अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च सः
सिद्धान्तेबन्धनिवृत्तिसमर्थनम्
अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च सः
सुधा
स्यादेतत् । ब्रह्मविदामप्यविद्याऽनुवर्तते । तेन न श्रुतिस्मृतीनां प्रामाण्यम् । ब्रह्मसाक्षात्कारोऽविद्यानिवर्तको न विवेकमात्रमिति चेन्न । तद्वतामपि संसारानुवृत्तिदर्शनात् । साक्षात्कृतब्रह्मणां सद्यः शरीरादिपाते वातपुत्रीयाः पौरुषेया ब्रह्मोपदेशाः प्रसज्येरन्निति । मैवम् । न स्मरति भवानुक्तार्थस्य । प्रसन्नः परमेश्वर एव बन्धविध्वंसं करोतीत्युक्तम् । न च साक्षात्कार-स्तत्प्रसादसाधनम् । येन सोऽपि कथं तेषां नेति पर्यनुयुज्येत । भक्तेः परावस्था हि तद्धेतुरुक्ता तत्सम्पत्तिश्च कार्यगम्या । पराचित्तवृत्तीनामप्रत्यक्षत्वात् । प्रारब्धकर्मप्रतिबद्धो भगवत्प्रसाद इति तु मन्दम् । अचेतनानां कर्मणां स्वतन्त्रभगवत्प्रसादप्रतिबन्धकत्वायोगात् ।
वाक्यार्थचन्द्रिका
ज्ञानिनां मोक्षद इति भगवतो मोक्षदत्वोक्त्या ज्ञानस्वभावादेव मोक्ष-सम्भवान्नेशकृत्यमिति शङ्काया एव न केवलं परिहारो भाष्यकृतोऽभिप्रेतोऽपि तु ज्ञानस्याविद्या-निवर्तकत्वासम्भवान्नोक्तश्रुत्यादिकमुपपन्नमिति शङ्कापरिहारोऽपीति भावेन तां शङ्कामुत्थापयति ॥ स्यादेतदिति ॥ जीवजडविवेकेन ब्रह्मविदामपि न जानामीत्यनुभवेन तत्कार्यसंसारानुवृत्तिदर्शनेन चाविद्यानुवृत्तिसिद्धेर्ब्रह्मज्ञानस्य तन्निवर्तकत्वबोधकश्रुत्यादीनामप्रामाण्यान्न तद्बाधोऽज्ञाननिवृत्त्यभाव-साधकानुमानस्येति भावः । विवेकमात्रस्याज्ञानाविरोधित्वेन तदनिवर्तकत्वेऽपि ब्रह्मसाक्षात्कारस्य तद्विरोधित्वेन निवर्तकत्वसम्भवात्तद्विषय कत्वाच्च श्रुत्यादीनां नोक्तमयुक्तमिति शङ्कते ॥ ब्रह्मसाक्षात्कार इति ॥ विवेकिनामस्मदादीनामज्ञानानुभवस्येव साक्षात्कारवतामज्ञानानुभवस्य निश्चेतुमशक्यत्वेऽपि संसारानिवृत्तिदर्शनेन तत्कारणाज्ञानादिनिश्चयः सुशक एवेत्याशयेनाह ॥ तद्वतामिति ॥ अत एव पूर्व-मविद्याऽनुवर्तत इत्युक्त्वाऽत्र संसारनुवृत्तिदर्शनादित्येवाहेति भावः । ननु न साक्षात्कारवतां संसारानुवृत्तिः । तेषामज्ञाननिवृत्त्या तत्कार्यस्यापि निवृत्तेः संसारानुवृत्तिमतां च न साक्षात्कार इत्यत आह ॥ साक्षात्कृतेति ॥ वातपुत्रीया इति ॥ अत्र यद्यपि ‘समासाच्च तद्विषयदि’ति सूत्रेणेवार्थ-विषयात्समासादपरस्मिन्निवार्थे छप्रत्ययेन काकतालीयाजाकृपाणीयवातपुत्रीयादिशब्दा व्युत्पादिता उपमाद्वयगर्भाः । तथा च काकतालाजकृपाणवातपुत्राणामिव यादृच्छिको दस्युदेवदत्तयोः समागम इत्येका समासार्थोपमा । तदानीमेव तालकृपाणवातैः काकाजापुत्राणामिव दस्युना देवदत्तबधः कृत इत्यन्या तद्धितार्थोपमा चेति । यत्रोपमाद्वयं तत्रैवास्य शब्दस्य सम्पूर्णार्थता तथापि यादृच्छिक-समागममात्रेऽप्यस्य प्रचुरः प्रयोगो दृश्यत इत्ययमपि प्रयोगो यादृच्छिकसमागममात्रविषयो द्रष्टव्यः ।
(समासाच्च तद्विषयात् । इवार्थविषयात्समासाच् छः स्यादिवार्थे । पूगाञ्ञ्य इत्यतः प्राक् इवे-त्यधिकारात् । काकतालीयो देवदत्तस्य वधः । इह काकतालसमागमसदृशश्चोरसमागम इति समासार्थ-स्तत्प्रयुक्तः काकमरणसदृशस्तु प्रत्ययार्थः । अजाकृपाणीयोऽतर्कितोपनत इति फलितोऽर्थः । काकतालीय इति प्रकृतसूत्रादेव ज्ञापकादिवार्थे समासः । सुप्सुपेति वा । उभयथाऽपि विशेष-संज्ञाविनिर्मुक्तः । स च छप्रत्ययविषय एव । तेन स्वातन्त्र्यमुपाध्यन्तरगो विग्रहश्च नेत्याकरः । शस्त्रीश्यामेत्यादौ त्वेक एवार्थः । स च समासेऽन्तर्भूत इति छो न भवतीति ज्ञेयम् ।) ॥ उक्तार्थस्येति ॥ अधीगर्थेति षष्ठी । (अधीगर्थदयेशां कर्मणि । एषां कर्मणि शेषे षष्ठी स्यात् । मातुः स्मरणम् । सर्पिषो दयनमीशनं वा ।) उक्तं द्रव्यं कर्म चेत्येतद्-व्याख्यावसरे । ननूक्तं स्मारणं व्यर्थमित्यतः प्रसादस्यैव बन्धविध्वंससाधनत्वं वदताऽपि साक्षात्कारस्य प्रसादसाधनत्वेन वक्तव्यतया सति साक्षात्कारे प्रसादोऽपि स्यात् ततश्च बन्धनिवृत्तिरपि स्यादिति साक्षात्कारस्य बन्धध्वंससाधनत्वे प्राप्तानुपपत्तेः प्रसादस्य बन्धध्वंससाधनत्वोक्तावपि तदवस्थतया न प्रसादाङ्गीकार उचित इति विशेषशङ्कापरिहारा-योक्तस्मारणोपपत्तिरित्यभिप्रेत्य प्रसादेऽप्यनुपपत्तिमाशङ्क्य परिहरति ॥ न चेति ॥ तथा च साक्षात्कारस्य बन्धध्वंसहेतुत्वे प्राप्तानुपपत्तेर्न प्रसादपक्षे प्रसक्तिरिति भावः ॥ परावस्थेति ॥ यमधिकृत्येत्यदिनोक्ता परिपाकावस्थेत्यर्थः । ननु सति साक्षात्कारे सामग्रीसद्भावेन भक्तेः परावस्थाऽ-प्यस्त्येवेति प्रसादोऽपि स्यादिति पर्यनुयोगस्तदवस्थ इत्यत आह ॥ तदिति ॥ ज्ञानेनाज्ञाननिवृत्तौ विरामाभावस्य सिद्धतया तन्निवृत्तौ च तत्कार्यविलयस्यावश्यकतया तत्पक्षेऽनुपपत्तावपि सिद्धस्यापि कारणस्य कदाचिदेव फलोन्मुखत्वलक्षणपरिपाकस्यापूर्वादौ क्लृप्तत्वात्सत्यपि साक्षात्कारे भक्तिपरा-वस्थाभावोपपत्तेर्भक्तिपक्षे नानुपपत्तिरिति भावः । अचेतनानामिति कर्मणामस्वातन्त्र्योपपादनायोक्तम् ।
परिमल
॥ श्रुतिस्मृतीनामिति ॥ ज्ञानिनां मोक्षद इत्यादीनां ज्ञानान्मोक्षोक्तिपराणामित्यर्थः ॥ न विवेकमात्रमिति ॥ देहात्मादिविवेकमात्रमिति वा नित्यानित्यविवेकमात्रमिति वाऽर्थः ॥ वातपुत्रीया इति ॥ अशरीरवाक्यानि भवेयुरित्यर्थ इत्येके । पिशाचवार्ता भवेयुरित्यर्थ इत्यन्ये । वातपुत्रो वायुस् तदीया वातपुत्रीया वाय्वानीतवार्ता भवेयुर्निर्मूला भवेयुरित्यर्थ इत्यपरे । वातागमनमिव पुत्रपतननिव वातपुत्रीयं काकतालीयमितिवदयं शब्दः । यादृच्छिकत्वात्पुत्रपतनं न वातागमनहेतुकम् । तथेहापि शुकवामदेवाद्युपदेशा ओतुका भवेयुरित्यर्थ इत्यप्याहुः । शुकवामदेववैशम्पायनादिपुरुषसम्बन्धिनः पौरुषेयाः । शुकादेरपरोक्षज्ञानित्वादिति भावः । ‘अधीगर्थदयेशां कर्मणीति’ षष्ठीमुपेत्याह ॥ न स्मरति भवानुक्तार्थस्येति ॥ उक्तार्थः कः यस्य विस्मृतिरुच्यत इत्यत आह ॥ प्रसन्न इति ॥ तत्सम्पत्तिर् भक्तेः परावस्थासम्पत्तिः ॥ प्रारब्धेति ॥ ज्ञानिप्रारब्धेत्यर्थः ॥
यादुपत्यम्
॥ तेन न श्रुतीति ॥ विश्वमायानिवृत्तिरित्याद्यानामित्यर्थः । तथा च न तद्बाधोऽनुमानस्येति भावः ॥ विवेकमात्रमिति ॥ परोक्षज्ञानमित्यर्थः ॥ वातपुत्रीया इति ॥ अयं च समासः काकतालीय इति समासवद्द्रष्टव्यः । तदर्थश्च युक्तिपादे वक्ष्यते । अर्थस्येति कर्मणि षष्ठी । ‘अधीगर्थदयेशां कर्मणी’ति स्मरणात् । केचिदाहुः । नापरोक्षज्ञानानन्तरमेव मोचकप्रसादोत्पत्तिः । किन्तु प्रारब्धकर्मणा प्रतिबद्धोऽसावतो न मुक्तिं तदैव जनयतीति तद् दूषयति ॥ प्रारब्धेति ॥
श्रीनिवासतीर्थीया
अविद्यानाशस्य श्रुतिस्मृतिसिद्धत्वेनाविद्याया न निवृत्तिरिति स्वतन्त्रानु-मानस्यायोग इत्ययुक्तम् । श्रुत्यादेरप्रामाण्यादित्याशयेन शङ्कते ॥ स्यादेतदिति ॥ श्रुतिस्मृतीनाम-विद्यानाशप्रतिपादकानां विश्वमायानिवृत्तिरित्यादीनाम् । विवेकमात्रं परोक्षज्ञानम् । ननु न ब्रह्म-साक्षात्कारवतां संसारानुवृत्तिरङ्गीक्रियते । साक्षात्कृतब्रह्मणां ज्ञानसामर्थ्येन तदुत्पत्त्यनन्तरमेवा-विद्यानिवृत्या सद्यः शरीरादिपाताङ्गीकारात् । अतः श्रुत्यादीनां प्रामाण्यमुपपद्यत इत्यत आह ॥ साक्षात्कृतेति ॥ पौरुषेया इति ॥ अपरोक्षज्ञानिपुरुषकर्तृकाः । परं ब्रह्म दृष्टवन्तो यदि तत्स्वरूप-मुपदिशेयुस्तर्हि परेषां विश्वासो भविष्यति । अन्यथाऽन्धपरम्पराशङ्का स्यात् । ब्रह्मसाक्षात्कार-वतामवस्थानं चाविद्यानिवृत्या सद्यः शरीरादिपाते न सम्भवति । अतस्तेषामस्थानमुपदेशार्थमवश्यं वक्तव्यमेव । तथा चाविद्यानिवृत्तिर्नास्तीति प्राप्तमतः पूर्वोक्तदोषस्तदवस्थ इति भावः ॥ उक्तमिति ॥ तथा च साक्षात्कारोऽप्रयोजक इति भावः । साक्षात्कार इव प्रसादोऽपि तेषां कुतो नास्तीति चेत्तत्राह ॥ न चेति ॥ न हीत्यर्थः ।
वाक्यार्थरत्नमाला
स्यादेतदित्यादिमूलग्रन्थस्योद्भाष्यत्वमिति शङ्कापरिहारायाह ज्ञानिनां मोक्षद इतीति । नोक्तश्रुत्यादिकमिति । ज्ञानस्याविद्यानिवर्तकत्वप्रतिपादकं ज्ञाननिवर्त्यत्वानुमानबाधकतयोदाहृतं विश्वमायानिवृत्तिरित्यादिश्रुत्यादिकमित्यर्थः । उपपन्नम् प्रमाणम् । बाधितार्थकस्य प्रामाण्यायोगादिति भावः । जीवजडेति । ब्रह्मसाक्षात्कार इत्युत्तरशङ्कानुसारेणात्राभिप्रेतचित्पदार्थप्रदर्शनमिदम् । जीवजड-भिन्नत्वेन ब्रह्म जानतामित्यर्थः । अनुवर्तत इति मूलोक्तानुवृत्तिं युक्तिद्वयेनोपपादयितुमुक्तं न जानामीत्यादि । श्रुतिस्मृतित्वेन सामान्यत उक्तेरपि प्रकरणाद्विशेषपर्यवसानं बोध्यमित्याशयं द्योतयितुं ब्रह्मज्ञानस्येत्यादिमूलाभिपे्रतं शङ्काफलमस्पष्टत्वाद्दर्शितं न तद्बाध इति । विवेकमात्रस्येति । जीवजड-भिन्नत्वप्रकारेण ब्रह्मज्ञानमात्रस्येत्यर्थः । श्रुत्यादिकमपि तादृशज्ञानमात्रस्य तन्निवर्तकत्वपरं न भवति । येनाप्रामाण्यं स्यादपि तु साक्षात्कारस्यैव तन्निवर्तकत्वपरमित्याह तद्विषयत्वाच्चेति । श्रुत्यादीनां च तद्विषयत्वादिति योज्यम् । नोक्तमिति । अज्ञाननिवृत्त्यभावसाधकानुमानस्य श्रुत्यादिबाधितत्वं प्रागुक्तं नायुक्तमित्यर्थः । अत्र संसारेत्युक्तिनिमित्तमाह विवेकिनामिति । तथा च पूर्वत्र हेतुद्वयेनाविद्यानुवृत्तिकथने तात्पर्यमिह त्वेकेनैव हेतुनेति विशेष इति प्रतिपादयितुं संसारेत्युक्तमित्युक्तं भवति । स्वव्याख्यानं मूलोक्तज्ञापकेनोपपादयति अत एवेति । संसारानुवृत्तिदर्शनादित्यादि मूलम् । एतच्च प्रमेयमिति सर्वे प्रविज्ञाय सर्वैस्तर्कैः सदागमैरिति विद्यैवेत्येतदधिकरणीयानुव्याख्यानमूले भागवतधर्मप्रवृत्तये ज्ञानिनः कमपि कालमवस्थापयन् तदर्थं प्रारब्धानि कर्माण्यवशेष्येत्यादिनाभिधास्यते । तथा सर्वात्मना त्वभोगो हीति स्तुतयेऽनुमतिर्वेत्यधिकरणीयानुव्याख्यानमूले ब्रह्मज्ञानिनोऽपि प्रारब्धकर्मणः सर्वात्मना क्षयो नास्तीति पूर्वत्र व्याख्याय तथा सति ब्रह्मविदां संसारावस्थानं न स्यान्निर्बीजत्वादित्यनेन वक्ष्यते । एवं चतुर्थेऽनारब्धकार्ये एव तु पूर्वे तदवधेरित्येतदवतारमूले सकलकर्मक्षये तदैव मुक्तिः स्यात् । न चैवम् । जीवन्मुक्तानामुपलम्भादित्यनेनापि । एवमन्यत्रापि । उक्तसर्वस्थलेऽप्यन्यथा ब्रह्मोपदेशानां वातपुत्रीयत्व-प्रसङ्गादित्येतन्मूलोक्तबाधकमभिप्रेतम् । अत एव भागवतधर्मप्रवृत्तय इत्येतद्व्याख्यावसरे टीकाकृता तथाशयवर्णनं कृतमिति ज्ञेयम् । दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावादपवर्ग इति द्वितीयन्यायसूत्रीयतश्च खलु वै निश्रेयसं किं तत्त्वज्ञानानन्तरमेव भवति । नेत्युच्यते । किं तर्हि तत्त्वज्ञानादित्युक्तोक्तसूत्रोपन्यासपरभाष्यव्याख्यानरूपे वार्तिके न तत्त्वज्ञानादपवर्ग उभयथा च दोषात् । यदि तत्त्वज्ञानानन्तरमेवापवर्गः स्यात् तद्वतामवस्थानं न स्यात् । तद्वतां चावस्थानं दृष्टम् । कुतः । शास्त्रसंप्रदायाविच्छेदात् । संप्रदायो नाम शिष्योपाध्यायसम्बन्धस्याविच्छेदे शास्त्रप्राप्तिः । यदि तत्त्वज्ञाना-दपवर्गः स्यात् शास्त्रसंप्रदायो विच्छिद्येत । यस्य यदा तत्त्वज्ञानं वृत्तं स तदैवापवृक्त इति । प्रतिपाद्य-तत्त्वज्ञाने सत्यप्यपवर्गाभावे तस्य तत्कारणत्वाभावं च प्रतिपाद्य पुनरप्युक्तमथ तत्त्वज्ञानानन्तरमपवर्गो वातपुत्रीयं शास्त्रं स्यान्न तत्त्वदृक्पूर्वकमिति । तदेतद्वार्तिकानुसार्येतन्मूलस्यापि तद्वाचस्पत्याद्यनुसारेण न तत्त्वदृक्पूर्वकमित्युक्तेर्यस्य तत्त्वज्ञानमुत्पन्नं न तेन ब्रह्मोपदेशः क्रियते । येन चोपदेशः क्रियते न तस्य तत्त्वज्ञानमुत्पन्नं किं त्वसौ पाणौ पञ्चवराटकान्निक्षिप्य कतीति पृष्टवन्तं प्रति कस्यचित् पञ्चेति यदृच्छया वाक्यप्रयोगवद्यदृच्छया ब्रह्मतत्त्वविषयवाक्यप्रयोगरूपब्रह्मोपदेशं करोति । दैवादागततद्वाक्यानुसारेण ब्रह्मतत्त्वमपि वर्तत इति यावत् । तथा चोपदेशरूपप्रयुज्यमानतद्वाक्यस्य ब्रह्मतत्त्वरूपार्थस्य च समागमो वातपुत्रयोर्यादृच्छिकसमागमवद् यादृच्छिकः । तत्त्वज्ञानपूर्वकवाक्य इति शब्दार्थसमागमस्य बुद्धिपूर्वकत्वा-भावात् । ततश्चास्य ब्रह्मोपदेशस्य न प्रामाण्याध्यवसायः सम्भवति । तदभावे चोपदेशरूपवाक्ये श्रोतॄणां प्रवृत्तिर्निरङ्कुशा न भवतीत्येवं दोषपर्यवसायि ब्रह्मोपदेशानां वातपुत्रीयत्वं स्यादिति विवक्षितोऽर्थः शिष्यैरेवोह्य इत्याशयेन सर्वपुरुषाभ्यां णढञावितिसूत्रीय‘पुरुषाद्वधविकारसमूहतेनकृतेष्वि’ति भाष्यकारीय- वक्तव्यात्तेन कृते वाक्य इत्यर्थे पुरुषशब्दाड् ढञि ढस्यायनेयीयिय इत्यनेन एयादेशे यस्येति चेत्यकारलोपे ञित्परत्वादादिवृद्धौ पौरुषेयशब्दनिष्पत्तेः पुरुषकृताः पौरुषेया इति लभ्यते । तथाविधा ब्रह्मोपदेशास् तत्त्वज्ञानशून्यपुरुषेण क्रियमाणा ब्रह्मतत्त्वविषयका ये उपदेशास्तद्रूपाणि वाक्यानि तदात्मकं शास्त्रमिति यावत् । ते उपदेशा वातपुत्रयोर्यादृच्छिकसमागमवद्ब्रह्मतत्त्वरूपार्थेन यादृच्छिकसमागमवन्त आपतेयु-रित्यक्षरयोजनां च सिद्धवत्कृत्य तत्रोपमानोपमेयभावानुपपत्तिमाशङ्क्य निराकरोति अत्र यद्यपीत्यादिना ।
समासाच्च तद्विषयादिति सूत्रेणेत्यादि । काकतालशब्दौ हि वृत्तिविषय इत्युक्तया अन्यत्र काकतालशब्दयोः काकतालार्थत्वमेवेति ध्वनितम् । एतदभिप्रायेणैव कैयटे वृत्तिविषय इत्युक्तम् । वृत्तिविषये काकतालसमवेतक्रियावर्तिनौ । तेन काकागमनमिव तालपतनमिवेति काकतालमितीवार्थे समासाच्च तद्विषयादिति ज्ञापकाद्वा सुप्सुपेति वा समासः । समासश्चास्मादेव ज्ञापकात् । न ह्यस्यापरं लक्षणमस्ति । सुप्सुपेति लक्षणान्तराभावेऽप्यनेनैव ज्ञापकेन समासः । एवं ज्ञापनेन समासस्य छप्रत्ययविषयत्वमेवेति कैयटादयः । तैरेवोक्तसमासविधायकमप्युक्तम् । सुप्सुपेतीति । सह सुपेत्यत्र सुपेति योगविभाग-स्याङ्गीकारेण तस्य सुबामन्त्रित इत्यतोऽनुवर्तमानसुबित्यनेन सम्बन्धे सुप्सुपेति सूत्रवाक्यं सम्पद्यते तेन समास इत्यर्थः । स चैवं विषये एवेत्यादिरूपकाशिकाग्रन्थाद् व्याख्यातं च मञ्जर्याम् । किं पुनः कारणज्ञापकात्समाससद्भावः प्रतिपाद्यत आह न हीति । स चैवं विषय एवेति । छप्रत्ययविषय एवेत्यर्थः । अनन्यत्र भावो विषयार्थः । तेन स्वातन्त्र्यमुपाध्यन्तरयोगो विग्रहश्च न भवतीति । उभयथापि समासोऽयं सञ्ज्ञाविशेषविनिर्मुक्त इति रमातत्त्वबोधिन्योरधिकं चोक्तम् । उभयत्रोपमेयं देवदत्तागमनं तदानीमेव दस्योरुपनिपातश्च । तेन देवदत्तस्य दस्योश्च समागमः काकतालसमागमसदृश इति फलति । ततश्च काकतालमिव काकतालीयमिति द्वितीयस्मिन्निवार्थे समासाच्च तद्विषयादिति सूत्रेण छप्रत्ययः । तत्र हि इवे प्रतिकृताविति सूत्रात्प्रकृत इवार्थस्तदित्यनेन निर्दिश्यते । न छप्रत्ययस्तस्यानेन विधानात् । तथा चेवार्थविषयात्समासादपरस्मिन्निवार्थ एव छप्रत्ययो भवति इवे प्रतिकृतावित्यत इवे इत्यस्याधिकारादिति प्रतिपादनात् । एवं च पतनात्तालेन काकवधस्येवोपनिपतता दस्युना देवदत्तस्य वधः कृत इति छप्रत्ययार्थ इति । एवमेवाजाकृपाणीयशब्दोऽपि व्युत्पाद्यः । तदेतत्काशिकामञ्जर्योरुदाहरणद्वयं वातपुत्रीयेत्युदाहरणोप-लक्षणम् । अत एव तत्रान्धवर्तकीयमित्युदाहरणान्तरम् । तस्य हि वर्तिका नाम शकुनिविशेषः । अन्धहस्ते च तस्य पतनम् । तेन तस्य ग्रहणं च यादृच्छिकं तद्वदेव देवदत्तदस्युसमागमादिति प्रतिपाद्यत इति मनसि कृत्वा काशिकास्थोदाहरणद्वयेन प्रकृतमुदाहरणं सङ्कलय्य त्रितयस्यापि तत्र साम्येन छप्रत्ययविषयतामुक्तवा तत्रत्योपमा-द्वयमुपमेयद्वयं च सहैव निर्दिश्य प्रकृतासङ्गतिप्रतिपादनम् । उक्ताशयेनैव वातपुत्रीयादिशब्दा इत्यादिपदम् । वातपुत्राणामिवेति पूर्वग्रन्थानुसारेण तालकृपाणपुत्रैरिति वातानामिति च वक्तव्ये वातैः पुत्राणामिति वचनं पुत्रेण वा तस्येव वा तेन पुत्रस्यापि यादृच्छिकी निवृत्तिः सम्भवतीति काकताला-जाकृपाणस्थल इव वध्यघातकभावनियमो नास्तीति प्रतिपादनायेति न दोषः । पुत्रैरिति वातानामिति च पाठस्तु स्वरस एव ।
तद्धितेति । छप्रत्ययाख्येति शेषः । संपूर्णेति । समासार्थोपमातद्धितार्थोपमा चेति उपमाद्वयस्यैव काकतालीयादिपदेनोपस्थितेस्तद्द्वयस्थले तच्छब्दानां संपूर्णार्थत्वेऽप्येकमात्रोपमास्थले संपूर्णार्थत्वाभावा-त्प्रकृते च प्रयुज्यमानोपदेशरूपवाक्यस्य ब्रह्मतत्त्वरूपार्थस्य च यादृच्छिकसमागमस्यैकस्यैव सत्त्वान्न संपूर्णार्थतेति तन्न्यायोदाहरणमत्रासङ्गतमिति भावः । अत एव युक्तिचरणस्थयाथार्थ्यं प्रमाणलक्षण-मित्येतदाक्षेपाय प्रवृत्तकाकतालीयेऽतिव्याप्तिरित्येतन्मूलटीकायामुपमाद्वयमुपपादयिष्यत इति ज्ञेयम् । यादृच्छिकसमागममात्रेऽपीति । एकस्यैव यादृच्छिकसमागमस्य सत्त्वस्थलेऽपीत्यर्थः । अस्य काकतालीयादिशब्दस्याप्रयोगोऽभियुक्तानाम् । अयमपीति । अत्रत्यो वातपुत्रीया इति प्रयोगोऽपीत्यर्थः । अङ्गीकृत्य चैतदुक्तम् । वस्तुतस्तु प्रकृतेऽपि उपदेशरूपवाक्यात्मकशास्त्रस्य ब्रह्मतत्त्वरूपार्थेन समागमस्येव तेन शास्त्रेण पूरुषे जनितब्रह्मतत्त्वज्ञानस्यापि वातकृतपुत्रनिवृत्त्युपमेयभूतस्य सत्त्वेन संपूर्णार्थत्व-सम्भवादित्यपि ज्ञेयम् । युक्तिचरणटीकायां ततश्च काकागमनतालपतनसमागमरूपस्य तालकृतकाक-वधरूपस्य चोपमानस्यानुपादानात् प्रत्ययार्थोपमायाम् उपमानलोपः । समासार्थोपमायां वाचनिकोपमान-लोपः । सर्वोऽप्ययं लोपश् छप्रत्ययविधायकशास्त्रकृत इत्येवमधिकं प्रतिपादितमस्ति तदपि तन्मूलं निष्कास्य व्याख्येयमस्ति तदप्यत्र लेख्यम् ।
अन्ये तु यदि ब्रह्मसाक्षात्कारवतां सद्यःशरीरपातोऽभ्युपगम्यते तर्हि पौरुषेयतया प्रसिद्धा ब्रह्मोपदेशा वातपुत्रीया आगमिकाः स्युः । साक्षात्कृतब्रह्मणां सद्यःशरीरपाताभावे तैर्यथादर्शनमन्यान्प्रति ब्रह्मोपदेश-सम्भवेन तत्परम्परया सर्वेषां ब्रह्मोपदेशप्राप्तावपि तेषां सद्यःशरीरपाताभ्युपगमे शरीरादिरूपोपदेशोप-योग्यभावेन तैरुपदेशानुपपत्त्या तदन्येषां च यथावत्तज्ज्ञानस्यैवाभावेनोपदेशकत्वानुपपत्तेरुपदेशपरम्पराया अन्धपरम्परात्वप्रसङ्गादिति मूलाभिप्रायोऽनेन टीकाग्रन्थेन सूचित इत्याहुः । केचित्तूक्तविधयोपदेश-परम्पराया अप्रवृत्तौ ब्रह्मोपदेशा वातागमनपुत्रोत्पत्तिकार्यकारणभावबोधकवाक्यवद् वार्तामात्राः स्युरिति मूलार्थ इत्याहुः । षष्ठीति । अधीगर्थदयेषां कर्मणीति स्मरणान्मातुः स्मरतीत्यादाविव कर्मणि षष्ठीति योज्यम् । व्याख्येति । तत्र बन्धस्येश्वराधीनत्वयुक्तया तथोक्तत्वाभावः । स्मारणं व्यर्थमिति । शिष्या एवैतच्छङ्कापरिहारं प्रागुक्तरीत्या करिष्यन्ति । ततश्चैतच्छङ्कोत्थानमप्यत्र न कार्यमित्याशयः । पुनराशङ्का-मुत्थाप्य पूर्वोक्तस्मारणेन तत्परिहारं कृत्वा तत्रापि प्राप्तानुपपत्तिमाशङ्क्य तत्परिहारस्यात्र करणेनाधिक-प्रतिपादनार्थत्वादुक्तस्मारणस्य न वैयर्थ्यमित्याशयं द्योतयन्नुत्तरमूलमवतारयति प्रसादस्यैवेति । साक्षात्कारस्य बन्धध्वंससाधनत्वे प्राप्ता या अनुपपत्तिस्तस्याः प्रसादस्य बन्धध्वंससाधनत्वोक्तावपि कथं तदवस्थत्वम् । न हि प्रसादवादिना साक्षात्कारोऽपि तत्कारणतयोक्त इत्यत उक्तं प्रसादस्यै-वेत्यादीतीत्यन्तम् । इत्येवंरूपेण तदवस्थयेति सम्बन्धः । वक्तव्यतया कारणान्तराभावादन्यथा साक्षात्कारवैयर्थ्यापत्तेश्चेति भावः ।
न प्रसादसाधनमिति मूले साक्षादिति शेषः । अनुपपत्तेरिति । संसारानुवृत्तिर्न स्यादित्यनुपपत्ते-रित्यर्थः॥ न प्रसादपक्ष इति । प्रसादस्योक्तरीत्या साधनान्तरसाध्यत्वेन सत्यपि साक्षात्कारे भक्तिपरावस्था-रूपसाधनाभावेनैव प्रसादाभावसम्भवात् संसारानुवृत्त्युपपत्तेरिति भावः । उक्तेत्यस्य स्थानप्रदर्शनं यमधिकृत्येत्यादिनेति । भक्तिरूपनिरूपणानन्तरं यमधिकृत्य ‘यत्र नान्यत् पश्यति सा निशा पश्यतो मुनः’ इत्याद्याः श्रुतिस्मृतय इति जिज्ञासोत्थेति वाक्यव्याख्यावसरे उक्तत्वादिति भावः । परावस्थेत्यस्य व्याख्या परिपाकावस्थेति । साक्षात्कारो न प्रसादसाधनमित्यादि वदतापि साक्षात्कारेण भक्तिपरावस्था तया च प्रसाद इत्येव स्वीकृतं भवति । साक्षात्कारातिरिक्तकारणाभावादिप्रयुक्तयुक्तेरित्याशयेन साक्षात्कारपरावस्थयोः कार्यकारणभावाश्रयणेऽपि प्रागुक्तानुपपत्तिस्तदवस्थेत्याशङ्कापरिहारपरतयोत्तर-वाक्यमवतारयति नन्विति । प्रसादोऽपीत्यनेन तत्साध्यबन्धध्वंसादिपर्यन्तं गृह्यते । एवमन्यत्रापि । ननु साक्षात्कारस्य बन्धध्वंसहेतुत्वे वा प्रसादहेतुत्वे वा प्राप्तानुपपत्तिपरिहारः साक्षात्साधनत्वाभावाश्रयणेनो-पपन्नः । तत्रोक्तरीत्या द्वारसद्भावात् । न च साक्षात्कारभक्तिपरावस्थयोर्मध्ये कारणान्तरमस्ति । येन तद्विलम्बात्सत्यपि साक्षात्कारे भक्तिपरावस्थाभाव इति कल्पनोपपद्यत इत्याशयेनैव संपूर्णकारणरूप-सामग्रीसद्भावस्याशङ्कने सति तत्परिहारः कथमनेन स्यात् । प्रागभावः कार्योन्नेय इत्युक्ते कार्यं दृष्ट्वा प्रागभाव आसीदिति ज्ञानवत्कार्यभूतं प्रसादं दृष्ट्वा भक्तिपरावस्था ज्ञातव्येत्यस्यानुत्तरत्वात् । साक्षात्कारे सति भक्तिपरावस्था प्राप्तेत्युक्ते तस्मिन्सत्यपि तदभावे विलम्बहेतोरेव वक्तव्यत्वादित्यतो विलम्बहेतुं मूलाभिप्रेतं दर्शयति ज्ञानेनाज्ञानेति । लोके घटादिज्ञानेन तदज्ञाननिवृत्तौ कर्तव्यायां विरामपदोक्त-विलम्बस्याभावः सिद्धः । यत्र हि तदानीमेव तत्कार्यकारणासम्भवस्तत्रैव किञ्चित्कालं स्वव्यापारकरणा-भावरूपावसानसम्भवात् । न च ज्ञानस्य स्वोत्पत्तिकालानन्तरं स्वकार्यकारणत्वानुपपत्तिरस्ति । तथाच न्यायेन भगवज्ज्ञानेनाप्यज्ञाननिवृत्तौ कर्तव्यायां विलम्बाभावात्तेन तन्निवृत्त्यङ्गीकारे चाज्ञानकार्यस्यापि प्रागुक्तरीत्या निवृत्तिसिद्धेः संसारानुवृत्त्ययोग इति ज्ञानस्य साक्षाद्बन्धध्वंसहेतुत्वपक्षेऽनुपपत्तिर्यद्यप्यस्ति तथापीत्यर्थः । सिद्धस्यापीति । अयमर्थः । नैवं ज्ञानस्य भक्तिपरावस्थाहेतुत्वेऽनुपपत्तिः प्रसज्यते । भक्तिरूपं कारणं हि साक्षात्कारात्पूर्वमेवास्ति । तदभावे साक्षात्कारस्यैवानुदयात् । उक्तं च प्राक् दर्शनसाधनं चानुग्रह इत्येतन्मूले विषयवैराग्यतद्भक्तीति भक्तेरपि दर्शनसाधनानुग्रहात्पूर्वभावित्वम् । तथा च पूर्वसिद्धभक्तिरूपकारणस्य साक्षात्कारेण परावस्था क्रियते । सा च न साक्षात्कारोत्तरकाल एव किन्तु विलम्बेन । साक्षात्कारेणोपकृतं भक्तयाख्यं कारणं कदाचिदेव फलोन्मुखं भवति । यदा च भवति सैव तत्परावस्थेत्युच्यते । भक्तिस्तु पूर्वं विद्यमानापि पश्चात्साक्षात्कारेणोपकृतापि न परावस्थां तदैव लभते । किन्तु कालान्तरे । यथा यागस्य देवतोद्देशेन द्रव्यत्यागरूपतया क्षणिकत्वेन स्वर्गपर्यन्तमवस्थानानुपपत्त्या मध्ये कल्पितमपूर्वं न स्वोदयानन्तरमेव स्वर्गं जनयति । किन्तु स्वपरिपाककाल एव । परिपाकश्च विलम्बेन । यथा वा पुण्यपापे विद्यमाने अपि स्वफलं न स्वोदयानन्तरमेव भोजयतः किन्तु स्वपाकानन्तरम् । एवमन्यदप्यूह्यम् ।
एवं सिद्धभक्तयाख्यकारणस्य साक्षात्कारेणोपकृतस्य परिपाकानन्तरमेव प्रसादजनकत्वमित्येवं विलम्बोपपत्तेः साक्षात्कारे सत्यपि परावस्थाभावोपपत्त्या प्रसादाभावाद्युपपत्तिः । ततश्च कादाचित्क-फलोन्मुखत्वलक्षणपरिपाकरूपभक्तिपरावस्थां प्रति साक्षात्कारस्य कारणताया अपूर्वादौ कप्त-कालान्तरीयपरिपाकदृष्टान्तेनोपपत्त्या कार्यगम्येति मूलस्याप्युक्तरीत्या परिपाके विलम्बोपपत्त्यभिप्रायान्न साक्षात्कारस्य भक्तिपरावस्थाकारणत्वाभ्युपगमे काचिदनुपपत्तिरिति । ननु साक्षात्कारेणैव मोचकप्रसादे इत्यङ्गीकृत्य तस्य प्रारब्धकर्मप्रतिबद्धत्वान्मोक्षाभावोपपत्तेरित्येव कुतो न समाधीयते । किं साक्षात्कार-प्रसादयोर्मध्ये भक्तिपरावस्थां प्रकल्प्य तदभावेन मोक्षविलम्ब इति कल्पनया । अत एव प्रारब्ध-प्रतिबन्धादिवादानामुपपत्तिरित्यत आह मूले प्रारब्धेति । स्वतन्त्रभगवत्प्रसादप्रतिबन्धकत्वाभावे कर्मणा-मस्वतन्त्रतैव वाच्येति नाचेतनत्वोक्तिः सङ्गतेत्यत आह अचेतनानामितीति । एतच्च मूलटीकयो-रचेतनत्ववचनं पररीत्यैव । वस्तुतोऽचेतनशरीरकाणां स्वस्वकर्मफलभाजां चेतनताया एव ‘अचेतन-शरीराणि स्वकर्मफलभाञ्जि च । प्रत्येकं तेषु चानन्ते’त्यादिना भक्तिपादे कर्मणां चेतनत्वस्यानुभाष्ये प्रतिपादयिष्यमाणतयाऽचेतनवदस्वतन्त्राणामित्येवमस्वतन्त्रत्वमात्रे तात्पर्यमिति न विरोध इति ज्ञेयम् ।