इत्युक्तेर्बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते
बन्धमिथ्यात्ववर्णनम्
अनुव्याख्यानम्
इत्युक्तेर्बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते ।
सुधा
एवं तावत्स्वमतेन सूत्रं व्याख्याय तत्परिशुद्धये परेषां भाष्यं दूषयति ॥ बन्धमिथ्यात्वमित्यादिना ॥ मायावादिना हि कर्तृत्वभोक्तृत्वदोषसंसर्गक्रियाकारकफललक्षणस्य बन्धस्याऽऽत्मन्यारोपितत्वेन मिथ्यात्वं स्वभाष्यादौ वर्णितम् । तदनुपपन्नम् । बन्धमिथ्यत्वस्या-सूत्रितत्वात् । असूत्रितार्थवर्णने च भाष्यलक्षणाभावेनाभाष्यत्वप्रसङ्गात् । ‘‘सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुकारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः’’ इति हि भाष्यलक्षण-माचक्षते । अत्राह । द्विविधो हि सूत्रार्थः । श्रौत आर्थश्च । तत्राथातो ब्रह्मजिज्ञासेतिसूत्रे अनुवादत्वपरिहाराय शास्त्रे पुरुषप्रवृत्तिसिद्धये च कर्तव्येति पदमध्याहार्यम् । जिज्ञासापदं चानुष्ठानयोग्यस्यान्तर्णीतस्य विचारस्योपलक्षणमिति स्थिते साधनचतुष्टयसम्पन्नस्य ब्रह्मज्ञानाय विचारः कर्तव्य इति सूत्रवाक्यस्य श्रौतोऽर्थः सम्पद्यते । अर्थादधिकारिविशेषणमोक्षसाधनं ब्रह्मज्ञानमिति सिद्ध्यति । सन्निधानाच्च वेदान्तवाक्यविचार इति श्रुत्यर्थाभ्यां साधनचतुष्टय-सम्पन्नस्य मोक्षसाधनब्रह्मज्ञानाय वेदान्तवाक्यविचारः कर्तव्य इति सूत्रवाक्यस्य तात्पर्येण प्रतिपाद्योऽर्थोऽवगतः । एवं च शास्त्रे प्रेक्षवात्प्रवृत्त्यङ्गतयाऽर्थतः सूत्रितस्य प्रयोजनादेरुपपादकं बन्धमिथ्यात्वमिति तदपि सूत्रार्थ एव ।
वाक्यार्थचन्द्रिका
ननु बन्धमिथ्यात्वमित्यादिना वर्तिष्यमाणं सूत्रार्थवर्णनमन्यद्वा । नाद्यः । तथात्वानुपलम्भात् । नाप्यन्यत् । सूत्रार्थव्यख्यानावसरेऽन्योक्तेरसङ्गतत्वादभाष्यत्वप्रसङ्गाच्चेत्यतः ‘अतो यथार्थबन्धस्य’त्येतदुपसंहारभाष्यं मनसि निधायोत्तरप्रघट्टकतात्पर्यमाह ॥ एवमिति ॥ परिशुद्धि-रत्रापव्याख्यानिराकरणाभावे स्वोक्तार्थस्य शिष्यबुद्ध्युपारूढत्वाभावात्स्वव्याख्यानस्य शिष्यचेतसि स्थिरीकरणलक्षणा ज्ञेया । यथा चैतत्तथा ‘अतो यथार्थे’ति वाक्यव्याख्यानावसरे स्फुटम् । ननूत्तरग्रन्थे बन्धमिथ्यात्वस्य मुक्त्याद्याक्षिप्ततायाः परेण वक्तव्यत्वेन तदाक्षेपकत्वनिराकरणमसङ्गतम् । न च स्वभाष्यस्य भाष्यत्वोपपत्तये स्वोक्तबन्धमिथ्यात्वस्य सूत्रार्थतायै सूत्रार्थमुक्त्याद्याक्षिप्तत्वमवश्यं तेन वक्तव्यमिति वाच्यम् । बन्धमिथ्यात्वस्यापि सूत्रितत्वात् । असूत्रितत्वेऽपि वा तत्प्रतिपादकस्यास्य भाष्यकृत्प्रणीतत्वेनैव भाष्यत्वोपपत्त्याऽभाष्यत्वानापत्तेः । परेणेतरेतरारोप वर्णनेऽप्यात्मवन्मिथ्यात्वा-नापत्त्या बन्धमिथ्यात्वानुक्तेश्चेत्याशङ्कां परिहरन्नुत्तरग्रन्थमवतारयति ॥ मायावादिना हीति ॥ अत्रानर्थश्च प्रमातृताप्रमुखं कर्तृत्वं भोक्तृत्वं चेत्यादिपरग्रन्थानुसारेण कर्तृत्वभोक्तृत्वयोस्तत्प्रयोजकतया क्रियाकारकफलानां तत्प्रयोजकत्वेन चाविद्यातत्कार्यरागादिदोषसंसर्गस्य च बन्धत्वेन ग्रहणम् । अस्य सर्वस्य लोकव्यवहारशब्दोपात्तस्य मिथ्यात्वं परेणोक्तमिति द्रष्टव्यम् । आरोपितत्वेन मिथ्यात्वमिति वदताऽऽत्मानात्मनोरितरेतराध्यासेऽपि देहेन्द्रियादिरूपप्रञ्चस्य स्वरूपेणैवारोपितत्वाच्छत्यादिबाधि-तत्वाच्च मिथ्यात्वमेव । आत्मनस्तु संसृष्टतयैवारोपितत्वाच्छत्याद्यबाधाच्च न मिथ्यात्वमिति पराभिप्रायो ध्वनितो भवति । भाष्यादावित्यादिग्रहणमकुशलत्वरूपोत्तरदूषणसौकर्यार्थम् ॥ लक्षणाभावेनेति ॥ भाष्यकृत्प्रणीतत्वेनैव भाष्यत्वे चातिप्रसङ्ग इति भावः । सागरादिवर्णनस्यापि भाष्यत्वव्यावृत्तये सूत्रेत्यर्थो विशेषितः । वार्तिकव्यावृत्त्यर्थं सूत्रानुकारिभिरिति । वार्तिके सूत्रप्रतिकूलस्यापि वर्णन-सम्भवादिति भावः । वृत्तिव्यावृत्तये स्वपदानीति ।
बन्धमिथ्यत्वस्य मा भूत्सूत्रश्रौतार्थत्वम् । मा च भूत्साक्षादार्थिकार्थत्वम् । तथाऽपि श्रौतवदार्थिकस्यापि सूत्रार्थत्वाच्छौतार्थापत्तिलब्धप्रयोजनादेरिवार्थिकप्रयोजनाद्यर्थापत्तिलब्धबन्ध-मिथ्यात्वस्यपि सूत्रार्थत्वात्तत्प्रतिपादकस्य भाष्यत्वमुपपन्नमेवेति वक्तुं सूत्रार्थद्वैविध्यमाह ॥ द्विविध इति ॥ श्रौतार्थिकार्थयोरन्यादृशत्वे न प्रयोजनाद्याक्षेपकत्वमित्यतः प्रकृतोपयोगितया विशिष्य श्रौतार्थिकार्थस्वरूपं दर्शयति ॥ तत्रेत्यादिना ॥ साकाङ्क्षतया सूत्रानर्थक्यं तावन्निरस्यति ॥ तत्रेति ॥ सर्वज्ञबादरायणप्रणीतसूत्रानर्थक्यानुपपत्तेरध्याहारेणापि सूत्रं योज्यमित्याह ॥ अध्यहर्तव्यमिति ॥ तदपि योग्यमेवाध्याहर्तव्यमित्याह ॥ कर्तव्येतीति ॥ योग्यत्वमुपपादयति ॥ शास्त्रेति ॥ पुरुषप्रवृत्तिरेव मा भूयादित्यत आह ॥ अनुवादत्वेति ॥ निरर्थकसिद्धबोधकवाक्यमनुवादशब्दार्थ इति ज्ञेयम् । ननु कर्तव्यपदं नाध्याहारयोग्यम् । प्रकृतिप्रत्ययार्थयोर्ज्ञानेच्छयोरन्यतरस्यापि कृतिसाध्यत्वाभावादित्यत आनर्थक्यपरिहाराय प्रवृत्तयेऽध्याहर्तव्यकर्तव्यपदस्य लक्षितविचारेणान्वयमाह ॥ जिज्ञासापदं चेति ॥ वाच्यार्थानुपपत्तिशामकस्य विचारस्य लक्ष्यत्वमुपपन्नमित्याह ॥ अनुष्ठानेति ॥ शक्यसम्बन्धकथन-मन्तर्णीतार्थस्येति व्याख्यातमेतत् । एवमप्यधिकारिफलसाकाङ्क्षत्वेनानर्थक्यमित्यत आह ॥ साधनेति ॥ अथशब्दाद्विशिष्टाधिकारिप्रतिपत्तिः । इच्छाविषयत्वाद्ब्रह्मज्ञानस्य फलत्वं चेत्यर्थः ॥ श्रौतर्थः संपद्यत इति ॥ यद्यप्यथशब्दस्य किञ्चिन्निरूपितानन्तर्यमात्रमर्थस्तथाऽपि सामान्यशब्दस्य नियतविशेषपरत्व-व्युत्पत्तेः श्रुत्यनुभवसिद्धः प्रतियोगिविशेषोऽपि शब्दार्थ इत्यर्थः । ज्ञानस्य सुखदुःखाभावेतरत्वाद-फलत्वमित्यत आह ॥ अर्थादिति ॥ अयमाशयः । ब्रह्मज्ञानाय विचारकर्तव्यतायास्तावत्सूत्रात्प्रतीय-मानत्वाद् ब्रह्मज्ञानस्य च स्वरूपेण पुमर्थत्वानुपपत्तेः पुमर्थसाधनत्वेनैव पुमर्थत्वे वक्तव्ये तत्फल-विशेषाकाङ्क्षायां स्वर्गादेर्विरक्तस्यैवात्राधिकाराद् दृष्टसम्भवेऽदृष्टकल्पनायोगाच्चाथशब्दोपात्ताधिकारि-विशेषणमोक्षस्य ज्ञानफलत्वेन सम्बन्धो यथा स्वर्गकामो यजेतेत्यत्र स्वर्गस्य । न चाधिकारि-विशेषणतामात्रस्य फलताप्रयोजकत्वे जीवनगृहदाहादेरपि फलताप्रसङ्गात्काम्यत्वेनापि विशेषणे परस्त्रीकामः प्रायश्चित्तं कुर्यादिति काम्यमानयोषित्पिण्डस्यापि फलताप्रसङ्गात्कथमेतदिति वाच्यम् । अधिकारिविशेषणत्वेन प्रकृतमोक्षस्यानिन्दितकाम्यत्वेन फलत्वोपपत्तेरिति । विचारस्य विषय-साकाङ्क्षत्वात्तस्य चानिर्देशात्साकाङ्क्षत्वमित्यत आह ॥ सन्निधानाच्चेति ॥ इति च सिद्ध्यतीति सम्बन्धः । योग्यतया स्मृतिरत्र सन्निधानम् । तं त्वौपनिषदं पुरुषं पृच्छामीति श्रुत्या वेदान्तानां ब्रह्मप्रमितियोग्यतया नावेदविदिति श्रुत्या तदितरमानानां तदयोग्यत्वेन चावगतत्वात् । श्रोतव्यादि-वाक्यसन्निधौ वेदानां पाठात्तस्य तानि सन्निहितानीति तत्मूलसूत्रस्यापि तानि सन्निहितानीति वाऽर्थः । यदर्थमर्थद्वयवर्णनं तदाह ॥ एवं चेति ॥
परिमल
श्रोतृबुद्धिसौकर्यायाह ॥ एवमिति ॥ तत्परिशुद्धय इति ॥ परकृताप-व्याख्यामापातरमणीयां पश्यतां श्रोतृणां स्वकृतव्याख्यानं न मनसि स्थिरं भवतीति तत्स्थैर्यसिद्धय इत्यर्थः । यद्वा सौत्रातःशब्दस्य मोक्षहेतुप्रसादजनकज्ञानकारणत्वादित्यर्थ इति जिज्ञासोत्थ-ज्ञानजादित्यादिनोक्तमयुक्तम् । बन्धस्य मिथ्यात्वेन ज्ञानादेव बन्धनिवृत्तिरूपमोक्षसम्भवेन प्रसाद-नैरपेक्ष्यादित्यतस्तद्-व्याख्यास्थैर्यायेत्यर्थः ॥ दोषेति ॥ रागद्वेषादीत्यर्थः ॥ क्रियेति ॥ विहितनिषिद्धादि-क्रिया कर्त्रादिकारकतज्जन्यैहिकामुष्मिकफलरूपस्येत्यर्थः ॥ अत्राहेति ॥ सङ्गतित्रयोक्त्याऽध्यास-भाष्यस्योपपन्नतामाहेत्यर्थः ॥ अनुवादत्वेति ॥ भवतीत्युक्तौ सिद्धार्थनिर्देशरूपतयाऽनुवादत्वं स्यादिति भावः ॥ शास्त्र इति ॥ न्यायानुसन्धानरूपविचारस्य कार्यत्वे हि न्यायनिबन्धनरूपशास्त्रे पुरुषप्रवृत्ति-र्भवति नान्यथेति भावः ॥ अन्तर्णीतस्येति ॥ यथा चैतत्तथोक्तं प्राक् ॥ साधनेति ॥ नित्यानित्य-वस्तुविवेकविषय वैराग्यशमदमादिमुमुक्षारूपसाधनचतुष्टयेत्यर्थः ॥ सन्निधानाच्चेति ॥ निर्णेयार्थकत्वेन बुद्धौ सान्निध्यादित्यर्थः ॥ प्रयोजनादेरुपपादकं बन्धमिथ्यात्वमितीति ॥ अनेन प्रयोजन-विषयोपपादकत्वं बन्धमिथ्यात्वस्योक्तम् ।
यादुपत्यं
स्वभाष्यादौ स्वभाष्यस्यादौ । लक्षणावगममन्तरेण तदभावावगमानुपपत्ते-र्लक्षणमाह ॥ सूत्रार्थ इति ॥ यत्रार्थो वर्ण्यते तद्भाष्यमित्युक्ते सागरदिवर्णनस्यापि भाष्यत्वं स्यात् । तद्-व्यावृत्त्यर्थं सूत्रेति विशेषणम् । पदवृत्तिं व्यावर्तयति ॥ वाक्यैरिति ॥ वार्तिकव्यावृत्त्यर्थमाह ॥ सूत्रानुकारिभिरिति ॥ वार्तिके सूत्रप्रतिकूलवर्णनस्यापि सम्भवाद्य्वावृत्तिरित्यर्थः । वृत्तिं व्यावर्तयति ॥ स्वपदानि चेति ॥ पूर्ववदसौत्रश्रौतार्थासंस्पर्शित्वेप्यार्थार्थसंस्पर्शित्वेन भाष्यत्वं वक्तुमाह ॥ द्विविधो हि सूत्रार्थ इत्यादिना ॥ अनुवादत्वे चेति ॥ भवतीत्यध्याहारेऽनुवादत्वं स्यात्तत्परिहारायेत्यर्थः । प्रकृतिप्रत्ययार्थयोर्ज्ञानेच्छयोः कर्तव्यत्वासम्भवादाह ॥ जिज्ञासापदं चेति ॥ एवमप्यधिकारि-फलसाकाङ्क्षत्वेन अबोधकत्वमाशङ्क्याह ॥ साधनचतुष्टयेति ॥ अथशब्दाद्विशिष्टाधिकारिप्रतिपत्तिः । इच्छाविषयत्वाद्ब्रह्मज्ञानफलत्वं चेत्यर्थः । ज्ञानस्य सुखदुःखावाप्तिनिवृत्त्यन्यतरत्वाभावादफलत्व-माशङ्क्यार्थमाह ॥ अर्थादिति ॥ ब्रह्मज्ञानाय विचारे विहिते ब्रह्मज्ञानस्य स्वतोऽपुरुषार्थत्वे नान्यत्तत्साध्यफलं वक्तव्यम् । तकिमित्याकाङ्क्षायामथशब्दवाच्यानन्तर्यवधित्वेन यद्विवक्षितं मुमुक्षुत्व-रूपमधिकारिविशेषणं तत्प्रविष्टो मोक्षः फलतया सम्बध्यते । कुतः। अर्थात् । अन्यथाऽनुपपत्तेरित्यर्थः । विचारस्य विषयसाकाङ्क्षवत्तस्य चानिर्दिष्टत्वात्साकाङ्क्षत्वशङ्कां निवारयति ॥ सन्निधानाच्चेति ॥ वेदान्तवाक्यविचार इति च सिद्ध्यतीति सम्बन्धः । प्रत्यक्षाद्यगोचरत्वेनोपनिषन्मात्र-प्रतिपाद्यत्वात्तद्विषयो विचारः साधनमित्यर्थः । सूत्रार्थवर्णनमुपसंहरति ॥ इति श्रुत्यर्थाभ्यामिति ॥ यदर्थमर्थद्वयं समर्थितं तदाह ॥ एवं चेति ॥ प्रयोजनादेरित्यत्रादिपदेन विषयो ग्राह्यः ।
श्रीनिवासतीर्थीया
श्रौतः श्रुत्या पदमहिम्ना लब्ध इत्यर्थः ॥ अनुष्ठानयोग्यस्येति ॥ ज्ञानेच्छयोरविधेयत्वेन पुरुषानुष्ठानयोग्यत्वाभावादिति भावः ॥ अर्थादिति ॥ ब्रह्मज्ञानस्य मोक्षसाधनत्वमार्थिकमित्यर्थः ॥ सन्निधानादिति ॥ विचार्यत्वेन बुद्धिसन्निहितत्वादित्यर्थः ॥