१५ विवरणोक्तबाधकपरिहारः

इत्युक्तेर्बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते

विवरणोक्तबाधकपरिहारः

इत्युक्तेर्बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते

सुधा

ननु ज्ञानेन सत्यं निवर्तमानं किं विषयगतं निवर्तते । उताश्रयगतम् । अथोभय-गतम् । नाद्यः । यतश्चित्रावयविनि नीलविशिष्टद्रव्यज्ञानं स्वविषयं वा स्वविषयसमवेतं वा रसादिकं विरोधिनं वा पीतिमादिगुणं न निवर्तयति । न द्वितीयः । घटादिज्ञानेनात्मगत-धर्माद्यनिवृत्तेः । न तृतीयः । आत्मनः शरीरविषयज्ञानेन शरीरात्मसम्बन्धानिवृत्तेरिति । मैवम् । उक्तोत्तरत्वात् । यदि ज्ञानमाश्रयगतं निवर्तयेत् तदा धर्मादिकमपि निवर्तयेदित्यत्र व्याप्त्यभावात् । विपक्षे बाधकाभावाच्च । घटादिज्ञानं धर्माद्यविरोधि । आत्मयाथात्म्यज्ञानं तु बन्धविरोधीति वैषम्याच्च । आत्मयाथात्म्यज्ञानस्यैवापादनविषयतायामिष्टापादनम् । चित्रावयविनि नीलविशिष्ट-द्रव्यज्ञानं तु मिथ्याज्ञानमेव । नापि तत्र पीतिमगुणोऽस्ति । एकमेव हि चित्रं नाम रूपमाश्रयव्याप्यवृत्तीति पदार्थविदः ।

वाक्यार्थचन्द्रिका

एवं ज्ञानाद्बन्धनिवृत्तिर्न दृष्टसामर्थ्यात् । आगमप्रतीते च साध्यसाधनभावे न काऽप्यनुपपत्तिरिति पक्षे विवरणोक्तबाधकं परिहृत्यास्तु वा दृष्टसामर्थ्यादेव बन्धनिवृत्तिस्तथाऽपि नानुपपत्तिरित्यभ्युच्चयेन पक्षमभ्युपेत्य तत्रापि विवरणोक्तानुपपत्तिं परिहर्तुं शङ्कते ॥ नन्विति ॥ यद्यप्यत्र प्रथममेवास्तु वा ज्ञानाद्बन्धनिवृत्तिः सा च दृष्टसामर्थ्यादित्युक्त्वा तत्रैतदाशङ्क्य परिहृत्यानन्तर-मभ्युपेत्य चेदमुदितम् । न वयं दृष्टसामर्थ्याज्ज्ञानाद्बन्धनिवृत्तिं ब्रूम इत्यादिग्रन्थकरणे विवरणोक्तक्रमेणैव दूषणमुक्तं भवति । तथाऽप्यत्र तत्प्रमेयानङ्गीकारेण पराभिमतं निराकृत्यास्तु वेत्यादिनोत्तरोत्तरं तदङ्गीकारेणापि पराभिमतनिरासस्याभ्युच्चयेन प्रस्तावादागमेन ज्ञानाद्बन्धनिवृत्तौ प्राप्तानुपपत्ति-निरासानन्तरं किमागमपर्यन्तधावनेनास्तु वा दृष्टार्थसामर्थ्याज्ज्ञानाद्बन्धनिवृत्तिरिति पक्षस्तथापि परोक्तदूषणपरिहारः सुशक इत्युक्तेः सङ्गतत्वादुक्तातिदेशेन दूषणसौकर्याच्चैवं सन्निवेश इति द्रष्टव्यम् । न चैवमप्यस्तु वा दृष्टसामर्थ्याद्बन्धनिवृत्तिस्तथाऽपि नानुपपत्तिरिति साक्षादेवोक्त्वा तद्दूषणपरिहारः कुतो न कृत इति वाच्यम् । ज्ञाननिवर्त्यस्य सत्यस्य विषयगतत्वाद्यन्यतमवत्त्वस्यावश्यवाच्यतया ज्ञानेन विषयगतादिबन्धनिवृत्तौ च विषयगतादिनिवृत्तिदर्शनस्यैव मूलत्वात्तस्य चानुपपन्नतया मूलाभावेन विषयगतादिनिवृत्त्यसम्भवे सत्यस्य ज्ञानेन निवृत्तिर्न स्यादिति सत्यस्यापि निवृत्तावात्मनिवृत्तिरपि स्यादितिवत्सत्यस्यापि निवृत्तौ तस्य विषयगतत्वाद्यन्यतमवत्त्वमपि स्यात् । तन्मूलतया ज्ञानेन विषयगतादिनिवृत्तिदर्शनमप्यनुपपन्नमङ्गीकार्यं स्यादिति बाधकान्तरकथनेऽपि तात्पर्यात् । अत्र चात्मज्ञानेन स्वविषयात्मनिष्ठनियन्तृत्वादिनिवृत्तौ तत्सापेक्षस्य जीवगतस्य नियम्यत्वादेरप्यर्था-न्निवृत्तिसिद्धिरित्याशयेनाद्यः । ज्ञानाश्रयजीवगतनियम्यत्वादिप्रपञ्चनिवृत्तौ तत्सापेक्ष ब्रह्मगत-नियन्तृत्वादेरप्यर्थान्निवृत्तिरिति द्वितीयः । उभयगतकर्तृत्वादिनिवृत्तिरिति तृतीयः । आद्येऽपि निवर्त्य-नियन्तृत्वादिरूपप्रपञ्चविशिष्टविषयकमात्मज्ञानं तन्निवर्तकमुत निवर्त्यप्रपञ्चाविषयकम् । उभयत्रापि विशिष्टविषयस्य केवलविषयकस्य वाऽऽत्मज्ञानस्य स्वविषयगतनियन्तृत्वादिनिवर्तकत्वं दृष्टसामर्थ्या-द्वदता विशिष्टादिविषयकस्य विषयगतनिवर्तकत्वं दृष्टमिति वक्तव्यम् । न च तद् दृष्टं प्रत्युत तदभाव एव दृष्ट इति व्यभिचार इत्याशयेनाद्यं निराह ॥ यत इति ॥ अत्र ब्रह्मज्ञानेन सत्यं निवर्तमानं विषयगतं नियन्तृत्वादि निवर्तते यतो ज्ञानेन विषयगतं निवर्तते लोक इति योजनयोक्ताभिप्रायलाभोऽत एव शङ्काग्रन्थे सामान्यनिर्देश इति । एवमेवोत्तरकल्पद्वयेऽपि योजना द्रष्टव्या । विषयगतपक्षदूषणावसरे नीलादेः स्वविषयत्वोक्तिस्तु विशिष्टविषयकस्य विशेषणविषयकत्वस्यापि सत्त्वाभिप्रायेणेति द्रष्टव्यम् ।

केवलविषयकं तद्गतनियन्तृत्वादिनिवर्तकमित्यत्रापि व्यभिचारमाह ॥ स्वविषयसमवेतमिति ॥ नीलज्ञानस्य न रसादिनिवर्तकत्वमविरोधाच्छुद्धात्मविषयं पुनस्तद्विरोधिनं निवर्तयतीत्यतस्तत्रापि व्यभिचारमाह ॥ विरोधिनं वेति ॥ अथवा निवर्त्यस्य सत्यस्य विषयगतत्वाद्यन्यतमवत्त्वनियमाद् ब्रह्मज्ञानेन विषयादिगतसत्यनियन्तृत्वादिनिवृत्तौ ज्ञानेन स्वविषयदिगतमन्यदपि सत्यं निवर्तेतेति सत्यस्यापि निवृत्तौ बाधकप्रसङ्गोऽत्र शङ्काग्रन्थेऽभिमतः। तत्र चेष्टापत्तौ तर्हि तत्तज्ज्ञानेन स्वस्व-विषयादिगतं निवर्तते किमित्यपाद्यापादकयोः सूचनाय । ज्ञानमज्ञानस्यैव निवर्तकमिति व्याप्तौ सत्यस्यापि निवृत्तिः किं न स्यादिति सामान्यस्यैव प्रस्तुतत्वाच्च सामान्येनानुवादोऽयम् । एवं च ज्ञानमज्ञानस्यैव निवर्तकमित्यत्राप्रयोजकत्वाशङ्कायां विपक्षे बाधकान्तरं विवरणोक्तमाशङ्कते ॥ नन्विति ॥ आपादन-त्रयेऽपीष्टपत्तिं निरस्यति नाद्यो यत इत्यादिनेति योज्यम् । एवं च विवरणे दृष्टसामर्थ्याज्ज्ञाना द्बन्ध-निवृत्तिरिति दर्शनमूलपक्षदूषणत्वेनैतदुक्तावप्युक्तरीत्या विपक्षबाधकत्वस्यापि सम्भवात्तथा शङ्कितम् । अत्र च पक्षे आपादनविवक्षाप्रवृत्तोत्तरग्रन्थस्वारस्यं यथास्थितविन्यासानुपपत्तिशङ्कानुदयश्चेति द्रष्टव्यम् ।

आत्मज्ञानेनात्मगतनियन्तृत्वादेरुभयगतकर्तृत्वादेर्वा निवृत्तेः सिद्धान्तेऽनभ्युपगमात्प्रथमतृतीया-वनङ्गीकारेण पराकृत्य द्वितीयं पक्षमाश्रित्य तत्रोक्तदूषणं परिहरति ॥ मैवमिति ॥ यदि ज्ञानमाश्रयगतं निवर्तयेत्तर्हि धर्मादिकमपि निवर्तयेत् । न च धर्मादिकं निवर्तयति । तस्मान्न ज्ञानमाश्रयगतनिवर्तकम् । ततश्च नाश्रयगतनियम्यत्वादिनिवर्तकत्वमात्मज्ञानस्येति ज्ञानसामान्यापादनविषयतामभिप्रेत्यात्मज्ञानस्य नियम्यत्वादिनिवर्तकत्वाभावसिद्धिरार्थिकीति मनुषे आहोस्विदात्मज्ञानं यद्याश्रयगतनियम्यत्वादिनिवर्तकं तर्हि धर्मादिनिवर्तकमपि स्यादित्यात्मज्ञानरूपविशेषस्यापादनविषयतामभिप्रेत्य यज्ज्ञानमाश्रयगतं निवर्तयति तद्धर्मादिकमपि निवर्तयतीति व्याप्तौ च पटादिज्ञानेनेति व्यभिचारोद्भावनमिति वा । तत्राद्यं सत्यस्य निवृत्तावात्माऽपि निवर्तेतेति परोक्ततर्के पूर्णोक्तदूषणातिदेशेन दूषयति ॥ यदीति ॥ हन्त तर्हि विरोधिसद्भाव एवेत्युक्तदूषणातिदेशेनापि तं दूषयति ॥ घटादीति ॥ मयाऽऽत्मज्ञानेन नियम्यत्वादि-वद्धर्मादिनिवृत्तेरभ्युपगमादिष्टापत्तिरिति भावेन द्वितीयं निराचष्टे ॥ आत्मेति ॥ एवं चोक्तोत्तरत्वादि-त्याद्यकल्पनिरासायैवेति द्रष्टव्यम् । इदं च व्यभिचारपरतापक्षे व्यभिचारोपपादनाय विवक्षितेऽन्यथा पटादिज्ञानेनापि धर्मादिनिवृत्तिः स्यादित्यापादने दूषणं विपक्षबाधकतापक्षे यथास्थित आपादन एवेति द्रष्टव्यम् ।

एवमाद्यपक्षस्यानङ्गीकारपराहतत्वात्तद्दूषणमनुद्धृत्य स्वाभिमतद्वितीयपक्षदूषणमेवोद्धृतम् । अधुना प्रतिवादिस्खलितं नोपेक्षामर्हतीत्याशयेनाद्यपक्षोक्तव्यभिचारस्थलं निराकरोति ॥ चित्रावयविनीति ॥ तत्र नीलरूपस्य तद्विरोधिपीतिम्नोऽप्यभावान्न तस्य व्यभिचारोदाहरणत्वं युक्तमिति भावः । न च चित्रावयव्यारम्भकनीलावयवविवक्षया नीलविशिष्टवस्तुज्ञानस्यानिवर्तकत्वोदाहृतेर्न विरोध इति वाच्यम् । तथा सति चित्रावयविनीत्यस्य वैयर्थ्यापत्तेः । नीलज्ञानस्य स्वविषयनिवर्तकत्वे चित्रावयविन एवानु-पपत्तिरिति प्रदर्शानर्थत्वेन कथञ्चिदवैयर्थ्ये स्वविरोधिनं पीतिमानमित्यस्यानुपपत्तिरेव । तदेतदप्याह ॥ चित्राक्यविनीति ॥ नापि तत्र पीतिमगुणोऽस्तीति च । नपि चित्रावयव्यारम्भकपीतावयवे नीलोऽयमासीदिति ज्ञानस्य वा नीलमिति ज्ञानस्य वा विपक्षितत्वात्तज्ज्ञानस्य वा नीलमिति ज्ञानस्य वा विवक्षितत्वात्तज्ज्ञानस्य च वर्तमानपीतानिवर्तकत्वान्नोदाहरणासङ्गतिरित्यपि युक्तम् । वर्तमानविषय-ज्ञानस्य स्वविषयविरोधिनिवर्तकतां वदन्तं सत्यत्ववादिनं प्रत्येतस्यानुदाहरणत्वात् । न च तथा सति पारमार्थिकप्रपञ्चवादिनस्तत्काले प्रपञ्चाभावासम्भवेन निष्प्रपञ्चब्रह्मज्ञानस्य प्रपञ्चनिवृत्तेः पूर्वं वर्तमान-प्रपञ्चाभावविषयकत्वासम्भवेन ततः प्रपञ्चनिवृत्त्यसम्भव इति वाच्यम् । तन्मते निष्प्रपञ्चब्रह्मज्ञानस्य प्रपञ्चनिवर्तकत्वासम्प्रतिपत्तेः । तदिदमुक्तम् ॥ भ्रम एवेति ॥ नन्वस्तु तर्हि प्रतिभासबलाच्छुक्लादि-रूपस्य समानजातीयरूपारम्भकत्वनियमेन कारणे चित्ररूपाभावे कार्ये तदयोगाच्च नानारूपसमाहार एव चित्रमिति यथास्थितोदाहरण एव नासङ्गतिरिति । न चैवं चित्ररूपमिति प्रतीतिमाश्रित्य चित्ररूपमङ्गीकुर्वतोऽन्यथा प्रतीतौ विप्रतिपत्तेर् अव्याप्यवृतेर्व्याप्यवृत्तिसजातीयताविरोधेन रूपाणां व्याप्यवृत्तितानियममभ्युपगच्छतो रूपस्य सजातीयरूपारम्भकत्वनियमस्य चासिद्धेर्नानारूपवद-वयवारब्धद्रव्यरूपस्याव्याप्यवृत्तित्वमनुभवबलादित्यस्य त्वनुभवविप्रतिपत्त्या निरस्ततया नानारूप-समाहारपक्षानुपपपत्त्या कथं नोदाहरणासङ्गतिरिति वाच्यम् । तथाऽप्यनुभवद्वयस्य नियमद्वयस्य च प्रतिपक्षतया नैकस्यापि निर्णय इति भ्रम एवेत्युक्तमयुक्तमित्यत आह ॥ एकमेव हीति ॥ पदार्थविद इत्यनेन तदुक्तयुक्त्यैव प्रकृतसिद्धौ वाक्यार्थमीमांसाऽभिनिविष्टानां किं पृथक् तत्र युक्त्युपन्यासाऽऽया-सेनेति परस्य पदार्थक्लृप्तिशून्यस्य वाक्यार्थमीमांसायां नाधिकार इति च सूचयति ।

एवं हि पदार्थविदामाशयः । नानारूपवदवयवारब्धस्यावयविनो न तावन्नीरूपत्वम् । अप्रत्यक्षत्व-प्रसङ्गात् । न चावयवरूपमेव स्वाश्रयसमवेतत्वप्रत्यासत्त्या तत्र हेतुः । चित्रावयवारब्धावयविप्रत्यक्ष-तयाऽपि व्यभिचारात् । न चाव्याप्यवृत्तिनानारूपाण्येव तथा । अव्याप्यवृत्तेर्व्याप्यवृत्तिसजातीयता-विरोधात् । न च व्याप्यवृत्तीन्येव तानि । नीलावयवानवच्छेदेन सन्निकर्षे नीलादेरुपलम्भापत्तेः । अतो नीलपीतादिभिरेकं सम्भूय चित्ररूपमारभ्यते । न च सामग्रीसत्त्वान्नीलादिभिर्नीलादेरपि जननापत्तिः । अगत्या नीलेतररूपादेर्नीलादिकं प्रति प्रतिबन्धकत्वकल्पनात् । प्रतिबन्धकतावच्छेदकः सम्बन्धः स्वसमवायिसमवेतत्वं प्रतिबध्द्यतावच्छेदकः समवायः कपालादौ नीलेतररूपसत्त्वे घटादौ समवायेन नीलादेरनुत्पादनात् । तथाऽपि चित्ररूपजनकतावच्छेदकं किमिति चेत् । रूपत्वमेव । न चैवमवयवे केवलनीलसत्त्वे चित्रोत्पादः स्यादिति वाच्यम् । नीलाभावपीताभावादीनामवयवस्थितानां चित्रत्वा-वच्छिन्नं प्रति हेतुत्वात् । हेतुतावच्छेदकसम्बन्धः स्वाश्रयसमवेतत्वं कार्यताघटकः समवायः । एवं च नीलाभावादेर्वाय्वादावपि सत्त्वात्तत्र चित्रोत्पत्तिवारणाय चित्रत्वावच्छिन्ने रूपत्वेन हेतुत्वमुक्तम् । एवं च न कोऽपि दोषः । ननु स्यादियं प्रतिबन्धकादिकल्पना यदि चित्ररूपस्थले नीलेन नीलजनने बाधकं स्यात् । न चाव्यप्यवृत्तेर्व्याप्यवृत्तिसजातीयताविरोधो बाधक इति वाच्यम् । तद्विरोधस्य निष्प्रमाण-कत्वात् । अप्रामाणिकविरोधं प्रकल्प्य नीलेतररूपादेर्नीलादिप्रतिबन्धकत्वकल्पनस्य गौरवकरत्वात् । एवं चाव्याप्यवृत्तिनानारूपाण्येव चित्रम् । अत एव लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुर इत्यादिशास्त्रं त्रिश्वेता शल्लकीत्यादिव्यवहाराश्चोपपद्यन्ते । न चैवं क्वचित्किञ्चिदवयवाच्छिन्नं क्वचिच्च सर्वावयवाच्छिन्नं नीलाद्युत्पद्यते । तत्र च न नियामकमिति वाच्यम् । अवच्छेदकतासम्बन्धेन नीलादिकं प्रति समवायेन नीलादेरुत्पत्तिवारणायावच्छेदकतासम्बन्धेन नीलं प्रति नीलेतररूपं प्रतिबन्धकमतो न तत्र कपालावच्छेदेन नीलरूपोत्पत्तिः । किन्तु नीलकपालावच्छेदेन । न च सर्वनीलारब्धघटादि-वृत्तिनीलरूपादेरप्यवच्छेद्यत्वापत्तिरुक्तसामग्रीसत्त्वदिति वाच्यम् । नीलरूपाभावोऽपि नीलरूपं प्रति हेतुः । कार्यताघटकः सम्बन्धोऽवच्छेदकत्वं कारणताघटकः सम्बन्धः स्वाश्रयवृत्तिद्वव्यसमवायः । एवं पीतरूपादौ पीतरूपाभावादिस्तथा । एवं च न कोऽपि दोष इति चित्ररूपाङ्गीकारोऽनुपपन्न इति चेत् । उच्यते । यद्यपि चित्ररूपाङ्गीकारपक्षे नीलादिकं प्रति नीलेतररूपत्वादिना प्रतिबद्ध्यप्रतिबन्धक-भावोऽगत्या कल्पनीयः । नीलाभावादीनां चित्ररूपं प्रति हेतुता च कल्पनीया । अव्याप्यवृत्तिरूप-पक्षेऽवच्छेदकतासम्बन्धेन नीलादिकं प्रति नीलेतररूपादिकं समवायेन प्रतिबन्धकम् । व्याप्यवृत्तिनील-स्थलेऽवच्छेदकतासम्बन्धेन नीलोत्पत्तिवारणाय पूर्वोक्तद्रव्यघटितसम्बन्धेन नीलाभावादीनामवच्छेदकता सम्बन्धेन नीलादिकं प्रति हेतुता कल्पनीयेति कार्यकारणभावकल्पना तुल्या । तथाऽप्यव्याप्य-वृत्तिरूपपक्षे चित्रस्थलेऽवयविनि बहूनि रूपाणि तद्ध्वंसप्रागभावादीनि कल्पनीयानि । चित्रपक्षे एकमेव रूपमिति लाघवम् । तस्माच्चित्रं रूपमेकमेवेति पक्ष एव साधुरिति । एवं च नानारूपसमाहार-श्चित्रमिति पक्षस्यायुक्तत्वात्प्रतिभासस्य च मिथ्याज्ञानत्वाच्चित्रावयविनि नीलविशिष्टवस्तुज्ञानोदाहरणं युक्तमित्याशयः ।

परिमल

विवरणोक्तमाशङ्कते ॥ ननु ज्ञानेनेति ॥ विषयेति ॥ ज्ञानविषयगतं ज्ञानाश्रयगतं वेत्यर्थः । आद्ये किं स्वविषयगतं किञ्चित्स्वविषयमेव निवर्तयति ज्ञानम् उत स्वविषयसमवेतं यत्किञ्चिन्निवर्तयति । अथ स्वविषयसमवेतं स्वविषयस्य विरोधिनमेव विषयगतमिति त्रीनपि कल्पान् क्रमेण निराह ॥ स्वविषयं वेत्यादि ॥ स्वविषयं नीलमित्यर्थः । स्वविषयसमवेतं वा रसादिक-मित्येकान्वयः ॥ घटादिज्ञानेनेति ॥ न्यायमते घटादिज्ञानस्य धर्मादेश्चात्मधर्मत्वादात्मगतेत्युक्तम् । उक्तोत्तरत्वादित्येतद्-व्यनक्ति ॥ यदीति ॥ घटादिज्ञानस्य धर्माद्यनिवर्तकत्वेऽप्यात्मज्ञानस्य तु स्यादेवेत्याह ॥ घटादीति ॥ आत्मयाथात्म्यज्ञानं स्वाश्रयगतं निवर्तयति चेद्धर्मादिकमपि निवर्तयेदित्यापाद्यत इत्यत आह ॥ आत्मेति ॥ इष्टेति ॥ ‘ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुने’त्यादेरिति भावः । एतच्चेष्टापादानं न्यायमतरीत्येति ध्येयम् । तन्मते षोडशपदार्थविविक्तत्वेनात्मयाथात्म्यज्ञानस्यैव धर्मादिनिवर्तकत्वात् । यद्वाऽऽत्मपदेन परमात्मैव ग्राह्यः । परमात्मयाथात्म्यविषयकज्ञानस्यैव जीवगतस्य स्वाश्रयसम्बन्धे सकलकर्मनिवर्तकत्वात् । यदपि चित्रावयविनीत्यादि तदपि न ज्ञानपदेन प्रमारूपज्ञानस्य विवक्षितत्वादिति भावेनाह ॥ चित्रेति ॥ एकमेव हीति ॥ नानारूपोपेतावयवैर्जाते द्रव्ये जायमानं रूपमनेकं न भवति । तथात्वे रूपस्य संयोगादिवदव्याप्यवृत्तित्वापत्तेः । किन्तु कार्यद्रव्यरूपस्वाश्रयव्यापिचित्ररूपं नामैकमेव तद्रूपमिति पदार्थविदो नैयायिका मन्यन्ते । तान्प्रति त्वया कथ्यमानमापादनमसङ्गतमेवेति भावः ।

यादुपत्यम्

प्रकारान्तरेण सत्यस्य ज्ञानेन निवृत्तौ बाधकमाशङ्कते ॥ ननु ज्ञानेन सत्यमिति । जीवगतेन ब्रह्मज्ञानेन सत्यं निवर्तमानं किं विषयभूतब्रह्मगतं नियन्तृत्वादिकमेव । तन्निवृत्तौ जीवगत-नियम्यत्वादिप्रपञ्चस्यापि तत्सापेक्षस्य निवृत्तिरर्थाल्लब्धैवेत्यभिप्रायः । यद्वा आश्रयजीवगत-नियम्यत्वादिकमेव ब्रह्मज्ञाननिवर्त्यम् । तन्निवृत्तौ तत्सापक्षेस्यापि ब्रह्मगतनियन्तृत्वादिकस्य निवृत्ति-रार्थिकीति । अथवा आश्रयविषयीभूतजीवब्रह्मलक्षणोभयसम्बद्धं कर्तृत्वादिकमिति यथाक्रमं विकल्पत्रयार्थः । सर्वत्रापि क्रमेण व्यभिचारमाह ॥ यत इत्यादिना ॥ नानारूपसमाहारश्चित्रमिति कस्यचिन्मतमाश्रित्येदमुदितमित्याहुः । आद्ये पक्षेऽपि नियन्तृत्वादिविशिष्टब्रह्मविषयं ज्ञानं स्वविषयभूतं नियन्तृत्वादिविशिष्टं निवर्तयति उत केवलब्रह्मविषयमेव ब्रह्मगतनियन्तृत्वादिकमिति विकल्प्याद्यं दूषयति ॥ नीलविशिष्टद्रव्येति ॥ स्वविषयं नीलविशिष्टमित्यर्थः । चित्रायवविनीत्येतद्विरोधिनं वा पीतिमादिगुणमिति वक्ष्यमाणगुणोपपत्त्यर्थम् । द्वितीयं दूषयति ॥ स्वविषयसमवेतमिति ॥ नीलज्ञानस्य न रसादिनिवर्तकत्वमविरोधात् । शुद्धात्मविषयं पुनस्तद्विरोधिनं निवर्तयतीत्याशङ्क्य तत्रापि व्यभिचारमाह ॥ विरोधिनं वेति ॥ द्वितीयपक्षमाश्रित्य विरोधिसद्भावस्य निवृत्तौ प्रयोजकत्वान्नोक्तदोष इत्याह ॥ मैवमित्यादिना ॥ उक्तोत्तरत्वादिति ॥ सत्यस्यापि निवृत्तावात्माऽपि निवर्तेतेत्यस्य यदुत्तरमुक्तं व्याप्त्यभावादित्यादि तदेवात्रापीत्यर्थः । तदेव दर्शयति ॥ यदि ज्ञानमिति ॥ यदि ब्रह्मज्ञानमाश्रयगतं नियम्यत्वादि निवर्तयेत्तदा स्वाश्रयगतं धर्मादिकं निवर्तयेदित्यत्र व्याप्त्यभावादित्यर्थः। पूर्ववदविशेषनिष्ठव्याप्तिनिरासायाह ॥ विपक्ष इति ॥ असिद्धश्चाविशेष इत्याह ॥ घटादिज्ञानमिति ॥ बन्धेति ॥ आश्रयगतनियम्यत्वादिरेव दुःखादिबन्धरूप इति हृदयम् । ननु यदि ब्रह्मज्ञानमाश्रयगत-नियम्यत्वादि निवर्तयेत्तदा तद्गतं धर्मादिकमपि निवर्तयेदविशेषदित्यापाद्यते न घटादिज्ञानमतस्त-द्वैषम्येऽपि न दोष इत्याकाङ्क्षायामाह ॥ आत्मयाथात्म्येति ॥ परमात्मयाथात्म्यज्ञानेन जीवगतधर्मादि-बन्धनिवृत्तेरस्माभिरप्यङ्गीकृतत्वादिति भावः ॥ मिथ्याज्ञानमेवेति ॥ अतो न याथात्म्यज्ञानस्य विषयतद्गतनिवर्तकत्वे व्यभिचारोदाहरणस्थलमिदमिति भावः ॥ एकमेव हीति ॥ नानारूपसमाहारस्य चित्रत्वे नीलधवलारुणेषु पटेषु कर्बुरार्थचित्रप्रत्ययापत्तिः । एकस्मिन्धर्मिणि नानारूपसमाहारातिरिक्त-चित्ररूपानङ्गीकारे एकस्यानारम्भकत्वेन सितपीततन्तुद्वयमात्रारब्धपटे रूपोत्पत्त्यसम्भवेन तस्य नीरूपत्वापत्त्याऽचाक्षुषत्वापत्तिश्चेति तेषां भावः । इदं च परस्यासम्बद्धप्रलापित्वप्रकटनायैवोक्तं न तु तत्पक्षकक्षीकरणार्थम् । एकस्याप्यारम्भकत्वे रूपस्याव्याप्तवृत्तित्वं च बाधकाभावेनैकस्मिन्धर्मिणि नानारूपसमाहारातिरिक्तचित्ररूपाङ्गीकारे साधकाभावात् । अत एव ‘पीतशुक्लारुणो हरिः । कृष्णश्चे’त्यादीनि वचनानि समञ्जसानीत्यवधेयम् ॥

श्रीनिवासतीर्थीया

ज्ञानं घटादिज्ञानम् ॥ तथा सतीति ॥ ज्ञानेन सत्यं निवर्तमानं विषयगतं चेन्निवर्तते तर्हि नीलविशिष्टद्रव्यस्य निवृत्तिः स्यादित्यापादनं कर्तुं न शक्यते । तव मते तस्याप्यसत्वादित्यर्थः ।

वाक्यार्थरत्नमाला

ननु ज्ञानेन सत्यमित्यादि मूलमसङ्गतम् । प्राक् न हि दृष्टसामर्थ्याज् ज्ञानाद्बन्धनिवृत्तिरिति तत्पक्षस्यानङ्गीकारपूर्वकमागम एव चेत्यागमपक्षस्यैवाङ्गीकारमुक्तवा तत्र विवरणोक्तदूषणपरिहारस्य कृततयेदानीं परित्यक्तस्य दृष्टसामर्थ्यपक्षस्याश्रयणेन दोषाशङ्का तत्परिहारयोर-सङ्गतत्वादित्याशङ्कानिरासायाङ्गीकारवादेनायं ग्रन्थः प्रवृत्त इति योजयति एवं ज्ञानाद्बन्धेति । बाधक-मिति । आग्नेयादिस्थले श्रुतापूर्वादिसाधनत्वानुपपत्तिमूलकमध्ये अपूर्वादिकल्पना तर्हि न स्यादित्यादि-बाधकमित्यर्थः । अस्तु वा दृष्टेति । अनेन मूलेन ननु ज्ञानेनेति ग्रन्थोऽस्तु वा दृष्टसामर्थ्यादेव ज्ञानाद् बन्धनिवृत्तिस्तथापि नानुपपत्तिरित्येतावत्प्रमेयं सिद्धान्त्यङ्गीकारानुसारेण सिद्धवत्कृत्य प्रवृत्तम् । अन्यथाऽ-सङ्गत्यापत्तेरिति सूचितम् । यद्यप्यत्रेति । विवरणग्रन्थानुक्रमेण तत्रत्यशङ्कानां समाधानरूपतां तत्रत्य-परिहाराणां च शङ्कारूपतामाश्रित्य तत्प्रवृत्तोऽयं मूलग्रन्थ इति तावद्ग्रन्थे तद्ग्रन्थमर्यादावलोकने स्पष्टम् । सति चैवं तत्र प्रथमतो दृष्टसामर्थ्याश्रयणेन बन्धनिवृत्तिपक्षं चित्रावयविनीत्यादिना निराकृत्य पश्चान्ननु न दृष्टसामर्थ्यादित्यादिना आगमाश्रयणेन बन्धनिवृत्तिपक्षस्याशङ्क्य निराकृतत्वात्तदनुसारेणैव दृष्टसामर्थ्यपक्षं प्रथमत आश्रित्य तत्पक्षप्राप्तं ननु ज्ञानेन इत्यादिदूषणनिरासं चाभिधाय पश्चादङ्गीकृत्य चैतदुक्तम् । वस्तुतो न दृष्टसामर्थ्यादित्यादिरूपेण आगमपक्षाङ्गीकारतत्पक्षप्राप्तदोषनिराकरणादिप्रवृत्तिरूपेणैतद्ग्रन्थवाक्यरचना कर्तव्या । तत्परित्यागेन व्युत्क्रमानुष्ठानं तु निर्निबन्धनमापद्यते । उक्तरचनापक्षे च विवरणग्रन्थक्रमानुसारेण तदीयं समाधानमत्र शङ्कारूपम् । तदनन्तरं प्रवृत्ता तदीया शङ्कैवास्मत्परिहाररूपेत्येवं क्रमोऽपि संरक्षितो भवतीत्यर्थः । तथाऽप्यत्रेति । सत्यं विवरणस्थशङ्कासमाधानयोरेवात्र विपर्ययेण प्रवर्तनं प्रतीयत इत्यादि । तथाऽपि न दोषः । तद्ग्रन्थे दूषितपक्षाणां मध्ये केषाञ्चित् पक्षाणामनङ्गीकारेणैव तत्पक्षोक्तदोषस्य स्वमतेऽवकाशाभाव इति प्रथमतः प्रतिपाद्य तदनन्तरमस्तु वा पक्षान्तरमपि तथाऽपि तत्पक्षे परोक्तानु-पपत्तिर्नास्तीत्येवमभ्युच्चयेन तदाश्रयणपूर्वकं तत्पक्षप्राप्तानुपपत्तिपरिहारस्यात्र मूलग्रन्थे स्पष्टप्रतिभासतया विवरणक्रमोल्लङ्घनस्यापि सत्त्वेनापेक्षितक्रमाश्रयणेन दोषपरिहारकरणस्य सङ्गतत्वादित्यर्थः । यद्यपि मिथ्याभूतस्य स्वाप्ननिगडबन्धस्य प्रबोधेनैव साक्षादिति पूर्वमूलानुसारेणैव प्रबोधनिवर्त्यस्वाप्ननिगडादिबन्धे मिथ्यात्वं दृष्टमित्येवंरूपं दृष्टं भिन्नप्रकारमेव प्राप्तम् । तदेव परेण विरोधितया शङ्कितम् । न हि दृष्टेत्यादिना पूर्वं तत्सामर्थ्यानाश्रयणमेव चोक्तम् । ज्ञानेन सत्यमित्येतद्विवरणग्रन्थस्तु तत्सामर्थ्याश्रयणपक्षे न प्रवृत्त इति तदङ्गीकारोक्तिरत्र कथमित्याभाति । तथापि दृष्टमात्रस्य विरोधित्वेन पूर्वमूलोक्तस्येव विवरणोक्तस्यापि दृष्टस्य निवृत्त्यभाव एव दृष्ट इत्येवंरूपस्य विरोधितया तद्दृष्टविरोधमपि निराकर्तुं सामान्यत एवास्तु वा दृष्टसामर्थ्यादिति तत्सामर्थ्यपक्षमाश्रित्य तत्र विवरणोक्तस्याप्याशङ्कापूर्वकं तत्परिहारं कृत्वा तदुभय-दृष्टस्याप्रयोजकत्वं वक्तुं दृष्टसामर्थ्यं नाश्रीयत इति वक्तुमुचितमिति शङ्काशयान्न दोष इति ज्ञेयम् । उक्तातिदेशेनेति । सत्यस्यापि निवृत्तावात्मापि निवर्त्येतेत्याशङ्कापरिहारकतयोक्तव्याप्त्यभावबोधकाभाव-रूपदूषणातिदेशेनेत्यर्थः । न च तर्ह्येतत्पक्षदूषणतया व्याप्त्यभावबाधकाभावयोः प्रथममभिधाने सति पश्चान्निराकरिष्यमाणागमपक्षे उक्तदूषणातिदेशोपपत्तेर्विपरीतमपि सौकर्यमिति वाच्यम् । आगमपक्षे यथाश्रुतार्थे बाधकापत्तिपूर्वकापूर्वादिकल्पनायाः परेणैवोपक्षेपे सति सत्यस्य निवृत्तौ बाधकाभावेन तदनु-पपत्तिपूर्वकमिथ्यात्वकल्पनायोग इति प्राधान्येन बाधकाभावादेरुपन्यासेन दृष्टसामर्थ्यपक्षीयद्वितीय-पक्षनिरासाय पूर्वोपन्यस्तबाधकाभावादेरतिदेशोपपत्तावप्यागमपक्षेऽतिदेशाश्रयणायोगः । दृष्टसामर्थ्यपक्षे बाधकाभावादेः प्राधान्येनोपन्यासाप्राप्तेरित्यत्र तात्पर्यात् ।

प्रकारान्तरेण प्राप्तमूलकाराचातुरीमप्याशङ्क्य परिहरति न चैवमपीति । इति साक्षादेवेति । आगमाश्रयणपक्ष इवेति पूरणीयम् । ननु ज्ञानेनेत्यादिग्रन्थदर्शनेनागमपक्षाश्रयणे एतदप्रसङ्गादृष्टसामर्थ्या-श्रयणेनायं ग्रन्थ इति बहिरेव शिष्यैः कल्प्यत्वादित्याशयः । तद्दूषणेत्यत्रापि साक्षादिति वर्तते । तथाच ब्रह्मज्ञानेन सत्यं निवर्तमानं विषयगतं नियन्तृत्वादिकं निवर्तत इत्यादिरूपेण साक्षाद्दूषणोद्भावनपूर्वकं तत्परिहारप्रवृत्तिमपहाय ज्ञानेन सत्यमिति नीलज्ञानात्मज्ञानसाधारणज्ञानसामान्यस्य नियन्तृत्वादि-नीलादिसाधारणसत्यसामान्यस्य च पुरस्कारेण प्रवृत्तितत्परिहारौ च न युक्तावित्याशयः । कार्यान्तरार्थं मूलकृता मुखत एव दृष्टसामर्थ्यपक्षो नोक्तो ऽपि त्वभिप्रायेणैव स्वीकृतः ज्ञानसामान्यमुखेनैव च बन्धनिवृत्तिदूषणप्रवृत्तिरत्रेति तत्पुरस्कारोऽपीति न दोष इति परिहारं सूचयन् ननु ज्ञानेनेत्यादिना बन्धनिवृत्त्ययोगबाधकान्तरप्राप्तिप्रकारयोरप्रतीतेस् तत्प्राप्तिप्रकारं च दर्शयति ज्ञाननिवर्त्यस्येत्यादिना । सत्यस्येत्यनन्तरं बन्धस्येति शेषः । अन्यतमवत्त्वस्यावश्यवाच्यतयेति पाठः । विषयगतत्वाश्रयगतत्वोभय-गतत्वेषु यदन्यतमं तद्वत्त्वस्येत्यर्थः । ज्ञानेन सत्यं निवर्तत इति वदता तत्सत्यं विषयगतं वा आश्रयगतं वोभयगतं वा वाच्यम् । अतिरिक्तप्रकाराभावादित्याशयः । ज्ञाननिवर्त्यस्येत्युक्तयैव मिथ्याभूतस्थले शुक्ति-ज्ञानेन विषयगतादिभूतरजताकाररजतत्वसंस्कारादिनिवृत्तिदर्शनेन तद्वदत्र सत्येऽपि ज्ञानेन निवर्तमाने विषयगतत्वादि प्राप्तमिति सूचयति ।

ज्ञानेन निवर्तमानः सत्यो बन्धो विषयादिगत एव तर्हि भवत्वित्यत आह ज्ञानेनेति । निवृत्तौ चेत्यतः परं ज्ञानेनेत्यनुवर्तते । विषयगतादीत्यतःपरं सत्येति योज्यम् । लोके विषयगतादेः सत्यस्य कस्यचिज्ज्ञानेन निवृत्तेर्यद्दर्शनं तन्मूलकत्वादित्यर्थः । तावतापि किमित्यत आह तस्य चेति । चित्रावयविनीत्यादि-वक्ष्यमाणरीत्येति सिद्धत्वान्नोक्तम् । दर्शनाभावात् प्रत्युतेति रीत्याऽनुपपन्नत्वम् । विषयगतादीत्यतःपरं बन्धेति पूरणीयम् । सत्यस्येत्यतःपरं बन्धस्येति च । न स्यादितीति । न सम्भवतीति वक्तव्ये न स्यादित्युक्तिरस्य ग्रन्थस्यापादनेऽपि तात्पर्यम् । अत एव यदि ज्ञानमाश्रयगतं निवर्तयेदिति वक्ष्यमाण-मूलेऽनुवाद इति सूचनाय एवमुत्तरत्रापि । इतीत्यतःपरं योजनया सत्यस्यापीति पाठादिति । सत्यस्यापीति पाठेऽनन्वय इति शङ्कानवकाशः । इतिवदिति । इति दृष्टसामर्थ्यमनाश्रित्य प्रवृत्ते पक्षे बाधककथनवदित्यर्थः। सत्यस्यापि बन्धस्येति योज्यम् । विषयादिगतत्वाद्यन्यतमवत एव सत्यस्य बन्धस्य निवृत्तिरङ्गीकार्या स्यादिति यावत् । मूलभावप्रतिपादनलब्धमिष्टापत्तिनिरासकतर्कान्तरमाह तन्मूलतयेति । विषयगतादेर्लोके ज्ञानेन निवृत्तेरभावेऽपि स्वाङ्गीकृतविषयादिगतबन्धनिवृत्तिमूलतया लोके तथादर्शनमनुपपन्नमेव स्वीकार्यम् । अन्यथा लोके दर्शनाभावयुक्तया बन्धनिवृत्तिस्वीकारो दुर्घटः स्यादिति भावः । तात्पर्यादिति । ज्ञानेन सत्यमित्यादिग्रन्थेन ज्ञानेन विषयादिगतस्य सत्यस्य लोके निवृत्त्यदर्शनात्प्रकृते बन्धस्य तथाविधस्य निवृत्त्ययोग इति शङ्काप्रवृत्तावेवोक्तरीत्यागमपक्षोऽपि बाधकान्तरं लभ्यते । यदि तु साक्षादेव बन्धस्य विषयादिगतस्य निवृत्तिर्न युक्तेत्येवं दूषणं प्रवर्त्येत । तदा तावन्मात्रं दूषणं प्राप्नोति । न तूक्तं बाधकान्तर-मतस्तल्लोभाज् ज्ञानसामान्यमुखेन ज्ञानमित्यादिग्रन्थः प्रवर्तित इति तात्पर्योक्तया प्रतिपादितमिति बोध्यम् । यदि ज्ञानमाश्रयगतमित्येतन्मूलावतारिकारूपं यदि ज्ञानमाश्रयेत्यादिटीकायां सामान्या-पादनेत्युक्तप्रकारस्तु स्वातन्त्र्येण बाधककथनपरतया योजनापक्षस्य दर्शनपुरस्कारेण प्रवृत्तैतद्योजनाश्रयणेनाप्रवृत्तत्वात् प्रकारान्तरमेवेति न बाधकद्वयस्यानुगुण्यं चिन्तनीयम् । सर्वप्रपञ्चनिवर्तकतया ज्ञाने वादिनाऽङ्गीकृते सति विषयगतादियत्किञ्चिद्विशेषनिवृत्तिविकल्पनमपूर्णमित्यतस्तद्विकल्पान् पूरयति अत्र चेत्यादिना । जीव-गतस्य नियम्यादेरपीतित्येव पाठः । जीवगतं यज्ज्ञानं सत्तादिकं नियम्यमुत्पाद्यं स्थाप्यं विनाश्यं वा अधीन-मात्रं वा तस्येत्यर्थः । यद्यप्येवं विषयगतपक्षे तत्त्वदीपनकृता नोक्तम् । तथाऽपि स्वाश्रयगतं वस्तु ज्ञानेन निवर्तत इत्येतद्विवरणव्याख्यानतत्त्वदीपने जीवगतनियम्यादिप्रपञ्चनिवृत्तौ तत्सापेक्षो नियन्तृत्वादिरपि ब्रह्मगतोऽर्थान्निवर्तत इत्यभिप्रायकथनात्समानन्यायतया विषयगतनिवृत्तिपक्षेऽप्येतदेवाभिप्रायतया योजित-मित्यदोषः । यद्यपि च तत्त्वदीपने एतत्पक्षदूषणावसरे पृथक्पृथगभिहितम् । तथापि सौकर्यात् प्रथमातिक्रमे कारणाभावाच्च प्रथममेव सङ्गृह्योक्तमित्यवधेयम् ।

निवृत्तिरितीत्यतःपरमाशयेनेति वर्तते । उभयेति । कर्तृत्वादेराश्रयविषयसम्बन्धिनो ज्ञानेन निवृत्ति-रित्याशयेन तृतीय इत्यर्थः । तन्निवर्तकं नियन्तृत्वादिरूपप्रपञ्चनिवर्तकम् । प्रपञ्चाविषयकमित्यतःपरं तन्निवर्तकमित्यनुवर्तते । आश्रयगतत्वपक्ष इव गतत्वविषये पक्षदूषणावसरे स्वविषयनिवर्तकत्वाभाववचन-मसङ्गतमित्यतस्तन्निराकरणं सङ्गमयितुं विशिष्टविषयकत्वपक्षादिविकल्प उत्थापितः । वक्ष्यति च विशिष्ट-विषयकस्य विशेषणविषयकत्वस्यापीति । ननु चात्मज्ञानस्य बन्धनिवर्तकत्वायोगोपयोगितया विकल्पितात्म रूपविषयगतत्वपक्ष एव निराकार्यस्तत्किमर्थं नीलविशिष्टज्ञानस्य स्वविषयादिनिवर्तकत्वाभाववर्णन-मित्यतस्तस्योपयोगो यथा स्यात्तथा योजयति उभयत्रापीति । उभयथाऽपीत्येव मूलकोशपाठः । तदभाव एवेति । विशिष्टविषयकस्य विषयादिगतनिवर्तकत्वाभाव इत्यर्थः । इति व्यभिचार इति । इत्यतो हेतो-र्व्यभिचार इति फलप्रदर्शनं तत्त्वदीपनग्रन्थानुसारेण व्यभिचारपरत्वेन योजनेति दर्शयितुम् । ततश्च सत्यपि निवर्तकतयाऽभिमते निवृत्तेरभावाद्यद् विशिष्टादिविषयकं तद्विषयगतादिनिवर्तकमित्यन्वयस्य व्यभिचार इत्यर्थः । एवमुत्तरत्रापि व्यभिचारपदार्थोऽवधेयः । इत्याशयेनेति । अनेनान्यत्र तथाविधज्ञानस्य विषयादि-निवर्तकत्वाभाववचनं स्वमुखेनात्मज्ञानेऽपि तन्निवर्तकत्वाभावप्रतिपादनाभिप्रायेणेत्यतस्तत्रैव तत्पर्य-वसन्नमिति नासङ्गतिरिति सूचितम् । आद्यं निराहेति । विशिष्टस्यावतारस् तत्र विशिष्टविषयकत्व-रूपाद्यपक्षस्य स्वविषयमित्यन्तेन निराकरणम् । इत्यादिकमित्यन्तेन च केवलविषयकत्वपक्षनिराकरणमिति तु विवेकः । अत एव च विषयगतपक्षदूषणेत्यादिपरिहारकथनेनैव विशिष्टविषयकत्वपक्षनिराकरणं स्वविषयमित्यन्तेन कृतमिति सूचयित्वा केवलविषयकमित्यादिना स्वविषयसमवेतरसादिकमित्यंशस्य केवलविषयकत्वपक्षनिरासकत्वमिति प्रतिपादयिष्यते । स्वविरोधिनमित्यादेस्तु प्रयोजनान्तरं कथयिष्यतीति ज्ञेयम् । ननु नीलविशिष्टोदाहरणे विषयगतनिवर्तकत्वपक्षस्य विशिष्टविषयककेवलविषयकविकल्पेन निराकरणमात्रस्य च तच्चित्रेत्यादिवाक्येन प्रतीतावपि विषयगतनिवर्तकत्वादृष्ट्यादिना आत्मज्ञान-स्याप्युभयविधस्य विषयगतनिवर्तकत्वायोग इत्यस्य प्रतिपादनाप्रतीतिरेव । किञ्च चित्रावयविनीत्य-नेनोदाहरणविशेषेऽदर्शनोक्तावपि सर्वथा दर्शनाभावानुक्तेः कथं दृष्टसामर्थ्यनिराससिद्धिर्यत इत्यादिना स्यात् । ततश्चायुक्तमिदमित्याशयेनेतीत्यतो यत इत्यादिना आपाततस्तदाशयाप्रतीतावपि तद्वाक्ययोजनायां तेनोक्तरूपविशिष्टार्थस्य लाभसम्भव इत्याह अत्रेति । अयमाशयः । नाद्य इत्यस्य हि ज्ञानेन सत्यं निवर्तमानं विषयगतं निवर्तत इति नेत्यर्थः । तदनुवादोऽयं ब्रह्मज्ञानेन सत्यं निवर्तमानं विषयगतं नियन्तृत्वादिना निवर्तत इति ।

यतश्चित्रावयविनीत्युक्तस्य तु तात्पर्यकथनं यत इत्यादि । विषयगतं न निवर्तत इति पाठः । अत्र लोक इति वदतान्यत्र सर्वत्र दर्शनाभावलाभायोपलक्षणयोदाहरणान्तरेऽपि विशिष्टादिविषयकस्य विषयगत-निवर्तकत्वं नास्तीति प्रतिपादनं यद् इति वाक्येऽभिप्रेतमिति सूचितम् । अत एव विषयगतमित्येव सामान्यत उक्तम् । न तु नीलादीत्यपि । चित्रेत्याद्युदाहरणोपादानं तु प्रत्युत विषयगतनिवर्तकत्वाभाव एव दृष्ट इत्यस्य प्रदर्शनार्थम् । अत एवोक्तं प्राक् । ‘‘न च तद् दृष्टम् । प्रत्युत तदभाव एव दृष्टः’’ इति । ततश्च नाद्यो यतश्चित्रेत्यादिप्रतिज्ञाहेतुमेलने न विशिष्टयोजनया विशिष्टादिरूपब्रह्मज्ञानेन विषयगतनियन्तृत्वादिनिवर्तनं दृष्टसामर्थ्यादित्ययुक्तम् । विशिष्टादिविषयकज्ञानस्य विषयगतनिवृत्तिहेतुत्वादृष्टेः प्रत्युत तदभावस्यैव दर्शनाद्यद्विशिष्टविषयकं तद्विषयगतनिवर्तकमित्यादिव्याप्तौ व्यभिचार इत्यभिप्रायलाभः सम्भवतीति । एवं प्रतिज्ञाहेतुवाक्यमेलनेनोक्ताभिप्रायलाभवर्णने सति कथमत्र तल्लाभस्तत्प्रापकाभावादिति शङ्काऽप्य-नवकाशा । योजनयेति वदतोक्ताभिप्रायलाभायैवं योजना कार्येत्यपि सूचितम् । नियन्तृत्वादि निवर्तते विषयगतं निवर्तते इति स्थलद्वयेऽपि नञ्शून्यया हेतुर् न निवर्तयतीति मूलगतनञःसम्बन्धं सिद्धवत्कृत्या-वशिष्टभागयोजनामात्रप्रदर्शनमित्यदोषः । यत इत्यादेर्ब्रह्मज्ञानस्य उभयविधस्य विषयगतनियन्तृत्वादि-निवर्तकत्वं दृष्टेत्यादिः प्रागुक्ताशयोऽपि ज्ञानेन सत्यमिति शङ्कोपक्रमवाक्ये मूलकारीयो नीलात्मज्ञानयोर्यः सामान्यरूपेण पुरस्कारस्तद्बलागत इति न निर्मूलैषा योजनेति शङ्क्यमित्याह अत एवेति । ज्ञानसामान्यस्य सत्यसामान्यस्य च निर्देश इत्यर्थः । आपाद्यापादकयोः सूचनाय सामान्यानुवाद इति ज्ञानसामान्यस्या-पादनेति चोत्तरग्रन्थेऽपीदमुभयं विवक्षितम् । अत एव ज्ञानमज्ञानस्यैव निवर्तकमिति व्याप्तौ सत्यस्यापि निवृत्तिः किं न स्यादिति सामान्यस्यैव प्रस्तुतत्वादित्युत्तरत्रोभयग्रहणमिति ज्ञेयम् । अन्यथा ब्रह्मज्ञानेन सत्यमित्याद्ये वा अवक्ष्यदिति भावः । चित्रावयविगतनीलादेः रसादेश्चाश्रयगतत्वाविशेषेऽपि प्रागुक्त-विशिष्टादिविकल्पानुसारेणाद्ये नीलादित्वेन द्वितीये च रसादित्वेन ग्रहणं युक्तमिति सूचयन् मूलकारीया-चातुरीं परिहरति विषयगतेति । केवलेति च । यतश्चित्रेतिवाक्यस्य तत्तज्ज्ञानस्यान्यत्र विषयगत-निवर्तकताया अदृष्टत्वात् तदभावस्यैव दृष्टत्वाच्च न दृष्टसामर्थ्याद्ब्रह्मज्ञानस्य विषयगतनिवर्तकताश्रयणमिति वक्तुं युक्तमित्यर्थसमर्पकतासिद्ध्यर्थमत्र ब्रह्मज्ञानेन सत्यमित्यादि योजनावद् आश्रयगतोभयगतनिवर्तकत्व-निरासपरं न द्वितीयः पटादीत्याद्युत्तरकल्पद्वयेऽपि विवक्षितार्थलाभाय प्रतिज्ञामेलनेन योजना कार्येत्याह एवमेवेति । न द्वितीय इत्यस्य ब्रह्मज्ञानेन सत्यं निवर्तमानमाश्रयगतं नियम्यादि न निवर्तत इति पटादीत्यस्य च ज्ञानेनाश्रयगतस्य लोके निवृत्त्यभावादिति च द्वितीयकल्पे योजना । तथा न तृतीय इत्यस्य ब्रह्मज्ञानेन सत्यं निवर्तमानमुभयगतं कर्तृत्वादि न निवर्तते इति आत्मन इत्यस्य च ज्ञानेनोभयगतस्य लोके निवृत्त्य-भावादिति च तृतीयकल्पे योजना द्रष्टव्येत्यर्थः । योजना द्रष्टव्येत्येकदेशोक्तया तद्योजनालब्धाभिप्रायोऽपि द्रष्टव्यत्वेनाभिप्रेतः । केवलयोजनामात्रस्य वैयर्थ्येनाद्यकल्प इवाभिप्रायसमर्पकताया वाच्यत्वेन तद्योजना-द्वयेन तत्कल्पद्वयेऽभिप्रायस्योन्नेयत्वलाभात् । तथाहि । ब्रह्मज्ञानस्याश्रयगतनियम्यादिप्रपञ्चनिवर्तकत्वं दृष्टसामर्थ्याद्वदताऽन्यत्र तत्तज्ज्ञानस्य आश्रयगतनिवर्तकत्वं दृष्टमिति वक्तव्यम् । न च तद्दृष्टं प्रत्युत तदभाव एव दृष्ट इति यज्ज्ञानं तदाश्रयगतं निवर्तयतातिव्याप्तौ व्यभिचार इति द्वितीयकल्पे आशयः । तृतीयकल्पे तु ब्रह्मज्ञानस्योभयगतकर्तृत्वादिनिवर्तकत्वं दृष्टसामर्थ्याद्वदताऽन्यत्र तत्तज्ज्ञानस्योभयगतनिवर्तकत्वं दृष्टमिति वक्तव्यम् । न च तद् दृष्टम् । प्रत्युत तदभाव एव दृष्ट इति यज्ज्ञानं तदुभयगतमिति व्याप्तौ व्यभिचार इत्याशय इति ज्ञेयम् । अविरोधादिति । निवृत्तौ विरोधस्यैव प्रयोजकत्वान्नीलादिज्ञानेनाविरोधान्नीलादि-रसादिनिवृत्त्यभावेऽपि प्रकृते ब्रह्मज्ञानस्य नियन्तृत्वादिविरोधात्तन्निवर्तकत्वं युक्तमित्याशयः ।

तत्रापीति । तर्हि विरोधे ज्ञानेन विरोधिनिवृत्तिं दृष्टसामर्थ्याद्वदताऽन्यत्र विरोधस्थले ज्ञानेन स्वविरोधि निवर्तत इति दृष्टमिति वाच्यम् । न च तद्दृष्टं प्रत्युत तदभाव एव दृष्ट इति तत्रापि व्यभिचार इत्यर्थः । एवमेवोत्तरकल्पद्वयेऽपि योजना द्रष्टव्येत्यनेनैव न द्वितीयः । पटादीत्यादिकल्पद्वयनिराकरणग्रन्थस्य व्याख्यातप्रायत्वान्न पृथक् तद्व्याख्यानमिति ज्ञेयम् । एवं ज्ञानाद्बन्धनिवृत्तिर्न दृष्टसामर्थ्यादित्यादि-प्रागुक्तरीत्या ननु ज्ञानेन सत्यं निवर्तमानमित्यादिमूलस्य दृष्टसामर्थ्याश्रयणेन ज्ञानाद्बन्धनिवृत्ति-रित्यभ्युच्चयेन अङ्गीकृतपक्षे विवरणोक्तबाधकाशङ्कनपरत्वेन योजनायां तत्तत्त्वदीपनाद्यनुसारेण विषयादि-गतस्य ब्रह्म-ज्ञानेन निवृत्तिरित्यभ्युपगमे विषयादिगतस्य ज्ञानेन लोके निवृत्त्यदर्शनादिति प्रागुक्तरीत्या व्यभिचारपरतया नाद्यो यतश्चित्रेत्यादिग्रन्थो योजनीयतया प्राप्नोति । तद्योजनेनैतन्मूलवाक्यार्थोपपत्तावपि मैवमुक्तोत्तरत्वादित्यादिसिद्धान्तग्रन्थस्यास्वारस्यमायाति । तस्य हि यदि ज्ञानमाश्रयगतं निवर्तयेदित्यादि-नेष्टापादनमित्यन्तेन शङ्काग्रन्थस्य तर्कपरतामुपेत्य तद्दूषणाय प्रवृत्तिरिति सिद्धत्वात् । तदानुगुण्याय चागमपक्षे बाधकान्तरकथनेऽपि तात्पर्यं च कल्पनीयं भवति । अस्तु वा ज्ञानाद्बन्धनिवृत्तिर्दृष्टसामर्थ्यादिति साक्षादेवोक्तवा तद्दूषणपरिहारः कुतो न कृत इति शङ्कापरिहारायाप्युक्तं तात्पर्यं कल्पनीयं भवति । तथा विवरणोक्तदूषणक्रमानुसारेणात्र मूले ग्रन्थविन्यासापत्तिशङ्काप्राप्तौ तत्परिहारायात्र तत्तत्प्रमेयेत्यादि-टीकोक्तरीत्या तदुपपादनमाश्रयणीयं भवति । न च सति गत्यन्तरे तदुभयाश्रयणेन ग्रन्थप्रवृत्तिरभ्युपेतुं शक्येति मनसि कृत्वोक्तप्रकारे अनादरं सूचयन्नागमपक्ष एव बाधकाभावाक्षेपाय बाधकान्तरकथनपरतेति प्रकारान्तरेण नन्वित्यादिग्रन्थयोजना कार्येत्येतावन्मात्रमुपर्येवाह । अथवा निवर्त्यस्येत्यादिनाऽनुवादोऽय-मित्यन्तेनापूर्वपक्षादेतत्पक्षे स्वारस्यकथनपरात्र च पक्षे आपादनेत्युत्तरटीकायामेव पूर्वत्रास्वरससूचनं चोक्ताभिप्रायकम् । विषयगतादिरूपेण निवर्त्यविकल्पबीजप्रदर्शनेन तदवकाशप्रदर्शनं निवर्त्यस्येत्यादि-नियमादित्यन्तेन । बाधकप्रसङ्ग इति । सत्यस्यापि ज्ञानेन निवृत्तौ बाधकाभावे सिद्धान्तिनोक्ते सति सत्यस्यापि निवृत्तावात्माऽपि निवर्तेतेति प्रागाशङ्कितविपक्षे बाधकप्रसङ्गवदयमपि बाधकप्रसङ्गोऽ-प्रयोजकत्वमाक्षेप्तुं प्रवृत्तोऽत्र ननु ज्ञानेनेत्यादिशङ्काग्रन्थेऽभिमत इत्यर्थः । अभिमत इत्युक्तयैव वाक्याद-प्रतीतोऽपि तद्वाक्यगतज्ञानसत्ययोः सामान्यानुवादबलाल्लब्धस्तदनुगुणोऽभिधातव्य इति सूचितम् । एतत्तर्कीयापाद्यापादकादिप्रतीत्यभावात्कथमस्य ग्रन्थस्य तर्कसूचकत्वमित्यत आह तत्र चेति । नन्वित्यादि-शङ्काग्रन्थ इत्यर्थः । तत्र च ज्ञानेन स्वस्वविषयादिगतं सत्यं निवर्तते किमित्ययं सामान्येनानुवाद आपाद्यापादकयोः सूचनायेति सम्बन्धः । अनेन ब्रह्मज्ञाननीलज्ञानसाधारण्येन नियन्तृत्वादिनीलसाधारण्येन च ज्ञानसत्ययोरापादकप्रविष्टयोर्ग्रहणे सति किंशब्दस्य भिन्नक्रमतां काकुं चाश्रित्य लब्धसत्यज्ञानेन सत्यं निवर्तमानं विषयगतं निवर्तते किमित्यादेर्ब्रह्मज्ञानेन विषयगतं सत्यं नियन्तृत्वादि निवर्तते किम् । तथात्वे च तत्तज्ज्ञानेनान्यदपि स्वस्वविषयगतं निवर्तते किमित्यादियोजनया ब्रह्मज्ञानेन सत्यनिवृत्तिरापादकाज्ञाने-नान्यस्यापि सत्यस्य निवृत्तिरापाद्येति तयोरुभयोरपि तन्त्रेण सूचनमित्युक्तं भवति । न त्वत्राभिमतस्तर्क इत्युक्तेरापादकं बहिरुन्नेयतर्कादेवावसेयं तर्हीत्यनुवादादेव तत्सूचनमित्यर्थः । आपाद्यापादकयोरिति तदुभय-स्याविशेषेण ग्रहणात् । आपादकस्य सर्वथा मूलस्पृष्टत्वप्राप्तेश्च । ब्रह्मज्ञानेनेत्यादि किमित्यन्तेनापादक-प्रतिपादने लब्धेऽनिष्टं प्रसञ्जयितुं तर्हि ज्ञानेनेत्यादिना आपाद्यप्रतिपादनावसरे तर्हीत्येतल्लाभोऽपि सुलभ एवेति स्पष्टम् ।

तदेतदुक्तं तर्हि तत्तदित्यादि । निवर्तत इत्यस्य लकारव्यत्ययाश्रयणे किंपदास्वारस्यमित्यतस्तदा-श्रयणेन तर्कलाभायोग इत्याशयेनापाद्यापादकयोरेव ग्रहणम् । अन्यथा तर्कसूचनायेत्यवक्ष्यदिति ज्ञेयम् । भवेदेतदेवं यदि सामान्यानुवादस्यापि प्रयोजनं स्यान्न चैतदस्तीत्यत उक्तम् इष्टापत्ताविति । तत्र चेति वर्तते । तत्राभिमते बहिरुन्नेये तर्के ज्ञानेन स्वविषयादिगतमन्यदपि सत्यं निवर्ततामितीष्टापत्तिशङ्कायामित्यर्थः । इष्टापत्तावित्यनन्तरं नाद्य इत्यादिना तथा निवृत्त्यदर्शनादिप्रतिपादनेन तन्निवृत्तेरप्रामाणिकतया प्रमाण-विरुद्धतया चानिष्टत्वं वक्तुमिति पूरणीयम् । तथा च अभिमततर्के इष्टापत्तिशङ्कावारणाय तर्कीया-पाद्यापादकयोः सूचनफलकसामान्येनानुवादपूर्वकं नाद्य इत्यादिना तत्तज्ज्ञानेन स्वस्वविषयादिगतनिवृत्तिस्तु नास्तीत्युच्यत इति योजना सूचिता भवति । लोकेऽपि कस्मिंश्चिदप्रामाणिकेऽर्थेऽङ्गीकृते सति तर्ह्यन्यदप्येवमङ्गीकर्तव्यं स्यादित्यापादितेऽपि तदनन्तरमिष्टापत्तिशङ्कावारणाय पुनर्यदि पर्वतस्य वह्निमत्त्वा-भावोऽङ्गीक्रियते तर्हि धूमवत्त्वाभावोऽपि किमङ्गीक्रियत इति काक्वाऽनूद्य न च धूमाभावोऽङ्गीकर्तुं युक्तः । धूमस्य प्रत्यक्षसिद्धत्वादित्यनिष्टत्वोपपादनं कुर्वन्ति । नन्वस्तु सामान्यानुवादेनोभयसूचनादिव्युत्पादनम् । तदनुवादकरण एव किंमूलम् । स्पष्टमेवात्र कुतस्तदनुवादाभाव इत्यतः प्रस्तावरूपं मूलमाह ज्ञान-मज्ञानस्यैवेति । व्याप्तावित्यन्तेन ज्ञानमज्ञानस्यैव निवर्तकमिति नियमोऽस्तीति पूर्वोदाहृतं वाक्यमर्थतः सङ्गृहीतम् । ततश्चेति व्याप्तावित्येतद्व्याप्तिप्रतिपादकवाक्ये ज्ञानमिति ज्ञानसामान्यस्य प्रस्तुतत्वात् । सत्यस्यापि ज्ञानेन निवृत्तौ बाधकाभावेनेत्यस्यार्थानुवादः सत्यस्यापि निवृत्तिः किं न स्यादिति । अत्रेति चेति चशब्दान्तर्भावेन व्याख्येयम् । तथा च इति च तद्व्याप्तावप्रयोजकत्वाभिधायकवाक्ये सत्यस्यापीति सत्यसामान्यस्य प्रस्तुतत्वादिति विवेकः ।

एवं समुदाययोजनाभिधानेन पूर्वयोजनातो भेदप्राप्तावपि नन्वित्यादिग्रन्थस्य पूर्वसङ्गतत्वेन योजनायाः स्पष्टमप्रतीतेर्मन्दानुकम्पया तद्योजनाप्रकारं स्पष्टयति एवं चेति । स्पष्टनाभिप्रायेणैवैवं चेत्यनेनोक्तरीत्या समुदायप्रमेयस्योक्तरूपत्वे सतीति निमित्ततया कीर्तनम् । सत्यस्यापि निवृत्तौ बाधकाभावेनेत्यनेन प्राक्कृताप्रयोजकत्वाशङ्कोद्धारायेत्यर्थः । सत्य आत्मापीत्येतद्बाधकापेक्षयाऽन्यत्वाभिप्रायेण तदन्तरत्वोक्तिः । नन्वितीति । तथा चात्र निवर्त्यस्य सत्यस्य विषयगतत्वादीत्युक्तरीत्या बाधकप्रसङ्गोऽभिमतः । ज्ञानेन सत्यमित्यादिकं तूक्तप्रसङ्गीयापाद्यापादकयोस्तर्हि तज्ज्ञानेन विषयादिगतं निवर्तते किमिति पूर्वोक्तरीत्या सामान्येनानुवादरूपमित्युक्तं भवति । उताथशब्दावपि पक्षभेदार्थौ किंशब्दार्थकाविति सिद्धवत्कृत्य तद्योजना नोक्ता । तथा च किंशब्द एव तयोः पर्यवसानमिति तत्रापि पूर्ववदेव योजनेत्याशयान्न दोषः । आपादनत्रयेऽपीति । विषयादिगतमिति पूर्वत्रोक्तिलाघवाय सङ्ग्रहेण कथनेऽपि यदि ब्रह्मज्ञानं विषयगतं सत्यं नियन्तृत्वादिकं निवर्तयेत् तर्हि अन्यत्रापि ज्ञानेन स्वस्वविषयगतं निवर्तेतेत्यादिरूपापादनत्रयमेव पूर्वत्र विवक्षितत्वेन प्राप्तमिति न दोषः । इष्टापत्तिमिति । अन्यस्यापि ज्ञानेन निवृत्तिरस्त्वितीष्टापत्तिमित्यर्थः । निरस्यति । क्रमेणेति शेषः । तन्निवृत्तेरदृष्टत्वात्प्रत्युत तदभावस्यैव दृष्टत्वादिति युक्तयेति पूरणीयम् । नन्वेवं सत्यस्यापि निवृत्तौ बाधकाभावोक्तेराक्षेपार्थं बाधकान्तराशङ्कापरमेतन्मूलमिति स्वीकारे विवरणोक्त-दूषणक्रमविरोध इत्यतस्तत्र दृष्टसामर्थ्यपक्षदूषणायैतद्बाधकोपन्यासेऽप्येतद्बाधकस्यागमपक्षीयप्रागुक्त-बाधकाभावाक्षेपकतयापि व्यापारयितुं शक्यत्वात् तदाशङ्कनं श्रुतिप्रतीतकार्यकारणभावपक्षेऽपि युक्तमित्या-शयेनाह एवं चेति । एवं तर्कपरतया किम्पदे काक्वाश्रयणादिना योजनाकरणे मूलकारीयोत्तरग्रन्थ-रूपज्ञापकमाह अत्र पक्ष इति । आपादनविवक्षानिमित्तं तु वक्ष्यामः । यथास्थितेति । तथाऽप्यत्र तत्तत्प्रमेयानङ्गीकारेणेति प्रागुक्तरीत्या विवरणोक्तदूषणक्रमानुसरणस्यान्यस्थले तत्र तत्राङ्गीकारेऽप्यत्र श्रुतिप्रतीतकार्यकारणभावाश्रयणस्यैव मुख्यतया स्वीकारेण दृष्टसामर्थ्यपक्षाङ्गीकारमकृत्वा तत्पक्षोक्तदोषस्य समानन्यायतया प्राप्तिमाशङ्क्य तन्निराकरणमात्रं कृतमिति तत्क्रमाननुसरणान्न यथास्थितविन्यासेऽनु-पपत्तिशङ्कावकाश इत्याशयः ।

विषयगतमाश्रयगतमुभयगतमिति प्राक्पक्षत्रयविकल्पे तन्निरासे च सति तेषु द्वितीयपक्ष एव प्राप्त-दूषणपरिहारे निमित्ताभाव इत्यतस्तत्र निमित्तं वदन् द्वितीयपक्षनिरासपरमूलमवतारयति आत्मज्ञानेनेति । द्वितीयपक्षमाश्रित्येति । आत्मज्ञानस्याश्रयगतनियम्यादिनिवर्तकत्वं दृष्टसामर्थ्यादङ्गीक्रियत इति द्वितीय-पक्षमित्यर्थः । तत्रोक्तेति । ब्रह्मज्ञानेन सत्यं निवर्तमानमाश्रयगतं नियम्यादि न निवर्तते । लोके ज्ञानेनाश्रयगतस्य निवृत्त्यदर्शनात् । ततश्च व्यभिचार इति दूषणमित्यर्थः । तर्कदूषणत्वेन प्रतीयमानस्यास्य ग्रन्थस्यैतत्पक्षदूषणपरिहारकत्वं चेदं च व्यभिचारपरतापक्ष इत्यादिना व्यभिचारोपपादनाय विवक्षितेऽन्यथा पटादिज्ञानेनापि धर्मादिनिवृत्तिः स्यादिति तर्के दूषणमिति वदता टीकाकृतैवोपपादयिष्यत इति ज्ञेयम् । ननु पदादिज्ञानेनात्मगतधर्माद्यनिवृत्तेरित्येव तावत्तदीयं द्वितीयपक्षे दूषणम् । तस्य यदीत्यादिना तर्कपर्यवसा-नाश्रयणेन दूषणे निमित्ताभावः । न च ज्ञानेन सत्यं निवर्तमानमिति शङ्काग्रन्थ एव तर्कपरतया प्रागुक्तरीत्या प्राप्त इति दूषणस्य तत्र पर्यवसानमिति वाच्यम् । तद्ग्रन्थस्यापि तर्कपरतया योजनायां निमित्ताभावात् । एतदनुसारेण पूर्वग्रन्थस्य तर्कपरतया योजनायां तु स्फुटमितरेतराश्रयत्वमिति चेत् ।

अत्र ब्रूमः । पूर्वं विपक्षे बाधकाभावेन सत्यस्यापि ज्ञानेन निवृत्तिरस्त्वित्यप्रयोजकत्वशङ्कायां विपक्षे बाधकतर्काशङ्कैव परेण कार्या । तद्दूषणं च सिद्धान्तिना कर्तव्यमिति सिद्धत्वात् सत्यस्यापि निवृत्तावात्मा-पीत्यनेनैको बाधकस्तर्क आशङ्कितः निराकृतश्च अतो ननु ज्ञानेन सत्यमित्यादि ग्रन्थेऽपि विपक्षे बाधक-तर्कोत्तराशङ्कैवोचिता । तर्कदूषणमेव वोचितम् । यद्यपि मूलकृता ब्रह्मज्ञानेन विषयादिगतनियन्तृत्वादि-निवृत्तौ । ज्ञानेनान्यदपि स्वस्वविषयादिगतं निवर्तेतेति स्वातन्त्र्येण तर्कमुत्थाप्य तद्दूषणं कर्तुं शक्यं तथापि ज्ञानेन सत्यं निवर्तमानमित्यादिविवरणग्रन्थदूषणमप्येतद्बाधकनिराकरणव्याजेन भवत्वित्याशयेन तद्ग्रन्थेऽपि स्वोक्तदूषणसूचितदिशा तर्कपरतां शिष्या एव ज्ञास्यन्ति । विपक्षे बाधकतर्कप्रकरणाच्च तथात्वज्ञानं तेषां भविष्यतीति च सिद्धवत्कृत्योक्ततर्कप्रतिपादनं हृदि कृत्वैव विवरणग्रन्थानुकरणं कृतमिति न कश्चिद्दोषः । तथाच विपक्षे बाधकप्रकरणादेव तर्कपरतेति नोत्तरग्रन्थस्य तत्परतायामपेक्षा । टीकाकृता तु तथाविध-तर्कपरतयैतद्ग्रन्थोदाहरणमिति मूलकाराभिप्रेतमित्येतत्तदुत्तरग्रन्थादेवावसीयत इति प्रतिपादनेऽप्येतद्बला-त्पूर्वग्रन्थस्य तर्कपरतेति नोक्तम् । अतो नान्योन्याश्रय इति । विपक्षे बाधकान्तरकथनेऽपि तात्पर्यादित्यादि वदता टीकाकृता तर्कपरतया योजनायामपीदमेव निमित्तं सिद्धं कृतमिति स्पष्टमेव प्रतीतेः । अन्यथा कुतो ननु ज्ञानेनेत्यत्र ग्रन्थे तर्कसंस्पर्शाप्रतीतावपि किमादिशब्दे काकुं भिन्नक्रमतां तर्हीत्यध्याहारं चाश्रित्य योजनां तदनुसारितर्कस्य बहिरुन्नेयस्याभिमततां च वदेदित्यलम् । ननु पटादिज्ञानेनात्मगतधर्माद्यनिवृत्तेरिति वदता परेण पटादीत्युक्तिबलादात्मज्ञानातिरिक्तज्ञानसामान्यस्यैवापादनविषयता स्वीकृतेति तद्दूषणमात्रमुचितम् । आत्मयाथात्म्यज्ञानस्यैवेत्युत्तरदूषणं त्वप्रसक्तदूषणमित्यतः पटादीति वाक्यादेवाहोस्विदित्यादिनात्म-याथात्म्यज्ञानस्यापादनविषयताया अपि प्रतीतिसम्भवं वदन् प्रथमपक्षे ब्रह्मज्ञानस्य नियम्यादिनिवर्तकत्व-लाभप्रकारं च वदन्नुत्तरग्रन्थमवतारयति यदि ज्ञानमित्यादिना । ज्ञानसामान्यस्येति वदता पटादीत्युक्तावपि क्वचिज्ज्ञाने धर्मादिनिवर्तकतासत्त्वे तदापादनानुपपत्तिप्रसङ्गात्तदुपपत्त्यर्थम् । तत्तज्ज्ञानेनाश्रयगतं निवर्तते किमिति प्राक्प्रदर्शितयोजनानुसारेण पटादिज्ञानपदेन ज्ञानमात्रग्रहणमिति सूचितम् । आपादनविषयता-मित्यस्य ज्ञानत्वेन रूपेण ज्ञानमात्रं धर्मीकृत्य तस्यैवाश्रयगतनिवर्तकत्वसामान्यमापादकं कृत्वा धर्मादि-निवर्तकत्वस्य यदापादनं तद्विषयतामित्यर्थः । आर्थिकीति । यदा ज्ञानत्वावच्छिन्नस्याश्रयगतनिवर्तकत्वा-भावस्तदा ब्रह्मज्ञानस्यापि ज्ञानत्वाविशेषान्नाश्रयगतनिवर्तकत्वमिति लाभस्य तर्कीयविपर्ययपर्यवसान-लब्धत्वाभावादार्थिकत्वमुक्तम् । आत्मज्ञानरूपविशेषस्येति । आत्मज्ञानत्वं धर्मितावच्छेदकं कृत्वा आश्रयगतनियम्यादिनिवर्तकत्वं चापादकं कृत्वा धर्मादिनिवर्तकत्वेन यदापादनं तद्विषयतामभिप्रेत्येत्यर्थः । पटादिग्रहणसत्त्वेन मुखतो ज्ञानसामान्यस्य आत्मज्ञानस्य वा आपादनविषयताया अप्राप्तेरुभयत्रापि अभिप्रेत्येत्युक्तम् । ननु पूर्वकल्पीयतर्के इष्टापत्तिशङ्कावारणाय पटादिज्ञानेनेति वाक्येन ज्ञानेन धर्मादि-निवृत्तिस्तु नास्ति तस्मान्नाश्रयगतनिवर्तकतेति विपर्ययपर्यवसानमुखेनेष्टापत्तिपरिहारः कृत इति तद्वाक्यस्य सार्थक्यम् । एतत्कल्पे तु आत्मज्ञानेन आश्रयगतनियम्यादिप्रपञ्चनिवृत्तिरस्तु तद्धर्मादेरपि निवृत्ति-रस्त्वितीष्टापत्तिशङ्कायां पटादिज्ञानेनेत्युक्तस्य ज्ञानसामान्येन धर्मादिनिवृत्तिस्तु नास्तीत्यादेः परिहाराभावात् कथं तद्वाक्यस्य सार्थक्यमित्यतस्तद्वाक्यस्य द्वितीयकल्पे उपयोगमाह यज्ज्ञानमिति ।

अयं भावः । यद्यप्येतत्कल्पे विशेषरूपेण विपर्यये पर्यवसानोपयोगिभूततत्तर्कीयेष्टापत्तिनिवारकं च पूर्वकल्पवत्पटादिज्ञानेनेत्यनेन नोच्यते । तथाऽप्यात्मज्ञानमाश्रयगतकिञ्चिन्निवर्तकं च भवतु भवतु, च तद्धर्मादिनिवर्तकमितीष्टापत्तिशङ्कायां तदा ह्येवं वक्तुं शक्यम् । यदि किञ्चिज्ज्ञानमाश्रयगतं किञ्चि-न्निवर्तयति । तद्धर्मादिकं च निवर्तयतीत्युपलब्धं स्यान्न चैवम् । पटादिज्ञाने स्वाश्रयगतकिञ्चिन्निवर्तकत्व-विशिष्टधर्मादिनिवर्तकत्वाभावात् । तथा च पटादिज्ञानेन धर्मादिनिवृत्तिस्तु न दृष्टा । अतो नात्मज्ञानमपि तथाविधमङ्गीकर्तुं युक्तमितीष्टापत्तिपरिहारोपयोगोऽस्य वाक्यस्येति । यज्ज्ञानमित्यत्र यज् ज्ञानत्वधर्मा-वच्छिन्नं तत्स्वाश्रयगतं किञ्चिन्निवर्तयति । तथा तद्धर्मादिकं स्वाश्रयगतधर्मादिकं च निवर्तयतीति ज्ञानत्व-धर्मावच्छिन्नं व्याप्यम् । इतरद्व्यापकमिति योजनाया अभिप्रेतत्वात्पटादिज्ञानेनेत्यनेनेत्यस्य सङ्गतिश्च । एतेन यथाश्रुतेऽसङ्गतिर् आत्मज्ञानं यदीत्येतत्तर्कीयव्याप्तिर्विशेषतो निरूपयितुमशक्यत्वाद्यज्ज्ञानमाश्रयगतं निवर्त-यतीत्यादिरूपेण सामान्यतो वाच्या । सा च यज्ज्ञानमिति टीकायां व्याप्तावित्यन्तेनोक्ता । तस्यां च व्यभिचारोद्भावनं तर्कं प्रवर्तयितुर्व्याघातकरमिति पटादीत्यस्य तथोपयोगवर्णनादित्यपि निरस्तम् । न ह्यत्र व्याप्तावित्यन्तेन तर्कीयव्याप्तिरुच्यते । तद्व्याप्तेर्यदि पीतमुदकमित्यादाविवाविशेषव्याप्तितयोक्तसामान्य-व्याप्तिरूपत्वाभावात् । यज्ज्ञानं तदाश्रयगतं किञ्चिन्निवर्तयद्भूत्वा तद्धर्मादिकमपि निवर्तयतीत्यस्या व्याप्तेरेवात्रेष्टापत्तिपरिहारार्थं व्यभिचारस्य विवक्षितत्वेन तत्प्रतिपादकपदादीत्यस्य सङ्गतत्वोपपत्तेः । अस्यां दशायां पटादिज्ञानस्याश्रयगतनिवर्तकत्वमङ्गीकृत्य व्यभिचारप्रतिपादनमित्यप्ययुक्तमेव । तर्कप्रवृत्तिकाले तत्तज्ज्ञानेन स्वस्वाश्रयगतनिवृत्तेरनङ्गीकारात् । अन्यथा पूर्वतर्कानुत्थानापातः । विपर्ययापर्यवसानप्रसङ्गात् । सूचितश्चायमर्थस्तत्र चेष्टापत्तेर्हीत्यादिना पूर्वत्र । पटादिज्ञानपदस्यापि पूर्वोक्तरीत्या ज्ञानमात्रपरत्वस्य सिद्धत्वाच्च । तेन ज्ञानत्वेनाभिमते कुत्राप्येवं विशिष्टं नास्तीति नेष्टापादनमिति वक्तुं व्याप्तौ व्यभिचारेत्या-देरुक्तत्वे सति कुतोऽसङ्गतिशङ्केति सूरय एवावगच्छन्तु ।

पूर्वोक्तदूषणेति । अनेनोक्तोत्तरत्वादित्येतदेव विविच्योक्तं यदीत्यादिनेत्यपि सूचितम् । उक्तपद-व्याख्यानं तर्के पूर्वोक्तेति । उत्तरपदव्याख्यानं दूषणेति । मयेति । अन्यत्र तत्तज्ज्ञाने आश्रयगत-निवर्तकत्वविशिष्टतद्गतधर्मादिनिवर्तकत्वादर्शनेऽपि आत्मज्ञानस्य स्वाश्रयगतनियम्यादिप्रपञ्चधर्माधर्मादि-निवर्तकतायाः ‘‘विद्वान् पुण्यपापे विधूय निरञ्जनः’’ इत्यादिश्रुत्यादिसिद्धत्वेन अङ्गीकर्तुं शक्यत्वाद् द्वितीयतर्के इष्टापत्तिरपरिहार्या । अस्वरूपभूतसमस्तप्रपञ्चनिवृत्तिर् एव विवक्षितेति न कश्चित्क्षुद्रोप-द्रवोऽपीत्याशयः । नन्वेवं तर्हि द्वितीयकल्पीयेष्टापत्तिदूषणं पूर्वोक्ततर्केनोक्तमिति तदतिदेशप्रतिपाद-कोक्तोत्तरत्वादित्यस्यास्वारस्यमित्यत आह एवं चेति । यद्यपीष्टापत्त्युपपादनाय घटादिज्ञानं धर्माद्य-विरोधीत्युक्तयुक्तेरुपयोगोऽस्ति । परोक्तपटादिज्ञाने धर्मादिनिवर्तकत्वादर्शनयुक्तिनिरासकत्वात् । तथापि श्रुत्यादिबलेनेष्टापत्तिप्रतिपादने सति श्रुतिमुपजीव्यैव प्रवृत्तात्मज्ञानस्य बन्धविरोधित्वयुक्तेः स्वातन्त्र्येणे-हानाकाङ्क्षितत्वादाद्यकल्पेत्यवधारणोपपत्तिरिति द्रष्टव्यम् ।

ननु पूर्वत्र टीकाकृता ननु ज्ञानेनेत्यादिग्रन्थस्य विवरणरीत्या दृष्टसामर्थ्याश्रयणपक्षमवलम्बमानं प्रति तद्दूषणपरतयापि योजनायाः कृतत्वात्तत्र चाश्रयगतनिवर्तकत्वपक्षे पटादिज्ञाने व्यभिचारस्यैव ज्ञानस्याश्रय-गतनिवर्तकत्वं न कुत्रापि दृष्टम् । प्रत्युत तदभाव एव दृष्ट इति पूर्वोक्तरीत्या वाच्यत्वेन प्राप्ततया तत्र तर्कप्रसक्तेरभावेन यदि ज्ञानमित्यादिमूलात्तत्पक्षदूषणालाभः । तथाच पूर्वोक्तमभ्युच्चयेन दृष्टसामर्थ्याश्रयण-पक्षस्याभिप्रेतत्वमङ्गीकृत्य तत्र विवरणोक्तबाधकं निराकर्तुमाशङ्केयमित्यादिकं, ननु ज्ञानेनेत्यादिग्रन्थप्रवृत्ति-वर्णनमयुक्तमित्यतः पक्षद्वयेऽपि दूषणत्वं विवेकेनाह इदं च व्यभिचारपरतापक्ष इति । व्यभिचारपरतापक्षे तर्कपुरस्कारेण प्रवृत्त्यभावेऽपि तद्व्यभिचारोपपादनाय तु तर्क आवश्यक एव । पटादिज्ञानेनाश्रयगत-निवृत्त्यभावाद्व्यभिचार इति परेणोक्ते सति तं प्रति यदि पटादिज्ञानमाश्रयगतं निवर्तयत्येवेति न व्यभिचार इति शङ्का तदा तेन यदि पटादिज्ञानमाश्रयगतं निवर्तयेत् तर्हि तद्गतधर्मादिकमपि निवर्तयेदिति विपक्षे बाधकदण्डेनैव तत्परिहारस्य कर्तव्यतया व्यभिचारोपपादकत्वेन परस्य वक्तुमिष्टे यदि ज्ञानमाश्रयगतं निवर्तयेत्तर्हि तद्गतं धर्मादिकमपि निवर्तयेदिति तर्के यदि ज्ञानमित्यादिमूलोक्तदूषणस्य प्रवृत्त्या तन्मुखेनैव व्यभिचारप्रतिपादनदूषणस्येह मूलेऽभिप्रेतत्वेन वक्तुं शक्यत्वात्तत्पक्षयोजनाऽपि प्रागुक्ता युक्तेत्याशयः । विपक्षबाधकेति । नन्विति वाक्यस्य ज्ञानमज्ञानस्यैव निवर्तकमित्यत्रोक्ताप्रयोजकत्वमाक्षेप्तुं विवरणोक्तं बाधकान्तरमाशङ्कत इत्यादिरूपेण तर्कपरतया योजनापक्षे तु यथास्थिते परेणैव विपक्षे बाधकत्वेनोक्ततर्के इदं मूलोक्तं दूषणं साक्षादेव दूषणमित्यर्थः । अत्र टीकायामिदं च व्यभिचारपरतापक्षे व्यभिचारोपपादनाय विवक्षितेऽन्यथा पटादिज्ञानेनापि धर्मादिनिवृत्तिः स्यादित्यापादने दूषणं विपक्षे बाधकपरतापक्षे तु यथास्थित आपादन एवेति द्रष्टव्यमित्यन्तं वाक्यमेवमाद्यपक्षस्यानङ्गीकारेत्यतःपूर्वमुपरिशोधतया निवेशित-मपि तत्रत्यहंसपदस्यास्पष्टत्वात् सर्वपुस्तकलेखकैस्तन्न लिखितम् । केनचिल्लेखकेन तु स्थलविशेषे निवेशपरिज्ञानाभावादुपर्येव शोधमात्रतया लिखितम् । अतस्तद्वाक्यं यत्रोपरिशोधतया यथाप्रत्यस्ति तत्रैवमाद्यपक्षस्येति वाक्यात्पूर्वं हंसपदप्रक्षेपः कार्यः । यत्र च न लिखितमेव तद्वाक्यं तत्पुस्तके उक्तस्थले शोधतया तल्लेख्यमित्यवगन्तव्यम् । चित्ररूपवादानुसारेण तदुपपादयितुमाह एवं हि पदार्थविदामिति । नानारूपवदारब्धस्येत्यनेनारम्भकगुणविरोधेन नीलं नीलमेवेत्यादिनियमेन चावयविनि रूपारम्भायोग इति परप्रक्रियामभिप्रैति । व्यभिचारादिति । अत्राधिकविचारः पदार्थचन्द्रिकापटवर्धनाद्यनुसारेण तद्व्याख्यान-स्थटीकाकारीयविचारेण च कर्तव्योऽस्ति ।

अव्याप्यवृत्तेरिति । अनेन सजातीयारम्भकत्वनियमाद् अवयवगतव्याप्यवृत्तिरूपैरवयविगता-व्याप्यवृत्तिरूपस्य सजातीयतायोगान्न रूपारम्भः सम्भवतीत्युक्तं भवति । नीलादेरुपलम्भापत्तेरिति । अत्र तत्रतत्रोक्तमाशङ्क्य निराकार्यमस्ति । नीलादेरपीति । केवलनीलादिस्थल इवेत्याशयः । अवयवान्तरगतस्य रूपस्य प्रतिबन्धकत्वोपयोगितया सम्बन्धमाह प्रतिबन्धकतयेति । वक्ष्यमाणरीत्या सम्बन्धानाम् अनेकत्वा-द्विवेकार्थं स्पष्टप्रदर्शनमिति ज्ञेयम् । समवाय इति । समाहार एव चित्रमिति पक्षे अवयविनि रूपा-प्रसङ्गेऽपि चित्ररूपमेकमिति पक्षे तस्यैकत्वेनावयविन्येव समवायसत्त्वात्तत्रेव नीलादावपि आपाद्य समवायस्यैव प्रतिबन्ध इति भावः । प्रतिबध्यप्रतिबन्धकभावमेवोपपादयति कपालादाविति । नीलाभावेति । नीलेतररूपस्य प्रतिबन्धकत्वादेः परेणोक्तत्वेऽपि तत्रापि प्राप्तानुपपत्तिपरिहाराय पक्षान्तरस्य परेणाभिधानात्तस्यैवात्रोक्तिरिति ज्ञेयम् । अस्तु तर्हि नीलाभावादिकमेव हेतुः । कृतं नीलादि-नेत्यत आह एवं चेति । एवं प्राचीनरीत्या चित्ररूपं समर्थ्य नवीनास्त्वित्यादिना तत्खण्डनप्रकारं वादोक्तमाशङ्क्यात्रास्माकं प्रतिभातीत्यादिनोक्ततत्परिहारं चाह ननु स्यादियमित्यादिना । तत्र च न नियामकमिति वाच्यमिति । अव्याप्यवृत्तिजनकत्वे सर्वनीलावयवारब्धेऽपि तादृशमेवोत्पद्येत, न तु सर्वावयवावच्छेदेनेति भावः । एतच्छङ्कापरिहाराय परेण कार्यकारणभावः कल्पितः । अवच्छेदकतासम्बन्धेन नीलं प्रति समवायेन नीलादेर्हेतुत्वादिति ।

तस्यायमर्थः । सर्वनीलावयवारब्धावयविनि अवयवगतं रूपं समवायसम्बन्धेनावयविनि विद्यमानरूप-मारभते । नानारूपावयवस्थले तु अवयवरूपाणि अवयविनि न समवायेन रूपमारभन्ते । अपि तु तस्यावयविनस्तत्तत्कपालरूपावयवावच्छेदेनैव रूपान्तरमारभन्ते । तानि चावयवव्यवच्छेदेनोत्पन्नानि रूपाणि अवच्छेदकताख्यस्वरूपसम्बन्धेनावयविगतानि । अवयवावच्छेदेनोत्पन्नानां रूपाणामवय-व्यवच्छेदककपालादेरिव तदवच्छेदकत्वात् । तथा चावयव्यवच्छेदकतासम्बन्धेन यत्र रूपमुत्पद्यते न तु समवायेन तत्र नीलरूपादिकं समवायेन विद्यमानं हेतुः । तथा च किञ्चिदवयवावच्छेदेन यत्र नीलादिकं तत्र समवायेन कारणनीलस्यावयवैकदेश एव सत्त्वेन तत्रैव नीलरूपोत्पादः सम्भवी । नावयवान्तरेऽपि तत्र केनचित्सम्बन्धेन नीलसम्भवेऽपि समवायेन तदभावात् । यत्र च संपूर्णावयवगतं नीलं तत्र सर्वावयवा-वच्छिन्नमेव रूपमुत्पद्यत इति । तत्र प्राप्तानुपपत्तिपरिहाराय प्रतिबध्यप्रतिबन्धकभावश्चापरः कल्पितः । यद्वा नानारूपवत्कपालारब्धघटादौ कपालाद्यवच्छेदेन नीलादेरुत्पत्तिवारणायेत्यादिना । तस्यायमर्थः । कपालगतेन रूपेणावयवावच्छेदेनावयव्यवच्छेदकं रूपमुत्पद्यत इत्यङ्गीकारेऽपि न सर्वकपालावच्छेदेन तदुत्पत्तिः । तद्वारणाय अवच्छेदकतासम्बन्धेनोत्पद्यमाननीलं प्रति नीलेतररूपस्य प्रतिबन्धकत्वाश्रयणात् । कपालमात्रे चैकदेशे पीतादेः सत्त्वात् । अतो ऽवयवगतनीलेन कपालावच्छेदेन न नीलरूपमवय-व्यवच्छेदकतयोत्पन्नम् । किन्तु नीलकपालावच्छेदेनेति । एवं कार्यकारणभावप्रतिबध्यप्रतिबन्धकभावा-वाश्रितौ । तत्राद्यमनभिधाय यद्वेत्युक्तप्रतिबध्यप्रतिबन्धकभावमेवाह अवच्छेदकतासम्बन्धेन नीलं प्रति नीलेतररूपं प्रतिबन्धकमिति । कुत एवं प्रतिबन्धककल्पनेत्यतः पूर्वांशः प्रवृत्तः । स पूर्वांशस्तु एवं पठनीयः। नानारूपवत्कपालारब्धघटादौ कपालावच्छेदेन नीलादेरुत्पत्तिवारणायेति । तथा तदभावो लेखकानव-धानात् । अवच्छेदकतासम्बन्धेन नीलादिकं प्रति समवायेन नीलादेरुत्पत्तिवारणायेति पाठे मूलं तु कार्यकारणभावप्रतिपादनेनोक्तशङ्कापरिहारं कर्तुं प्रवृत्तो ग्रन्थकारः समवायेन नीलादेरित्यन्तं लिखित्वा यद्वेत्युक्तास्वरसं तत्रालोच्य तत्पक्षमेव वक्तुकामः हेतुत्वादित्यंशमनुक्तवैव वादग्रन्थं नीलादेरुत्पत्ति-वारणायेत्यपश्यन् नीलादेरित्यन्तस्य कुण्डलिकाकारेण नाशार्थं प्रवृत्तोऽपि नीलादेरित्यंशप्रलोभादुत्पत्ति-वारणायेत्युत्तरवाक्यमेव लिखितवान् । तत्र नानारूपवत्कपालारब्धघटादौ कपालाद्यवच्छेदेनेत्येतावानंश उर्वरितः । अवच्छेदकतेत्यादिसमवायेनेत्यन्तं न नाशितं च । प्रतिपुस्तकान्यपि तदनुसारेणैव प्रवृत्तानीति तथैव पाठो जातः । अत एवोक्तं तत्रेति । नानेत्युक्तघटादावित्यर्थः । वाक्यशेषाभावे प्रकृतपरामर्शायोगेन तत्परामर्शकतत्रेत्युक्तया शेषप्रतीतेर् अत एव चाव्याप्यवृत्तिरूपपक्ष इत्यादिनोक्तकार्यकारणभावपरित्यागेन प्रतिबध्यप्रतिबन्धकभावादिकमेवाभिहितमिति सूरयो मयि दयया पूर्वोत्तरविचारेणावगच्छन्तु । स्वामिदया-सादितपाठाभिप्रायावबोधनिबन्धने पाठस्वरूपनिरूपणेऽर्वाचीनस्य मम न दोष इति गुणिन एव जानन्ति । एवमन्यत्रापि तत्र तत्रेति द्रष्टव्यम् । अन्ये तु नीलादेरित्यनन्तरं हेतुत्वादिति उत्पत्तीत्यतःपूर्वं नानारूप-वदित्यादि च पतितम् । तत्सङ्ग्रहे कार्यकारणभावप्रतिबध्यप्रतिबन्धकभावाभिधानमुभयं सिद्ध्यतीति कुण्डलिकाकारेण नाशो न कार्य इत्याहुः । तेषामुत्तरग्रन्थे उपलक्षणा स्वीकार्येति ज्ञेयम् । अवच्छेद्यत्वा-पत्तिरिति । कपालाद्यवयवैरिति शेषः । तथा च तत्र स्थलेऽपि नीलं रूपम् अवयवावच्छेदेनोत्पन्न-मवयवव्यवच्छेदकं स्यात् । अवच्छेदकतासम्बन्धेनोत्पत्तिः स्यादिति यावत् । स्वाश्रयवृत्तिद्रव्यसमवाय इति । नीलरूपाभावाश्रयपीतावयववृत्तिद्रव्यस्य नीलकपालरूपावयव्येकदेशस्य नीलावयवे समवाय-सम्बन्धेन सत्त्वादित्यर्थः । उक्तैकदेशस्य अवयवभेदविवक्षाकाले पीतावयवे केनचित्सम्बन्धेन वृत्त्यु-पपत्तावपि न समवायः सम्भवतीत्याशयेन स्वाश्रयवृत्तीत्येवोक्तम् । तस्माच्चित्ररूपमेकमेवेति । अत्र बहु वक्तव्यम् । तत्तत्पुरुषोत्प्रेक्षितं परस्परविरोधेनैव दूषितप्रायमिति न तन्निरासायासेन कृत्यमिति भावेनोप-संहारः कृतः । हरीच्छानुसारेण तस्य सर्वस्य विचारः कर्तव्योऽस्ति ॥