०८ विवरणमतानुवादः

अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च सः

विवरणमतानुवादः

अनुव्याख्यानम्

अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च सः ।

आनन्ददश्च मुक्तानां स एवैको जनार्दनः ॥ १५ ॥

सुधा

यदुक्तं न कार्यो मोक्षः किन्तु प्राचीनेषु मिथ्याज्ञानादिषु निवृत्तेषु कारणाभावा-देवोत्तरप्रवाहानुत्पादमात्रम् । तत्र का नाम परमेश्वरपेक्षा । तद्वचनानि तु ज्ञानोत्पत्त्यादि-निमित्ततापराणीति । तदनुपपन्नम् । ज्ञानप्रदानाद्यतिरिक्तस्यापीश्वरप्रयोजनस्यागमेषूक्तेरिति आह ॥ अज्ञानामिति ॥ मोक्षदः प्रागुक्तप्रकृतिबन्धात् ।

नन्वनादेः प्रकृतिबन्धस्य कथं निवृत्तिरिति चेत् । अत्राह कश्चित् । न सादित्वमनादित्वं वा विनाशाविनाशयोर्निमित्तम् । किन्तु विरोधिसन्निपातासन्निपातावेव । किञ्च लोके तावदनादिः प्रागभावो निवर्तते । सुगतानां तत्त्वपरिभावनाप्रकर्षेणानादिवासनासन्तानानां निवृत्तिरिष्टा । नैय्यायिकानामप्यनादिमिथ्याज्ञानप्रवाहः परमाणुश्यामता च निवर्तते । साङ्ख्यानामप्यविवेको निवर्तते विवेकेन । मीमांसकानामिदानीन्तनधर्मतत्त्वज्ञानप्रागभावोऽनादिर्निवर्तते । अनादि-भावरूपस्य न निवृत्तिरिति चेन्न । अनिर्वचनीयत्वादज्ञानस्य । अनादिर्न निवर्तत इति सामान्यव्याप्तिः । ज्ञानेनाज्ञाननिवृत्तिरिति विशेषव्याप्तिः । अतः सैव बलवती ।

वाक्यार्थचन्द्रिका

नन्वज्ञानामिति वाक्येऽपि स एवैक इति हरिं विना मुक्त्यभावबोधना-त्तस्यापि पूर्वत्रोदाहार्यत्वेन पृथक्करणमयुक्तमित्यतोऽत्र मोक्षद इत्यनेन भगवतः प्रकृतिबन्धनिवृत्तिरूप-मोक्षकारणत्वोक्त्या प्रकृतिबन्धनिवृत्तिरूपत्वान्मोक्षस्य कार्यत्वमुपपद्यत इत्यर्थसूचनेन दुःखानुत्पाद-पत्वान्मोक्षस्याकार्यत्वेन कारकानपेक्षत्वात् कारकप्रेरकत्वादिनेश्वरप्रसादसापेक्षताव्युत्पादनमनुपपन्नमिति शङ्कापरिहारस्य ज्ञानदानातिरिक्तमोक्षदानोक्त्या चेशाधीनत्ववचनगतिकथननिरासस्यापि सूचनात्पूर्व-वाक्याद्विशेषाभिप्रायेण भाष्यकारीयं पृथक्करणमुपपन्नमित्यभिप्रेत्य तच्छङ्कानिवर्तकतया तद्वाक्यं याजयितुमाशङ्कते ॥ यदुक्तमिति ॥ मोक्षद इत्यस्मादुक्तशङ्कानिवृत्त्युपयुक्तार्थलाभायोत्तरग्रन्थोपक्षेपाय चात्र तदुपयुक्तं प्रतिसम्बन्धिनं पूरयति ॥ मोक्षद इति ॥ नन्वेवं व्याख्याने प्रकृतिबन्धस्यानादित्वेन निवर्त्यत्वानुपपत्त्या वाक्यमनुपपन्नार्थं स्यादतो नेदं व्याख्यानं युक्तम् । ततश्च नास्य प्रकृतोपयोग इत्यतोऽनादेर्निवृत्त्यनुपपत्तिशङ्कापरिहारं विवरणकारीयमनूद्य निराकृत्य भाष्यकारामिमतं परिहारं वक्तुं शङ्कामुत्थापयति ॥ नन्विति ॥ बन्धो न निवर्ततेऽनादित्वादिति विवक्षितानुमाने न सादित्वमित्यादिना हेतोरप्रयोजकत्वमभिधाय व्यभिचारमप्याह ॥ किञ्चेति ॥ यद्यपि विवरणे किञ्चेत्येतावानंशो नास्ति लोके तावदिति ग्रन्थश्च न सादित्वमित्युक्ताप्रयोजकत्वोपपादकतया व्याख्यातुं शक्यते । तत्त्वदीपने सादित्वादेरनिमित्तत्वे हेतुं दर्शयतीत्यवतारितश्च । तथाऽपि स्पष्टव्यभिचारस्य ग्रन्थस्य न तथाऽवतरण-मुचितम् । प्रयोजकत्वोपपादनस्यापि व्यभिचारोपपादनेनैव सिद्धेः, किन्तु विरोधिसन्निपातेत्युक्तानु-पपादनाच्च दूषणान्तरत्वमेवोचितम् । अत एव तन्नव्येनापि व्यभिचारमाहेत्यवतरणं कृतमित्यभिप्रायेण विवरणाभिप्रेतार्थकथनं किञ्चेत्येतदिति ध्येयम् । अनादिर्न निवर्तत इत्यत्र किमनादित्वमात्रं विक्षित-मुतानादिभावत्वम् । आद्येऽपि किं लौकिकस्य चोद्यमुत वादिनामिति विकल्प्याद्यं दूषयति ॥ लोके तावदिति ॥ द्वितीयेऽपि किं सुगतस्योत नैय्यायिकस्याथवा साङ्ख्यस्याहोस्विन्मीमांसकस्येति विकल्पान् क्रमेण दूषयति ॥ सुगतानामित्यादिना ॥ द्वितीयं पक्षमुत्थापयति ॥ अनादीति ॥ यद्यपि सुगतानामित्याद्युक्तदोषस्यात्रापि सम्भवस्तथाऽपि लौकिकस्येदं चोद्यं न वादिनोऽतस्तान्प्रत्यप्ययमाक्षेप इत्यभिप्रायेण वा स्वपक्षेण दूषणान्तरसम्भवाभिप्रायेण वा तमनभिधाय किमत्र भावशब्देन सत्त्वं विवक्षितमुताभाववैलक्षण्यमथवा तत्प्रयोजको धर्मः कश्चिदिति विकल्प्याद्येऽज्ञाने हेतुविशेष्यासिद्धि-रित्याह ॥ नानिर्वचनीयत्वादिति ॥ परमते प्रागभावे व्यभिचाराच्चेति द्रष्टव्यम् । किञ्चाप्रयोजकोऽयं हेतुः । न चानौपाधिकव्याप्तिभङ्ग एव दोषः । तस्य वलवद्य्वाप्त्यन्तरबाधितत्वेनानौपाधिकत्वासिद्धे-रित्यभिप्रेत्याह ॥ अनादिर्न निवर्तत इति ॥ लोके ज्ञानाज्ञानयोर्निवर्त्यनिवर्तकतादर्शनाद्ब्रह्मज्ञानाज्ञान-योरपि तथात्वमित्यर्थः ।

परिमल

॥ प्रागुक्तप्रकृतिबन्धादिति ॥ सत्वादिगुणमय्येत्यादिना प्रागुक्तेत्यर्थः । कथं निवृत्तिरित्याक्षेपस्यात्रोच्यत इत्यादिना स्वयं समाधिं वक्ष्यन्विवरणोक्तं निरसितुं तावदनुवदति ॥ अत्राह कश्चिदित्यादिना तदयुक्तमित्यन्तेन । बन्धो न निवर्तते अनादित्वादिति हेतोरप्रयोजकत्वमुक्त्वा प्रागभावादावनेकत्र व्यभिचार इति भावेनाह ॥ किञ्च लोक इति ॥

यादुपत्यम्

॥ कार्य इति ॥ पुरुषकृतिसाध्य इत्यर्थः । विमतो बन्धो न निवर्ततेऽनादित्वादात्म-वदित्यनुमानविरोधात्कथं बन्धनिवृत्तिरुपपन्नेत्याशङ्कते ॥ नन्वनादेरिति ॥ न सादित्वमनादित्वं वेति ॥ ध्वंसप्रागभावयोर्व्यभिचाराद्भावत्वे सतीति विशेषणे त्वभावे प्रयोजनान्तरकल्पनापात इति भावः ॥ विरोधिसन्निपातेति ॥ निवर्तकभावाभावावित्यर्थः । तथाच पूर्वानुमाने निवर्तकाभाव उपाधिस्त-त्सद्भावेन सत्प्रतिपक्षता चेत्यर्थः । ननु सत्प्रतिपक्षानुमानेऽपि सादित्वमुपाधिरित्यत उक्तम् ॥ सादित्वं विनाशे न प्रयोजकमिति ॥ अनादिर्न निवर्तत इत्यत्र किमनादित्वमात्रं विवक्षितमुतानादिभावत्वम् । आद्येऽपि किं लौकिकानां चोद्यमुत तत्तद्वादिनामिति विकल्प्य क्रमेण दूषयति ॥ लोके तावदित्यादिना ॥ अविवेक इति ॥ प्रकृतिपुरुषयोरित्यर्थः । इदानीन्तनेति धर्मतत्त्वज्ञानविशेषणं तत्प्रतियोगिक-प्रागभावनिवृत्त्युपपादनायेति ध्येयम् । द्वितीयं पक्षमाशङ्कते ॥ अनादीति ॥ भावत्वे सत्यनादिन इत्यर्थः। भावशब्देन किं सत्त्वं विवक्षितमुताभाववैलक्षण्यमिति विकल्प्याद्ये विशेषणसिद्धिमाह ॥ अनिर्वचनीय-त्वादिति ॥ किञ्च विमतमज्ञानं ज्ञाननिवर्त्यमज्ञानत्वाच्छुक्त्यज्ञानवदित्यनुममानबाध इत्याशयेनाह ॥ अनादिर्न निवर्तत इत्यादिना ॥

श्रीनिवासतीर्थीया

॥ प्रागुक्तेति ॥ अतः परमेश्वर एवेत्यादिना प्रागुक्तेत्यर्थः ॥ उत्तर-ग्रन्थोपक्षेपायेदं व्याख्यानम् ॥ अविवेक इति ॥ प्रकृतिपुरुषयोरविवेकः । प्रकृतिपुरुषविवेकेन ज्ञानेन निवर्तत इत्यर्थः ॥ अनिर्वचनीयत्वादिति ॥ भावाभावविलक्षणत्वेन भावत्वाभावादिति भावः ॥

वाक्यार्थरत्नमाला

एवं व्याख्यान इति । वाक्यमनुपपन्नार्थं स्यादित्यनेन सम्बन्धः । तत्र हेतुः प्रकृतीति । अस्याज्ञानमिति वाक्यस्य । नास्य प्रकृतोपयोग इत्यनेन नन्वनादेरिति मूलस्य पर्यवसान-कथनात्सदलत्वं सूचितमिति ज्ञेयम् । इत्यतो भाष्यकाराभिमतं परिहारं वक्तुमिति सम्बन्धः । इति शङ्का यतो भवति अतः परिहारप्रसञ्जकसद्भावाद्भाष्यकाराभिमतं तच्छङ्कापरिहारं वक्तुं तां शङ्कां तावदुत्थापयतीत्यर्थः । तर्हि यत्तावदविद्याया अनादित्वेनेत्युत्तरग्रन्थेनैवालम् । अत्राहेत्याद्यधिकमित्यत उक्तम् अनादेर्निवृत्तीति । अनादेर्या निवृत्तिस्तस्या अनुपपत्त्येति योज्यम् । विवरणकारीयपरिहारनिराकरणं च स्वोक्तपरिहारदार्ढ्यार्थं तन्निराकरणव्याजेन प्रमेयान्तरेष्वपि तदचातुरीमाविष्कर्तुं च । अनुमानमात्रमेवाश्रित्य विवरणग्रन्थ-प्रवृत्तेरनुमानमात्रपर्यवसानमाह बन्ध इति । अप्रयोजकत्वमभिधाय व्यभिचारमप्याहेति । यद्यप्रयोजकोऽ-न्यथासिद्धो व्याप्यत्वासिद्धो वा वाक्यत्वादिहेतुरित्यपौरुषेयत्ववादीयतत्त्वनिर्णयटीकोक्तेरप्रयोजकत्वस्य हेत्वाभासान्तर्भावव्युत्पादनपरवरदराजीयग्रन्थे अन्यथासिद्धोऽप्रयोजक उपाधिमानिति पर्याया इत्युक्तेरुक्त-तत्त्वनिर्णयटीकावाक्ययोजनास्थलीयास्मदुपदर्शितन्यायसूत्रभाष्यादिपर्यालोचनया चाप्रयोजकत्वे उक्ते उपाधिरुक्तप्राय इति तेन व्यभिचारोन्नयने सति पूर्वग्रन्थादेव व्यभिचारलाभात् । किञ्चेत्यादिना पुनः व्यभिचारचोदनानुपपत्तेर्न तथाऽवतारो युक्त इत्याभाति । तथाऽपि परग्रन्थे अप्रयोजकत्वस्य बहु-प्रकारतोक्तेर्हेतुरस्तु साध्यं माऽस्तु विपक्षे बाधकाभावादप्रयोजको हेतुरित्यस्य प्रयोजकान्तराभिधाने-नोपाधिपर्यवसानस्थल इवोपाधिपर्यवसानं विहाय केवलं प्रयोजकान्तराभिधानमात्रस्थले तथा प्रयोज-कान्तरानभिधानेऽपि हेतूच्छित्त्यादिबाधकनिवृत्त्या प्रयोजकत्वस्थलेऽपि च साम्येन प्रवृत्त्या प्रकृते च प्रयोजकान्तराभिधानेन तृतीयप्रकारस्यासम्भवेऽपि उपाधिपर्यवसानाभ्युपगमेनाद्यस्य चासम्भवेऽपि तदपर्यवसायिज्ञानबाध्यत्वमपि इत्येतत्सम्बन्धिमूले सत्यस्यापि ज्ञाननाश्यत्वमस्तु न विपक्षे बाधकं किञ्चिदित्यतोऽप्रयोजकत्वाज्ज्ञानबाध्यत्वं न सिद्धमपि व्याप्यत्वासिद्धमपीत्युक्तेः प्रयोजकान्तराभिधानेना प्रयोजकताशङ्कारूपद्वितीयप्रकारस्यात्राश्रयणेन तावता च व्यभिचारालाभात् पृथग्व्यभिचाराभिधानपरतया अवतारो युक्तः । सम्मतश्चायं द्वितीयप्रकारो मूलकृतः । तस्य अकर्तृकत्वप्रसिद्ध्यभावादिति तत्त्वनिर्णय-टीकायामिदमुक्तं भवति । वाक्यत्वादौ समानेऽपि लौकिकवाक्यस्य अवेदत्वात् सकर्तृकत्वमस्तु अस्य तु वेदत्वादकर्तृकत्वं भवत्विति शङ्कायां बाधकाभावेनाप्रयोजकत्वान्नैवमनुमातव्यमित्यादिरूपेणैकां योजना-मभिधाय अथवा तस्याकर्तृकत्वेत्यनेन वेदत्वाभावो वाक्यत्वानुमानस्योपाधिरुच्यत इति प्रकारान्तरेणापि योजनायाः करणेनोपाध्यपर्यवसायिप्रयोजकाभिधानपक्षस्य ततः प्रतीतेः । उपाधिपर्यवसायिप्रयोजकान्तर-कथनमात्रेति प्रकारस्वीकारेऽपि न दोषः । तावतोपाधिसद्भावेन व्याप्यत्वासिद्धो जातः न त्वनैकान्तिकः । तथा सति परपक्षेऽसिद्धप्रभेदव्याप्यत्वासिद्धस्यैवानैकान्तिकतापत्त्या पृथग्घेत्वाभासता न स्यात् । अन्यथासिद्धस्वरूपत्वेऽन्यथासिद्धो व्याप्यत्वेत्युक्तग्रन्थयोजनावसरे अस्माभिर्विवृतं तत एव प्रतिपत्तव्यम् ।

तथेति । अप्रयोजकत्वोपपादनपरत्वेनेत्यर्थः । तदुपपादनमन्यथासिद्धं चेत्याह अप्रयोजकत्वेति । व्यभिचार-प्रतिपादनेनैवेति मूलकोशानुसारी पाठः । उपपादनेति पाठे उपेत्यस्य प्रत्यर्थकत्वम् । सत्यप्यनादित्वे विनाशदर्शनाद् विनाशाभावं प्रत्यनादित्वं प्रयोजकं नेत्यप्रयोजकत्वोपपादनलाभादिति भावः । किं चाप्रयोजकत्वं ह्यनादित्वादेः प्रयोजकत्वं नेत्येतावन्मात्रेण न प्रतिपादितम् । अपि तु किन्तु विरोधिसन्निपातासन्निपातावेवेति प्रयोजकान्तराभिधानेनापि । यदि चोत्तरग्रन्थस्याप्रयोजकत्वोपपादकता तर्ह्यावश्यकं प्रयोजकान्तरस्योपपादनमपि कर्तव्यं स्यान्न चैतदस्ति । ततोऽपि नाप्रयोजकत्वोपपादकतया योजना युक्तेत्याह किन्तु विरोधीति । दूषणान्तरपरत्वमिति पाठः । अत्र दूषणान्तरपरत्वस्योचितत्वे हेतुर् न तथावतरणमुचितमिति । तस्य च तथावतरणस्यानुचितत्वादित्यर्थः । तदुपपादनाय स्पष्टव्यभिचार-परत्वस्याप्रयोजकत्वेत्यादेः प्रकारद्वयस्य चोक्तेरिति ज्ञेयम् । तन्नव्येनापीति । विवरणसम्बन्धिनव्येनेत्यर्थः । विवरणटीकाकृदन्तरेण नृसिंहाश्रमेणेति यावत् । नेदं मूलाभिप्रायान्तर्गतम् अपि तु विवरणवाक्यस्य दूषणान्तरपरत्वमेवोचितमिति यो मूलाभिप्रायो वर्णितस्तत्र सम्मतश्चायमर्थस्तट्टीकान्तरकर्तुरिति स्वयं साधकाभिधानमतो नव्यपश्चात्तनत्वेऽपि न दोष इति ज्ञेयम् । यद्यपि व्यभिचारस्य स्वरीत्याऽप्रसरात् परमतेनेति च टीकान्तरे उक्तवा स्वमते त्वप्रयोजकत्वमित्युक्ततया स्वमतानुसारित्वम् । अप्रयोजकत्व-मात्रस्यैव न तु व्यभिचारस्येत्याभाति तथापि लोके तावदिति ग्रन्थे मुख्यं व्यभिचारपरत्वमेवाभिप्रेतं च परमतेन, स्वमतेन तदभावेऽपि अप्रयोजकत्वमात्रमेव दोषोऽस्त्वित्याशयेन टीकान्तरस्य प्रवृत्तिर्न तु व्यभिचारस्य दोषत्वनिराकरणाभिप्रायेणेति न दोष इति हृदयम् । लोक इत्येतज्ज्ञापकानुसारेण प्रागभाव एव पुनरविवेक इति धर्मतत्त्वज्ञानप्रागभाव इति च व्यभिचारप्रतिपादनेन च सूचनाल्लौकिकस्येति विकल्पप्रसक्तिरिति ज्ञेयम् । द्वितीयमिति । अनादिभावत्वमिति द्वितीयमित्यर्थः । सुगतानामित्याद्युक्तदोषे सति दोषान्तराभिधानप्रयासो व्यर्थ इत्याशङ्क्य परिहरति यद्यपीत्यादिना । न वादिना मत इति पाठः । तान्प्रत्ययमित्यनेन तदुक्तरीतेर्दुष्टत्वान्न तद्रीत्या व्यभिचारशङ्कासम्भव इति सूचितम् । परमत इति । लौकिकमत इत्यर्थः । तन्मतेऽपि प्रागभावे सत्त्वविशिष्टानादित्वसत्त्वादिति भावः ।