ज्ञानबाध्यत्वमपि तु न सिद्धं प्रतिवादिनः
पराभिमतबाध्यत्वखण्डनम्
अनुव्याख्यानम्
ज्ञानबाध्यत्वमपि तु न सिद्धं प्रतिवादिनः ॥
विज्ञातस्यान्यथा सम्यग्विज्ञानं ह्येव तन्मतम् ।
सुधा
एवं प्रतिज्ञां निराकृत्य हेतुमप्यपाकरोति ॥ ज्ञानबाध्यत्वमिति ॥ न केवलं प्रतिज्ञा दुष्टा । किं नाम हेतुभूतं ज्ञानबाध्यत्वमपीत्यर्थः । तुशब्दः सिद्धान्त्यभिमताज्ज्ञानबाध्यत्वाद्य्व-वच्छिनत्ति । ज्ञानबाध्यत्वं हि ज्ञाननिवर्त्यत्वं वा प्रतिपन्नोपाधौ निषेधप्रतियोगित्वं वा हेतुत्वेन परस्याभिमतम् । न च प्रपञ्चे तत्प्रतिवादिनो मम सिद्धम् । अतोऽन्यतरासिद्धो हेतुरिति । नन्वीश्वर-ज्ञानेन प्रपञ्चनिवृत्तिस्त्वयाऽपीष्यत एव । अन्यथा तस्य संहारकर्तृत्वानुपपत्तेः । ज्ञानादिमत एव कर्तृत्वात् । सत्यम् । नैवं ज्ञाननिवर्त्यत्वं परस्याभिप्रेतम् । अपि तर्ह्यज्ञानोपादानकस्य समाने विषये विरोधिना ज्ञानेनोपादाने निवृत्ते स्वयमेव विलपनम् । यथाऽऽह ॥ ‘अज्ञानस्य स्वकार्येण वर्तमानेन प्रविलीनेन वा सह ज्ञानेन निवृत्तिर्बाध’ इति । न चायं प्रपञ्चेऽस्माकं संमतः । किन्तु मुद्गरप्रहारादिना घटस्येवेश्वरस्य ज्ञानेच्छाप्रयत्नव्यापारैर्विनाश एव । स एव हेतुरस्त्विति चेन्न । तथाविधमपि ज्ञानबाध्यत्वं पक्षैकदेशे प्रकृत्यादौ न सिद्धं प्रतिवादिन इति भागासिद्धत्वात् ।
किञ्च सत्यस्यापि ज्ञानविनाश्यत्वमस्तु । न च विपक्षे किञ्चिद्बाधकमस्तीत्यतोऽप्रयोजकत्वा-ज्ज्ञानबाध्यत्वं न सिद्धमपि व्याप्यत्वासिद्धमपीति यावत् । प्रतिवादिनो मतेनेति गुडजिह्विका-मात्रम् । बाधकानुपन्यासे वादिनोऽपि व्याप्यत्वासिद्धेरावश्यकत्वात् । सतो विनाशे चैतन्यस्यापि विनाशप्रसङ्ग इति चेत् । तर्हि विनाशमात्रस्य साध्यप्रयोजकत्वेन ज्ञानबाध्यत्वमसिद्धमपि । व्यर्थविशेषणासिद्धमपि स्यात् । नाश्यत्वमात्रं हेतुर्ज्ञानेति स्वरूपकथनमात्रम् । स चोक्तबाधक-सानाथ्येन नाप्रयोजक इति चेन्न । सत्त्वसाम्येऽपि विनाशकारणसदसद्भावेन विशेषस्योक्तत्वात् । ननु च नेहनानाऽस्तीति प्रतिपन्नोपाधौ श्रौतनिषेधात्मा बाधः प्रपञ्चेऽस्तीति चेन्न । श्रुत्यर्थ-निर्णयोत्तरकालमेवैतत् । स एव तूपपत्तिविरोधादशक्य इत्युच्यमानत्वात् । अथवा ज्ञानबाध्यत्व-मसिद्धं व्याप्तिरहितमपीति योज्यम् । तथा हि । किं त्वदभिमतं ज्ञानबाध्यत्वमत्र हेतूक्रियते किं वाऽस्मदभिमतमिति वाच्यम् । आद्यं चेदुक्तन्याये न सिद्धं प्रतिवादिनः । द्वितीये व्याप्तिवैधुर्य-मिति । तत्कथमित्यत आह ॥ विज्ञातस्येति ॥ हि यस्मादन्यथाविज्ञातस्य सम्यग्विज्ञानमेव बाधस्तद्विषयत्वमेव तद्बाध्यत्वं मतमस्माकम् । तच्चात्मनि विपक्षे गतमिति व्याप्तिविकलमिति वाक्यशेषः । सत्योऽप्यात्मादेहाद्यात्मना विज्ञातो वेदान्तजनितसम्यग्विज्ञानवृत्तिविषय इति परेणाप्यङ्गीकार्यम् । अन्यथा अविद्यानिवृत्त्यनुपपत्तेरिति ।
वाक्यार्थचन्द्रिका
अपि शब्दस्वारस्यानुरोधाज्ज्ञानबाध्यत्वरूपसाध्यान्तरनिराकरणपरमुत्तर-वाक्यनित्याभाति । तथात्वे च साध्ये प्रतिवाद्यसिद्धत्वस्य भूषणत्वेन दूषणासङ्गतिरित्यतस्तत्तात्पर्यमाह ॥ एवमिति ॥ यद्यपि परेण सदसद्विलक्षणत्वस्येव ज्ञानबाध्यत्वस्याप्यनिर्वचनीयतयोक्तत्वात्सद-सद्विलक्षणत्वरूपानिर्वचनीयत्वं निरस्य ज्ञानबाध्यत्वरूपं तन्निराकरोतीति साध्यान्तरनिराकरण-परतयाऽपीदं व्याख्यातुं शक्यं तथाऽपि साधकत्व मिथ्यात्वोपपादनोपयोगितया सदसद्वैलक्षण्यस्यैव प्रस्तुततयाऽनिर्वचनीयत्वसामान्यस्याप्रस्तुतत्वेन तस्य साध्यतया निर्देशा‘न्न सिद्धं प्रतिवादिन’ इत्यस्यास्वारस्याच्च तथा न व्याख्यातमिति ध्येयम् । ननु तर्ह्यपिशब्दानुपपत्तिः । न केवलं प्रतिज्ञाऽसिद्धा किन्तु हेतुरपीति व्याख्यानेऽप्यसिद्धेर्भूषणत्वेन प्रतिज्ञादूषणत्वाभावात्पूर्वं प्रतिज्ञायां तस्य अनुक्तेश्चानु-पपत्तिरेवेत्यतो दुष्टत्वरूपसामान्ये समुच्चयमभिप्रेत्य तदर्थमाह ॥ नेति ॥ ननूत्तरवाक्ये ज्ञानबाध्यत्वस्य प्रतिवादिसम्मतत्वोक्त्या तद्विरोधोऽसिद्धत्वोक्तेरित्यत आह ॥ तुशब्द इति ॥ शुक्तिरजतादौ पराभ्युपेतयोर्ज्ञाननिवर्त्यत्वप्रतिपन्नोपाधौत्रैकालिकनिषेधप्रतियोगित्वरूपयोर्बाध्यत्व-योर्यथैकस्य वस्तुतोऽसिद्धावपि नापरस्यासिद्धिर्न तथा प्रकृते किन्तु प्रपञ्चे पराभिमतयोरुभयोरुप्य-सिद्धिरित्याशयेन तुशब्दलब्धविशेषस्वरूपं दर्शयन्नेवासिद्धिमुपपादयति ॥ ज्ञानेति ॥
ज्ञानेन प्रपञ्चनिवृत्तिस्त्वयाऽपीप्यत एवेति वदन्प्रष्टव्यः । हेतुत्वेन मदभिमतस्यैवत्वदभिमत-त्वान्नान्यतरासिद्धिरित्याशय उत स्वाभिमतज्ञाननिवर्त्यत्वस्य वैलक्षण्येऽपि यथाकथञ्चिज्ज्ञान-निवर्त्यत्वस्य त्वदभिमतत्वात्तस्यैव च मया हेतुत्वेनोपन्यासान्न प्रतिवाद्यसिद्धिरिति । नाद्यः । त्वदभि-मतस्य हेतुतयोपन्यस्तस्य न मदभिमतत्वमतः प्रतिवादिनं मां प्रत्यसिद्धिरेवेत्याह ॥ नैवमिति ॥ स्वयमेवेति ॥ ज्ञानस्य पृथक् तत्र व्यापाराभावमाहोपादाननिवृत्तिद्वारा प्रयोजकत्वमस्त्येवेति ज्ञाननिवर्त्यत्वमक्षतमेवेति भावः । अथवेश्वरव्यापारनिवृत्त्यर्थमेतदिति ज्ञेयम् । विवरणकारेण बाधलक्षणान्तरनिराकरणेनाज्ञानस्य ज्ञानेन निवृत्तिर्बाध इति तल्लक्षणमभिप्रेत्योक्तमज्ञानस्येति । तदत्र सम्मतितयोदाहरति ॥ यथाऽऽहेति ॥ घटादिज्ञानेन जायमानाया घटाद्यज्ञाननिवृत्तेरपि बाधत्वापत्तेराह ॥ स्वकार्येणेति ॥ वार्तमानिककार्यसहिताज्ञाननिवृत्तेर्बाधत्वे विपर्ययोत्पत्त्यनन्तरं मनसो विषयान्तर-सञ्चारे समयान्तरे शुक्तिलोचनसंयोगजाधिष्ठानज्ञानेना ज्ञाननिवृत्तौ वार्तमानिककार्यध्वंसाभावेना-व्याप्त्यापत्त्या प्रविलीनकार्यसहिताज्ञाननिवृत्तेर्बाधत्वे च वार्तमानिककार्यसहिताज्ञाननिवृत्तौ तदभावेना-व्याप्त्याऽऽपत्त्यानैतल्लक्षणमित्यतः कार्यान्तराकारेण परिणताज्ञाननिवृत्तिर्बाध इत्यनुगतमुभयत्राप्य-स्तीत्याशयेन वर्तमानेन प्रविलीनेन वेत्युक्तम् । अविद्यानिवृत्तिरूपपराभिमतद्वारप्रतियोगितयेच्छाप्रयत्न-ग्रहणमिति बोध्यम् । द्वितीयं शङ्कते ॥ स एवेति ॥ यद्यप्यत्रैतादृश्यस्य तवासिद्धेरन्यतरासिद्धिता-दवस्थ्यमित्यपि दूषणं वक्तुं युक्तं तथाऽपि प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वमङ्गीकुर्वताऽपि स्वरूपेण ध्वंसस्येवाज्ञाननिवृत्तिप्रयुक्तविलयनं वदताऽपि मया स्वरूपेण ध्वंसोऽभ्युपगम्यत इत्यपि परेण वक्तुं शक्यत्वात्प्रतिवादिशब्दोपेतभाष्यवाक्यारूढतयाऽस्य वक्तुमशक्यत्वाच्च तदारूढं दूषणमाह ॥ तथेति ॥ अनेनात्र तुशब्दो वाद्यभिमतज्ञानबाध्यत्वव्यवच्छेदार्थः । अथवा प्रतिवादिन इत्यस्य ज्ञानबाध्यत्वमित्यनेनापि सम्बन्धः । पक्ष इति योग्यतया सम्बद्धेन तुशब्दसम्बन्धः । एवं च पक्षविशेष इति सिध्यति । अपिशब्दस्य ज्ञानबाध्यत्वमित्यनेन सम्बन्ध इत्यभिप्रेत्य भाष्यं योजितं भवति । ननु चतुर्विधनाशेषु यस्य कस्य चिदपीश्वरातिरिक्ते त्वयाऽङ्गीकारान्न भागासिद्धिरित्यतस्तथात्वेऽप्य-प्रयोजकत्वं स्यादेवेत्याशयेनाह ॥ किञ्चेति ॥ तन्निष्ठासिद्ध्युक्तेस्तद्धर्मभूतव्याप्त्यसिद्धिविषयकत्व-विवक्षामभिप्रेत्य तात्पर्यमाह ॥ व्याप्यत्वासिद्धमिति ॥ अन्यतरासिद्ध्यादि वदन्यतराप्रयोजकत्वमपि दूषणमिति भ्रान्तिं निवारयति ॥ प्रतिवादिन इति ॥ तर्हीति ॥ यद्यपि सत्त्वसाम्येऽपीत्यादिना वक्ष्यमाणदूषणमादावेव वक्तुं युक्तं तथाऽपि परोक्तहेतोर्व्यर्थविशेषणासिद्धिमपि दर्शयितुं प्रकारान्तरेण भाष्यं योजितमिति ध्येयम् ।
तर्के विशेषव्याप्तेरभावादविशेषप्रयुक्तसामान्यव्याप्तेश्चोक्तरीत्याऽविशेषासिद्धेरनुपपत्त्या व्याप्ति-शून्योऽयं तर्काभास इत्याह ॥ सत्त्वेति ॥ असिद्धत्वेन प्रतिज्ञातबाध्यत्वयोर्मध्ये ज्ञाननिवर्त्यत्वरूपस्य तस्यासिद्धिमुपपाद्य प्रतिपन्नोपाधौ निषेधप्रतियोगित्वरूपस्य बाध्यत्वस्यापि तामुपपादयितुं, नन्वस्तु ज्ञाननिवर्त्यत्वरूपस्य तस्यासिद्धिर्न तु प्रतिपन्नोपाधौ निषेधरूपस्य तस्य नेह नानेति निषेधस्य जागरूकत्वात्तस्यैव च हेतुतयोपन्यास इत्याशङ्कते ॥ नन्विति ॥ तस्याप्यसिद्धिरेव । श्रुतेरर्थान्तरपरत्वेन तत्परत्वाभावात् । अन्यथाऽन्योन्याश्रयाद्यापत्तेरित्याशयेनाह ॥ श्रुत्यर्थेति ॥ ननूत्तरवाक्यमसङ्गतम् । प्रपञ्चबाध्यत्वस्य शुक्तिरजतादिवल्लोकव्यवहारासिद्धतया तदुपपादकतयोत्तरत्रेवात्र योजयितुमशक्य-त्वादिति चेन्न । तस्यास्मदभिमतज्ञानबाध्यत्वहेतुविवक्षायां व्यभिचारप्रदर्शकत्वेन सङ्गतत्वात् । न च पूर्ववाक्यमेव पराभिमतज्ञानबाध्यत्वव्यभिचारप्रदर्शकतया किं न व्याख्यायत इति वाच्यम् । शुक्तिरजता-देर्दृष्टान्ततयाऽसतश्च ज्ञाननिवर्त्यताया उभयासम्मतत्वेन प्रतिपन्नोपाधौ निषेधप्रतियोगित्वस्य च परं प्रत्युपपादनीयत्वेन ब्रह्मणश्चोभयविधज्ञानबाध्यत्वस्योभयासम्मत्या परोक्तज्ञानबाध्यत्वस्य व्यभिचार-स्थलाभावेन स्वाभिमतज्ञानबाध्यत्वस्य हेतुत्वविवक्षायामेव व्यभिचारस्य वक्तव्यतयोत्तरवाक्येन तदुप-पादनाय पूर्ववाक्ये ज्ञानबाध्यत्वं न सिद्धमपीत्यंशमसिद्ध्यव्याप्तिरूपदूषणद्वय प्रतिज्ञापरत्वेन योजयित्वा ततो विकल्पान्विधाय विशेषार्थकतुशब्दं ज्ञानबाध्यत्वमित्यनेन योजयित्वा ज्ञानबाध्यत्वम सिद्धमित्यं-शमावर्त्य पराभिमतो ज्ञानबाध्यत्वविशेषो हेतुश्चेदसिद्धः प्रतिवादिनः, स्वाभिमतस्तद्विशेषश्चेद्य्वाप्ति-वैकल्यमिति योजयित्वा तदुपपादकतयोत्तरवाक्यं योजनीयमित्याशयेनाह ॥ अथवेति ॥ अथवा प्रतिज्ञां विकल्पांश्च मनसि निधाय दूषणोक्तिमात्रपरं भाष्यमित्याशयेनाह ॥ अथवेति ॥ अस्मिन्पक्षेऽपि शब्दोऽनुक्तव्याप्तिवैधुर्यसमुच्चयार्थः ॥ अन्यथेति ॥ वेदान्तजन्यसम्यग्ज्ञानरूपवृत्तेरात्मविषयकत्वाभावे तस्या आत्मविषयकाविद्यानिवर्तकत्वानुपपत्त्या चैतन्यमात्रस्य चाविद्याविरोधित्वाभावेनाविद्या-निवृत्त्यनुपपत्तेरित्यर्थः ।
परिमल
प्रतिज्ञामिति ॥ विवादपदं सदसद्विलक्षणमिति प्रतिज्ञां वैलक्षण्यं सतश्चेत्यादिना निराकृत्येत्यर्थः ॥ सिद्धान्त्यभिमतादिति ॥ अन्यथाविज्ञातस्य सम्यग्विज्ञातत्वरूपस्य वा वक्ष्यमाण-दिशेश्वरज्ञाननाश्यत्वरूपस्य वा सिद्धान्त्यभिमतबाध्यत्वस्य पक्षे सत्त्वान्न सिद्धमित्ययुक्तं स्यादतः पराङ्गीकृतं ज्ञानबाध्यत्वं त्वित्युक्तमिति भावः । ‘अज्ञानस्य स्वकार्येण, वर्तमानेन प्रविलीनेन वा सह ज्ञानेन निवृत्तिर्बाध’ इति विवरणोक्तेराह ॥ ज्ञाननिवर्त्यत्वं वेति ॥ ‘प्रतिपन्नोपाधावभाव- प्रतियोगित्वलक्षणस्य मिथ्यात्वस्ये’ति विवरणोक्तेः । ‘तत्वम्यादिवाक्योत्थसम्यग्धीजन्ममात्रतः । अविद्या सह कार्येण नासीदस्ति भविष्यती’ति सुरेश्वरोक्तेश्चाह ॥ प्रतिपन्नेति ॥ यथाऽऽहेति ॥ विवरणकार इत्यर्थः । भागासिद्धिपरत्वेनापि योजयितुमाह ॥ स एवेति ॥ अपिपदं भिन्नक्रममुपेत्य व्याप्यत्वासिद्धिपरत्वेनापि योजयति ॥ किञ्चेत्यादिना ॥ गुडजिह्विकेति ॥ गुडयुक्तजिह्वा सैव गुडजिह्विका । बालानां कट्वादि ग्रासयितुमास्यव्यादानार्थं जिह्वायां गुडं यथा स्थापयन्ति तद्वदिदमित्यर्थः । विपक्षे बाधकमाशङ्कते ॥ सतो विनाश इति ॥ तर्हीति ॥ आत्मनो विनाशित्व इत्यर्थः । प्रकारान्तरेण मूलार्थमाह ॥ असिद्धमपीत्यादिना ॥ स एवेति ॥ श्रुत्यर्थ एव । ‘मिथ्यात्वं यदि दुःखादेस्तद्वाक्यस्याग्रतो भवेदि’त्यादिनोपपत्तिविरोधादशक्य इत्युच्यमानत्वादित्यर्थः ॥ परेणाप्यङ्गीकार्यमिति ॥ अन्यथा विज्ञातत्वमात्राङ्गीकारांशसमुच्चय एवापिपदं ज्ञेयम् । सिद्धान्तिना देहात्मैक्यारोपानङ्गीकारात् ॥ अन्यथेति ॥ सम्यग्ज्ञानरूपवृत्त्यविषयत्वे तद्विषयाविद्यानिवृत्तिर्न स्यात् । समानविषयकत्वेनैव ज्ञानाज्ञानयोरालोकांधकारयोरिव विरोधादिति भावः ।
यादुपत्यं
सिद्धान्त्यभिमतादिति ॥ विज्ञातस्यान्यथा सम्यग्विज्ञानं ह्येव तन्मतमिति वक्ष्यमाणत्वादित्यर्थः ॥ स्वकार्येण वर्तमानेनेत्यादि ॥ घटाज्ञानस्य घटज्ञानेन निवृत्तिदर्शनाद्घट-ज्ञानमपि बाधः स्यादित्यत उक्तम् ॥ स्वकार्येणेति ॥ किं वार्तमानिककार्यसहिताज्ञानस्य निवृत्तिर्बाध उत प्रविलीनकार्यसहिताज्ञानस्य । नाद्यः विपर्ययोत्पत्त्यनन्तरकाले मनसो विषयान्तरसञ्चारः । समयान्तरे च शुक्तिलोचनसंयोगजाधिष्ठानज्ञानेनाज्ञाननिवृत्तौ तदभावेनाव्याप्तिः । न द्वितीयः । वर्तमानकार्यसहिता ज्ञाननिवृत्तौ तदभावादित्याशङ्क्य कार्याकारेणपरिणताज्ञाननिवृत्तिर्बाध इत्यनुगत-लक्षणमुभयत्राप्यस्तीत्याह ॥ वर्तमानेनेत्यादि ॥ न च प्रविलीनस्य कथं पुनर्ज्ञानेन निवृत्तिरिति वाच्यम् । अधिष्ठानज्ञानात्प्राक् कार्यस्य कारणाकारेण नात्यन्तिकनिवृत्तिः किन्तु कारणे प्रविलयमात्रं क्रियते । तथा च प्रविलीनस्यापि कार्यस्य कारणात्मना सत्त्वादधिष्ठानयाथात्म्यज्ञानेनात्यन्तिकी निवृत्तिरुपपन्ना । अत एव मुद्गरप्रहरणादिना निवृत्ते घटादौ ब्रह्मज्ञानेन निवृत्तिर्न सम्भवतीति कथं तस्य बाध्यत्वमिति शङ्काऽनवकाश इत्यभिप्रायात् ॥ अन्यथेति ॥ वेदान्तजनितवृत्तिविषयत्वाभाव इत्यर्थः ॥
श्रीनिवासतीर्थीया
व्यर्थविशेषणासिद्धम् ॥ ज्ञानबाध्यत्वमस्तु मिथ्यात्वं मास्तु सत्वमेवा-स्त्वित्यप्रयोजकत्वे शङ्किते नाशमात्रस्यैव मिथ्यात्वप्रयोजकत्वप्राप्त्या ज्ञानविशेषणं व्यर्थमित्यर्थः ॥ उक्तबाधकेति ॥ सतो विनाश इत्युक्तबाधकेत्यर्थः ॥ उक्तत्वादिति ॥ तथा चोक्तबाधकतर्कोऽयुक्त इत्याशयः ॥
वाक्यार्थरत्नमाला
दूषणासङ्गतिरिति । साध्यान्तरनिरासस्य बहिः कृतत्वोक्तिविरोधस्तु भाष्यस्वारस्यस्य भाष्यकारोक्तिविरोधस्य चोद्भावनप्रसङ्गेनोद्भावयितुं युक्त इति तस्य परित्यागः । अत एव मूलकाराचातुरीं पृथगेव परिहरति यद्यपि परेणेति । अनिर्वचनीयतयोक्तत्वादिति । अनिर्वचनीय-त्वतयेति भावप्रधानो निर्देशः । साधकत्वमिथ्यात्वोपपादनेति । साधकत्वोपपादनोपयोग्यसद्विलक्षण-त्वम् । सद्विलक्षणत्वं तु मिथ्यात्वोपपादनोपयोगीति स्पष्टम् । निर्देशमभ्युपेत्याह असिद्धमिति । न सिद्धमित्येतदेव हेतुदूषणत्वेन प्रसिद्धासिद्धिपरतया स्फुटीकर्तुम् असिद्धमित्यनूदितम् । असिद्धेर्हेतुदूषणतया साध्यदूषणत्वाभावादिति भावः । ननु तर्हीति । हेतुदूषणपरतया योजना चेत्तर्हीत्यर्थः । इति व्याख्यानेऽपीति । इत्येवमसिद्धत्वांशे समुच्चयस्यापिशब्दार्थतया व्याख्यानस्य सम्भवेऽपीत्यर्थः । दूषणत्वाभावात् । तथाच न केवलं प्रतिज्ञाऽसिध्या दुष्टा किन्तु हेतुरप्यसिद्ध्या दुष्ट इत्यसिद्धत्वस्य दूषणत्वसमुच्चयो न युक्त इति भावः । प्रागसिद्धिः प्रतिज्ञायामुक्ता चेत्स्यात्तर्हि तत्समुच्चयो घटेत । न चैवमित्यतोऽप्यपिशब्दानुपपत्तिरित्याह पूर्वमिति । दुष्टत्वरूपसामान्य इति । न सिद्धमित्युक्ता-सिद्धत्वमपुरस्कृत्यासिद्धत्वप्रयुक्तदुष्टत्वांश एव न केवलं प्रतिज्ञा दुष्टेति समुच्चयमित्यर्थः । उत्तरवाक्य इति । विज्ञातस्यान्यथेत्युत्तरभाष्य इत्यर्थः । शुक्तिरजतादौ बाध्यत्वासिद्धिप्रतिपादनेन साधनवैकल्यं वक्ष्यते । तत्र च तद्धि ज्ञाननिवर्त्यत्वं परस्याभिमतमिति सिद्धवत्कृत्य तत्पक्ष एव साधनवैकल्यं मूले प्रतिपादितम् । न तथाऽत्र सङ्कोच इत्याह शुक्तिरजतादाविति । एकस्य ज्ञाननिवर्त्यत्वस्य प्रातिभासिकस्य ज्ञानेन निवृत्त्ययोगादिति भावः । अपरस्य प्रतिपन्नोपाधावित्यादेः । वस्तुत इत्युक्तया प्रतिपन्नत्वादेरप्यसिद्धिरस्त्येव । अत एव तथा सत्यसत्त्वप्रसङ्गादिति वक्ष्यति । किन्तु पररीत्या स्वारसिकी सा न भवतीति सूचितम् । इत्याशयेनासिद्धिमुपपादयतीति सम्बन्धः । प्रतिवादिनो ममेत्यधिकोक्तिं घटयति तुशब्दलब्धेति । प्रष्टव्य इत्यनन्तरं हेतुत्वेनेत्यतः प्राक् किमिति पूरणीयम् । त्वयाऽपीष्यत इत्यपिपदलब्धाशयस्य द्वेधापि सम्भवाद्विकल्पद्वयप्रसक्तिरिति ज्ञेयम् । नैवमितीति प्रतीकोपादानपाठः । स्वयमेवेति विशेषणकृत्यमाह स्वयमेवेतीति । इतीत्यस्य इत्यनेनेत्यर्थः । तत्र व्यापारेति । कार्यस्य नाशे व्यापारेत्यर्थः । तदभावे कार्यस्य ज्ञाननिवर्त्यत्वं च नास्तीत्यापन्नमिति मिथ्यात्वप्रतिपादनायोग इत्यत आह उपादानेति । परम्परया तन्निवर्त्यत्वमस्त्येवेति भावेना-ज्ञाननिवृत्तिकारणस्य ज्ञानस्याज्ञानकार्यनिवृत्तिं प्रति योजकत्ववचनम् । कार्यस्य यत् तद्व्यतिरेक-प्रयुक्तव्यतिरेकप्रतियोगित्वं तद्रूपं कारणतत्कारणसाधारणं प्रयोजकत्वमिति भावः । ईश्वरव्यापारेति । तथा च स्वयमेवेत्यस्येश्वरव्यापारं विनैवेत्यर्थ इति भावः । विवरणकारेणेत्यादि ।
तत्त्वदीपनाद्यनुसारेण लक्षणान्तरनिराकरणत्वतल्लक्षणत्वादेरुक्तिरित्यादिकं व्याकर्तव्यमस्ति । ईश्वरज्ञानेच्छेत्यादाविच्छाप्रयत्नग्रहणाभिप्रायमाह अविद्यानिवृत्तीति । केचित्तु किं त्वितीति प्रतीको-पादानपाठं कल्पयन्ति । द्वितीयमिति । उत स्वाभिमतेति प्रागुक्तद्वितीयमित्यर्थः । अन्यतरासिद्धि-तादवस्थ्यमिति । प्रागुक्तान्यतरासिद्धिपरिहारो यथा स्यात्तथैव परेण शङ्कनीयत्वादिति परनिग्रहस्य सिद्धेरिति भावः । अङ्गीकुर्वतापीति । मयेति वक्ष्यमाणमाकृष्यते । प्रतिवादिशब्दोपेतेति । एतादृशस्य तवासिद्ध्येति योजनायां वादिन इति प्रतिपादनात्तस्य प्रतिवादिपदोपेतभाष्यवाक्यानारूढत्वमित्यर्थः । तथाविधमपि ज्ञानबाध्यत्वमित्येतस्यार्थस्य ज्ञानबाध्यत्वमपि त्वित्येतद्भाष्याल्लाभप्रकाराप्रतीतेराह अनेनात्रेति । तथाविधमपीत्येतत्प्रतिवाद्यभिमतमित्यर्थकं कथं लब्धमित्यतस्तुशब्दस्य ज्ञानबाध्यत्व-मित्यनेन सम्बन्धे पक्षान्तरव्यावृत्त्यर्थकतुशब्दयोगेन पराभिमतज्ञानबाध्यत्वव्यवच्छेदः सिध्यतीत्याह तुशब्द इति । तुशब्दयोगेनैतदर्थप्रतिपादनाङ्गीकारे प्रतिपत्तिगौरवमाश्रयणीयं भवतीत्यपरितोषा-ल्लघुपक्षान्तरमाह अथवेति । तथा च प्रतिवादिनो यज्ज्ञानबाध्यत्वमिति सम्बन्धात्पराभिमतव्यवच्छेद-सिद्धिः सुलभेति भावः । प्रतिवादिन इत्यस्य न सिद्धमित्यनेनान्वयात्कथमत्रान्वय इत्यत उभयत्र सम्बन्धमभिप्रेत्योक्तम् अनेनापीति । पक्षैकदेशे इत्येतल्लाभाय पक्षविशेष इत्येतत्समानार्थकत्वात्तस्य पक्षविशेष इत्येतल्लाभं दर्शयति पक्ष इतीति । अपिशब्दस्येति । अपि ज्ञानबाध्यत्वमित्येवमपिशब्दस्य ज्ञानबाध्यत्वमित्यनेन पूर्वतया सम्बन्ध इत्यर्थः । तेन तथाविधमपि ज्ञानबाध्यत्वमित्येतल्लब्धं भवति । सम्बन्धमात्रस्य स्वत एव सत्त्वेन तत्प्रतिपादनस्य पूर्वतयेत्यत्रैव तात्पर्यात् । इत्यभिप्रेत्य भाष्यमिति । नन्वनेनेत्यस्य तथाविधमपीत्यादिपरतया तथाविधमपीत्यादिना ज्ञानबाध्यत्वमपि त्वित्येतद्भाष्यं यद्योजितं तदित्यभिप्रेत्येति योजनायां भवतीत्यस्यास्वारस्यम् । यथाश्रुतयोजनायामनेनेति भाष्यं योजितं भवतीत्येव स्वरसतयाऽभिप्रेत्यैतद्विधानस्य योजितमित्यनुवादेन सम्बन्धोपपत्त्यर्थं योजनाभवनस्य विधेयतया स्वरसतः प्रतीयमानस्यानुवाद्यत्वस्वीकारायोगपरिहाराय चोक्तयोजनाया एवाश्रयणसिद्धेः । तत्कथमेतद्योजनेति चेत्सत्यम् । नात्राभिप्रेत्य सत्यस्य योजितमित्यनेन सम्बन्धो येनोक्तकुसृष्टिप्रसङ्गः । अपि तु भाष्यमित्यनेन सम्बन्धः । ततश्चानेन तुशब्द इत्याद्यभिप्रेत्य प्रवृत्तं यद्भाष्यं तद्योजितं भवतीति लभ्यते । अनेकाभिप्रायप्रवृत्तैतद्भाष्यीयो य उक्ताभिप्रायस्तदनुसारेणेयं योजनेति फलति । तेनाभिप्रेत्येत्येतस्य भवतीत्यस्य च स्वारस्यमेवेति न दोष इति ज्ञेयम् ।
चतुर्विधनाशेष्विति । ‘अनित्यत्वं देहहानिर्दुखावाप्तिरपूर्णता । नाशश्चतुर्विधः प्रोक्तस्तदभावो हरेः
सदे’ति द्वितीयाध्यायगीतातात्पर्योदाहृतवचनोक्तचतुर्विधेत्यर्थः । अङ्गीकारादिति । तदङ्गीकारस्य धिकरणीयभाष्याद्युक्तरीत्या स्पष्टत्वादित्याशयः । बाध्यत्वमसिद्धमित्यतो बाध्यत्वं व्याप्यत्वासिद्धमित्ये- तदर्थलाभकथनेन तथार्थप्रतिपादनं घटयति तनिष्ठासिद्धीति । व्याप्यत्वासिद्धमितीति प्रतीकोपादान-पाठः । त्वप्रत्ययोऽधिको लेखकागतः । अप्रयोजकत्वस्यान्यतररीत्या शास्त्रकारानङ्गीकाराद्भ्रान्ति-मित्युक्तम् । अनेनैव वादिनोऽपि व्याप्यत्वासिद्धमिति प्रतिपादनस्यानुपयोगाद्वैयर्थ्यमिति मूले गुड-जिह्विकात्वाश्रयणमयुक्तमिति शङ्का च निरस्ता भवति । प्रकारान्तरेणेति । अनेन वक्ष्यमाणं सत्त्व-साम्येऽपीत्येतदप्यत्र दूषणमिति सूचितम् । अविशेषप्रयुक्तेति । विशेषसामान्यभेदभिन्नव्याप्तिमध्ये सामान्यव्याप्तेरपि यदिन्द्रियं रूपादिष्वेत्येतत्प्रकारादविशेषलक्षणव्याप्तिर्भिन्ना तस्या इदमभिधान-मविशेषप्रयुक्तेति । अनादेः कथं निवृत्तिरिति पूर्वमूलटीकायामुत्तरत्र च वैशेषिकनयादौ तत्र तत्रा-विशेषलक्षणसामान्येत्यादिव्यवहारादप्यविशेषो लक्षणं ज्ञप्तिप्रयोजको यस्येति व्युत्पत्त्याऽविशेष-प्रयुक्तेत्यभिप्राया एवेति ज्ञातव्यम् । उक्तरीत्येति । बन्धमिथ्यात्वं नैवेति भाष्यव्याख्यानमूले हन्त तर्हि विरोधिसद्भाव एव निवृत्तौ प्रयोजक इति कुत आत्मनिवृत्तिरित्युक्तरीत्येत्यर्थः । असिद्धत्वेन प्रतिज्ञातेति । सिद्धान्त्यभिमतबाध्यत्वातिरिक्तज्ञाननिवर्त्यत्वादिरूपोभयविधबाध्यत्वयोरसिद्धत्व-प्रतिज्ञापरत्वेन प्राक् मूले व्याख्यानादिति भावः । निषेधरूपस्य तस्येत्यस्य बाध्यत्वस्येत्यर्थः । असिद्धिरिति वर्तते । तस्य तु नासिद्धिरिति योज्यम् । कुतो नासिद्धिरित्यतस्तत्साधकप्रमाण-सद्भावादित्याह नेहेति । तर्हि ज्ञाननिवर्त्यत्वसाधकाभावात्तदसिद्धिर्दुवारैवेत्यतो यस्यासिद्धिर्न तद्धेतू-क्रियते । हेतुक्रियमाणं तु नासिद्धमित्याह तस्यैव चेति । शुक्तिरजतादिवदिति । षष्ठ्यर्थेऽयं वतिः । बाध्यत्वस्येति बुध्या विविच्य सम्बध्यते । शुक्तिरजतादिपदं तद्बाध्यत्वोपलक्षणमिति वा । तथा च शुक्तिरजतादिबाध्यत्वस्येवेत्युक्तं भवति । अयमर्थः । दृष्टान्ततदर्थं चासिद्धिप्रतिज्ञा तदुपपादनपरत्वेनापि पूर्ववाक्यं मूलकृता योजितमित्यवश्यं वाच्यत्वादिति ज्ञेयम् । प्रपञ्चबाध्यत्वस्य लोकव्यवहारासिद्धत्वेन तदनङ्गीकारे तद्विरोधशङ्काया अप्रसरेण तन्निवर्तकतया स्वाभिमतबाध्यत्वसद्भावप्रतिपादनस्यानर्थक-त्वादिति । तथोत्तरत्रेवेत्यस्योत्तरत्र शुक्तिरजतादिबाध्यत्वोपपादकतया योजनावदित्यर्थः । उत्तर-योजनायामिव लोकव्यवहारोपपादकतया योजनाया असम्भवेऽपि प्रकारान्तरेण उत्तरवाक्यस्य सङ्गतिरस्तीत्याह तस्येति । हेतुविवक्षायामिति । ज्ञानबाध्यत्वस्य हेतुत्वविवक्षायामित्यर्थः । अत एव तथैव वक्ष्यति व्यभिचारप्रदर्शकत्वेनेति । वक्ष्यमाणरीत्या स्वाभिमतज्ञानबाध्यत्वस्य पूर्ववाक्ये प्रतिज्ञातं यद्व्याप्तिवैकल्यं तदुपपादनाय उत्तरवाक्ये व्यभिचारप्रदर्शनमिति भावः । ननु स्वाभिमतज्ञानबाध्यत्वस्य हेतुत्वविवक्षायामिव पराभिमतज्ञानबाध्यत्वस्य हेतुत्वविवक्षायामपि व्यभिचारस्य वक्तुं शक्यत्वेनै-तद्विवक्षायामसिद्धिपरत्वेनैव व्यभिचारपरत्वेनापि ज्ञानबाध्यत्वमित्येतन्मूलयोजना कुतो न क्रियत इति शङ्कते न च पूर्वेति । स्वाभिमतज्ञानबाध्यत्वस्य व्याप्तिवैकल्यमन्तरैवेत्येवकारार्थः । पराभिमत-ज्ञानबाध्यत्वस्यासिद्धिपरत्वेन योज्यते यत्पूर्ववाक्यं तदेवेति वार्थः ।
पराभिमतज्ञानबाध्यत्वव्यभिचारेति । पराभिमतज्ञानबाध्यत्वस्य व्याप्तिवैकल्यप्रतिज्ञापरत्वं चाङ्गीकृत्य तदुपपादनाय व्यभिचारप्रदर्शकतयाऽपीत्यर्थः । स्वाभिमतस्य हेतुत्वविवक्षायाम् उत्तरवाक्यं व्याप्तिवैकल्योपपादकं पराभिमतस्य तद्विवक्षायां तु तदुपपादकमपि तदेव वाक्यमित्याशयः । एतदर्थमपि पूर्ववाक्यमेवेत्युक्तम् । तत्र च पराभिमतव्याप्तिवैकल्यप्रतिज्ञापरमपीत्येवकारार्थः । पराभिमतस्य तस्य हेतुत्वविवक्षायां व्यभिचारप्रसक्तौ किल तत्परत्वेनापि योजनायाः कर्तव्यत्वं शङ्कनीयम् । न चासौ प्रसज्यते इत्याशयेन व्यभिचारस्थलं भवत् शुक्तिरजतादिकं च । असद्वा ब्रह्म वेति विकल्पान् मनसि निधायाद्यं निराकरोति शुक्तिरजतादेरिति । दृष्टान्ततया साध्यसाधनवत्त्वेन संमततया । ततश्च तत्र साध्याभावानुपपत्तेर्न व्यभिचारस्थलत्वमिति भावः । असदिति द्वितीयेऽपि ज्ञानबाध्यत्वपदेन ज्ञाननिवर्त्यत्वं वा विवक्षितं प्रतिपन्नोपाधौ निषेधप्रतियोगित्वं वेति विकल्पद्वयं मनसि निधायाद्यं दूषयति असतश्च ज्ञानेति । उभयासंमतत्वेनेति । वाद्यसंमतत्वेन प्रतिवाद्यसंमतत्वेन चेत्यर्थः । द्वितीयं दूषयति प्रतिपन्नेति । परं प्रतीति । अनिर्वचनीयत्ववादिनं प्रतीत्यर्थः । तेनासति अनिर्वचनीयत्वाभावमङ्गीकुर्वता प्रतिपन्नोपाधौ निषेधप्रतियोगित्वस्याप्यनङ्गीकारेण तद्व्यभिचारोपपादनाय तत्र तं प्रति तस्यास्माभि-रुपपादनीयत्वादिति भावः । ब्रह्मदृष्टान्तस्थलमिति तृतीयं निराकरोति ब्रह्मणश्चेति । उभयासंमत्येति पूर्ववत् । स्थलाभावेनेति । ततश्च व्यभिचारस्याप्रसक्तया परोक्तज्ञानबाध्यत्वव्यभिचारपरत्वेन पूर्ववाक्ययोजनां विहायेति शेषः । व्यभिचारस्य वक्तव्यतयेति । वक्ष्यमाणरीत्यात्मरूपतत्स्थललाभेन वक्तुमर्हतयेत्यर्थः । तदुपपादनायेति । तदुपपादनप्रवृत्त्युपयोगितदाकाङ्क्षोत्थापनं यथा स्यात् तथेत्यर्थः । योजयित्वेति वक्ष्यमाणेनान्वयः । असिध्यव्याप्तिरूपेति । अनेन पूर्वयोजनायामसिद्धमित्यनूद्य व्याप्यत्वासिद्धमिति व्याख्यानवद् एतद्योजनायामसिद्धमित्यनूद्य व्याप्तिरहितमिति व्याख्यानमिति न भ्रमितव्यम् । न सिद्धमिति भाष्यस्यैव धर्मिविवक्षयाऽसिद्धमिति धर्मविवक्षया च व्याप्तिरहितमिति योजनाद्वयकरणादिति सूचयति । अनेनैवोत्तरवाक्ये व्याप्तिवैकल्यस्यैवोपपादनात् पूर्ववाक्येऽपि व्याप्ति-वैकल्यमेव प्रतिज्ञातव्यम् । पराभिमतज्ञानबाध्यत्वस्य असिद्धिस्तु पक्षान्तरनिरासप्रयुक्तभाष्यकारीय-न्यूनतापरिहाराय मूलकृता बहिरेवोक्ता । तथा पक्षान्तरनिरासस्य मूलकृता बहुलं क्रियमाणत्वादित्यपि न भ्रमितव्यमित्यपि सूचितम् । विकल्पान्विधायेति । बहुवचनमविवक्षितम् । विकल्पौ कृत्वेत्यर्थः । यद्वाऽत्रोक्तन्यायेनासिद्धमिति मूलानुसारेणोक्तन्यायशरीरान्तर्गततया पराभिमते ज्ञानबाध्यत्वेऽपि ज्ञाननिवर्त्यत्वप्रतिपन्नेत्यादिरूपेण द्विरूपता । ज्ञाननिवर्त्यत्वेऽपि प्रागाशङ्कितेश्वरज्ञाननिवर्त्यत्व-साधारणज्ञाननिवर्त्यत्वमुपादाननिवृत्तौ स्वयमेव विलयनं चेति द्विरूपतास्तीति तामभिप्रेत्यासिध्यु-पपादकविकल्पाव्याप्त्युपपादकविकल्पक्रोडीकारेण बहुत्वं विवक्षित्वा विकल्पानिति बहुवचनमिति न कश्चिद्दोष इति ज्ञेयम् । अत्र विधायेत्यतः प्राक् भाष्यसूचिता नेति शेषः । अत एवोत्तरयोजनायां विकल्पान्मनसीति वक्ष्यति । तच्च सूचनविशेषार्थकेत्यादिवक्ष्यमाणरीत्या दूषणनिष्कर्षानुसारेणेत्यव-गन्तव्यम् । प्रतिवादिनस्त्वित्येतन्मात्रेणासिध्यव्याप्तिरूपदूषणद्वयस्य पक्षविशेषाश्रयतयाऽभिधानालाभ इत्यत आह विशेषार्थकेत्यादि । योजयित्वा आवर्त्येत्यनेन ज्ञानबाध्यत्वं सिद्धमिति योजनपूर्वक-मावृत्तिर्मूले कृता भवतीति सूचयति । तेन चावृत्तेनासिद्धिव्युत्पादनस्य प्रागेव कृततया आद्यपक्ष-निराकरणम् । अस्मदभिमतमिति द्वितीयपक्षनिराकरणं तु वक्ष्यमाणरीत्यैवेति पूर्ववाक्ये पक्षविशेषे व्याप्तिवैकल्यमिति सम्बन्धमात्रप्रदर्शनमिति विवेकः । तुशब्दसम्बन्धलब्धमर्थं दर्शयन्विकल्पदूषणप्रकारं व्यनक्ति पराभिमत इत्यादि । असिद्ध इति । उक्तन्यायेनेति मूलोक्तं सिद्धत्वान्नोक्तम् । इति योजयित्वेति । आवृत्तं ज्ञानबाध्यत्वं त्वसिद्धमित्येतत्प्रतिज्ञाद्वयोपपादकत्वेन योजयित्वेत्यर्थः । तदुपपादकतयेति । व्याप्तिवैकल्योपपादकतयेत्यर्थः । प्राक्पक्षविशेषे व्याप्तिवैकल्यमित्येवोपपादनेऽपि तत्प्रकारानिरूपणादुत्तरवाक्य एव तन्निरूपणादिति भावः । एतत्पक्षेऽसिध्यव्याप्तिप्रतिज्ञात्वादिसिध्यर्थं न सिद्धमित्यादेर्धर्मिधर्मप्राधान्याश्रयणावृत्त्यादिना असिद्धमित्यादि योजनामूल इति कल्पनीयमित्य-परितुष्यन् पक्षान्तरमाह अथवा प्रतिज्ञामिति । तथा चासिध्यादिप्रतिज्ञाविकल्पोत्तरं ज्ञानबाध्यत्वं तु प्रतिवादिनोऽसिद्धमित्येतद्भाष्यं पराभिमतज्ञानबाध्यत्वस्य हेतुत्वनिराकरणमात्रपरतया आद्यं चेदुक्त-न्यायेनेत्यादिना मूले योजितमिति वा व्याख्येयमित्यर्थः । ननु विकल्पद्वयस्यापि निराकरणं भाष्यान्न लभ्यत इति कथं तदुभयनिरासकं भाष्यं स्यादित्यतोऽत्र पक्षेऽपि पदस्यास्मदभिमतज्ञानबाध्यत्व-हेतुत्वविवक्षायां दूषणभूतं यद्व्याप्तिवैधुर्यं तत्समुच्चायकत्वाश्रयणाद्भाष्यादेव पक्षान्तरनिरासोऽपि सिध्यत्येवेत्यभिप्रायेणाह अस्मिन्पक्ष इति । इदं चासम्भाविततया पक्षान्तरमुत्प्रेक्षितम् । न तु पूर्वापेक्षयात्र स्वारस्यम् । आवृत्त्याद्याश्रयणस्यात्राप्रसरेऽपि असिद्धं व्याप्तिरहितमपीति योज्यमिति मूलेऽसिध्यव्याप्तिप्रतिज्ञापरत्वेन भाष्ययोजनायाः स्पष्टत्वे सति प्रतिज्ञाया मानसिकत्ववचनायोगात् । अत एवात्राथवेत्यनास्थायाम् । वस्तुतस्तु पूर्वयोजनैव टीकाकृतोऽभिप्रेतेति मन्तव्यम् । प्रतिज्ञाया भाष्यारूढत्वप्रदर्शनबलादेवावृत्त्यादिकमपि मूलं संमतमेवेति न तदस्वारस्यापादकमिति सूरयो विदांकुर्वन्तु । मास्तु अविद्यानिवृत्तिश्चैतन्येनैव सा स्यादित्यत आह चैतन्यमात्रस्य चेति । तस्याज्ञान-प्रकाशकत्वादिति भावः ।