०६ बन्धस्येश्वराधीनत्वोपपादनम्

द्रव्यं कर्म च कालश्च स्वभावो जीव एव च

बन्धस्येश्वराधीनत्वोपपादनम्

द्रव्यं कर्म च कालश्च स्वभावो जीव एव च

सुधा

ततश्चायमर्थः । स्यादेतदेवम् । यद्यज्ञानमात्रनिबन्धनोऽयं बन्धो जीवस्य स्यात् । न चैवम् । श्रुतिस्मृतीतिहासपुराणेषु परमेश्वरेच्छानिमित्तत्वावगमात् । औतिनामविद्याधीनजीव-ब्रह्मविभागवत्तार्किकादीनां च गुणवत्त्वाधीनद्रव्यत्ववदनादेरपीश्वराधीनत्वोपपत्तेः । उपपादयिष्यते हि ज्ञानानन्दादिस्वरूपोऽयं जीव इति पुंस्त्वादिवदित्यादिना । तद्भावानुपलब्धिश्चानुभवसिद्धा । तेनावगम्यतेऽस्ति किमप्यावरकम् । येनावृतः स्वप्रकाशचैतन्यरूपोऽपि नात्मनस्तत्त्वं वेद । न च कामकर्मादिकमेव तथा भवितुमर्हति । तस्यापि सादिनः कारणापेक्षत्वात् । न च पूर्वपूर्वस्मा-दुत्तरोत्तरमिति युक्तम् । सुप्तिप्रलययोस्तद्वृत्त्यभावेन निष्कलङ्कचैतन्यबलात्स्वरूपावभासप्रसक्तेः । अतः कामकर्माद्यतिरिक्तं मायाऽविद्या प्रकृतिरित्यादिशब्दाभिधेयमनाद्येव किमपि द्रव्य-मङ्गीकरणीयम् । ‘अनादिमायया सुप्त’ इत्यादिश्रुतिस्मृतयश्चात्र भवन्ति । न च मायाऽपि कथं स्वप्रकाशमावृणोतीति युक्तम् । आवरकतयैव तस्याः प्रमितत्वात् । वक्ष्यते चात्रोपपत्तिः । नच जडस्य स्वतः किञ्चित्करत्वं युक्तम् । द्रव्यं कर्म चेत्यादिवाक्यविरुद्धं च ।

वाक्यार्थचन्द्रिका

ननु ज्ञानस्वभावेनैवाज्ञाननिवृत्तौ कारणाभावेन कार्यानुत्पादान्नेश्वर-प्रसादोऽपेक्षित इति शङ्किते सर्वोत्पत्तिमदुपादननिमित्तानां भगवदधीनतावबोधकवाक्योदाहरणम-सङ्गतम् । न च मोचने प्रसादस्यावश्यकत्वाद्बन्धस्येश्वराधीनत्वेन तस्यैव मोचकत्वात्प्रसाद आवश्यक इत्युपपादयितुं बन्धस्येश्वरेच्छाधीनत्वे वक्तव्ये न तदुदाहरणासङ्गतिरिति वाच्यम् । तर्हि बन्धस्येश्वरे-च्छाधीनत्वे प्रमाणस्योपन्यसनीयत्वेन प्रकृत्यादीनां तदधीनत्वे तदुदाहरणासङ्गतिरेव । न च तेषामपि बन्धकारणत्वात्तदुक्तिः । तेषां बन्धकारणत्वे प्रमाणाभावात्वात् । भावे वा प्रकृत्यादीनां बन्धकानां भगवदधीनत्वेऽपि भगवतः साक्षाद्बन्धकत्वानापत्त्या तेषां बन्धकत्वोक्तेः साक्षात्प्रसादोपपादकत्वा-भावेन तदुक्तेरसङ्गतिरेव । रागादीनां बन्धकत्वेनाशङ्कितानां भगवदधीनत्वस्यावश्यवक्तव्यस्यानुक्ते-श्चेत्यतस्तत्सङ्गमयितुमाह ॥ ततश्चेति ॥ यद्वा नन्वनेन वाक्येन मोक्षस्य न ज्ञानस्वभावलभ्यत्वम् । ततश्च प्रसादोऽपेक्षित एव । ज्ञानस्वभावलभ्यत्वाङ्गीकारेऽपि प्रसादोऽपेक्षित एवेत्युक्तं स्यात् । तच्च नोपपद्यते । मोक्षस्य युक्त्या ज्ञानस्वभावलभ्यताव्युत्पादनान्नोक्तिमात्रेण तदभाव ईश्वरेच्छाधीनत्वं च तस्य सिध्द्यतीत्यतो बन्धस्येशेच्छाधीनत्वयुक्त्यैव मोक्षस्येशेच्छाधीनत्वव्युत्पादनमत्र वाक्येऽभिप्रेतं नोक्ति-मात्रमतो नानुपपत्तिरित्याशयकथनपूर्वमनङ्गीकारपक्षं व्युत्पादयितुमस्तु वेत्यादिनाऽङ्गीकारपक्षमपि व्युत्पादयितुमाह ॥ ततश्चेति ॥ एतन्मुक्तेर्ज्ञानस्वभावलभ्यत्वम् । एवं त्वदुक्तरीत्या यदा स्यादित्यर्थः । अत्र श्रुतिपुराणयोरुदाहृतयोर्ग्रहणं स्मृतीतिहासेत्यादिशब्दसङ्गृहीतकथनम् । परमेश्वरेत्यतः पूर्वं साक्षात्परम्परया चेति शेषः । तत्र पुराणं बन्धकानामीशाधीनतोक्तिद्वारा बन्धस्येशाधीनतापरं श्रुतिस्तु बन्धस्याप्यर्थक्रियात्वत्साक्षादेवेशाधीनतापरा । ततश्च बन्धस्य साक्षाद्बन्धकप्रवर्तकतया चेशेच्छा-निमित्तत्वं सूचयति । एतादृशवाक्योदाहरणलब्धार्थकथनं यद्यज्ञानेत्यादि । अयं बन्धो मिथ्याज्ञाने-त्यादिदुःखान्तोऽज्ञानमात्रनिबन्धनो न चैवमित्यतःपरं किन्त्वज्ञानं यन्नियतं तन्निबन्धनः पृथक् च भगवन्निबन्धन इति शेषः । ननु परभिप्रेतकार्यकारणप्रवाहरूपबन्धस्येदं प्रथमताशून्यत्वेनानादित्वेऽपि स्वरूपेणानादित्वाभावादज्ञानधीनत्वस्य परेण वक्तुं शक्यत्वेऽपि सिद्धान्त्यभिप्रेतप्रकृत्यादिबन्धस्य स्वरूपेणानादित्वाभावादज्ञानाधीनत्वस्य परेण वक्तुं शक्यत्वेऽपि सिद्धान्त्यभिप्रेतप्रकृत्यादिबन्धस्य स्वरूपेणानादित्वान्नेश्वरेच्छाधीनत्वं तस्येति शङ्कामुपोद्धातेन परिहरति ॥ औतिनामिति ॥ इदं चानादीनामपि प्रकृत्यादीनां भगवदधीनताबोधकपुराणबलाच्छतिस्थकिञ्चनेति पदाच्च लब्धार्थकथनम् । उपपत्तिग्रहणेनानादेरुत्पत्त्यर्थं भगवदनपेक्षायामपि स्थित्यर्थं सादितो न विशेष इति न्यायं सूचयति ।

ननूक्तरूपबन्धस्य कथमज्ञाननियामकेशाधीनत्वं पृथक् च कथमीशाधीनत्वमित्यतो बन्धस्वरूपं न केवलं त्वदुक्तरीत्यैव किन्तु स्वरूपाच्छादनमपि । एवं च जीवस्वरूपाच्छादकप्रकृत्यादिशब्दिता-ज्ञाननियामकतया स्वतश्च जीवस्वरूपाच्छादकत्वेन मिथ्याज्ञानादिप्रयोजकनियामकतया स्वतश्च बन्धनियामकत्वेनेति प्रदर्शयितुं किं तत्स्वरूपं कुतश्च तत् कुतश्च तदाच्छादककल्पना प्रकृत्यादिकमेव च कुतस्तथा रागादेरपि सम्भवात्कथं च स्वप्रकाशाच्छादनसम्भवः कुतश्च तदाच्छादकस्यापि भगवदधीनत्वमित्याशङ्काः परिहरति ॥ उपपादयिष्यते हीत्यादिना ॥

अथवा ननूक्तरूपबन्धस्याज्ञानमात्रनिबन्धनताया युक्तिपूर्वमुपपादनात्र तस्येच्छाधीनत्वम् । न च श्रुत्यादिबलात्तथा । उदाहृतवाक्येषूक्तरूपबन्धस्येशेच्छाधीनताया अप्रतिभानादित्यतः साक्षात्परम्परया बन्धस्येशेच्छाधीनत्वं व्युत्पादयितुं परोक्तविलक्षणबन्धकस्वरूपं युक्त्यादिना प्रतिपादयन्नुदाहृतवचनानां तत्र प्रमाणत्वं च घटयितुमाह ॥ उपपादयिष्यते हीत्यादिना ॥ स्वप्रकाशेत्यनेन सामग्रयभाव-प्रयुक्ततयाऽनुपलब्धेरन्यथासिद्धिं निराकरोति । न आवरकान्तरप्रयुक्तान्यथासिद्धिनिराकरणं न चेति । सुप्तौ रागाभावः प्रलये कार्यमात्राभावेन कर्मणोऽप्यभाव इत्युभयोर्ग्रहणम् । इत्यादिश्रुतीत्युत्तरत्रादि-शब्दोपात्ताविद्याप्रकृतिबन्धकत्वाभिधायकश्रुत्यनुसारेणाह ॥ मायाऽविद्या प्रकृतिरिति ॥ अनाद्येवेति ॥ एतच्च परिशेषकथनं सादिधर्माधर्मौ कर्मशब्देनोपादायाप्यनादिप्रकृतेर्द्रव्यशब्देन प्रमाणे पृथगुपन्या-समहिम्ना लब्धमिति द्रष्टव्यम् ॥ स्मृतयश्चात्रेति ॥ चशब्देनोक्तपरिशेषसमुच्चयः । कथमित्यावरकत्व-मप्रामाणिकमिति वा । प्रमाणबोधितमप्यसम्भावितं कथमङ्गीकर्तव्यमिति वा । नाद्यः । परिशेषश्रुत्यादे-रिदानीमेवाभिहितत्वादित्याह ॥ आवरकतयेति ॥ न द्वितीय इत्याह ॥ वक्ष्यते चेति ॥ स्वभावाज्ञान-वादस्येत्यनुव्याख्यानव्याख्यावसरे यद्यपि जीवचैतन्यं ब्रह्म स्वधर्मप्रकाशात्मकं तथाऽपि परमेश्व-राचिन्त्याद्भुतशक्त्युपबृंहिताविद्यावशान्न तथा संसारे प्रकाशयति इति वक्ष्यत इत्यर्थः । जडस्येति हेतुगर्भं विशेषणम् । द्रव्यं कर्मं चेत्यादिनाऽस्य वाक्यस्यात्रोपयोगप्रदर्शनम् ।

परिमल

वस्तुतस्तु ज्ञानस्वभावाधीनत्वमेवास्य नेत्यर्थः । अङ्गीकारवादं ‘‘अस्तु वा’’ इदिनाऽग्रे विवरिष्यन्नेतिपक्षे तावत्प्रपञ्चयति ॥ स्यादेतदित्यादिना ॥ श्रुतीति ॥ ‘त्वं मुक्तिदो बन्धदोऽतो मतो न’ इति श्रुतिः । तत्र तत्र भाष्यकारोक्तपञ्चरात्रस्मृतिः । ‘सुखं दुःखं भवो भावो भयं चाभयमेव च’ इत्यादीतिहासः । ‘तदिच्छया यतो ह्यस्य बन्धमोक्षौ प्रतिष्ठितौ’ इत्यादिपुराणम् । ननु कथमनादेरनाधेयातिशयस्येशाधीनतेत्यत आह ॥ औतिनामिति ॥ विवृतमेतद्गायत्र्यधिकरण-चन्द्रिकायाम् । ‘अनादीनां गुणादीनां यथा गुण्यादितन्त्रता’ इत्यादिना ॥ ननु गौतमसूत्रोक्तदिशा देहात्म्यैक्यारोपनिमित्तत एव बन्धोपपत्तावनादिबन्धमुपेत्य तस्येशाधीनता किमर्थमुपेयेत्यतोऽनादि-बन्धस्थितिं स्वाभिमतां साधयति । उपपादयिष्यते हीत्यादिना तदेवमितिपर्यन्तेन ॥ इत्यादिनेति ॥ सूत्रेणेत्यर्थः ॥ तद्वृत्तीति ॥ तत्परिणामरूपकार्याभावेनेत्यर्थः । तत्तच्छब्दघटितनानाश्रुत्यैकमत्यायोक्त-मित्यादिशब्दाभिधेयमिति ॥ वक्ष्यते चेति ॥ ‘स्वभावाज्ञानवादस्य निर्दोषत्वान्न तद्भवेत्’ इत्यत्र सविशेषाङ्गीकारादित्युपपत्तिर्वक्ष्यत इत्यर्थः । अस्त्वेवं किमीशेनेत्यत आह ॥ न च जडस्येति ॥ प्रकृत्येति स्वशक्त्येति च व्यधिकरणे तृतीये ।

यादुपत्यम्

बन्धस्येश्वराधीनत्वं कथमनेन लब्धमित्यतस्तत्प्रदर्शयितुमाह ॥ उपपादयिष्यते हि त्य दिना ॥ तद्वृत्त्यभावेनेति ॥ तत्कार्याभावेनेत्यर्थः । न तु तत्सत्ताभावेनेत्यर्थः । सुप्त्यादावपि कामादेः सूक्ष्मरूपेण सत्वात् । तथाच सुप्तिप्रलययोः कामकर्मादिजन्यस्य कार्यस्य कस्याप्यभावेन स्वरूपप्रकाशप्रतिबन्धरूपकार्यस्याप्यभावापत्त्या तदानीं स्वरूपावभासप्रसङ्ग इति भावः । ननु कथम-विद्याऽपि स्वप्रकाशमानचैतन्याभिन्नमानन्दादिकमावृणोतीत्यत आह ॥ वक्ष्यते चात्रेति ॥ ‘स्वभावा-ज्ञानवादस्य निर्दोषत्वान्न तद्भवेदि’ त्यत्र सविशेषत्वरूपा अविद्यायाः परमेश्वराचिन्त्यद्भुतशक्त्युप-बृंहितत्वरूपाचोपपत्तिर्वक्ष्यत इत्यर्थः ।

श्रीनिवासतीर्थीया

॥ श्रुतीति ॥ ‘त्वं मुक्तिदो बन्धदोऽतो मतो न’ इति श्रुतिः । तत्र तत्र भाष्यकारोक्तपञ्चरात्रस्मृतिः । ‘सुखं दुःखं भवोऽभावो भयं चाभयमेव चे’त्यादीतिहासः । ‘तदिच्छया यतो ह्यस्य बन्धमोक्षौ प्रतिष्ठिता’वित्यदिपुराणम् । नन्वनादेः कथमीश्वराधीनत्वमित्यत आह ॥ अद्वैतिनामित्यादिना ॥