०२ गतार्थताशङ्कातत्समाधानानुपपत्ति प्रदर्शनम्

स एव सर्ववेदार्थो जिज्ञास्योऽयं विधीयते

गतार्थताशङ्कातत्समाधानानुपपत्ति प्रदर्शनम्

स एव सर्ववेदार्थो जिज्ञास्योऽयं विधीयते

सुधा

तत्र केचिदभ्यधिकाशङ्कां दर्शयन्तो ब्रह्मजिज्ञासां पृथगारभन्ते । अपरे तु कार्यनिष्ठ एव वेदभागो विचार्यत्वेन तत्र प्रक्रान्तो विचारितश्च । न वस्तुतत्त्वनिष्ठ इत्यतो वस्तुतत्त्वनिष्ठं वेदभागं विचारयितुमिदमारभ्यत इत्याहुः । सेयं गतार्थताशङ्का तत्समाधानं च नोपपद्यते । सर्ववेदाना-मीश्वरैकनिष्ठत्वेन सर्ववेदार्थस्यात्रैव जिज्ञास्यत्वात् । धर्मजिज्ञासाशास्त्रं तु वेदैकदेशामुख्यार्थधर्म-विचाराय प्रवृत्तमित्याशयेन वा ‘स एव भर्गशब्दार्थ’ इत्याद्युक्तम् । तत्र सर्ववेदार्थ इत्यनेन गतार्थताशङ्कानिरासः स एव न तु कार्यशेषतयेत्याद्यं समाधानं सर्वेति द्वितीयं च निरस्तम् । तदुप-पादनाय पूर्ववाक्यम् । जिज्ञास्य इति साध्यनिर्देशः । वक्ष्यति च एतद्विस्तरेण कार्यता चेत्यादिना ।

वाक्यार्थचन्द्रिका

तत्र केषाञ्चिदभ्यधिकाशङ्कातत्समाधानप्रकारं सामान्यतो वक्तुं प्रवृत्तं तत्र केचिदिति । तस्यायं भावः । ‘सदेव सोम्येदम्’ ‘सत्यं ज्ञानमनन्तम्’ इत्यादिषु विध्यश्रवणान्न वेदान्तानां विधिपरत्वम् उचितम् । न च ‘आत्मा वा ओ द्रष्टव्यः’ ‘तदन्वेष्टव्यम्’ इत्यादिषु विधिश्रवणात्तदेकवाक्यतया विधिरहितवाक्यानामपि तत्परत्वमेवेति वाच्यम् । तेषामपि ‘तयोरेव कृत्यक्तखलर्था’ इति सूत्रविहितभावकर्मार्थकतव्यप्रत्ययान्तत्वेऽपि विधिवाक्यत्वाभावात् । न च भावकर्मविहितानामपि कृत्यप्रत्ययानां कृत्याश्चेति विधौ स्मरणाद्युक्तं तेषां ज्ञानविधित्वमिति वाच्यम् । गन्तव्यमित्यादिभावाभिधायिप्रत्ययस्य भावप्राधान्येन ततो धात्वर्थविधिप्रत्ययेन तत्र धात्वर्थस्य स्वतन्त्रफलाय विधातुं शक्यत्वेऽपि कर्माभिधायिप्रत्ययस्थले कर्मणः प्राधान्येन क्रियायाश्च गुणत्वेन स्वतन्त्रफलाय तस्या विधातुमशक्यतया ग्रामो गन्तव्यः स्वाध्यायोऽध्येतव्य इत्यादिवत् ‘आत्मा वा ओ द्रष्टव्य’ इत्यादौ तव्यप्रत्ययस्यात्मरूपकर्मकारकगतफलाय क्रियाविधानपरत्वेऽङ्गीकार्ये कर्मरूपात्म-गतातिशयस्य चोत्पत्तिरूपस्यानादित्वेनाविकारित्वेन विकाररूपस्य नित्यत्वात्तदाप्तिरूपस्यासम्भवा-त्संस्काररूपत्वे वक्तव्ये संत्कारस्य गुणाधानमलापकर्षणरूपेण द्वैविध्यादात्मनश्च निर्गुणत्वेन गुणाधानरूपस्यासम्भवान्मलाकर्षरूपस्य सम्भवेऽपि विनियुक्तविनियोक्ष्यमाणयोः संस्कारदर्शना-दात्मनश्चोभयरूपत्वाभावेन संस्कारासम्भवेन तद्रूपातिशयस्याप्यभावान्न तस्य ज्ञानविधिपरत्वं युक्तम् । न च सक्तून् जुहोतीत्यस्य क्रतुप्रकरणे श्रवणेन क्रत्वङ्गत्वादङ्गानां चार्थकर्मत्वसंस्कारकर्मत्वरूपेण द्वैविध्यासक्तुहोमस्य सक्तुद्रव्यगुणभूतत्वेन प्रयाजादिवदर्थकर्मत्वासम्भवेन प्रोक्षणादिवत्संस्कारकर्मत्वे वक्तव्ये विनियुक्तविनियोक्ष्यमाणसंस्कारत्वेन संस्कारद्वैविध्याद्धोमेन भस्मीकृतानां सक्तूनां प्रोक्षणादिवद् आहवनीयादिवच्चोभयविधसंस्कारत्वस्याप्यसम्भयाद् अङ्गत्वायोगे स्वतन्त्रफलसाधनत्वाश्रवणाद् दर्शपूर्णमासप्रकरणपठितत्वेन फलकल्पनानुपपत्तेरध्ययनविध्युपात्तत्वेनानर्थक्यासम्भवाच्च संस्कारकर्मत्वं परित्यज्य सक्तूनिति कर्मप्राधान्यं विहाय सक्तुभिरिति गुणभावेन क्रियाप्राधान्यक्रियामाश्रित्यार्थकर्मता निरूपिता यथैवमात्मानमिति साध्यतया प्राधान्यं विहायात्मनेति गुणत्वेनोपगमेन स्वतन्त्रफलायोगासनं प्राधान्येन विधीयतामिति नास्य विधित्वासम्भव इति वाच्यम् । तत्र यथा होमप्राधान्येऽपि सकर्मकत्वा-ज्जुहोतेः सक्तव एव कर्मकारकतया भस्मीक्रियन्ते एवमवगमस्य सकर्मकत्वादर्थतः कर्माभावेन विधान-मिति कर्मान्तरासम्भवात् शब्दतः कारणस्यात्मन एवार्थतः कर्मत्वे वक्तव्ये तद्गतस्यातिशयस्याप्युत्पत्ति-विकृतिसंस्काररूपस्यासम्भवेनार्थकर्मत्वस्यैवमप्यसम्भवेन विध्यभावादविवक्षितार्था वेदान्ता इति धर्ममीमांसानन्तरं स्नाने प्राप्ते इदमारभ्यते ॥ अथातो ब्रह्मजिज्ञासेति ॥ अनन्तरं ब्रह्म जिज्ञासितव्यं न स्नातव्यमित्यभिप्रायः ।

कटस्त्वया कर्तव्यो ग्रामो गन्तव्य इत्यादौ कर्माभिधायिप्रत्ययादपि धात्वर्थनियोगसम्प्रत्ययाद् द्रष्टव्य इत्यादौ च क्रियाफलस्यात्मगतस्याविद्योच्छेदलक्षणातिशयस्य सम्भवादपुरुषार्थसंस्कारस्योत्तर-त्रोपयोगापेक्षायामपि न पुरुषार्थसंस्कारस्य तदपेक्षेति द्रष्टव्य इत्यादेरेव विधित्वसम्भवाद्युक्तं विधिपरत्वं वेदान्तानामिति ॥ अपरे त्विति ॥ लोके सन्दिग्धसप्रयोजनयोरेव विचार्यत्वाद्धर्मत्वस्य च लोक-प्रवादसिद्धतया सामान्यतः प्रसिद्धत्वेनाग्निहोत्रचैत्यवन्दनादिविशेषाकारेण वादिविप्रतिपत्तिविषयत्वेन च सन्दिग्धत्वात्पुरुषार्थसाधनतया सप्रयोजनत्वाच्च तस्यैव विचारयोग्यतया वेदप्रामाण्यप्रतिपादनात्प्राक् सामान्यतोऽसिद्धेस्तत एव विशेषतोऽविप्रतिपत्तेः पुरुषार्थसाधनतया न सर्ववेदार्थो विचारयोग्य इति धर्मपरः कार्यनिष्ठ एव वेदभागो विचार्यतया प्रक्रान्तोऽत एव विचारितश्च न त्वतथाविधो वस्तुतत्त्वनिष्ठ इति भावः । स एव भर्गशब्दार्थ इत्याद्युक्तमित्युक्तमेवांशभेदेन विशदयति ॥ तत्र सर्वेति ॥ गतार्थता-शङ्कानिरास इति ॥ विधेरेव सर्ववेदार्थत्वं तद्विचारश्च प्राचितन्त्र एव कृत इति प्राप्तगतार्थताशङ्कायाः सर्ववेदार्थो ब्रह्मैव न विधिरित्युक्तया निरास इत्यर्थः । स एवेत्यवधारणान्यथाऽनुपपत्त्या प्राधान्यस्यैव विवक्षितत्वाद् इत्याशयः ॥ आद्यं समाधानमिति ॥ तस्य विधिपरत्वरूपत्वादिति भावः ॥ द्वितीय-मिति ॥ विषयविभागपरत्वात्तस्येति भावः । अस्मिन्पक्षे शङ्कानिरासस्य पूर्वेणैव सिद्धत्वाज्जिज्ञास्य इत्यादेर्वैयर्थ्यमित्यत आह ॥ जिज्ञास्य इतीति ॥ न केवलं पूर्ववाक्येन तदुपपादनमपि तु वक्ष्यमाणन्यायेनापि इत्याह ॥ वक्ष्यति चेति ॥

परिमल

॥ केचिदिति ॥ ‘व्युत्पत्त्यभावः प्रतिपत्तिदौस्थ्यमन्येन सिद्धत्वमथाफलत्वम् । एतानि वै सूत्रचतुष्टयेन नारम्भमूलानि निराचकार’ इति वदन्तो रामानुजीयादयः सिद्धेऽर्थे व्युत्पत्त्यभावेन वेदान्तानां ब्रह्मण्यमानत्वान्न तद्विचार आरभ्य इत्यादिरूपाभ्यधिकाशङ्कां दर्शयन्त इत्यर्थः । यद्वा केचिदिति मायावाद्येकदेशिन इत्यर्थः । तैरपि सिद्धेऽर्थे व्युत्पत्यभावाद्यभ्यधिकाशङ्कां प्रदर्श्य कार्यशेषे ब्रह्मणि व्युत्पत्यादेरुक्तत्वात् ॥ अपरे त्विति ॥ मायावादिन इत्यर्थः ॥ आद्यमिति ॥ स्वप्रधाने प्रामाण्यायोगेऽपि उपासीतेत्यादिलिङाद्युक्तकार्यशेषे ब्रह्मणि प्रामाण्ययोगात्तद्विचारः कार्य इति समाधानमित्यर्थः । निरस्तमित्यन्वयः ॥ द्वितीयं चेति ॥ कार्यनिष्ठ एवेत्यादिनोक्तमित्यर्थः ॥ तदिति ॥ सर्ववेदार्थत्वोपपादनाय ओतत्ववाचीत्यादिपूर्ववाक्यमित्यर्थः । यद्वा स एव भर्गशब्दार्थ इत्यादिपूर्ववाक्य मित्यर्थः ॥ साध्येति ॥ स एव सर्ववेदार्थ इत्यनेन कृतस्य गतार्थताशङ्कासमाधिनिरासस्य जिज्ञासा-विधिरूपं फलं जिज्ञास्योऽयमिति पादेन निर्दिश्यत इत्यर्थः । अत्र सङ्ग्रहः ।

मङ्गलास्रवणे युक्तिविशेषद्योतनं तथा ।

मीमांसानुग्राह्यमानकीर्तनं पूर्वतन्त्रतः ॥ १ ॥

अगतार्थतासूचनं चेत्येवं पञ्चप्रयोजनः ।

सौत्रप्राथमिकोङ्कारः श्रुतिसिद्धोऽवधारितः ॥ २ ॥

यादुपत्यम्

॥ तत्र केचिदभ्यधिकाशङ्कामिति ॥ चोदनालक्षणोऽर्थो धर्म इति ब्रुवता विधिपरत्वेन सर्ववेदानां प्रामाण्यं प्रदर्शितम् । अत्र केषुचिद्वाक्येषु विधिरेव न श्रूयते सदेव सोम्येत्येवमादिषु । यत्रापि श्रूयते आत्मा वा ओ द्रष्टव्य इत्यादिषु तत्रापि विधेरनुपपत्तिः । भावकर्मणोर् विहितानामपि कृत्यानां ‘कृत्याश्च’ इत्यविशेषेण विधौ स्मरणेऽपि यो भावाभिधायी प्रत्ययः स गन्तव्य-मित्यादाविव क्रियाप्रधानत्वात्क्रियायां पुरुषं नियोक्तं शक्नोति । अयं तु न प्राधान्येन भावाभिधायी । अपि तु कर्माभिधाय्येव । ननु कर्माभिधायितव्यप्रत्ययादपि धात्वर्थविषयो विधिरवगम्यते स्वाध्यायोऽ-ध्येतव्य इति । तद्वदत्रापि किं न स्यादिति चेत् । अत्र प्रष्टव्यम् । किं स्वतन्त्रफलाय कर्मगुणतया धात्वर्थो विधीयते । उत कर्मकारकगतफलाय । न तावदाद्यः । स्वतन्त्रफलाय द्रव्ये गुणभूतक्रिया-विधानस्यानुचितत्वात् । न द्वितीयः । कर्मकारकगतं फलं क्वचिदुत्पादः । यथा व्रीहीनवहन्तीत्यत्रावहन-नक्रियया वितुषव्रीहीणाम् उत्पादः । क्वचिद्विकारः । यथा तण्डुलान् पिनष्टीत्यत्र तण्डुलानां पेषणेन पिष्टीभावः । न चेदं प्रकारद्वयं प्रकृते सम्भवति । आत्मनो नित्यत्वेनानुत्पाद्यत्वादविकार्यत्वाच्च । क्वचित्क्रियया आप्तिः । यथा गान्दोग्धीत्यत्र गोर्दोहनक्रियया आप्तिः । न चेयं प्रकृते युक्ता । आत्मनो ज्ञानक्रियया नित्याप्तत्वात् । क्वचित्संस्कारः । यथा स्रुचः सम्मार्ष्टीत्यत्र सम्मार्जनक्रियया स्रुक्संस्कारः । न चायमपि प्रकार आत्मनि युक्तः । अन्यत्र तस्य विनियोगाभावात् । संस्कार्यस्यान्यत्र विनियोग-नियमात् । तस्मान्न केनापि प्रकारेण आत्मनः कर्मत्वमुपपद्यत इति तत्कर्मकविधेरनुपपत्तिरेव । स्वाध्यायोऽध्येतव्य इत्यत्र तूक्तप्रकारेष्वन्यतमः प्रकारः सम्भवतीति न तत्रानुपपत्तिः । अर्थज्ञानादि-रूपस्य फलस्य तत्र सम्भवात् । एतेनात्मानमुपासीतेति विधिरपि प्रत्याख्यातो वेदितव्यः । तत्राप्यात्मनः कर्मत्वस्योक्तविधयोपपादयितुमशक्यत्वात् ।

ननु यथा सक्तून् जुहोतीत्यत्र भस्मीभूतानां सक्तूनां क्रतौ विनियोगाभावात्संस्कारकर्मत्वं परित्यज्य सक्तूनिति प्राधान्यं विहाय सक्तुभिरिति गुणभावेन होमप्राधान्यमुपादाय स्वतन्त्रफलार्थता निरूपिता तथेहाप्यात्मानमिति श्रुतप्राधान्यं विहायात्मनोपासीतेति गुणत्वोपगमेन स्वतन्त्रफलयैवोपासनं प्राधान्येन विधीयतामिति चेन्न । तत्र यथा होमप्राधान्येऽपि सकर्मकत्वाद्धातोः सक्तव एव कर्मकारकतया भस्मी-क्रियन्ते एवमवगमस्यापि सकर्मकत्वात्कर्मापेक्षायामात्मनः शब्दतः करणत्वेऽप्यर्थतः कर्मत्वमेव वाच्यम् । तच्चोक्तरीत्या न सम्भवतीति न निष्कर्मकं ज्ञानं स्वतन्त्रफलाय विधातुं शक्यमित्यतो विध्यसम्भवादविवक्षितार्था वेदान्ता इति धर्मजिज्ञासानन्तरं स्नानं प्राप्तमित्यधिकां शङ्कां प्रदर्शयन्त इत्यर्थः । कर्माभिधायिनोऽपि प्रत्ययान्नियोगसम्प्रत्ययान्न नियोजकत्वं तस्य निराकर्तुं शक्यते । कटस्त्वया कर्तव्यो ग्रामस्त्वया गन्तव्य इतिवत् । यत्तूक्तं तथात्वे प्रयोजनाभावादानर्थक्यं नियोगस्येति । तदसत् । अविद्योच्छेदस्योपलभ्यमानत्वात् । अविद्या च संसारहेतुभूताऽतस्तदुच्छेदः पुरुषार्थः । स एव चात्मनः क्रियाजन्यः संस्कारः । न च संस्कृतस्यान्यत्र विनियोगापेक्षा । स्वयमेव पुरुषार्थत्वात् । अपुरुषार्थसंस्कारस्यैवान्यत्र विनियोगापेक्षत्वादतो विधिसम्भवाद्ब्रह्म जिज्ञासितव्यमेव न स्नातव्यमिति पृथगारभन्त इत्यर्थः ॥ आद्यं समाधानमिति ॥ विधिसम्भवात्कर्मतयोपासनाविध्यन्वितं ब्रह्म जिज्ञासितव्यमिति समाधानमित्यर्थः ॥ द्वितीयमिति ॥ वस्तुतत्वनिष्ठवेदभागं विचारयितुमिदमारभ्यत इति समाधानमित्यर्थः ।

श्रीनिवासतीर्थीया

॥ तत्र केचिदित्यादि ॥ सर्ववेदान्तानां विधिपरत्वेन प्रामाण्यमुक्तम् । तत्र वेदान्तेषु कुत्रचिद्वाक्ये विधिरेव न श्रूयते । ‘सदेव सोम्येदमग्र आसीत्’ इत्यादौ । यत्र श्रूयते ‘तद्विजिज्ञासस्व’ इत्यादौ तत्रापि विधेरनुपपत्तिः । तथाहि धात्वर्थभूता या क्रिया सा स्वतन्त्रफलाय कर्मणि विधीयते उत कर्मकरकगतफलाय वा । नाद्यः । स्वतन्त्रफलाय द्रव्ये गुणभूतक्रियाविधान-स्यानुचितत्वात् । द्वितीये कर्मकारकगतं फलं क्वचिदुत्पादो दृष्टः । यथा व्रीहीनवहन्तीत्यत्रावहनक्रियया वितुषव्रीहीणामुत्पादः । क्वचिद्विकारः । यथा तण्डुलान् पिनष्टीत्यत्र तण्डुलानां पेषणेन पिष्टीभावः । न चेदं प्रकारद्वयं ब्रह्मणि सम्भवति । तस्य नित्यत्वेनानुत्पाद्यत्वादविकार्यत्वाच्च । क्वचिच्च संस्कारः यथा स्रुचं सम्मार्ष्टीत्यत्र सम्मार्जनक्रियया स्रुक्संस्कारः । अयमपि प्रकारो नात्मनि युक्तः । संस्कृतस्यान्यत्र होमादौ विनियोगदर्शनात् । आत्मनश्चान्यत्र विनियोगाभावात् । अत आत्मकर्मकविधेरसम्भवाद् अविवक्षितार्था वेदान्ता इति धर्मजिज्ञासाऽनन्तरं स्नातकव्रतमेव कर्तव्यतया प्राप्तं न ब्रह्मजिज्ञा-सेत्यभ्यधिकाशङ्कां दर्शयन्तो मायावादिन इत्यर्थः ॥ पृथगारभन्त इति ॥ यदुक्तं प्रयोजनाभावा-द्ब्रह्मजिज्ञासाविधेरनुपपत्तिरिति । तदसत् । कर्मकारकगतसंस्काररूपफलाय विधीयत इत्यभ्युपगमात् । कर्मकारकभूतात्मगतः क्रियाजन्यः संस्कारस्तु अविद्योच्छेद एव । अविद्या हि संसारहेतुभूता । अतस्तदुच्छेदः पुरुषार्थो भवत्येव । अविद्याया ब्रह्माश्रितत्वेन तदुच्छेदस्यापि कर्मकारकभूतात्म-गतत्वात् । न च संस्कृतस्यान्यत्र विनियोगदर्शनादत्रच तदभावादित्युक्तमिति वाच्यम् । स्वयमेवा-पुरुषार्थरूपसंस्कारस्यैव अन्यत्र विनियोगापेक्षा न तु स्वयमेव पुरुषार्थरूपस्य । प्रकृते चाविद्योच्छेद-रूपस्य संस्कारस्य स्वयमेव पुरुषार्थरूपत्वान्नान्यत्र विनियोगापेक्षा । तथाच ब्रह्मजिज्ञासाविधि-सम्भवाद्धर्मजिज्ञासानन्तरं ब्रह्मनिज्ञासैव कर्तव्या । न स्नातकव्रतं कर्म कार्यमिति पृथगारभन्त इत्यर्थः। तथाच विधिसम्भवादुपासनादिविधौ कर्मतया कार्यशेषत्वेन ब्रह्म प्रतिपाद्यत इत्यर्थः ॥ कार्यनिष्ठ एवेति ॥ लिङ्लोट्तव्यप्रत्ययपञ्चमलकारप्रतिपाद्यं यत्कृतिसाध्यत्वे सति कृत्युद्देश्यरूपं कार्यं तत्प्रतिपादक एव वेदभाग इत्यर्थः ॥ वस्तुतत्वनिष्ठ इति ॥ कार्यानन्वितः कार्यातिरिक्तोऽर्थः सिद्धोऽर्थो वस्तुतत्व-पदेनोच्यते । तत्प्रतिपादक इत्यर्थः ॥ गतार्थताशङ्केति ॥ धर्ममीमांसाशास्त्रविचार्यवेदभागस्यापि मुख्यतो भगवत्प्रतिपादकत्वेन ब्रह्ममीमांसयैव विचार्यतया धर्ममीमांसया ब्रह्ममीमांसागतार्थत्वशङ्का नास्तीति भावः ॥ कार्यशेषत्वेनेति ॥ उपासनाविधौ कर्मकारकतया कार्यशेषत्वेनेनत्यर्थः ॥ आद्यमितीति ॥ ब्रह्मजिज्ञासां पृथगारभन्त इत्युक्तं समाधानं निरस्तमिति सम्बन्धः ॥ द्वितीयमिति ॥ अपरे त्वित्यादि-नोक्तमित्यर्थः । भगवत एव सर्ववेदार्थत्वोक्तया त्वदुक्तकार्यस्यैवाप्रामाणिकत्वेन तत्परत्वं वेदभागस्य नास्तीति भावः । तदुपपादनाय सर्ववेदार्थत्वोपपादनाय । पूर्ववाक्यम् ओतत्ववाचीत्यादि पूर्ववाक्यम् । अथवा स एव भर्गशब्दार्थ इत्यादि पूर्ववाक्यम् ।

वाक्यार्थरत्नमाला

केषाञ्चिदिति । औतिसिद्धान्त्येकदेशिनामित्यर्थः । अत्र पूर्ववादी सिद्धान्त्येकदेशीयान् दूषयितुमित्यादिविवरणोक्तेः । मूले केचिदित्युक्तानामभ्यधिकाशङ्कातत्समाधानयोर् अपरमत इत्यसङ्ग्रहेणाप्यप्रदर्शनादुक्तं सामान्यत इति । तदुक्तशङ्कादिप्रकारस्य बहुत्वाद्दूष्यांशस्य फलिता-श्रयणपुरस्कारेण दूषणकरणोपपत्तेर्न मूले तच्छङ्कादिप्रदर्शनम् । वेदान्तानां विधिनिष्ठत्वमङ्गीकृत्यैवारम्भ इति फलितस्य तु दूषणं मूले भविष्यतीति भावः । तस्येति । केचिदिति सामान्येनोक्तस्यायं वक्ष्यमाणो भाव इत्यर्थः । अत्र भाव इत्यनन्तरं चोदनालक्षणोऽर्थो धर्म इति ब्रुवता सूत्रकारेण विधिपराणामेव वेदानां प्रामाण्यमिति निरूपणादिति पूरणीयम् । पञ्चपादिकानुसारात् । एवं च सदेवेत्यादिशङ्कोपपत्तिः । इत्यादिष्वित्यनन्तरं चशब्दः पूरणीय इत्यादिषु चेति । तेनैकवाक्यता । उचितमिति । ततश्च न तेषां प्रामाण्यमिति शेषः । न चात्मा वा इति । सर्वत्र वेदान्तेषु विधिश्रवणाभावेऽपि आत्मा वाऽरे द्रष्टव्य इत्यादौ तावद् विधिश्रवणमस्ति । तदितरसत्यादिवाक्यानां तु विधिप्रत्ययरहितत्वे विप्रतिपत्तिविध्यपेक्षितार्थ प्रतिपादकत्वेन तदेकवाक्यतया विधिपरत्वस्यैव सत्त्वाद्युक्तं प्रामाण्यम् । यथा हि सोरोदीदित्यादिवाक्यानां विधिविधुराणामपि विध्येकवाक्यतया विधिपरत्वेन प्रामाण्यमित्याशयः । तेषामपीति । आत्मा वा इत्यादिवाक्यानामपीत्यर्थः । तव्यप्रत्ययान्तत्वेऽपीति । तव्यप्रत्ययान्तद्रष्टव्य इत्यादिपदोपेतत्वेऽपीत्यर्थः । विधिवाक्यत्वेति । तव्यप्रत्ययस्य विध्यर्थत्वे हि तेषां विधिवाक्यता स्यात् । भावकर्मार्थत्वे तु तस्य न तेषां विधिवाक्यत्वमित्यर्थः । विहितानामपीति । अनेन भावकर्मार्थत्ववद् विध्यर्थत्वस्यापि सत्त्वात्प्रकृते च विध्यर्थकत्वाङ्गीकारात्तादृशतव्यप्रत्ययोपेतात्मा वेत्यादिवाक्यानां युक्तं ज्ञानविधित्वमित्यर्थः । गन्तव्य-मित्यादि । गन्तव्यमित्यत्रत्यतव्यप्रत्ययस्य धात्वर्थक्रियारूपभावाभिधायित्वाद्भावस्यैव तत्र प्राधान्येन तस्मात्प्रत्ययाद्धात्वर्थविधिप्रत्ययेन तत्र धात्वर्थस्येति योज्यम् । कर्माभिधायीति । वक्ष्यमाणग्रामो गन्तव्य इत्यादिस्थल इत्यर्थः । इत्यादिवदिति । इत्यादिवाक्ये विद्यमानस्य तव्यप्रत्ययस्य ग्रामादिरूपकर्मकारक-गताप्तिरूपफलाय गमनादिक्रियाविधानपरत्ववदित्यर्थः । इत्यादावित्यादिपदे-नात्मानमुपासीतेत्यादेः सङ्ग्रहः । वक्ष्यति चात्मानमिति साध्यतयेत्यादि । आत्मरूपं यत्कर्मकारकमिति विग्रहः । क्रियेति । ज्ञानरूपक्रियेत्यर्थः । अस्त्वात्मगतफलाय क्रियाविधानपरत्वं को दोष इत्यत मूलं किमुत्पत्तिर्विकारो वा आप्तिर्वा संस्कारो वेति विकल्पान्मनसि कृत्वा क्रमेण दूषयति उत्पत्तिरूपस्येति । षष्ठ्यन्तद्वयस्यासम्भवा-दित्युत्तरेण सम्बन्धः । चतुर्थं निराकर्तुं परिशेषयति संस्कारेति । प्रकृते संस्कारोऽपि भवन् गुणाधानरूपो वा मलापकर्षणरूपो वेति विकल्पद्वयं मनसि कृत्वा क्रमेण निराह आत्मनश्चेति । मलापकर्षणेति । अज्ञानाधर्मादिरूपमलेत्यर्थः । विनियुक्तेति । व्रीहिभिर्यजेतेत्यादिना विनियुक्तं व्रीह्याज्यादि । तत्संस्कारो व्रीह्यादिकमुद्दिश्य प्रोक्षणावघातादिः । प्रोक्षणादिसंस्कृतानामेव व्रीहीणां पुरोडाशादिनिवर्तनद्वारा यागोप-योगात् । पत्न््नयवेक्षणसंस्कृतस्याज्यस्यैव प्रयाजादावुपयोगात् । आहवनीये जुहोतीति विनियुक्तस्याग्ने-राहवनीयत्वसिद्धये विहित आधानादिर्विनियोक्ष्यमाणसंस्कारः । संस्कृतस्यैव विनियोग इति यावदिति विवेकः । अतिशयस्यापीति । उत्पत्त्यादिसमुच्चयार्थोऽपिशब्दः । ब्रह्मणि ज्ञानविधिपरत्वं सक्तुन्यायेन सम्भविष्यतीति शङ्कते न च सक्तूनिति । क्रत्वङ्गत्वादित्यस्य क्रत्वङ्गत्वावगमादित्यर्थः । अर्थकर्मत्वेति । अङ्गानि द्विविधानि अर्थकर्माणि संस्कारकर्माणि च । तत्र यानि क्रतुकारकाण्यनाश्रित्य स्वातन्त्र्येणेति यावद् विहितानि तानि अर्थकर्माणि । यथा प्रयाजानुयाजादीनि । यानि तु व्रीह्यादिकारकगुणभूतानि तानि संस्कारकर्माणि । यथा प्रोक्षणादीनित्याशयः । सक्तुहोमस्येति । व्रीहीन् प्रोक्षति पत्न््नयवेक्षेतेत्यादौ प्रोक्षणावेक्षणादिकं प्रति व्रीह्यादीनां प्राधान्यदर्शनात्सक्तूनामपि द्वितीयाश्रुत्या प्राधान्यं होमस्य चाप्राधान्य-मिति लाभादिति भावः । अर्थकर्मत्वेति । अर्थकर्मरूपाङ्गत्वासम्भवेनेत्यर्थः । संस्कारकर्मत्वे संस्कार-रूपाङ्गत्व इत्यर्थः । होमेनेति । प्रोक्षणादिसंस्कृतानां व्रीह्यादीनां पुरोडाशनिर्वर्तनद्वारा यागोपयोगवद् आधानादिसंस्कृताग्नेर्होमोपयोगवच्च होमाख्यसंस्कारविशिष्टसक्तूनामुत्तरत्रोपयोगाभावेन क्रतुं प्रत्यनुप-कारितया क्रतौ विनियोगासम्भवादुभयविधसंस्कारकर्मत्वस्याप्यसम्भवादित्यर्थः । प्रकृतस्य सक्तुहोमस्य द्विविधसंस्कारकर्मत्वाभावे धारणाङ्गत्वस्यैवाभावः प्राप्त इत्याह अङ्गत्वायोग इति । अस्य संस्कारकर्मत्वं परित्यज्येत्युत्तरेण सम्बन्धः । ननु मास्त्वङ्ग-त्वम् । स्वतन्त्रविधित्वमेव किं न स्यादित्यतः किं स्वतन्त्रफलं श्रुतत्वात् कल्प्यते । उत विश्वजिन्न्यायेन कल्प्यते । नाद्य इत्याह स्वतन्त्रेति । द्वितीयं निराह दर्शेति । ततश्च स्वातन्त्र्यानुपपत्त्याङ्गत्वमेव वाच्यमिति भावः । ननु तर्ह्यस्य सक्तुहोमवाक्यस्यानर्थक्यमेवास्त्वित्यत आह अध्ययनेति । तत्परिगृहीतानां चानुष्ठानोपयोग्यर्थज्ञानपर्यन्ताध्ययनकर्मतायाः प्रथमाधिकरणे सिद्ध्या आनर्थक्यायोगात्कथञ्चिदर्थवत्त्वं वाच्यमित्याशयः । परित्यज्यार्थेति सम्बन्धः । अर्थकर्मतोपपादकप्रदर्शनं सक्तूनित्यादि । व्रीहीन् प्रोक्षतीत्यादिदृष्टान्तेन प्राप्तं कर्मणः प्राधान्यं होमक्रिया-याश्च द्रव्यगुणत्वेन प्रोक्षणादिवदप्राधान्यमित्यनाश्रित्य सक्तुभिरिति तृतीयया विपरिणामे सति व्रीहिभिर्यजेतेत्यादिवत् क्रियायाः प्राधान्यं सक्तुद्रव्यस्य च गुणभूतत्वमित्याश्रित्येत्यर्थः । ततश्च सक्तुहोमस्य क्रत्वङ्गत्वोपपत्तिरिति भावः । साध्यतयेति । उपास्तिजनितातिशयविशिष्टतयेत्यर्थः । प्राधान्यम् । द्वितीयाप्रतीतम् । द्वितीयाया आत्मनेति तृतीयया विपरिणामे आत्मन उपासनां प्रति गुणत्वप्राप्तेरुपासनायाः कर्मकारकगतातिशयार्थत्वा-भावान्मोक्षाख्यस्वतन्त्रफलायैव विधानमित्याह आत्मनेतीति । विधित्वं ज्ञानविधित्वम् । अस्येत्यस्य आत्मानम् आत्मा वेत्यादि वाक्यस्येत्यर्थः । सक्तुहोमविधितया आत्मानमित्यादिविधेर्वैषम्यान्न दृष्टान्त-दार्ष्टान्तिकभावो युक्त इत्याह तत्र यथेति । जुहोतेः सकर्मकक्रियावचनत्वात् कर्मणा विना क्रियाप्रतिपाद-नानुपपत्त्या शब्दतः करणभूता अपि सक्तवो अर्थतः कर्मकारकभूता इति वाच्यम् । कर्मभूतेषु सक्तुषु होमक्रियाजन्यस्य भस्मीभावरूपातिशयस्य सद्भावात् । तदेतदाह भस्मीक्रियन्त इति । एवमवगमस्यो-पासीतेत्यादिनोक्तस्य सकर्मकतया कर्मापेक्षायां शब्दतः कर्माभावादर्थतोऽपि कर्माभावे विधानानुपपत्तेर् अन्यस्य च कर्मणो निरूपयितुमशक्यतयात्मनेति शब्दतः करणभूतस्यात्मन एवार्थतः कर्मत्वे वक्तव्ये कर्मत्वस्य क्रियाजन्यातिशययोगित्वरूपतया आत्मनि चोक्तरीत्योत्पत्त्यादिरूपस्यातिशयस्यासम्भवेन स्वरूपत आप्तत्वेऽपि प्रतीतित आप्तिर्न सिद्धेत्यस्य च स्वप्रकाशचैतन्ये प्रतीतितोऽपि नित्यमाप्ते वक्तु-मशक्यत्वेनार्थकर्मत्वस्य सक्तुन्यायेनापि वक्तुमशक्यतया आत्मा वा इत्यादेर्ज्ञानविधित्वायोगेन तदेकवाक्य-तया सत्यं ज्ञानमित्यादीनां विधिपरत्वानुपपत्तेरविवक्षितार्था वेदान्ता इत्यतस्तद्विचारस्य अप्रसङ्गादध्ययना-नन्तरभाविधर्ममीमांसानन्तरमधीत्य स्नायादिति स्मृतिप्राप्तस्नानं कर्तव्यमिति प्राप्ते सतीदमारभ्यत इति पूर्वतन्त्रतोऽभ्यधिकाशङ्कायां तन्निवृत्त्यर्थमुत्तरमीमांसारम्भ इति प्रतिपादयितुम् अथातो ब्रह्मजिज्ञासेति सूत्रमारब्धमित्यर्थः । न स्नातव्यमिति । ब्रह्मजिज्ञासातः पूर्वं न स्नातव्यमपि तु तदनन्तरं स्नातव्यमित्यर्थः ।

यदुक्तं वेदान्तवाक्येषु विधिर्न श्रूयत इति । तन्न । द्रष्टव्य इत्यादौ तव्यप्रत्ययश्रवणेन तदेकवाक्यतया सत्यं ज्ञानमित्यादेरपि विधिपरत्वोपपत्तेः । यदपि गन्तव्यमित्यादि भावाभिधायिप्रत्ययस्थले धात्वर्थविधि-प्रतीत्युपपत्तावपि कर्माभिधायिप्रत्ययस्थले ग्रामो गन्तव्य इत्यादाविव कर्मकारकगतफलायाः क्रियाया विधानपरत्वेऽङ्गीकार्य इत्यादि । तद्दूषयति कटस्त्वयेत्यादिना । संप्रत्ययादित्यनन्तरं धात्वर्थनियोग-परत्वेनोपपन्न इति पूरणीयम् । कर्मकारकगतं फलं संस्कारः सोऽपि ह्यविद्यालक्षणमलापकर्षणरूपः । नच विनियुक्तविनियोक्ष्यमाणयोरेव संस्कारार्हत्वादात्मनश्चोभयरूपत्वाभावान्न सोऽपि संस्कारः सम्भवतीत्युक्त-मिति वाच्यम् । अपुरुषार्थसंस्काररूपप्रोक्षणादीनामुत्तरत्रोपयोगापेक्षायामपि स्वत एव पुरुषार्थरूपाऽ-विद्योच्छेेदलक्षणसंस्कारस्योत्तरत्रोपयोगापेक्षाभावोपपत्त्या द्रष्टव्यस्तदन्वेष्टव्यमित्यादेरेव विधित्वोपपत्ते-स्तदेकवाक्यतया युक्तं सर्ववेदान्तानां विधिपरत्वमित्यर्थः । कार्यनिष्ठ एवेति मूलोक्तं धर्मपरवेदैकदेशस्यैव पूर्वतन्त्रे विचारितत्वं युक्तयोपपादयति लोक इत्यादिना न सर्ववेदार्थो विचारयोग्य इतीत्यन्तेन । पुरुषार्थ-साधनतयेति । पुरुषैरर्थ्यमानस्य फलस्य साधनतयाऽवगम्यमानत्वादित्यर्थः । द्वितीयपुरुषार्थसाधन-तयेत्यनन्तरमवगमरहितत्वाच्चेति पूरणीयम् । तथैव पाठस्तु स्वरस एव । विचारयोग्य इतीत्यन्तमुप-लक्षणम् । भाष्यसूत्रकाराभिमत्या चेत्यपि ज्ञेयम् । तथाहि । अथात इत्याद्यसूत्रभाष्यकारेण धर्मे सामान्यतः प्रसिद्धिविशेषतो विप्रतिपत्तिं चोपन्यस्य चैत्यवन्दनादीनामेव धर्मत्वाद्बुद्धादिवाक्यान्येव विचार्याणीति पूर्वपक्षं कृत्वा सिद्धान्तसूत्रमर्थकथनपुरःसरमेवमवतारितम् । धर्माय वेदवाक्यानि विचारयिष्यन्वेदस्यार्थ-विवक्षां धर्ममात्रस्य विचारावसरं च प्रदर्शयितुमथातो धर्मजिज्ञासेति सूत्रयामास जैमिनिरिति । तेन पूर्वोत्तरभाष्यपर्यालोचनया धर्मपरवेदविचारस्यैव भाष्यकाराभिमतेरिति ज्ञायते । एतत्सूत्रस्य चायमर्थः । वेदमधीत्यानन्तरमधीतवेदस्य विवक्षितार्थस्य च विचारहेतुत्वाद्धर्मविचारः कर्तव्य इति । यद्यप्यथशब्देन कृत्स्नवेदाध्ययनस्य पूर्ववृत्तत्वमभिधायातःशब्देन च कृत्स्नवेदस्य विवक्षितार्थत्वहेतूकरणानुसारेण सर्ववेदार्थ विचारकर्तव्यताप्रतिज्ञैव प्राप्नोति । अन्यथा प्रतिज्ञाहेत्वोर्व्यधिकरणत्वापातात् । तथापि वेदशब्दं परित्यज्य धर्मशब्देन प्रतिजानतः सूत्रकारस्य वेदैकदेशे एव भारो विज्ञायते । प्रागुक्तयुक्तिसिद्धत्वात् । वेदार्थ-स्याग्निहोत्रादेर्विचारयोग्यत्वं तु धर्मत्वप्रयुक्तमेवाङ्गीकृतम् । व्यधिकरणत्वं तु विचार्यस्यैवाग्निहोत्रादेर्धर्मस्य दैवगत्या वेदार्थत्वस्यापि सत्त्वात् । तथा चाद्यसूत्रं धर्ममात्रविचारपरम् । तथा द्वितीयमपि चोदना-लक्षणोऽर्थो धर्म इति सूत्रं वेदैकदेशविचारमेव गमयति । अत्र यश्चोदनालक्षणः स धर्म इति वचनव्यक्तया धर्मलक्षणपरं सूत्रमर्थात्प्रमाणप्रतिज्ञासिद्धिरिति प्राभाकरमते यो धर्मः स चोदनालक्षण इत्यन्वये तु मुखतः प्रमाणप्रतिज्ञा अर्थाद्धर्मलक्षणसिद्धिरिति वार्तिककारीयमते च वेदप्रमाणक इत्यनुक्तवा चोदनालक्षणक इति वदता सूत्रकारेण वेदैकदेशविचार एवाभिप्रेत इत्यवगमादित्यपि द्रष्टव्यम् । अधिकं विवरणोपन्यासादौ ज्ञेयम् । अंशभेदेनेति । सर्ववेदार्थ इति चांशभेदेनेत्यर्थः । आकाङ्क्षानुसारेणेत्यपि ज्ञेयम् । स एव

भर्गेत्यस्य पश्चाद्योजनात् । प्राधान्यं भाष्यवाक्यान्न लभ्यत इत्यतस्तल्लाभं विवक्षाज्ञापककथनपूर्वकं विवक्षाश्रयणेन दर्शयति स एवेतीति ।