०७ ईश्वरप्रसादस्यापेक्षितत्वसमर्थनम्

द्रव्यं कर्म च कालश्च स्वभावो जीव एव च

ईश्वरप्रसादस्यापेक्षितत्वसमर्थनम्

द्रव्यं कर्म च कालश्च स्वभावो जीव एव च

सुधा

अतः परमेश्वर एव सत्त्वादिगुणमय्या विद्याविरोधित्वेनाविद्यया स्वाधीनया प्रकृत्याऽचिन्त्याद्भुतया स्वशक्त्या च जीवस्य स्वप्रकाशमपि स्वरूपचैतन्यमाच्छादयतीति युक्तम् । स एव च स्वाधिष्ठानलब्धपरिणाममहदङ्कारादिप्रकृत्यंशैः संयोज्य कर्तृत्वभोक्तृत्वस्वातन्त्र्यं कारक-फलस्वाभ्यं चास्याविद्यमानमेवोपदर्श्य रागाद्युत्पादनद्वारा दुःखमनुभावयति । तदेवं बन्धस्येश्वरा-धीनत्वात्स एव मोचकोऽङ्गीकार्योऽपरस्य स्वातन्त्र्याभावात् । प्रसन्न एवासौ स्वकीयां मायां व्यावर्तयतीति तत्प्रसादार्थं सर्वोऽप्ययं साधनसन्दर्भ इत्युक्तम् । ततो यद्यपि न सूत्राक्षरेभ्यो भगवत्प्रसादो लभ्यते । तथाऽप्यनुपपत्त्याऽङ्गीकरणीय इति युक्तं व्याख्यानम् । वक्ष्यति चैतत्सूत्रकारः ‘ततो ह्यस्य बन्धविपर्ययौ’ इति । एवमुक्तेन न्यायेन न ज्ञानस्यैवायं स्वभावो यत्साक्षान्मोक्ष-साधनत्वम् । अस्तु वा तथाऽपीश्वरप्रसादोऽपेक्षितः । सकलकारकाणां तदधीनसत्ताप्रवृत्तित्वेन तदिच्छां विना कस्यापि कार्यस्यानुदयादिति । अङ्गीकारवादस्य चेदं प्रयोजनं यत्पूर्वस्यैवार्थस्य समर्थनम् । तथा हि । येन ज्ञानस्य मोक्षहेतुत्वमङ्गीकृतं न तेनापि ईश्वरेच्छा त्यक्तुं शक्यते । कारकप्रेरकत्वादिनाऽवश्याभ्युपगमनीयत्वात् । तथा च किमनेन ज्ञानेनाप्रमितेन । प्रमित ईश्वर एवाङ्गीकार्य इति ।

वाक्यार्थचन्द्रिका

एवमुपयुक्तमभिधाय कथं प्रकृतेरविद्यात्वमनादित्वं चेत्यतस्तमोरूपाया-स्तद्घटयन्भगवतो द्वेधा स्वरूपाच्छादकत्वं विवक्षितमाह ॥ अत इति ॥ अनेन प्रमाणे द्रव्यमित्यंश-स्याभिप्रेतार्थः कथितो भवति । इदं चाज्ञानस्य भगवदधीनत्वकथनम् । स एव चेत्यनेन स्वभाव-पदोक्तपरिणामांशस्य । कर्तृत्वेत्याद्युपदर्श्येत्यन्तेन जीवपदोक्ताभिमानीत्यंशस्य अस्वरूपे स्वरूपमते-रेवाभिमानत्वात् । इदं च मिथ्याज्ञानस्य भगवदधीनत्वकथनम् । इयता ग्रन्थेन बन्धस्येश्वराधीनत्वं यदर्थं वर्णितं तदिदानीमाह ॥ तदेवमिति ॥ स एव कुतो मोचक इत्यत एतद्वाक्योदाहरणलब्धमपरस्य स्वातन्त्र्याभावमत्रापि हेतुत्वेन योजयति ॥ अपरस्य इति ॥ तावता हरेर्मोक्षसाधनत्वेऽपि प्रसादस्य किमायातमित्यतो हरेः समूलबन्धमोचनं मूलभूतमायाव्यावर्तनाभावे न सम्भवति । मायाव्यावर्तनं च न प्रसादेन विनेति प्रसादसिद्धिरित्याह ॥ प्रसन्न एवेति ॥ स्वकीयामित्युक्त्या बन्धस्य भगवदधीन-त्वोपपादनस्य प्रकृतोपयोगं दर्शयति । नन्वेवं मोक्षस्य प्रसादलभ्यत्वे ज्ञानस्य मोक्ष उपयोगादर्शनेन तदर्थमीमांसारम्भानुपपत्तिरित्यतो ‘जिज्ञासोत्थज्ञानजादि’ति पूर्ववाक्योक्तं ज्ञानादेः प्रसादार्थत्वं स्मारयति ॥ तदिति ॥ न केवलमन्यथाऽनुपपत्तिमात्रेण प्रसादस्य सूत्रार्थान्तःप्रवेशनमपि तु सूत्राभिप्रेतं च तदित्याशयवान् प्रसादप्रापकस्य बन्धमोक्षयोर्भगवदधीनत्वस्य सूत्रान्तरारूढतां दर्शयति ॥ वक्ष्यति चेति ॥ अङ्गीकारवादसूचकापिशब्देन सूचितं ज्ञानस्य साक्षान्मोक्षसाधनत्वं स्वभाव इत्यस्यार्थ-स्यानुपपन्नत्वं सिद्धमित्याह ॥ एवमिति ॥ एवं चेत्यादेर्वाक्याद्बन्धस्य बन्धकानां च भगवदधीनत्वा-वगमादपरस्य स्वातन्त्र्याभावावगमाच्च हरिं विना ज्ञानस्वभावान्मुक्तिर्न स्यात् । साक्षान्मोक्षसाधनत्वं न ज्ञानस्वभाव इति यावत् । इत्यपिशब्दपरित्यागेनापि वाक्यं व्याख्येयमित्युक्तं भवति ॥ अस्तु वेति ॥ अस्मिंश्च पक्षे यथास्थितैव योजनेति हृदयम् । ननु ज्ञानस्य साक्षान्मोक्षसाधनत्वस्वभावत्वाङ्गीकारः प्रकृतविरुद्धः प्रमाणविरुद्धश्चेत्यतः प्रकृतार्थोपपादकत्वं पर्यवसानगत्या प्रमाणाविरुद्धत्वं चोपपादयति ॥ अङ्गीकारेति ॥ अप्रमितेनेति ॥ साक्षान्मोक्षसाधनत्वस्वभाववत्तयेति शेषः ।

परिमल

संयोज्य जीवमित्यर्थः ॥ इत्युक्तमिति ॥ मुच्यत इत्यन्तपूर्वग्रन्थव्याख्यावसर इत्यर्थः ॥ वक्ष्यति चैतदिति ॥ बन्धमोक्षावीशाधीनावित्येतद्भक्तिपादे ‘पराभिध्यानात्तु तिरेहितं ततो ह्यस्ये’ति वक्ष्यतीत्यर्थः । पूर्वमङ्गीकारवादोऽयमित्युक्तं व्यनक्ति ॥ अस्तु वेति ॥ मोक्षसाधनत्वं ज्ञानस्वभाव इत्यनुकर्षः ॥ पूर्वस्यैवेति ॥ तत्प्रसादादेव मुच्यत इत्यत्रोक्तार्थस्यैवेत्यर्थः ॥ अप्रमितेनेति ॥ ज्ञानिनां मोक्षदश्च स इतीश्वरस्येव ज्ञानस्वभावे मुक्तिहेतुत्वस्याप्रमितत्वादिति भावः ॥

यादुपत्यं

सत्त्वादिगुणमय्याऽविद्ययेति प्रकृतिविशेषणं ग्रन्थान्तराविरोधायेति ज्ञातव्यम् । अङ्गीकारवादोऽयमिति सूचयतीत्युक्तं प्रपञ्चयति ॥ अस्तु वा तथेति ॥ ‘न ऋते त्वदि’ति श्रुत्युक्तं सर्वार्थक्रियायास्तददीनत्वमत्र हेतुतयान्वितमित्याशयेनाह ॥ सकलकारकाणामिति ॥ पूर्वस्यैवार्थस्येति ॥ ईश्वरस्यैव मोक्षहेतुत्वरूपार्थस्येत्यर्थः ॥ कारकेति ॥ ज्ञानरूपकारकेत्यर्थः ॥

श्रीनिवासतीर्थीया

सत्त्वादिगुणात्मकप्रकृतेरविद्याशब्दवाच्यत्वे निमित्तम् ॥ विद्या-विरोधित्वेनेति ॥ तथाच सिद्धान्ते भावरूपाज्ञानशब्देन सत्त्वादिगुणमयी प्रकृतिरेवोच्यत इति सम्प्रदायः । चतुर्थाध्यायटिप्पण्यामस्मदाचार्यैर् एतत्स्फुटतरं प्रतिपादितमस्तीति ज्ञेयम् ।