०९ विवरणमतनिरासः

अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च सः

विवरणमतनिरासः

अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च सः

सुधा

ननु स्वोपादानगतोत्तरावस्था विनाशः । तत्कथमनादेर्निरुपादानस्य विनाशः । न । स्याश्रयगतोत्तरावस्थेत्येतावत्वात् । अन्यथा परमाणुश्यामत्वादीनामनिवृत्तिप्रसङ्गात् । अभाव-वैलक्षण्यादात्मवदज्ञानस्यानिवृत्तिरिति चेन्न । सद्वैलक्षण्यात्प्रागभाववन्निवृत्तिः किं न स्यात् । कस्तर्हि निर्णयः । ज्ञानाज्ञानकृतो विशेषान्वय इत्युक्तमिति । तदयुक्तम् । तथाहि । यत्तावन्न सादित्वमनादित्वं वेत्यादि । तत्र किं निवर्तकाभाव उपाधिरनेनोच्यते किंवा निवर्तकसद्भावेन सत्प्रतिपक्षता । नाद्यः । साधनव्यापकत्वात् । न द्वितीयः । असिद्धेः । न हि अज्ञानस्यानादितया निवृत्त्यनुपपत्तिं ब्रुवाणस्तन्निवर्तकमभ्युपैति । किन्त्वनादित्वेन तदभावमप्यनुमिनोति । यदपि प्रागभावे व्यभिचारोद्भावनं तदपि भावत्वेन हेतुविशेषणादयुक्तम् । यदपि सुगतानामित्यादि तदत्यन्तमसङ्गतम् । न हि वासनानामनादित्वं वैनाशिका अभ्युपयन्ति । न च तद्-व्यतिरिक्तं सन्तानम् । येन तत्र व्यभिचार उद्भाव्येत । न च नैय्यायिकादयो मिथ्याज्ञानस्यानादितां तद्-व्यतिरिक्तं वा प्रवाहमङ्गीकुर्वते । परमाणुश्यामताऽपि सादिरेव । न हि परमाणुपाकस्येदम्प्रथमता तत्सिद्धान्तः ।

वाक्यार्थचन्द्रिका

प्रकारान्तरेणानादेर्नाशाभावं शङ्कते ॥ ननु स्वोपादानेति ॥ घटादेर्नाशो नाम स्वकारणसमवायिनी कपालाद्यवस्था । अज्ञानस्य चाकार्यत्वान्न स्वकारणसमवायिन्युत्तरवस्थेत्य-विनाश इत्यर्थः । व्यर्थविशेषणतया परिहरति ॥ न स्वाश्रयेति ॥ स्वाश्रयगतोत्तरावस्थाया नाशत्व-सम्भवे समवायिकरणेति विशेषणं व्यर्थम् । तथा चात्मनो ब्रह्मस्वरूपाभिव्यक्तिरविद्यानिवृत्तिरिति किमत्रावद्यमित्यर्थः । न केवलं व्यर्थविशेषणता किन्त्वव्याप्तिश्चेत्याह ॥ अन्यथेति ॥ प्रागभावादि-रादिपदार्थः । परिशिष्टं पक्षद्वयमाशङ्क्य निराकरोति ॥ अभाववैलक्षण्यादिति ॥ तत्प्रयोजको धर्मो भावत्वमित्यस्याप्युपलक्षणम् । अत्रानादित्वमपि विशेषणं द्रष्टव्यम् । प्रत्यनुमानपराहतिमाह ॥ न सद्वैलक्षण्यादिति ॥ सत्ताजात्याश्रयान्यत्वादित्यर्थः । अतो न परमते दृष्टान्ते साधनवैकल्यमिति ध्येयम् । समानबलत्वान्नानयोर्बाध्यबाधकभाव इति शङ्कते ॥ कस्तर्हीति ॥ समानबलत्वमसिद्धमित्याह ॥ ज्ञानाज्ञानेति ॥ न सादित्वमित्यादेर्नाप्रयोजकतामात्रे तात्पर्यं किन्त्वित्यादिना विनाशाविनाशयो-र्निवर्तकसद्भावतदभावरूपनिमित्तान्तरस्याप्ययुक्तेः । तथा चाविनाशे निवर्तकाभावः प्रयोजक इति विवक्षयोपाधिकथने तात्पर्यत् । विनाशे निवर्तकसद्भावः प्रयोजक इति विवक्षायां प्रतिपक्षे तात्पर्यं लभ्यत इत्यभिप्रेत्य विकल्पयति ॥ तत्र किमिति ॥ समानत्वाद्दूषणद्वयं युगपदुपपादयति ॥ न हीति ॥ ननु माऽस्तु निवर्तकाभ्युपगमः परस्य साधकाभावेन निवर्तकाभावस्यानिश्चितत्वात् साधनव्यापकतासन्देहेन सन्दिग्धोपाधिः स्यादेवेत्यत आह ॥ किन्त्विति ॥ ननु सिद्धान्त इव मायिनाऽपि विश्वमायानिवृत्तिरिति प्रमाणानुसारेण प्रमितनिवर्तकानभ्युपगमस्यानुचितत्वादिति निवर्तकाभावानुमानस्य च बाधितत्वादि-त्युपाधिप्रतिपक्षसमाधानं कर्तुं शक्यत एवेति कथं परं प्रत्येवं पर्यनुयोग इति चेन्न । अनादेः कथं निवृत्तिरित्याक्षिप्य ‘तरति शोकमात्मविदि’ति शास्त्रप्रामाण्यादनादेरपि निवृत्तिरिति समाधानमा-शङ्क्यानादिदेहात्माध्यासस्य तत्त्वज्ञानेऽपि अनिवृत्तेः प्रत्यक्षविरोधेन शास्त्रस्यैवाप्रामाण्यमिति शास्त्र-मवधीर्यास्या युक्तेरेव तदाक्षेपसमाधानत्वेन परेण उपन्यस्तत्वान्नोपाधिप्रतिपक्षसमाधानं शास्त्र-प्रामाण्यानुसारेण परेण कर्तुं शक्यम् । अस्माकं त्वलौकिकेऽर्थे शास्त्रविरोधेन प्रत्यक्षस्याभासत्वाद्युक्तं प्रमाणानुसारेण तथा समाधानमित्याशयात् । यदपि प्रागभाव इत्यत्र प्रागभावशब्देन लौकिकः प्रागभावः साङ्ख्याभिमतोऽविवेकशब्दोक्तो विवेकप्रागभावो मीमांसकाभिमतो धर्मतत्त्वज्ञानप्रागभावश्च गृह्यते । सुगतानामित्यादीत्यादिपदेन तु नैयायिकादीनामित्युक्तानामेव ग्रहणम् । न हीत्यादिना तेषामेव ममतेनानुपपत्तेर्वक्ष्यमाणत्वादिति द्रष्टव्यम् ।

वासनासन्तानानां निवृत्तिं वदन्प्रष्टव्यः । हेतुहेतुमद्भावेनावस्थिता उदयव्ययधर्माणः सन्तानिन एव सन्तान इत्येतन्मतेनेदं व्यभिचारोपपादनमुत तदतिरिक्तः कश्चित्सन्तान इति मतेन । नाद्य इत्याह ॥ न हीति ॥ तैः पूर्वपूर्वसंस्कारक्षणैरुत्तरोत्तरसंस्काराधानाङ्गीकारेण वासनानामनादित्वस्यानभ्युपगमात् । अन्यथा क्षणिकत्वानुपपत्त्या सत्त्वस्य व्यभिचारापत्तेः । सत्त्वाभावे चापसिद्धान्तात् । तदिदमुक्तं वैनाशिका इति ॥ अत एव च क्षणिकत्वाभावे सत्त्वानुपपत्त्याऽतिरिक्तसन्तानमङ्गीकृत्यापि क्षणिकत्वेऽवश्यमङ्गीकर्तव्ये नातिरिक्तत्वाङ्गीकारस्य प्रयोजनविशेष इत्यभिप्रेत्य तैरतिरिक्तत्वं नाङ्गीकृत-मित्याह ॥ न चेति ॥ अभ्युपयन्तीत्यनुषङ्गः । न च वासनानां तन्मते सादित्वे चतुर्थाध्याये तन्मतोप-न्यासावसरेऽनादित्वोक्तिर्व्याहन्येतेति वाच्यम् । वासनानां स्वरूपेणोत्पन्नानामपीदम्प्रथमताऽभावाभि- प्रायेणानादित्वोक्तेरुपपत्तेरित्याशयः । अतिरिक्तं सन्तानमिति द्वितीयपक्षेऽपि तैः सन्तानस्य सत्त्व-क्षणिकत्वयोरनङ्गीकारेणानादित्ववन्नित्यत्वस्यापि सत्त्वान्न तन्मतेनेदं व्यभिचारोपपादनमुपपद्यते । न च सन्तानिनां सत्त्वे सन्तानस्यासत्त्वानुपपत्त्या सत्त्वे च क्षणिकत्वावश्यंभाव इत्युपपाद्य तेनापि निवृत्तिरङ्गीकार्येत्याशयः । तर्हि तयैव युक्त्या सादित्वस्याप्यङ्गीकर्तव्यतापत्तौ हेत्वभावेन व्यभिचारा-नापत्तेः । अत एव तन्मतोपन्यासावसरे नित्यं सन्तानमेतेषामिति तन्मतमविष्कृतम् । एतदप्याह ॥ नचेति ॥ अत्र च योग्यतया निवर्तत इतीत्यध्याहृत्याभ्युपयन्तीत्यप्यनुषञ्जनीयम् । वस्तुतस्तु हेतुहेतुमद्भावापन्नसन्तानिरूपस्य सन्तानिनां हेतुहेतुमद्भावरूपस्य वा सन्तानस्येदं प्रथमताशून्यत्वेन तेन तेन तत्र तत्रानादिनित्यत्वोक्तावपि वस्तुतः सन्तानस्यातिरिक्तस्य तन्मतेऽप्यभावात्सन्तानिनां च स्वरूपेणानादिनित्यत्वाभावाद्यथाश्रुत एवायं ग्रन्थः साधुरिति द्रष्टव्यम् ॥ न चेति ॥ न चैवं तदीयसंसारानादित्वोक्तेः का गतिरिति वाच्यम् । कार्यकारणभावादिरूपस्य तस्येदंप्रथमताऽभावमात्रेण तदुक्त्युपपत्तेः । इदं च ‘त इमे दुःखादयो मिथ्याज्ञानान्ता अविच्छेदेन वर्तमानाः संसारः । कः पुनरयं संसारो दुःखादीनां कार्यकारणभावः । स चानादिः । पूर्वापरकालानियमात्’ इति न्यायवार्तिके दुःखजन्मप्रवृत्तिदोषा विषयत्वेन तावन्मिथ्याज्ञानकारणम् । एवमसति जन्मनि मिथ्याज्ञानानुत्पत्तेर-विषयोऽपि जन्म मिथ्याज्ञानस्य कारणम् । एवं विना प्रवृत्त्या जन्माभावाज्जन्मद्वारेण प्रवृत्तेरपि मिथ्याज्ञानकारणत्वं प्रवृत्तिद्वारेण च दोषाणां तथा ‘मिथ्याज्ञानाद्दोषा, दोषेभ्यः प्रवृत्तिः, प्रवृत्तेर् जन्म, जन्मनो दुःखम्’ इत्यादिवार्तिकटीकायां च स्पष्टमिति द्रष्टव्यम् ॥

परिमल

॥ परमाण्विति ॥ पार्थिवपरमाणुश्यामतेत्यर्थः । तस्य अपाकजत्वादिति भावः ॥ विवेकेनेति ॥ प्रकृतिपुरुषविवेकेन तदविवेको निवर्तत इत्यर्थः । वासनादावनादित्वं नेति मन्वानः शङ्कते ॥ अनादिभावरूपस्येति ॥ हेतोः सत्प्रतिपक्षत्वासिद्धत्वाद्यभिप्रायेण निराह ॥ अनिर्वचनीयत्वादिति ॥ भावाभावविलक्षणत्वादित्यर्थः । भावत्वमुपेत्यापि समाधिमाह ॥ अनादिरिति ॥ सैवेति ॥ विशेषव्याप्तिरेवेत्यर्थः । तार्किकोक्तविनाशस्वरूपं निषेधति ॥ नेति ॥ स्वयं प्रकारान्तरेण विनाशस्वरूपं निर्वक्ति ॥ स्वाश्रयेति ॥ न तूपादानेत्यप्याश्रयो विशेषणीय इत्यर्थः ॥ परमाणुश्यामत्वादीनामिति ॥ तेषामनादित्वादिति भावः । अनिर्वचनीयत्वादित्युक्तपक्षेऽपि दोषमाशङ्क्य निराह ॥ अभावेति ॥ ज्ञानाज्ञानकृत इति ॥ यदज्ञानं तद् ज्ञानेन निवर्तत इति विशेषव्याप्तिरित्युक्तमित्यर्थः । निवृत्तौ विरोधिसन्निपातः प्रयोजक इत्यादिक्रमेण निरस्यति ॥ यत्तावदित्यादिना ॥ उपाधिरिति ॥ अज्ञानं न निवर्ततेऽनादित्वादात्मवदित्यनुमाने निवर्तकाभाव उपाधिः । निवर्तकवत्त्वादज्ञानं निवर्तत इति प्रतिपक्षोऽभिप्रेयत इत्यर्थः । साधनव्यापकत्वसिद्धिं च व्यनक्ति ॥ न हीति ॥ किञ्च लोक इत्यनेन उक्तदोषं निराह ॥ यदपीति ॥ नन्वन्यत्राप्युक्तो व्यभिचार इत्यत आह ॥ यदपि सुगतानामित्यादीति ॥

यादुपत्यम्

प्रकारान्तरेणानादेर्नाशासम्भवं शङ्कते ॥ ननु स्वेति ॥ घटादेर्विनाशो नाम स्वकारणसमवायिनी कपालाद्यवस्था । अज्ञानस्य चाकार्यत्वान्न स्वकारणसमवायिन्युत्तरावस्थेत्यविनाश इत्यर्थः । व्यर्थविशेषणत्वेन परिहरति ॥ नेति ॥ तथा चात्मनो ब्रह्मस्वरूपाभिव्यक्तिरेवाविद्या-निवृत्तिरिति न नाशलक्षणानाक्रान्ततेति भावः । न केवलं व्यर्थविशेषणता किन्त्वव्याप्तिश्चेत्याह ॥ अन्यथेति ॥ प्रागभावादिरादिशब्दार्थः । कल्पान्तरमुत्थापयति ॥ अभाववैलक्षण्यादिति ॥ अत्रानादि-त्वमपि विशेषणं द्रष्टव्यम् । अस्य प्रत्यनुमानपरिहारमाह ॥ सद्वैलक्षण्यादिति ॥ समानबल-वत्त्वान्नानयोर्बाध्यबाधकभाव इति शङ्कते ॥ कस्तर्हींति ॥ समानबलत्वममसिद्धमित्याह ॥ ज्ञानाज्ञानेति ॥ तथा चाज्ञानत्वहेतुसहकृतं सद्वैलक्षण्यं प्रबलं सन्निवृत्तिनिर्णायकं भविष्यतीति भावः । वैनाशिका इति हेतुगर्भविशेषणम् । सर्वक्षणिकत्ववादित्वादित्यर्थः ॥ इदंप्रथमतेति ॥ अग्निसंयोगस्य ततः पूर्वमपि सम्भवादेवं ततः पूर्वमपीति नानादित्वम् ।

श्रीनिवासतीर्थीया

॥ अनिवृत्तीति ॥ श्यामताया अनादित्वेनोपादानाभावादिति भावः ॥ कस्तर्हीति ॥ अभाववैलक्षण्यादात्मवदज्ञानस्यानिवृत्तिर्वा सद्वैलक्षण्यात्प्रागभाववन्निवृत्तिर्वेति सन्देह एव स्यान्न निर्णय इत्यर्थः । उत्तरमाह ॥ ज्ञानेति ॥ यदज्ञानं तज्ज्ञाननिवर्त्यमिति विशेषव्यार्प्तिबलवतीति निवृत्तिनिर्णय एव भविष्यतीति भावः ॥ उक्तमिति ॥ ज्ञानेनाज्ञाननिवृत्तिरिति विशेषव्याप्तिरित्युक्त-मित्यर्थः । साधनव्यापकत्वमसिद्धिं चोपपादयति ॥ न हीति ॥ तदभावं निवर्तकाभावारूपमुपाधिम् । वासनासन्ताने व्यभिचार उद्भाव्यत चेत्तत्राह ॥ न चेति ॥ तद्-व्यतिरिक्तं वासनारूपसन्तानिव्यतिरिक्तम् ॥ इदंप्रथमतेति ॥ अस्मिन्कालविशेषे तेजः संयोगरूपः पाक आरब्ध इति पाकस्येदंप्रथमता यदि स्यात् । तदैवैतवत्पर्यन्तं श्यामता न निवृत्तेति श्यामताया अनादित्वं स्यादित्यर्थः ।

वाक्यार्थरत्नमाला

स्वकारणं समवायिकारणम् । तथा चात्मनो ब्रह्मस्वरूपेति । आत्म-रूपाश्रयगतोत्तरावस्थाभिव्यक्तिरूपो विनाश इत्यर्थः । अव्याप्तिश्चेति । विनाशलक्षणस्येति शेषः । उपलक्षणमिति । अस्योत्तरत्रोपन्यासादुपलक्षणयाऽभिधानमिति ज्ञेयम् । यत्तु अन्यथाख्यातौ न सादित्वमनादित्वं वेत्यादिवाक्यव्याख्यानावसरे प्रागभावादौ व्यभिचारादिकथनादि कृतम्, तत्तु उत्तर-ग्रन्थानुसन्धाने अयुक्तमिति स्पष्टमित्युपेक्ष्यम् । प्रध्वंसप्रागभावयोर्व्यभिचारेण सादित्वानादित्वयोर् विनाशाविनाशाभ्यां व्यभिचारस्य पूर्ववाक्य एव सिद्धत्वे लोके तावदनादिः प्रागभावो निवर्तते इत्यादिना व्यभिचाराभिधानं कथं न व्यर्थं स्यात् । पूर्वोत्तरग्रन्थयोर् उपपाद्योपपादकभावेन प्रवृत्तिरिति तु न शङ्कनीयम् । विवरणे लोके तावदित्यादेरेव ग्रन्थस्य विद्यमानत्वेऽपि दूषणान्तरत्वज्ञापनायैव किञ्चेत्य-स्याधिकस्य मूले पूरणात् । पूर्वग्रन्थस्य व्यभिचाराभिप्रायत्वेनानादित्वं विनाशाभावे प्रयोजकमित्येव वक्तव्यतया सादित्वस्य विनाशे प्रयोजकत्वखण्डनस्य विरोधिसन्निपाततदभावयोर् विनाशाविनाशौ प्रति प्रयोजकत्वाभिधानस्य च वैयर्थ्यात् । न सादित्वमित्यादिवाक्यस्य व्यभिचाराभिधायकत्वम् । किन्तु विरोधीति वाक्यस्य तूपाधिप्रतिपक्षपरत्वमिति विवेकाङ्गीकारे तु यत्तावत्सादित्वमनादित्वं वेत्याद्युत्तरमूले उपाधिप्रतिपक्षाभिप्रायकत्वेन विकल्पानुपपत्तिप्रसङ्गः । अत्र अधिकं विनोदे ज्ञेयम् । अभावे व्यभिचार-परिहाराय भावत्वविशेषणमाशङ्क्य तथा सति अभावविनाशे निमित्तान्तरं वाच्यमित्यभिधानं चासत् । वक्ष्यमाणरीत्या प्राप्तस्यापि प्रागभावे व्यभिचारस्येव भावत्वविशिष्टहेतोर् वासनासन्तानादौ व्यभिचारस्य वा असिद्धेर्वा वक्ष्यमाणरीत्यैव प्राप्ताया अभिप्रायतया वर्णनीयत्वेनार्धजरतीयायोगात् । अनादित्वेन निवृत्त्य-भावशङ्कायामनादित्वनिवृत्त्यभावयोर्व्यभिचारेण व्याप्त्यभावे वादिनोक्ते भावविशेषणेन व्यभिचारपरिहार-मात्रेणैव प्रतिवादिनः कृतार्थतया तेन अभावविनाशे निमित्तान्तरस्यावक्तव्यत्वाच्चेत्यलम् । नारायण-पण्डितीयेऽपि तत्रतत्र व्याख्यानमुत्तराननुगुणम् । अभावविलक्षणत्वमात्रस्य घटादावव्यभिचारायाह अत्रा-नादित्वमपीति । दृष्टान्त इति । स्वरूपसत्त्वस्य तत्रापि सत्त्वादिति भावः । औतिमते तदभावाभिप्रायेण परमत इत्युक्तं ज्ञानाज्ञानेतीति । तथाच ज्ञानत्वहेतुसहकृतसद्वैलक्षण्यं प्रबलं सन्निवृत्तिनिर्णायकं भविष्य-तीति मूलाशयः । अप्रयोजकत्वमात्रपरत्वेन योजनाया विवरणं टीकाकारैः कृतत्वात् कथमयं विकल्प इत्यतस्तद्योजनैवायुक्तेति दर्शयन् विकल्पसम्भवमाह न सादित्वमित्यादेरित्यादिना । अप्रयोजकत्वमात्रे हेतूच्छित्त्यादिबाधकोपन्यासनिवर्त्याप्रयोजकत्व इत्यर्थः । उक्तेरिति । तथाच प्रयोजकान्तरकथनलब्धोपाधि-पर्यवसायिनि तत्र तात्पर्यमिति लब्धम् ।

समानत्वादिति । निवर्तकस्य पक्षे सत्त्वात् कथमसिद्धिरिति शङ्काया अपि साधनव्यापकत्वोप-पादनेनैव निरासादिति भावः । किं त्विति मूलं सङ्गमयति नन्विति । परस्येति । अज्ञानस्यानादितया निवृत्त्यनुपपत्तिं ब्रुवाणस्येत्यर्थः । परस्येत्यतःपरं तथापीति पूरणीयम् । अनिश्चितत्वादित्यत्र विभक्ति-व्यत्ययेन परेणेत्यनुवर्तते । सन्दिग्धेति । तं प्रत्येव सन्दिग्धेति योज्यम् । अनुमिनोतीति मूलम् । विमतं निवर्तकरहितं भावत्वे सत्यनादित्वादात्मवदिति निवर्तकाभावमप्यनुमिनोतीत्यर्थः । न केवलं निवर्तकं नाभ्युपैतीत्येवेत्यपिपदार्थः । अनादेः कथं निवृत्तिरित्येतच्छङ्कापरिहाराय प्रवृत्तात्रोच्यत इति वक्ष्यमाणस्वपक्षे पराभिप्रेतानादित्वेन निवृत्त्यभावानुमाने उद्भाविताप्रयोजकत्वनिर्वाहाय आत्मनोऽपि निवृत्तिः स्यादिति बाधकात्कथमप्रयोजकत्वमिति शङ्काया निवर्तकभावाभावाभ्यां विशेषेणाविशेषरूपव्याप्त्यभावेन निराकरणानन्तरमज्ञानेऽपि निवर्तकं नाभ्युपगम्यते अनादित्वेनैव निवर्तकाभावो वाऽनुमीयत इत्यविशेष-सिद्धिरित्याशङ्कायाः प्रमितनिवर्तकानभ्युपगमस्यानुचितत्वादिति । अनादित्वेन निवर्तकाभावानुमानस्य च बाधितत्वादिति च यथा परिहारः क्रियते तथा मायिभिरपि न सादित्वमनादित्वं वेत्यादिनोक्तनिवर्तका-भावलक्षणोपाधेस्तत्सद्भावरूपप्रतिपक्षस्य च निवर्तकानभ्युपगमतदभावसाधनेन परकीयं यन्निराकरणं तस्यापि परिहारः कर्तुं शक्यते । तैरपि सिद्धान्तिभिरिव विश्वमायेत्यादिप्रमाणाभ्युपगमात् । तत्कथ-मुक्तोपाधिप्रतिपक्षाभ्यां परोक्तानादित्वानुमानं खण्डयन् मायिनां न हि निवर्तकमभ्युपैतीत्यादिः पर्यनुयोग इत्याशङ्कते ननु सिद्धान्त इवेति । इति प्रमाणेति । इति यत् प्रमाणमिति योज्यम् । उत्तरेति शब्दनिर्दिष्टं यथाक्रममुपाधिप्रतिपक्षनिराकरणम् । द्वितीयेति शब्दानन्तरं चशब्दः पूरणीयः । परं प्रत्येवमिति पाठः । एवं न ह्यज्ञानस्येत्यादिना कृत इत्यर्थः । प्रत्येवेति पाठे वा अन्यथासिद्धान्तेऽप्युक्तपर्यनुयोगः स्यादिति भावः । विश्वमायेत्यादिशास्त्रप्रामाण्यमङ्गीकृत्य तद्विरोधेन प्रत्यक्षस्याप्रामाण्यं चाभ्युपगच्छता सिद्धान्तिना तच्छास्त्रबलेन अप्रयोजकत्वनिर्वाहाय प्रमितेत्यादेः सिद्धान्ते वक्तुं शक्यत्वेऽपि मायिना शास्त्रप्रामाण्य-मनादृत्य परोक्तनिरासाय युक्तेरेव पुरस्कारान्न तत्पक्षे सिद्धान्त इव शास्त्रबलेन परिहारोपपत्तिरिति वैषम्यं प्रतिपादयितुं कुतः शास्त्रं मायिभिरनादृतमिति विज्ञायत इत्याशङ्कापरिहाराय परोक्ताक्षेपमायिकृत-तद्दूषणप्रकारं क्रमं च दर्शयति न अनादेः कथमित्यादिना । शास्त्रमवधीर्येति । अनादृत्येत्यर्थः । धृङ् अनादर इत्यस्मादवधीर्योपन्यस्तत्वादित्यवधारणोपन्यसनरूपधात्वर्थयोः समानकर्तृकत्वेन समानकर्तृकयोः पूर्वकाल इति सूत्रेण पूर्वकाले विद्यमानादवपूर्वकाद् धृधातोः क्तवाप्रत्यये कुगतिप्रादय इत्यनेन प्रकृत्येति ल्यबन्त इव गतिसञ्ज्ञा । अवेत्यस्य धृत्वेति क्तवान्तेन नित्यं समासे सति समासेऽनञ्पूर्वे क्तवो ल्यबिति ल्यबादेशे ॠत इद्धातोरित्यनेनेत्वे रपरत्वे हलि चेति दीर्घत्वे तीर्याज् जीर्यतीतिवदवधीर्येति ल्यबन्तरूप-सिद्धिरिति ज्ञेयम् । इदं च युक्तिपादे मूलस्थावधीर्येति प्रयोगमुपपादयता टीकाकृता वक्ष्यते । अस्या एवेति । न सादित्वमनादित्वं वेत्यादिनोक्तोपाधिप्रतिपक्षरूपाया इत्यर्थः । उपाधिप्रतिपक्षसमाधानमिति । साधन व्यापकत्वसिद्धिभ्यामुपाधिपक्षखण्डने कृते शास्त्रानुसारेण निवर्तकसद्भावमाश्रित्य तदुभयसमाधानं तत्समर्थनमिति योज्यम् । यथा मायिना प्रत्यक्षविरोधेन तरति शोकमात्मविदिति शास्त्रस्याप्रामाण्यप्राप्तेः शास्त्रावधीरणं कृतमेवं सिद्धान्तेऽपि शास्त्रप्रतिपाद्येऽर्थे प्रत्यक्षविरोधस्य यत्र सत्त्वं तत्रार्थे शास्त्रप्रामाण्या-नङ्गीकारात् शास्त्रावधीरणं समानमेवेति माय्युक्तयुक्तेरेवादरणं कर्तव्यमित्यत आह अस्माकं त्विति । यद्यपि लौकिकार्थे प्रत्यक्षमागमाद् बलवत्तथाप्यलौकिकार्थे आगमस्यैव प्रत्यक्षापेक्षया बलवत्त्वादागमेनैव प्रत्यक्ष-बाधप्राप्तेर्न शास्त्रानादरणं सिद्धान्ते प्राप्तमिति साम्याभावात् प्रमाणानुसारेणोपाधिप्रतिपक्षयोः समर्थनं युक्तमित्यर्थः ।

यदपि प्रागभाव इति मूले प्रागभावपदेन लोके तावदनादिः प्रागभाव इत्युक्तस्यैव ग्रहणं न तु साङ्ख्यरीत्योद्भाविताऽविवेकपदोक्तविवेकप्रागभावस्य मीमांसकाद्यभिमतेदानींतनधर्मतत्त्वज्ञानप्रागभाव-स्यापीति प्रतीतिं यदपि सुगतानामित्यादीत्यादिपदेन नैयायिकानामित्युक्तानामिवासांख्यानां मीमांसकादीना मित्युक्तानामपि पूर्वनिर्देशक्रमेण ग्रहणमिति प्रतीतिं च निराकर्तुं वाक्यद्वयेऽपि सङ्गृह्य विवक्षामाह यदपि प्रागभाव इत्यत्रेत्यादिना । गृह्यत इति । प्रागभाव इति सामान्योक्तया त्रयाणामपि ग्रहणसम्भवादुत्तरत्र तदुभयत्र व्यभिचारपरिहारस्य पृथगकरणाच्चेति भावः । उक्तानामेव ग्रहणमित्यत्र हेतुमाह नहीत्यादिनेति । तेषामेव मतेनेति । सुगतानां नैय्यायिकादीनामित्येतदुभयेषामेव मतेनेत्यर्थः । ततश्चादिपदं नैयायिकादि-मात्रपरमिति विज्ञायत इति भावः । वैनाशिका इतीति । हेतुगर्भमेतदिति भावः । अन्ये त्वित्यादिनेत्यतःपरं सुगतानामित्युक्तानां मतेनानुपपत्तिं प्रदर्श्येति शेषः । एवं च तेषामेवेत्यनेन नैयायिकादीनामेव ग्रहणमिति योज्यमित्याहुः । हेतुहेतुमद्भावेनेति । एतच्च समयपादे समुदाय उभयहेतुकेऽपीत्यधिकरणे व्यक्तम् । उक्तं च मूले । पूर्वोत्तरक्षणवर्तिनामात्मनां पर्वतादीनां च कार्यकारणभावादुपपन्नोऽनुमानादिव्यवहार इति । उदयव्ययधर्माण उत्पत्तिविनाशवन्तः । तैः पूर्वपूर्वेति । उक्तं च मूले । कारणक्षणाः कार्यक्षणेषु संस्कारानर्पयन्ति । अतः पूर्वपूर्वात्मसंस्कारेत्यादि । नच तदतिरिक्तं सन्तानमित्यत्रापि वैनाशिका इत्युक्त एव हेतुरित्याशयेन तद्धेतुमेवोत्तरप्रतिज्ञायामपि व्यापारयन् उत्तरवाक्यमवतारयति अत एव क्षणिकत्वाभाव इति । अन्यथा सत्त्वस्य सन्ताने व्यभिचारापातादिति भावः । सत्त्वस्यैवानङ्गीकारेऽपसिद्धान्तापत्त्या चेत्यपि ज्ञेयम् । अतिरिक्तं सन्तानमङ्गीकृत्यापि सन्तानस्य क्षणिकत्वाभावे सत्त्वानुपपत्त्या क्षणिकत्वेऽवश्य-मङ्गीकर्तव्ये इति योज्यम् । तैरिति सन्तानिभ्यः सन्तानस्येति पूरणीयम् । अङ्गीकृतमिति स्वावतारं मूलारूढं कर्तुमाह अभ्युपयन्तीत्यनुषङ्ग इति । चतुर्थाध्याय इति । तत्रापि द्वितीयपादे वैभाषिकसौत्रान्तिकाभिमत-मोक्षस्वरूपनिरूपणपरज्ञानं स्वरसभङ्ग एवेत्येतदनुव्याख्यानविवरणरूपाणामर्थज्ञानमेवात्मा तच्च ज्ञान-स्वभावेनैव भङ्गुरम् अत एव क्षणिकम् । तत्सन्तानस्तु नित्यस् तस्यानादिवासनावशाद्यो विषयो-परक्तस्योत्पादः स संसार इति मूलेऽनादित्वोक्तिरित्यर्थः । उपपत्तेरिति । चतुर्थाध्याय इत्यनुवर्तते । ततश्चैतस्याभिप्रायान्तरसत्त्वान्न तद्विरोधोऽत्रत्यसादित्वोक्तेरित्याशयः । न च तदतिरिक्तं सन्तान-मित्येतद्वाक्यं वस्तुगत्या तैरतिरिक्तत्वं नाङ्गीकृतम् । अङ्गीकरणे प्रयोजनाभावादित्येवं वस्तुस्थितिकथन-परतया योजितम् । इदानीं प्राग्विकल्पितद्वितीपक्षनिरासपरतया तद्योजयितुं तन्निरासप्रकारं स्वयं दर्शयन् तत्प्रकारस्य तन्मूलारूढत्वं चोपपादयति अतिरिक्तं सन्तानमिति । द्वितीयपक्षेऽपीत्यादिना । इदं व्यभिचारोपपादनमिति । उपेत्यस्य प्रतीत्यर्थः । सुगतानां तत्त्वपरिभावनेत्यादिना कृतमित्यर्थः । व्यभिचारप्रतिपादनकर्तुराशयमाशङ्क्य निराकरोति न चेति । तन्मते न व्यभिचारोद्भावनं कुर्वतो हि तेनापि निवृत्तिरङ्गीकार्येत्याशयसत्त्वात्तदङ्गीकारे सिद्धे व्यभिचारप्रतिपादनं सुलभमेव । न च कथं तदङ्गीकार-प्राप्तिरिति वाच्यम् । सन्तानिनां सत्त्व इत्यादियुक्तयैव तत्सिद्धेरित्यर्थः । अत्रोपपाद्येत्यस्योपपादने कृते सतीति पूर्वकालत्वमात्रे तात्पर्यान्न क्तवादेशे ल्यबनुपपत्तिरिति ज्ञेयम् । तथैवेति । सत्त्वरूपयुक्तयैवेत्यर्थः । सत्त्वक्षणिकत्वयोर्व्याप्तिसिद्धावनादेर्नाशासम्भवेन क्षणिकत्वायोगापत्तेः सत्त्वेन सादित्वमपि सेत्स्यतीत्या-शयः । तन्मतोपन्यासावसर इति । समुदाय उभयहेतुकेऽपीति समयपादीयाधिकरणा-नुव्याख्यान इति शेषः । क्षणिकत्वे प्रत्यभिज्ञाविरोध इत्याशङ्कापरिहारकतया सन्तानविषयत्वं प्रत्यभिज्ञाया वक्तुं नित्यं सन्तानमेतेषामिति परमाणुसन्तानस्य नित्यत्वप्रतिपादनादिति भावः । न च तद्व्याख्यानमूले सत्त्वस्य तत्र व्यभिचारमाशङ्क्य तस्य सत्त्वाभावादित्युक्तेः कथं सत्त्वेन सादित्वसाधनादिकमिति वाच्यम् । अतिरिक्तं सन्तानं तच्च नित्यमिति तत्र व्यभिचारप्रतिपादनं न युक्तमिति प्रथमोक्तार्थ एवास्य सम्मतित्वेन अभिधानेन अव्यवहितोक्ते अस्यानुपन्यासादिति ज्ञेयम् । पूर्वयोजनायामिवात्राप्यभ्युपयन्तीत्येतावन्मात्रानुषङ्गेनापूर्तेरधिकं च पूरणीयमाह अत्र चेति । अधिकपूरणे प्रकृतत्वं ज्ञापकं नास्तीत्यत उक्तं योग्यतयेत्यादि । वस्तुतस्तु हेतुहेतुमद्भावेनेत्यादि साधुरिति द्रष्टव्यमित्यन्तो ग्रन्थः सावधानतया स्पष्टनीयोऽस्ति । न्यायवार्तिकादि-ग्रन्थोऽपि स्पष्टनीयः ।


अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च सः

अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च सः

सुधा

यदप्यज्ञानस्यानिर्वचनीयत्वमुक्तम् । तत्रानिर्वचनीयत्वं सदसद्विलक्षणत्वं चेत् किमनेन प्रकृतानुपयुक्तेन । प्रतिपक्षोऽयमिति चेन्न । परस्यासिद्धेरव्याप्तेश्च । भावाभाव-विलक्षणत्वमनिर्वचनीयत्वम् । तेन विशेषणासिद्धिरुच्यत इति चेन्न । स्वोक्तिविरोधात् । स्वयमेव ह्यनादिभावरूपं यद्विज्ञानेन विलीयत इत्यज्ञानलक्षणमभिधाय भावरूपाज्ञानसाधनाय प्रमाणान्युप-न्यस्तानि । अभाववैलक्षण्यमात्रं तत्र विवक्षितमिति चेन्न । तस्यैव हेतुविशेषणत्वोपपत्तेः । नन्वत्रोक्तम् । सद्वैलक्षण्यात्प्रागभाववन्निवृत्तिः किं न स्यादिति । सत्यमुक्तं दुरुक्तं तत् । प्रागभावस्यापि सत्त्वाङ्गीकारात् । अथ सद्विलक्षणत्वं नाम भावविलक्षणत्वं विवक्षितम् । तदाऽभाववैलक्षण्याङ्गीकारविरोधेनासिद्धिप्रसङ्गोऽत्यन्ताभावे व्यभिचारश्च । तस्यापि निवृत्तिसाधने तन्निवृत्तावेव व्यभिचारः । किञ्चात्मनि भावत्वं नास्तीति तत्रानैकान्त्यं दुष्परिहरम् । तथाऽप्यारोपितं भावत्वं तत्रास्तीति चेत् । तदविद्यायामपि समानमित्यसिद्धिः ।

यदपि व्याप्त्योः सामान्यविशेषभावकथनं तस्योपयोगो वक्तव्यः । तेन बलाबलनिश्चय इति चेत् । स किं सामान्यविशेषभावमात्रेणोताव्यभिचारादिसम्पत्तौ सत्याम् । आद्ये धूमवानग्निमानिति सामान्यव्याप्तेः पर्वतो निरग्निक इति विशेषव्यार्प्तिबलवती प्रसज्येत । द्वितीये किं सामान्य-विशेषभावेन व्यभिचारादिकमेव व्युत्पाद्यताम् । किं वाऽनेन प्रबलत्वेन दुर्बलत्वेन च । विशेष-व्याप्त्या सामान्यव्याप्तिर्बाध्यत इति चेत् । किं सङ्कोचनं बाध्यत्वमुत व्यभिचारप्रदर्शन-मथोपाध्युद्भावनम् । नाद्यः । यदनादि तदज्ञानातिरिक्तं न निवर्तत इति सङ्कोचनीयं न पुनर्यदनादित्वरहितं तदेव ज्ञाननिवर्त्यमिति सङ्कोच्यमित्यत्र नियामकाभावात् । सामान्यविशेषभावे तूक्तम् । न द्वितीयः । व्यभिचारस्थलस्यादर्शितत्वात् । व्याप्तिबलेनाज्ञानस्य ज्ञाननिवर्त्यत्वे सिद्धेऽनादित्वस्य तत्रैव व्यभिचार इति चेत् । तर्ह्येतदेवोच्यताम् । किं सामान्यविशेषभावेन । अनादित्वेनाज्ञानस्यानिवर्त्यत्वे सिद्धेऽज्ञानत्वस्य तत्रैव व्यभिचार इति किं न स्यात् ।

वाक्यार्थचन्द्रिका

॥ तत्रेति ॥ गूढाभिसन्धेरिमौ पक्षपरिग्रहतत्परिहाराविति ज्ञेयम् । सदसद्विलक्षणत्वपरिग्रही स्वाशयमुद्घाटयति ॥ प्रतिपक्ष इति ॥ परिहर्ता किमनेनेति स्वोक्तस्याशय-मुद्घाटयति ॥ परस्येति ॥ अविद्यायाः परेण सत्त्वाभ्युपगमादसिद्धिः । सदसद्विलक्षणत्व-स्याप्रसिध्द्याऽन्वयतो व्यतिरेकतश्च व्याप्तिग्रहानुपपत्त्याऽव्याप्तिश्चेत्यर्थः । यद्वा स्वपक्षबहुप्रसिध्द्यनु-सारेणनिर्वचनीयशब्दार्थतया सदसद्विलक्षणपरिग्रहे प्रागभावे व्यभिचारपरिहाराय भावत्वविशेषणं प्रतिक्षेप्तुस्तदर्थतया सत्त्वाभिप्रायस्यासम्भावनया कल्पयितुमशक्यत्वेनानिर्वचनीयत्वादज्ञानस्येति सदस-द्विलक्षणत्वोक्तावपि विशेषणसिध्द्यप्राप्त्या तदुक्तेर्वैयर्थ्यमित्याह ॥ तत्रेति ॥ माऽस्तु विशेषणा-सिद्धिस्तथापि दूषणान्तरसूचकत्वसम्भवान्न वैयर्थ्यमित्याशङ्कते ॥ प्रतिपक्षोऽयमितीति ॥ अत्र सदसद्वैलक्षण्यस्य सत्ताजात्याश्रयान्यत्वरूपत्वे घटादिवद् अविद्याया अपि द्रव्यत्वेन सत्ताजात्याश्रय-त्वादसिध्द्यापत्तौ सत्तायाः कुत्राप्यभावेनाविद्याया अपि तदाश्रयान्यत्वे च हेतोरप्रसिध्द्यापातेन स्वरूपसद्विलक्षणत्वादिरूपे सद्वैलक्षण्ये वक्तव्ये प्रागभावे साधनविकलत्वमित्याह ॥ प्रागभाव-स्यापीति ॥ विरोधेनेति ॥ अविद्याया अपारमार्थिकत्वान्न तत्रोभयाङ्गीकारेऽपि विरोध इति तु निरसिष्यत इति भावः ॥ तस्यापीति ॥ निवृत्तेरपि निवृत्तौ प्रतियोग्युन्मज्जनापत्तिरनवस्थापत्तिश्चेति भावः । यद्वा नन्वत्यन्ताभावस्यापि ब्रह्मातिरिक्तत्वान्निवृत्तिरेवेति न व्यभिचार इति चेत्तर्हि मुक्तस्यापि संसारित्वापत्त्याऽविद्यानिवृत्तेरनिवृत्तेस्तत्र व्यभिचार इत्याह ॥ तस्यापीति ॥ अनादिर्न निवर्तत इत्यादिना परेण व्याप्तिद्वयस्योपन्यासात्तस्य चैकयाऽपरस्याबाधेन वा प्रतिपक्षेण वोपपन्नत्वाद्वक्ष्य-ममाणरीत्या बाधे निरस्तेऽगत्या तर्ह्यस्तु प्रतिपक्ष एव । तावताऽपि पूर्वपक्ष्यनुमानं दुष्टमेवातः सा बलवतीति मदुक्तिस्तूपलक्षणमित्यपि परेण शङ्कितुं शक्यमित्यभिप्रेत्यातः सैव बलवतीति परेणोक्तेऽपि स्वयमुपयोगमेव पृच्छति ॥ यदपीति ॥ सामान्यविशेषभावकथनस्योपयोगो भवन् बलाबल-निश्चयप्रयुक्तबाधे वा प्रतिपक्षे वा बाधेऽपि प्रयोजकीभूतबलाबलनिश्चय एव वा प्रयोज्ये बाधे वा तत्रापि सङ्कोचने वा व्यभिचारप्रदर्शने वेति प्रश्नाभिप्रायः । तत्र पराभिप्रेततया प्रबलत्वादाद्यं शङ्कते ॥ तेनेति ॥ कार्ये उपयुक्तस्य केवलस्य ससहायस्य चोपलब्धत्वात्तत्रापि पृच्छति ॥ स किमिति ॥ अव्यभिचारादी-त्यत्रादिपदेनापरत्र व्यभिचारग्रहणम् ॥

पर्वतोऽनग्निक इति विशेषव्याप्तिरिति ॥ न च भावरूपाज्ञानान्यस्य ज्ञानानिवर्त्यत्वात्पराभिमता-ज्ञानस्य तु प्रतियोगिमात्रविरोधितया ज्ञानत्वपुरस्कारेण तदनिवर्त्यतया ‘न जानामि, ज्ञानादज्ञानं निवृत्तम्’ इति ज्ञाननिवर्त्याज्ञानानुभवस्य तद्विषयकत्वायोगेन भावरूपाज्ञानविषयकत्वे वक्तव्ये तद्बलेनाज्ञानं ज्ञानेन निवर्तत इति व्याप्तेः सिद्धत्वात्पर्वतोऽनग्निक इति व्याप्तेश्चाप्रामाणिकत्वेन न साम्यमिति वाच्यम् । सत्यस्यापि पापादेर्ज्ञाननिवर्त्यतायाः प्रतिपादयिष्यमाणत्वात्पूर्वज्ञानादेर् विशेषण-ज्ञानत्वादिनैव कारणत्वाभावेऽपि पूर्वज्ञानादुत्तरज्ञानमुत्पन्नमुत्तरज्ञानात्पूर्वज्ञानं नष्टमित्यनुभववज्ज्ञान-त्वस्य निवर्तकतानवच्छेदकत्वेऽपि ज्ञानादज्ञानं निवृत्तमित्यनुभवोपपत्त्या तस्य ज्ञानाभावविषयकत्वे-नाप्युपपत्तेर्नास्या अपि प्रामाणिकत्वम् । किञ्च विशेषविषयकत्वमात्रेण सामान्यव्याप्त्यपेक्षया प्राबल्य-पक्षेऽतिप्रसङ्गोक्तौ प्रामाणिकत्वादिना वैषम्यकथनं नोपयुज्यते । तथा सति प्रामाणिकत्वादिनैव बाधाद्युपपत्तौ सामान्यविशेषभावकथनानुपयोगादिति भावः । सामान्यविशेषभावमात्रस्याति-प्रसञ्जकत्वादव्यभिचारमात्रस्यातथात्वात्तस्यैव बलाबलनिश्चये प्रयोजकत्वेन तदेव बलाबलनिश्चय-माशासानेन वक्तव्यं न त्वप्रयोजकः सामान्यविशेषभाव इत्याशयेनाह ॥ द्वितीयेऽपीति ॥ अस्तु वा सामान्यविशेषभावस्य प्राबल्यदौर्बल्यनिश्चायकत्वं तथाऽपि तन्मात्रासादितप्राबल्यदौर्बल्यनिश्चयस्य व्यसनित अनङ्गीकारात्कार्यार्थत्वे वक्तव्ये बाधरूपकार्ये प्राप्तानुपपत्तेरतिप्रसञ्जकत्वेनानेन समाधातु-मशक्यत्वात् प्रतिपक्षे चापेक्षाया एवाभावान्नैतदुक्तिः प्रकृतोपयोगिनीत्याशयेनाह ॥ किञ्चानेनेति ॥ अभिप्रायमजानानः शङ्कते ॥ विशेषेति ॥ पक्षे साध्याभावरूपस्य तत्प्रमारूपस्य वा प्रसिद्धबाधस्य व्याप्तिविचारे अनुपपत्त्या तत्र सम्भावितं बाधं विकल्प्य पृच्छति ॥ किं सङ्कोचनमिति ॥ आद्येऽपि सामान्ये सङ्कोचसम्भवेऽपि विशेषे विशेषत्वादेव सङ्कोचनमशक्यमित्यभिप्राय उत विशेषे सङ्कोचनसम्भवेऽपि विशेषानुसारेण सामान्य एव सङ्कोचः कर्तव्यो न तु विपरीतमिति । पक्षद्वयमपि निराकरोति ॥ नाद्य इति ॥ अत्र सङ्कोचप्रकारप्रदर्शनेनाशक्यत्वाभिप्रायस्यान्येन द्वितीयाभिप्रायस्य च परिहारो द्रष्टव्यः । ननु सामान्यविशेषभावस्यैव नियामकत्वान्न तदभाव इत्यतस्तर्हि पर्वतो निरग्निक इति विशेषस्य धूमरहितः पर्वत एव निरग्निक इति सङ्कोचसम्भवेऽपि तस्य विशेषत्वात्तदनुसारेण पर्वतातिरिक्तो धूमवानग्निमानिति सामान्यव्याप्तेरेव सङ्कोचः प्रसज्येतेत्याशयेनाह ॥ सामान्येति ॥ व्यभिचारेति ॥ स्थलान्तरस्याप्रदर्शनादज्ञानस्य च पक्षतया व्यभिचारस्थलत्वासम्भवादिति भावः ।

ननु विशेषव्याप्तेः साक्षाद्य्वभिचारस्थलाप्रदर्शकत्वेऽपि स्वसाध्यसिद्धिद्वाराऽज्ञानरूपपक्षस्यैव विपक्षत्वसम्पादनेन व्यभिचारस्थलप्रदर्शकत्वं सम्भवत्येवेत्याशङ्कते ॥ व्याप्तीति ॥ तर्हि स्वसाध्यसिद्धौ सामान्यविशेषभावानुपयोगेनैतद्-व्याप्तिसिद्धानुमानबाधकमुखेन पूर्वानुमाने व्यभिचार एव वक्तव्यो न तु सामान्यविशेषभाव इत्याशयेनाह ॥ तर्हीति ॥ अशक्या चैतद्-व्याप्तिबलेन स्वसाध्यसिद्धिः । विपरीत-स्यापि सम्भवादित्याशयेनाह ॥ अनादित्वेनेति ॥ नन्वेतदर्थमेव सामान्यविशेषभावप्रयुक्तं बलाबल-माश्रित्य विशेषव्याप्त्या स्वसाध्यविद्धिः । नतु सामान्यव्याप्त्येत्युच्यत इति कथं सामान्यविशेष-भावानुपयोग इति चेत् । तर्हि सामान्यविशेषभावमात्रप्रयुक्तबलाबलसाम्यात्पर्वतो निरग्निक इति विशेषव्याप्तिबलेन पर्वतस्य निरग्निकत्वसिद्धौ धूमवत्त्वस्य तत्रैव व्यभिचार इत्यपि स्यादित्याशयात् । अस्याशयस्य पूर्वन्यायेनैव ज्ञातुं शक्यतया तथा पूर्ववदेतच्छेषत्वेन सामान्यविशेषभावे तूक्तमित्य-नुक्तिरिति द्रष्टव्यम् ।

परिमल

नन्वनादिभावत्वहेतोरप्यनिर्वचनीयत्वादित्यनेन दोष उक्त इत्यतस्तद्विविच्य निराह ॥ यदप्यज्ञानस्येति ॥ प्रतिपक्षोऽयमिति ॥ बन्धो निवर्तते सदसद्विलक्षणत्वरूपानिर्वचनीयत्वाच्छुक्ति-रजतवदिति वा सद्विलक्षणत्वाच्छुक्तिरजतवदिति वेति भावः ॥ परस्येति ॥ प्रतिवादिनो नैयायिकादेरनिर्वचनीयत्वस्य सद्विलक्षणत्वस्य वाऽसम्प्रतिपत्त्याऽसिद्धेः । शुक्तिरजतादावनिर्वचनीय-त्वादेर्हेतोर्निवृत्तिशब्दितध्वंसप्रतियोगित्वस्य चासम्प्रतिपत्त्या व्याप्त्यभावाच्चेत्यर्थः ॥ विशेषणेति ॥ भावत्वे सत्यनादित्वादिति हेतोरित्यर्थः ॥ प्रमाणानीति ॥ तानि चाग्रे ग्रन्थकार एव दूषयितुं स्पष्टयिष्यति ॥ तत्रेति ॥ लक्षणादौ ॥ तस्यैवेति ॥ अभावविलक्षणत्वे सत्यनादित्वाद्बन्धो न निवर्तत इति प्रयोगोपपत्तेरित्यर्थः । सदिति सत्पदेन किं सत्त्वमेव विवक्षितं भावत्वं वा । आद्य आह ॥ प्रागभावस्यापीति ॥ द्वितीयमनूद्य निराह ॥ अथेति ॥ अभाववैलक्षण्याङ्गीकारविरोधेनेति ॥ अभाववैलक्षण्यमङ्गीकुर्वता त्वया तद्विरोधेन तद्धान्यापातेनेति यावत् । भावत्वस्यैवाभ्युपगम्यत्वेन भाववैलक्षण्यस्यासिद्धेरित्यर्थः । भावविलक्षणत्वे सत्यनादित्वहेतोः पररीत्याऽऽत्मनि व्यभिचरमाह ॥ किं चात्मनीति ॥ अव्यभिचारादिसम्पत्ताविति ॥ विशेषत्वेनाभिमतस्येति योज्यम् । उपलक्षणं चेदम् । सामान्यत्वेनाभिमतस्य व्यभिचारादौ सतीत्यपि ज्ञेयम् । अङ्गीकृत्यापि बलाबलत्वं तेनाप्युपयोगो नेत्याह ॥ किं वानेनेति ॥ सामान्यविशेषभावेन प्राप्तप्राबल्यदौर्बल्याभ्यां किं प्रयोजनमित्यर्थः ॥ सङ्कोचनमिति ॥ यदनादि तन्न निवर्तत इति सामान्यव्याप्तेरज्ञानभिन्नं यदनादिरूपमिति सङ्कोचनमित्यर्थः ॥ व्यभिचारेति ॥ अज्ञाने अनादिभावरूपत्वमस्ति न निवर्तत इति नास्तीत्यज्ञान एव व्यभिचारप्रदर्शनमित्यर्थः ॥ उपाधीति ॥ अज्ञानान्यत्वरूपोपाध्युद्भावनमित्यर्थः ॥ यदनादित्वरहितमिति ॥ यदनादि तन्न निवर्तते यदज्ञानं तत्तु ज्ञाननिवर्त्यमित्यनयोर्व्याप्त्योरविरोधाय क्वचित्सङ्कोचः कार्यः । यदज्ञानभिन्नमनादीति सङ्कोचेऽप्यविरोधः । यदनादित्वरहितमज्ञानं तद् ज्ञाननिवर्त्यमिति सङ्कोचेऽप्यविरोधः सिध्द्यत्येव । तथाच त्वदुक्तदिशैव सङ्कोचो नान्यथेत्यत्र न किमपि नियामकमित्यर्थः । सामान्यविशेषभाव एव नियामक इत्यत आह ॥ सामान्येति ॥ स किं सामान्येत्यादिना दूषणमुक्तमित्यर्थः । पराभिप्रायव्यक्तीकरणाय सामान्येन दोषमाह ॥ व्यभिचार-स्थलस्येति ॥ एतदेवेति ॥ अज्ञानेऽनादित्वहेतोर्व्यभिचार इत्येतदेवेत्यर्थः । किञ्च यदनादि तन्न निवर्तत इति व्याप्तौ प्रतिपक्षतया जाग्रत्यां यदज्ञानं तद् ज्ञाननिवर्त्यमिति व्याप्त्या कथमज्ञानस्य निवर्त्यत्व-निश्चयः । येन तत्र व्यभिचारोऽवधार्येतेति भावेनाह ॥ अनादित्वेनेति ॥ यदनादि तन्न निवर्तत इति व्याप्तिबलेनेत्यपि योज्यम् । सामान्यविशेषभावमात्रस्य यो धूमवानित्यादावकिञ्चित्करत्वस्य दर्शितत्वादिति भावः । व्यभिचारानिश्चयेऽपि द्वयोर्व्याप्त्योः परस्परप्रतिबध्यप्रतिबन्धकभावोऽस्तु । तावताऽप्यनादित्वहेतोः सन्दिग्धव्यभिचारादिना दुष्टता स्यादिति भावेन शङ्कते ।

यादुपत्यम्

॥ प्रकृतानुपयुक्तेनेति ॥ अनादिभावस्यानिवृत्तिरित्यत्र दूषणालाभादित्यर्थः । न च भावशब्देन सत्त्वविवक्षायां विशेषणासिद्धिरनेनोक्तेति वाच्यम् । प्रागभावादेरपि सत्त्वेन भावशब्दस्य सत्त्वावाचकत्वादित्याशयात् ॥ अव्याप्तेश्चेति ॥ अज्ञानं निवर्तते सदसद्विलक्षणत्वादित्यत्रान्वयव्याप्तिः शुक्त्यज्ञाने ग्राह्या । व्यतिरेकव्याप्तिश्च ब्रह्मणि । नोभयमपि युक्तम् । शुक्तिरजतादेरसत्त्वेन सदसद्वै-लक्षण्याभावादन्वयव्याप्त्यनुपपत्तेः । असद्विलक्षणस्य ब्रह्मणः सदन्तरविलक्षणत्वेन व्यभिचारा-द्य्वतिरेकव्याप्तेरप्यनुपपत्तेः । सत्त्वानधिकरणत्वविवक्षायामपि तथा । ब्रह्मणो निर्धर्मकत्वादिति भावः । अप्रयोजकत्वाद् व्याप्तेरित्युक्तम् ॥ अनादीति ॥ उत्तरज्ञाननिवर्त्यपूर्वज्ञाने प्रागभावे ब्रह्मणि चातिव्याप्तिवारणायानादीत्यादिविशेषणानीति द्रष्टव्यम् ॥ व्यभिचारादिकमेवेति ॥ आदिपदेना-व्यभिचारः । तथा च दौर्बल्यहेतुर्व्यभिचारः प्राबल्यहेतुरव्यभिचार इति तद्व्युत्पादनमेव कार्यमिति भावः ॥ व्यभिचारप्रदर्शनमिति ॥ अज्ञान एवेति भावः ॥ अथोपाध्युद्भावनमिति ॥ अज्ञानेतरत्व-रूपोपाध्युद्भावनमित्यर्थः ॥ सामान्यविशेषभावेति ॥ धूमवानग्निमानिति सामान्यव्याप्तेः पर्वतोऽनग्निक इति विशेषव्याप्तिर्बलवती प्रसज्येतेत्युक्तमित्यर्थः ।

श्रीनिवासतीर्थीया

॥ प्रकृतानुपयुक्तेति ॥ अज्ञानं न निवर्तते । भावत्वे सत्यनादि-त्वादित्यनुमाने दूषणालाभादित्याशयः । उक्तानुमानस्य अज्ञानं निवर्तते सदसद्विलक्षणत्वादिति सत्प्रतिपक्षानुमानस्याभिप्रेतत्वान्न प्रकृतानुपयोग इति शङ्कते ॥ प्रतिपक्षोऽयमिति ॥ परस्येति ॥ नन्वनादेः कथं निवृत्तिरिति त्वां प्रति पूर्वपक्षकर्ता यदा तत्त्ववादी अहमेव जातोऽस्मि तदा परेण पूर्वपक्षिणा मया अज्ञानस्य सदसद्वैलक्षण्यानङ्गीकारादसिद्धिरित्यर्थः । स्वोक्तविरोधो नास्तीत्याशङ्कते ॥ अभावेनति ॥ तत्र लक्षणे ॥ तस्यैवेति ॥ अज्ञानं न निवर्तते भावत्वे सत्यनादित्वादि-त्यनुमानेऽभावविलक्षणत्वरूपमेव भावत्वं हेतुविशेषणं विवक्षितमिति न विशेषणासिद्धिरित्यर्थः ॥ सत्त्वाङ्गीकारादिति ॥ तथाच साधनवैकल्यमिति भावः ॥ अथेति ॥ तथाच न प्रागभावे साधनवैकल्यमिति भावः ॥ असिद्धिप्रसङ्ग इति ॥ अज्ञानं निवर्तते सद्विलक्षणादित्यत्र सद्विलक्षणत्वं नाम यदि भावविलक्षणत्वं तदाऽज्ञानस्याभावविलक्षणत्वाङ्गीकारेण भावत्वस्यैव प्राप्त्या तद्विलक्षणत्व-हेतोरसिद्धिरित्यर्थः ॥ अत्यन्ताभाव इति ॥ भावविलक्षणत्वे सत्यपि निवृत्तेरभावादित्यर्थः । प्रतियोग्युन्मज्जनप्रसङ्ग इति दूषणे सत्येव दूषणान्तरमाह ॥ तन्निवृत्तावेवेति ॥ भावविलक्षणत्वे सत्यपि ध्वंसस्य नित्यत्वेन निवृत्त्यभावादित्यर्थः ॥ पर्वत इति ॥ पर्वतस्यापि धूमवद्विशेषत्वादित्यर्थः ॥ किमनेनेति ॥ विशेषव्याप्तित्वेन प्राबल्यं सामान्यव्याप्तित्वेन दौर्बल्यमिति व्युत्पादितेनानेन प्राबल्यादिमात्रेण प्रकृते किं कृतं स्यादित्यर्थः । एवमुक्ते उत्तरमाशङ्कते ॥ विशेषव्याप्त्येति ॥ सङ्कोचनमिति ॥ अग्नीषोमीयपशोर्हिंस्यत्वे विशेषवाक्येन सिद्धे सति न हिंस्यादिति वाक्यस्य तदितर-भूतहिंसानिषेधकत्वेन सङ्कोचनमिवाज्ञानं ज्ञाननिवर्त्यमिति विशेषव्याप्त्या बलवत्या अज्ञानस्य निवर्त्यत्वे सिद्धे अनादि न निवर्तत इति सामान्यव्याप्तेरज्ञानेतरदनादि न निवर्तत इति सङ्कोचनमित्यर्थः ॥ व्यभिचारेति ॥ न हिंस्यादिति सामान्यवाक्येन भूतत्वस्याहिंस्यत्वव्याप्यत्वं बोधितमग्नीषोमीयवाक्यबलेन भूतत्वस्याग्नीषोमीयपशौ व्यभिचारप्रदर्शनवद्विशेषव्याप्तिबलेन सामान्यव्याप्तेरज्ञाने व्यभिचारः प्रदर्श्यत इति भावः ॥ अथोपाध्युद्भावनमिति ॥ अज्ञानं न निवर्ततेऽनादित्वादित्यत्र यदज्ञानं तद् ज्ञान-निवर्त्यमिति विशेषव्याप्त्या पूर्वानुमानेऽज्ञानेतरत्वरूपो पाध्युद्भावनरूपं बाध्यत्वमुच्यत इत्यर्थः ॥

यदनदीत्यादि ॥ अयमर्थः । अज्ञानं ज्ञाननिवर्त्यमिति विशेषव्याप्तिबलेनाज्ञानातिरिक्तं यदनादि तन्न निवर्तते । अज्ञानं त्वनाद्यपि निवर्तत इति यथा सङ्कोचः क्रियते । एवमज्ञानं ज्ञाननिवर्त्यमित्यत्र यदनादित्वरहितमज्ञानं साद्यज्ञानमिति यावत् । तदेव ज्ञाननिवर्त्यं न त्वनाद्यज्ञानम् । पक्षीभूतं चाज्ञानमनादीत्यनिवर्त्यमेव किं न स्यादित्येवं त्वदीयविशेषव्याप्तावपि सङ्कोचः किं न स्यान्नियामका-भावात् । तथा च विशेषव्याप्त्या सामान्यव्याप्तिर्बाध्यत इति वक्तुस्तव स्वन्यायविरोध इति । ननु बलाबलहेतुसामान्यविशेषभाव एव नियामक इति चेत्तत्राह ॥ सामान्येति ॥ उक्तमिति ॥ धूमवानग्नि-मानिति सामान्यव्याप्तिरित्यादि नोक्तमित्यर्थः । तत्रैव अज्ञान एव । एतदेव व्यभिचारस्थलमेव । एवं व्यभिचारप्रदर्शनरूपं बाध्यत्वं त्वदीयविशेषव्याप्तावपि समानमित्याह ॥ अनादित्वेनेति ॥ अयमर्थः । अज्ञानं ज्ञाननिवर्त्यमिति व्याप्तिबलेनाज्ञानस्य ज्ञाननिवर्त्यत्वे सिद्धे यदनादि तन्न निवर्तत इति व्याप्तिबलेनाज्ञानस्यानिवर्त्यत्वे सिद्धे यदज्ञानं तज्ज्ञाननिवर्त्यमित्यस्या व्याप्तेरज्ञान एव व्यभिचार इत्यपि किं न स्यादिति पूर्वपक्ष्यपि वदिष्यतीति ।

वाक्यार्थरत्नमाला

तेन विशेषणासिद्धिरिति मूलम् । विशेषणं विशेष्येण बहुलमित्यत्रोक्तरीत्या विशेषणशब्दस्य विशेष्यवाचकताऽप्यस्तीति भावत्वस्यानादिभावरूपस्येति पूर्ववाक्ये उक्तावपि विशेषण-त्वोक्तिर्युक्ता । तत्त्वनिर्णयटीकाव्याख्यानपञ्चिकायां प्रथमपद्यव्याख्यावसरे विशेषणत्वोक्तेर्गतिः कृतास्त्यस्माभिः सोऽपि प्रकारोऽनुसन्धेयः । अनादिभावरूपस्येत्यस्य भावत्वे सत्यनादेरित्यर्थाद् यथाश्रुतमेव साध्विति वा । उपादानगतोत्तरावस्थेति मूले उपादानपदार्थः समवायिकारणम् । तत्त्वं च स्वसमवेतकार्यजनकत्वम् अनादेश्चोक्तविधमुपादानं न सम्भवतीति तद्गतोत्तरावस्थाया असम्भव इति भावः । यद्वा स्वपक्षबहुप्रसिद्ध्यनुसारेणेति पाठः । नुसेत्यधिकं लेखकागतम् । उपयोगो वक्तव्य इत्येतद्व्याख्यावसर इत्यादिकं पत्रान्तरगतमिदं च वाक्यक्रमेण लेख्यम् । न च नैयायिकादय इत्येतन्मूल-टीकामारभ्यात्रोच्यते यत्तावदनादेः कथमित्येतन्मूलटीकापर्यन्तं व्याख्येयमस्ति । तत्रतत्र विवरण-टीकानरसिंहाश्रमाद्युक्तस्य निराकरणं कर्तव्यमस्ति ।