्याख्यान इति । लक्षणाश्रयणेन प्रवृत्तव्याख्याने तदाश्रयणमात्रम् । सामान्येन परामर्शाश्रयणेतु ब्रह्माश्रयणीयमिति मूलोक्तयोजनायां कुसृष्टिरित्यर्थः ।

अधिकार्थेति । बाधलक्षणलाभादिरूपेत्यर्थः । ननु बाधस्वरूपनिरूपणाभिप्रायेऽपि तदित्यनेन नपुंसकेन परामर्शोपपत्त्यर्थं तद्विषयतया प्रकृत्यर्थबाधनमेवोच्यताम् । किं पुन्नपुंसकशब्दनिर्दिष्टयोरुभयोः साधारणबाध इति पुल्लिङ्गोक्तयोः सामान्येन परामर्श इत्यङ्गीकारेण । तथा च यथास्थिते नपुंसक-परामर्शलाभात्सामान्येन तत्परामर्शकुसृष्टिर्नास्तीत्याशङ्कां परिहरति अत्र प्रकृत्यर्थेति । उभयोरपि लक्ष्यत्वेति । न स्थाणुः पुरुषोऽयमित्युभयोरध्यस्तवस्त्वभावबोधविरोधिभावान्तरज्ञानरूपबाधत्वेन संमतयोर्लक्ष्यत्वेत्यर्थः । तयोरुभयोरपि प्रामाणिकानां बाध इति व्यवहारसत्त्वेन तल्लक्ष्यतायाः सूचनं युक्तमिति भावः । अव्याप्तीति । न स्थाणुरित्यादिरूपबाधयोर्लक्ष्यभूतयोरध्यस्तेत्यादिनोक्तलक्षणद्वयस्य प्रत्येकमव्याप्तीत्यर्थः । सूचनमपीति । अनेन तदुभयमव्यापकमिति मूलकारोक्तिर्भाष्यमूलिकेति ध्वनितम् । इत्येवमिति । एवं बाध इति पुल्लिङ्गनिर्देशेनोपस्थाप्यत्वमाश्रित्य तदिति सामान्येन व्याख्यान मित्यभिप्रायेणेति योज्यम् । अनेनोपपत्तावपीत्युक्तव्याख्यानं परित्यज्येति लभ्यते । कस्यापीति । तथा च तदुभयसङ्ग्रहाय सामान्येन वचनं न कार्यमिति भावः । निर्देश इति । तथा च सामान्येन परामर्शोऽपि व्यर्थ इति भावः । तैस्तैरपरस्येति । अध्यस्तवस्त्वभावबोधो बाध इति बाधलक्षणं वदद्भिस्तादृशत्वे-नाङ्गीकृतनस्थाणुरित्यादेरेव लक्ष्यत्वाङ्गीकारेऽपि विरोधिभावान्तरज्ञानरूपपुरुषोऽयमित्यादेरनेवंरूपस्य लक्ष्यत्वं नाङ्गीक्रियत इति तत्राध्यस्तेति लक्षणस्याभावेऽपि नाव्याप्तिरेवं द्वितीयलक्षणेऽपि न स्थाणु-रित्यस्य लक्ष्यत्वाङ्गीकारो व्याख्येयः । न त्वेकलक्षणस्यापरलक्षणेऽव्याप्तिपरिहाराय तस्या-लक्ष्यत्वाङ्गीकार इति भ्रमितव्यम् । लक्षणस्य लक्षणान्तरसङ्गृहीतेऽव्याप्तेरेव व्याख्येयत्वेऽपि लक्षणान्तंरे तदप्रसक्तया तत्परिहाराय यत्नासङ्गतिप्रसङ्गात् । एवमेव साधनाश्रययोरन्यतरत्वमित्यादौ परस्परा-व्याप्तिर्व्याख्येयेति ज्ञेयम् । शाब्दादाविति मूले शाब्दबाधस्थले आनुमानिकबाधस्थले चेत्यर्थः । तत्र च शब्दानुमानस्थले उभयोर्बाधत्वं यथोपपादनानपेक्षमेवास्ति । नैवं प्रत्यक्षेऽस्ति । तत्राध्यस्तवस्त्व-भावबोधे विरोधिभावान्तरभानयोर्बाधतया सिद्धत्वेन तन्न्यायेन प्रत्यक्षेऽपि तयोरुभयोस्तत्स्वीकार्य-मित्युपपादनसापेक्षमेव तयोः प्रत्यक्षेऽपि बाधत्वकल्पनम् । एतदाशयेनैव मूले प्रत्यक्षपरिग्रहो न तु शब्दानुमानसमकक्ष्यतयेति । मूलाशयं स्पष्टयितुमध्यस्तेत्यादिद्विरूपबाधस्य शाब्दादौ सम्भवं तावत्प्रतिपादयति स्थाणुरयमित्यादि । स्थाणुरयमित्येतद्बाधकतया न स्थाणुरिति वाक्यस्येव पुरुषोऽयमिति वाक्यस्यापि बाधत्वेत्यादिरूपेण योजना । न द्रव्यमित्यनुमानस्येति योजनायां बहिरिन्द्रियव्यवस्थाहेतुत्वं हेतुर्द्रष्टव्यः । शब्दो गुण इत्यनुमानेऽपि स एव हेतुः । सामान्यवत्त्वे सति अस्मदादिबाह्यैकेन्द्रियग्राह्यत्वादिति हेत्वन्तरं वा ज्ञेयम् । समानेति । शब्दादिस्थलीयबाधाभ्यां प्रत्यक्षस्थलीयबाधयोः साम्यादित्यर्थः । एकेनान्योक्तापरस्यालक्ष्यत्वाङ्गीकारमन्यथयति परेति ।

व्याख्यानरूपमिति । तत्त्वनिर्णये विस्तरेण प्रतिपादितस्यात्र सङ्कोचकरणेनैव तद्भाष्यं तद्व्याख्येयमिति भावः । अस्य लक्षणत्व इति । सम्यग्ज्ञानत्वमात्रमस्येत्यनेन परामृश्यते घटादिज्ञाना-नामिति । सर्वमपि सम्यग्ज्ञानमित्येतन्मूलस्य विवरणमेतत् । घटादिज्ञानलक्षणसम्यग्ज्ञानमात्र-स्येत्यर्थः । अत एव तस्य लक्ष्यत्वेऽपीत्यत्र तस्येति सम्यग्ज्ञानत्वेनैव परामर्शः । सम्यग्ज्ञानमात्रस्य चेत्युत्तरत्रोक्तिश्चेति ज्ञेयम् । व्यवहाराभावपर्यन्तगमने निमित्तकथनं द्रव्यादीति । विरोधिविषयत्वेति । धारावाहिकस्थलेऽन्यथाविज्ञातस्य ज्ञानत्वे सत्यपि विरोधिविषयकज्ञानत्वस्याभावान्न तत्रातिव्याप्तिरिति भावेन तद्विवक्षायामपीत्यर्थः । अतिव्याप्तिरेवेति । रजतत्वेन ज्ञातस्य पुनर्नागत्वेन ज्ञाने नागत्वेन ज्ञातस्य पुनर्वङ्गत्वेन ज्ञानेऽतिव्याप्तिः स्यादेवेत्याहेत्यर्थः । पूर्वज्ञानेति । रजतत्वेन विज्ञानं नागत्व-ज्ञानात्पूर्वजातम् । नागत्वज्ञानं च वङ्गत्वज्ञानात्पूर्वमिति विवेकः । लोडनरूपतयेति । तल्लोडनस्यैव बाधपदार्थत्वात् । रजतत्वेन ज्ञानोत्तरनागत्वादिज्ञानानां पूर्वज्ञानप्रसञ्जितान्यथाकारलोडनत्व-रूपलक्ष्यतावच्छेदकावच्छिन्नतया लक्ष्यत्वेन तत्रातिव्याप्तिवचनायोगात्तन्निरासाय सम्यगिति पदोपादानं न युक्तमित्यर्थः । लक्ष्यतावच्छेदकेऽन्यथाकारपदं हि अन्यथाविज्ञातस्येत्यत्रान्यथेति थाल्प्रत्ययोक्तानु-सारेण । तथाच यावान् भ्रमविषय आकारः स सर्वोऽप्यन्यथेति थालोक्त एवेति लक्ष्यतावच्छेदक-शरीरप्रविष्टान्यथाकार एव नागवङ्गत्वादिर्भवतीत्यतो नागवङ्गत्वादिज्ञानमन्यथाकारज्ञानमेवेति तल्लोडन-रूपं न भवति । तादृशं हि भवत्सम्यग्ज्ञानमेव भवेत् । तस्यैव यावदन्यथाकारविरोधिविषयतया तल्लोडनत्वसम्भवात् । न तु यत्किञ्चिदन्यथाकारविषयकमाकारान्तरावभासविरोधिमात्रमपीति भावेनाह भ्रमविषयत्वेनेति । तस्यैवेति । पूर्वप्रसञ्जितान्यथाकारत्वावच्छिन्नलोडनरूपस्यैवेत्यर्थः । उक्तलोडनत्व-मेव लक्ष्यतावच्छेदकमिति तदनवच्छिन्नतया भ्रमस्यालक्ष्यत्वेन तत्रातिव्याप्तिनिरास एव कर्तव्यो न तु तल्लक्ष्यत्वाभ्युपगमेन तन्निरासः । बाधकबाध्यव्यवस्थायाः सर्वैरङ्गीकारेण नागत्वादिज्ञानस्थले चोक्तरीत्या बाधकत्वप्रसङ्गेन तन्निराकरणाय वैवक्षिकबाध्यस्य लक्ष्यताया वाच्यतया तादृशबाध एव लक्षणसत्त्वस्यातिव्याप्तिरूपत्वाभावेऽप्यतादृशतत्सत्त्वमतिव्याप्तिरूपमेवेति भावः । अतिप्रसङ्गान्तरेति । घटस्यैव पटाद्यपेक्षयेति वक्ष्यमाणातिप्रसङ्गेत्यर्थः । तर्हि स्वरूपापेक्षयेति विशेषणीयम् । तदभावेऽति-प्रसङ्गनिरासायोगादित्याशङ्क्यान्यथाविज्ञातस्य पदार्थस्येतिशब्दसमभिव्याहारेण पदार्थस्य यत्स्वरूपं ततोऽतिरिक्तप्रकारेणेत्येवान्यथेत्यनेन गम्यमानत्वाद् विशेषणानुपादानेऽपि तदर्थलाभादतिप्रसङ्ग-निवृत्त्युपपत्त्या न दोष इत्यादिरूपमुत्तरवाक्याशयमाह ननु स्वरूपेति । अर्थान्तरकल्पनयेत्यनेनैव परोक्तस्य तदभिप्रेतादर्थादर्थान्तरं परिकल्प्य तद्दूषणेन तद्भङ्गश् छलमिति छललक्षणानुगमो दर्शित इति ज्ञेयम् । स्थलान्तर इति । रजतत्वेनावगतस्य शुक्तिकेत्याद्युक्तस्थलत्रय इत्यर्थः । अनेनैव प्रसङ्गोऽपीत्यतःपरं तदवस्थ इत्यनुवर्तत इत्यपि सूचितम् । अनेनेति चेदित्यन्तं मूलं तात्पर्यतो विवृतम् । कालान्तरपुरुषान्तरभाविज्ञानयोर्यदि प्राचीनभ्रान्त्युन्मूलनायैव पुरुषोत्पाद्यत्वं तर्हि तयोर्बाधत्वमिष्ट-मेवेत्यत उक्तं मूले आजानसिद्ध इति । स्वभावसिद्धे शुक्तिकेन्द्रियसंप्रयोगादिसामग्रीसद्भावमात्रेणोत्पन्न इति यावत् । तथाच तस्य पूर्वभ्रान्त्युन्मूलनेन प्रवृत्त्यभावान्न लक्ष्यत्वमित्याशयो ज्ञेयः ।

मैवं बाधतिरित्यादेस् तात्पर्यमाह बाधशब्दार्थेत्यादि । अनेन वाक्येनेति । विज्ञातस्यान्यथेति लक्षणवाक्येनेत्यर्थः । बाधशब्दार्थपरेति । लक्ष्यतावच्छेदकरूपप्रदर्शकधातुसूत्रेत्यर्थः । लोडनरूपस्येति । लक्ष्यतावच्छेदकानुसारेणैव लक्षणगतसम्यग्ज्ञानपदार्थस्य वाच्यत्वादिति भावः । धातुसूत्रमुदाहरतीति । अनेन बाधतिरिति मूले बाधृविलोडन इति धातुसूत्रमर्थतोऽनूदितमिति सूचितम् । यथाकथञ्चिदिति । उत्तरज्ञानेन पूर्वज्ञाननिवृत्तिरेव भवतीति तस्य तल्लोडनत्वम् । पुरुषान्तरकालान्तरभाविज्ञानयोस्तु विरोधिविषयकत्वेन लोडनत्वमित्येवं कथञ्चिदित्यर्थः । मूले अस्त्वित्यस्य वक्तव्यमित्यर्थः । अन्यथेति । बाधकेनैव विनाशो न तु तदन्यव्यासङ्गादिनापीत्यङ्गीकार इत्यर्थः । तत्रेति । पूर्वज्ञाननिवृत्तावित्यर्थः । अनेन स्वत एव ज्ञानस्य नाशो नाम स्वकारणक इत्यादिरर्थोऽनुपपन्न इत्यतो व्यासङ्गादिना नाशेऽपि बाधकेन नाशाभाव इत्यभिप्रायेणैव स्वत इत्येतद्योज्यमित्युक्तं भवति । अत एवोत्तरक्षण एवेत्यनेन क्षणिकत्वमुत्तरक्षणे बाधावतारनियमपक्षे सम्भवतीति वदता क्षणिकत्वनिर्वाहायोत्तरक्षणे विनाशक-समवधानं कथञ्चित्स्वीकार्यमिति प्रतिपादितमिति ज्ञेयम् । नास्त्यपीति । अनेन व्यवहारप्रसङ्गाच्चेति चशब्दार्थान्तर्भावेन मूलं योजनीयमिति सूचयति । बाधविचारावसरे बाध्यत्वव्यवहारापादनमसङ्गत-मित्यपि न शङ्कनीयम् । अर्थविशेषाभावेन व्यवहारस्योभयथाऽप्युपपत्तेरित्याशयेन मूलोक्तबाधितत्व-व्यवहारं परित्यज्य स्वयं बाधकत्वव्यवहारपुरस्कारः कृत इति ज्ञेयम् । तर्हीति । यदि ज्ञानार्थयोर्लोडना-भावस्तर्हीत्यर्थः । इहेति शेषः । स्मृत्यर्थ इति । पाणिनिस्मृतिरूपधातुसूत्रार्थ इत्यर्थः । तदसहन-तयेत्यादि । तदुपमर्देन जायमानत्वसहिता चासौ तज्जनितप्रवृत्त्यादिफलपरम्पराविघटकता चेति शाकपार्थिवादित्वान्मध्यमपदलोपीसमासः । द्वन्द्वैकवद्भावमाश्रित्य नपुंसकलिङ्गाभाव इत्यप्याहुः । निबन्धे उदयनेनापीति । स्मृत्यर्थनिष्कर्षेऽपीति । तावता लक्ष्यतावच्छेदकनिष्कर्षलाभेऽपीत्यर्थः । भूतप्रत्ययेनेति । क्तप्रत्ययेनेत्यर्थः । अन्यथेत्यनेनेति । प्रकारार्थकथाल्प्रत्ययान्तेनेत्यर्थः । सम्यग्विज्ञान-मित्येवानुक्तवा अन्यथाविज्ञातस्येत्यधिकविशेषणोपादानसामर्थ्यात्पूर्वसंप्रयोजितेत्यादि विशेषलाभ इत्युक्तमाक्षिपति न च सर्वसम्यगिति । तद्विशेषणम् अन्यथाविज्ञातस्येति विशेषणम् । भाष्याभिमतं किमिति । भाष्यकाराभिमतमिति किं न स्यादित्यर्थः । तथाच तद्वारणस्य भाष्याभिमतत्वकल्पना-योगान्नान्यथाविज्ञातस्येति विशेषणोपादानसामर्थ्यं कल्पनीयमित्याशयः । बाधत्वेनेति । धातुस्मृत्यनु-सारेण पूर्वज्ञानप्रसञ्जितान्यथाकारलोडनत्वस्यैव लक्ष्यतावच्छेदकतया तद्रूपबाधत्वेन व्यवह्रियमाण-स्यैवेत्यर्थः । स्मृत्युक्तलोडनस्य भाष्यात्कथं लाभस्तद्वाचकपदाभावादित्यत आह षष्ठ्यर्थतयेति ।