तत्र ताराथमूलत्वं..
प्रयोजनाभावान्नजिज्ञासाकर्तव्या
तत्र ताराथमूलत्वं..
सुधा
प्रयोजनं चेश्वरजिज्ञासाया अभ्युदयो वा स्यान् मोक्षो वा । नाद्यः । तस्य धर्मादिलघूपायसाध्यस्य शास्त्रान्तरप्रयोजनत्वात् । न द्वितीयः । तस्याप्यपाम सोममित्याद्यागमेन लघूपायान्तरसाध्यतावगमात् । न चैकस्यैव कर्मणोऽभ्युदयनिःश्रेयसहेतुत्वं विरुद्धम् । फलाभि-सन्ध्यादिभावाभावाभ्यां विशेषोपपत्तेः । जिज्ञासा च मोक्षसाधनं भवन्ती किं साक्षादुत ज्ञानद्वारेण । नाद्यः । दृष्टादृष्टत्यागकल्पनाप्रसङ्गात् । न द्वितीयः । कर्मणा ज्ञानमातनोतीत्यागमेन ज्ञानस्य लघूपायान्तरसाध्यताध्यवसायात् । ज्ञानस्यापि साक्षान्मोक्षहेतुत्वाभ्युपगमेऽदृष्टकल्पनैव । न चेश्वरप्रसादद्वारा । ज्ञानस्य प्रसादहेतुतायाः क्वाप्यदृष्टत्वात् । ‘तत्कर्म हरितोषं यदि’त्यादिना तत्प्रसादस्य कर्माद्यल्पोपायसाध्यताप्रतीतेश्च । किञ्चायमात्माऽविद्याकल्पितो बन्धस्तद्विद्ययैव निवृत्तिमर्हति । शुक्तिकाऽविद्याकल्पितं रजतमिव शुक्तिविद्यया । तत्कुतो बन्धनिवृत्तिलक्षणे मोक्षे परमेश्वरप्रसादस्योपयोगः । कुतस्तरां तज्ज्ञानस्य कुतस्तमां च तज्जिज्ञासायाः । अथ परमार्थ एवायं बन्धस्तर्हि न ज्ञानेन निवर्तेत । न च सत्यस्यानादेरात्मस्वरूपमात्रानुबन्धिनो बन्धस्यात्म-स्वरूपस्येव केनापि निवृत्तिर्युक्ता । अपि च मुक्तस्य शरीरेन्द्रियविषयादिसंसर्गे मुक्तत्वव्याघातः । दुःखादिप्रसङ्गश्च । कारणसामग्रीसद्भावात् । तथा चाभ्युदयतुल्यतयोक्तदोषः । शरीराद्यभावे च तत्साध्यसुखाभावेन कस्यापि तत्रार्थितानुपपत्तेरनधिकारिकं शास्त्रमापद्येत । को हि स्वस्थात्मा सहसा सुखतत्साधने हातुमुत्सहते । तदेवं विषयाद्यनुबन्धविधुरत्वान्न जिज्ञासा कर्तव्या । तद्विधयोऽपि न प्रमाणम् । शास्त्रं चेदमनारम्भणीयमिति प्राप्ते सूत्रयामास भगवानाचार्यः ॥ ॐ अथातो ब्रह्मजिज्ञासेति ॥
वाक्यार्थचन्द्रिका
एवं विषयतत्सम्बन्धोपपादकहेतुसमर्पको ब्रह्मातःशब्दनिवर्त्यं पूर्वपक्ष-मुपपाद्य प्रयोजनोपपादकहेतुसमर्पकातःशब्दनिवर्त्यं पूर्वपक्षमुपपादयति ॥ प्रयोजनं चेत्यादिना । अत्राभ्युदयशब्देन स्वर्गादिकमणिमाद्यैश्वर्यं च गृह्यते । धर्मादीत्यत्रादिशब्देन योगः शास्त्रान्तरं धर्ममीमांसा योगशास्त्रं चेति द्रष्टव्यम् । अत्र ‘जिज्ञासोत्थज्ञानजात्तत्प्रसादादेव मुच्यत’ इत्यतःशब्दार्थ-कथनपरानुव्याख्याने मुच्यत इत्युक्तेर्व्यावर्त्यत्वेनाभ्युदयपक्षमुद्भाव्य तद्दूषणं तस्मिन्नेवानुव्याख्यानेऽभिप्रेतं यज्जिज्ञासाया मोक्षं प्रत्यवधारणं तद्-व्यावर्त्यत्वेन मोक्षस्योपायान्तरसाध्यत्ववर्णनं तद्वाक्योक्तज्ञान-प्रसादघटितपरम्पराव्यावर्त्यतया जिज्ञासाज्ञानयोः साक्षान्मोक्षसाधनत्वे दृष्टादृष्टत्यागकल्पनाप्रसञ्जनं तद्वाक्याभिप्रेतेन ज्ञानप्रसादौ प्रति जिज्ञासाज्ञानयोः साधनत्वावधारणेन व्यावर्त्यतया ज्ञानप्रसाद-योर्लघूपायान्तरसाध्यत्वकथनं ज्ञानप्रसादान्तरालिकतया तद्वाक्याभिप्रेतभक्तयुक्तिव्यावर्त्यतया ज्ञानस्य प्रसादे हेतुतायाः क्वाप्यदृष्टत्वकथनं चेति ज्ञातव्यम् । नन्वभ्युदयरूपस्वर्गसाधनतया श्रुतसोमयाग-स्यापाम सोममित्यादिवाक्यबलेन मोक्षसाधनत्वाभ्युपगमे शरीरेन्द्रियविषयादिसंसर्गेण जायमानानाग-तदुःखाविरोध्यल्पास्थिरसुखरूपाभ्युदयस्य शरीरादिविनिर्मोकेनाभिव्यज्यमानानागतदुःखविरोधि-बहुस्थिरसुखरूपमोक्षेण विरोधादेकजातीयसाधनस्य विरुद्धोभयजनकत्वे एकामात्रोत्पत्तिदशायामपर-मात्रोत्पत्तेः सामग्रीसद्भावेनैकोत्पत्तिदशायामुभयोत्पत्तेर्नैकस्याप्युत्पत्तेर्वा आपातेन व्याघात इति शङ्कते ॥ न चेति ॥ सहकारिवशादेकस्यापि विरुद्धकार्यजनकत्वमुपपन्नमित्याह ॥ फलेति ॥ आदिपदेन हरौ समर्पितत्वादिपरिग्रहः । जिज्ञासायाः साक्षान्मोक्षसाधनत्वासम्भवमभिप्रेत्य ज्ञानप्रसादयोर्मध्ये निवेशे दूषणान्तरं ‘अतो यथार्थबन्धस्य’ इत्यनुव्याख्याव्याख्यातातःशब्दनिवर्त्यं शङ्कते ॥ किञ्चति ॥ बन्धनिवृत्तिलक्षणे मोक्ष इत्युक्तया स्वर्गादिवदनित्यत्वापातेन नाभ्युदयमात्रं मोक्षो येन प्रसादापेक्षा तत्र स्यादिति ध्वनितं भवति । तज्ज्ञानस्येत्युक्तया विवक्षितभगवज्ज्ञानस्यैवायमाक्षेपो न तु ज्ञानमात्रस्ये‘त्येवं दृष्टः स’ इत्यस्य व्यावर्त्यकथनम् । अथ परमार्थ एवायमिति ‘यथादृष्ट्ये’त्यस्य । ‘न च सत्यस्ये’त्यादि भगवानित्यस्येति द्रष्टव्यम् । एवं प्रयोजनपरातःशब्दनिवर्त्यं पूर्वपक्षमुत्थाप्याधिकारिपराथशब्दनिवर्त्यं शिरःकराद्यभावश्चेत्यनुव्याख्याव्याख्यानेनान्यार्थं प्रवृत्तेनाप्यर्थान्निराकृतं पूर्वपक्षमुत्थापयति ॥ अपि चेति ॥ अदोषः देहः स्वरूपात्मक एवेत्युक्तव्यावर्त्यकथनं मुक्तत्वव्याघातो दुःखादिप्रसङ्गश्चेति ॥ सामग्रीति ॥ समग्रस्य भावः सामग्री साकल्यमित्यर्थः । औचितीत्यादिवद्ब्राह्मणादित्वात् प्यञ् षित्वात् ङीष् ॥ उक्तदोष इति ॥ नाद्यस्तस्य धर्मादीत्युक्तो दोष इत्यर्थः । पूर्वपक्षमुपसंहरन्नेव तत्परमप्रमेयोक्तिपूर्वकं पूर्वपक्षनिवर्तकतया सूत्रमवतारयति ॥ तदेवमिति ॥
परिमल
एवं विषयाभावमुपपाद्य यच्च ‘ज्ञानी प्रियतमोऽतो म’ इत्यादिनाऽतःपदस्य मोक्षहेतु प्रसादजनकज्ञानजनकत्वादिति व्याख्यानान्तररं तद्-व्यावर्त्यप्रयोजनाभावे हेतुं व्यनक्ति ॥ प्रयोजनं चेत्यादिना ॥ यद्यपीदं मूलकृत्करिष्यमाणव्याख्यानक्रमानुरोधेन किञ्चेश्वर इत्यादितः पूर्वं वक्तव्यं तथाऽप्यतःपदस्य पश्चात्करिष्यमाणव्याख्यानत्रयव्यावर्त्यत्रयस्याप्योंब्रह्मपदव्यावर्त्यविषया भावोप-पादकत्वेन तत्सम्बद्धत्वात्तद्-व्याख्यानत्रयव्यावर्त्यं किञ्चेश्वर इत्यादिना पूर्वमुक्तवेदं पश्चादुक्तमित्यदोषः ॥ शास्त्रान्तरेति ॥ धर्मादिस्वरूपप्रतिपादककर्मतन्त्रप्रयोजनत्वादित्यर्थः ॥ अपामेति ॥ ‘अपाम सोमममृता अभूम’ इति सोमपानस्यामृतशब्दितमुक्तिहेतुत्वश्रवणादिति भावः ॥ फलाभिसन्धीति ॥ यथैकमेवान्नमनुपानभेदात् पथ्यमपथ्यं तथैवेत्यर्थः । ‘निष्कामं ज्ञानपूर्वं तु निवृत्तमिह चोच्यते । निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम्’ इत्युक्तेरिति भावः ॥ दृष्टेति ॥ लोके गान्धर्वादिशास्त्रविचारेण ज्ञानस्यैव तत्फलत्वेन दर्शनान्मोक्षस्य तत्त्वेनादर्शनाद्दृष्टत्यागादृष्टकल्पनाप्रसङ्गादित्यर्थः ॥ अदृष्ट-कल्पनैवेति ॥ लोके क्वाप्यदृष्टेर् इति भावः । राजदर्शनस्य तत्प्रसादद्वारा निगडमोक्षहेतुत्वं दृष्टमित्य-रुचेराह ॥ तत्कर्मेति ॥ ‘तत्कर्म हरितोषं यत्सा विद्या तन्मतिर्यये’त्येकादशस्कन्धोक्तेरित्यर्थः । यदप्यतः पदस्य बन्धसत्यत्वादिति व्याख्यानान्तरं ‘इत्युक्तेर्बन्धमिथ्यात्वमि’त्यादिनोच्यते तद्-व्यावर्त्यमाह ॥ किञ्चायमिति ॥ सिद्धान्ती शङ्कते ॥ अथ परमार्थ एवेति ॥ पूर्वपक्षी निराकरोति ॥ न ज्ञानेन निवर्तेतेति ॥ तद्-व्यनक्ति ॥ न चेति ॥ एतच्च ‘अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च स’ इत्येतद्-व्यावर्त्यमिति ज्ञेयम् । ‘आनन्ददश्च मुक्तानामि’त्येतद्-व्यावर्त्यमाह ॥ अपि चेति ॥ अत्रानुव्याख्याने सौत्राथपदव्याख्यानस्याकृतत्वात्तद्-व्यावर्त्यप्रपञ्चनमकृत्वा संक्षिप्योसंहरति ॥ कस्यापि तत्रार्थितेत्यादि ॥ ‘तद्विजिज्ञासस्वे’त्यादेस्तर्हि का गतिरित्यत आह ॥ तद्विधय इति ॥ विना विचारेण श्रुत्यर्थस्याद्याप्यनिर्णीतत्वेनेति पूर्ववाक्यानुरोधेन न प्रमाणमित्यस्य जिज्ञासाकर्तव्यत्वरूपेऽर्थे न प्रमाणमिति वा सर्वथा न प्रमाणमिति वा द्वेधाऽर्थो ध्येयः । तथैव चन्द्रिकोक्तेः । आचार्यः सूत्रकारः ।
श्रीनिवासतीर्थीया
अभ्युदयः स्वर्गादिः ॥ दृष्टादृष्टत्यागकल्पनेति । जिज्ञासायाः साक्षान्मोक्षसाधनत्वे दृष्टत्यागः । ‘आत्मा वा ओ द्रष्टव्य’ इति श्रुतौ दर्शनार्थश्रवणादिरूपजिज्ञासाया विधानात् प्रमाणदृष्टस्यापरोक्षज्ञानसाधनत्वस्य त्यागः । यद्वा इदमित्थमिति ज्ञानं जिज्ञासायाः प्रयोजनमित्युक्तरीत्या दृष्टस्याज्ञानसंशयविपर्ययनिवृत्तिद्वारा इदमिति निश्चयरूपज्ञानसाधनत्वस्य त्यागः। अदृष्टस्य मोक्षसाधनत्वस्य कल्पनं कार्यम् । जिज्ञासायाः साक्षान्मोक्षसाधनत्वस्य प्रमाणादृष्टत्वादिति भावः । शास्त्रस्यानधिकारिकत्वं व्युत्पादयितुमाह ॥ अपि चेति ॥ कारणसामग्री कारणसाकल्यम् । शरीरेन्द्रियविषयादिसंसर्गस्यैव दुःखादिकारणत्वादित्यर्थः ॥ अभ्युदयतुल्यतयेति ॥ स्वर्गवदनित्यत्व- प्राप्त्योक्तदोषो मुक्तत्वव्याघात इत्यर्थः ।
वाक्यार्थरत्नमाला
विषयतत्सम्बन्धेति । विषयोेपपादकावोङ्कारब्रह्मशब्दौ तत्सम्बन्धोपपादको यो हेतुस्तत्समर्पकोऽतःशब्द एतन्निवर्त्यम् । एकवचनं समुदायापेक्षम् । निवर्त्यान् पूर्वपक्षानित्यर्थः । तत्सम्बन्धः । शास्त्रस्य विषयसम्बन्धः । पूर्वपक्षमुपपादयतीति । प्रयोजनवैधुर्यहेतोरसिद्धिशङ्कापरिहारायेति शेषः । यद्यप्यथात इत्यधिकारिसमर्पकाथशब्दप्रयोगस्य प्राथम्यं तथापि प्रयोजनाभावोक्तयाऽधिकार्यलाभवद् अधिकार्यभावोक्तया प्रयोजनाभावसिद्धेरभाव इति लाघवं प्रागुक्तरीत्या मनसि कृत्वा प्रयोजनाक्षेप एव पूर्वदर्शित इति ज्ञेयम् । प्रयोजनं चेत्यारभ्य अल्पोपायसाध्यताप्रतीतेश्चेत्यन्तं मूलं हि जिज्ञासोत्थेत्युत्त-रानुव्याख्यानं व्यावर्त्यशङ्काप्रदर्शनम् । तत्र विवेको न प्रतीयते । किं व्यावर्त्यकाशङ्केति । ततस्तद्विवेचयति अत्र जिज्ञासेति । अभ्युदयपक्षस्यानङ्गीकारपराहतत्वं सूचयितुम् इहैव तद्दूषणं च कृतमित्याह तद्दूषणमिति । अन्यथोपायान्तरसाध्यत्ववर्णनमित्याद्युत्तरत्रेव शङ्कामात्रविषयानुवादायाभ्युदयपक्षोद्भावनमित्येवोच्येत । दूषणवर्णनमित्यादीनामिति ज्ञातव्यमित्युत्तरेण सम्बन्धः । अवधारणमिति । जिज्ञासयैव मोक्ष इत्यव-धारणमित्यर्थः । ज्ञानप्रसादघटितेति । जिज्ञासाया ज्ञानघटिता ज्ञानस्य च प्रसादघटिता परम्परेति योज्यम् । जिज्ञासाज्ञानयोरित्यत्रापि प्रत्येकं मोक्षसाधनत्व इत्यनेन सम्बन्धः । एवं ज्ञानप्रसादावित्यादावपि ज्ञानं प्रति जिज्ञासायाः प्रसादं प्रति ज्ञानस्येति योज्यम् । प्रसादान्तरालीकतयेति । यद्यपि प्रसादस्य लघूपायान्तरसाध्यत्वाशङ्कनात् पूर्वमेव मूले इदमस्ति तथाऽप्युक्तिलाघवाय जिज्ञासाज्ञानयोरित्यादिरूपेण सङ्गृह्य कथनात्तत्रैकमात्रदूषणस्य निवेशायोगादवसरतोऽन्ते तदभिधानमिति न दोष इति ज्ञेयम् । तस्याप्यपामेति । न चात्र श्रुतममृतत्वं बहुकालावस्थायित्वमात्रमिति न मोक्षहेतुत्वलाभ इति वाच्यम् । मुख्यार्थे बाधकाभावे गौणार्थस्वीकारानुपपत्तेरित्यत्र तात्पर्यात् । स्वर्गसाधनतया श्रुतेति । दर्शपूर्णमासाभ्याम् इष्ट्वा सोमेन यजेतेत्यत्र स्वर्गकामपदस्य विश्वजिन्न्यायेन वा ज्योतिष्टोमेन स्वर्गकाम इति फलसम्बन्ध-वाक्याद्वा सत्त्वात्तस्य तथा श्रवणमिति भावः । साधनताभ्युपगमे एकजातीयसाधनस्य विरुद्धोभयजनकत्व इत्युत्तरेण सम्बन्धः । मोक्षसाधनताभ्युपगमे विरुद्धोभयजनकत्वमायाति । तथा चैकमात्रेष्विति योजना । कुतः कार्यद्वयविरुद्धमित्यत उभयस्वरूपपरस्परव्यावृत्तधर्मवत्तया प्रतिपादितं शरीरेन्द्रियेत्यादिना । एकजातीयेति वदता एकस्यैवेति मूलमेकजातीयस्यैवेति व्याख्येयमिति सूचितम् । कर्मव्यक्तिभेदस्य परेणाप्यङ्गीकृतत्वादिति ज्ञेयम् । एकमात्रोत्पत्तिदशायामिति । यदा एकस्यैव कार्योत्पत्त्या भवितव्यं तदा तत्परित्यागेनापरस्य तद्विरुद्धस्यैवोत्पत्तेरापातेन व्याघात इति सम्बन्धः । तत्र हेतुः सामग्रीसद्भावेनेति । यदैकमात्रसामग्रीसद्भावेनैकमेव कार्यमिति वाच्यम् । तदा तत्सामग्रयेव तद्विरुद्धस्यापरस्य सामग्रीति तादृशापरमात्रसामग्रयाः सत्त्वादित्यर्थः । ततश्चाभिमतकार्याभावापत्तिरूपो मूलस्थविरोधपदेनोक्तो व्याघात इत्यर्थः । नन्वेकैवोभयोरपि सामग्री चेदेकोत्पत्तिदशायामपरोत्पत्तिप्रसङ्गेऽपि नाभिमतानुत्पत्तिप्रसङ्ग इत्यतस्तर्हि स एव दोषोऽस्त्वित्याह एकोत्पत्तीति । अत्राप्यापातेन व्याघात इति सम्बन्धः । एकदोक्त-विरुद्धकार्यद्वयसमावेशस्तु व्याहत इति स्पष्टमेव । अङ्गीकृत्य चेदमुक्तम् । वस्तुतस्तु विरोधान्नैकमपि कार्यं भवितुमर्हतीत्याह नैकस्यापीति । अत्रैकस्यापि नोत्पत्तिरिति सम्बन्धः । तथाच कारणत्वस्य स्वरूपेणैवाभावरूपो व्याघात इत्यर्थः । उपपन्नमिति । दावदग्धवेत्रबीजादौ कदलीकाण्डजनकत्वदर्शनेन विरोधाभावादिति भावः ।
मूले दृष्टादृष्टेति । जिज्ञासया ज्ञानोत्पत्तेर्दृष्टत्वान्मोक्षस्य चादृष्टत्वात् तत्त्यागादिकमित्यर्थः । ननु कर्मणा ज्ञानमिति वाक्यं कर्मणामन्तःकरणशुद्धिद्वारा ज्ञानाङ्गत्वपरतया सावकाशं निरवकाशप्रमाणसिद्धस्य ज्ञानजिज्ञासयोः साध्यसाधनभावस्य न बाधकमित्यतोऽङ्गीकृत्योक्तसाध्यसाधनभावं ज्ञानद्वारेणेत्युक्तया लब्धं ज्ञानस्य मोक्षहेतुत्वं किं साक्षाद्वा परम्परया वेति विकल्पद्वयं मनसि कृत्वाद्यं दूषयति ज्ञानस्येति । अदृष्टेति । ज्ञानेन मोक्षस्यादृष्टेरिति भावः । द्वितीयमाशङ्कते नचेति । अदृष्टत्वादिति । तथा-चादृष्टकल्पनैवेति भावः । राजदर्शनादेस्तत्प्रसादहेतुतादर्शनान्नादृष्टकल्पनेत्यरुचेराह तत्कर्मेति । इत्यादि-नेत्यादिपदेन कर्मव्यतिरिक्तस्य प्रसादहेतुताप्रतिपादकत्वेत्यादिवाक्यपरिग्रहः ।
अनेन कर्माद्यल्पेत्युत्तरानुगुण्यं भवति । तत्कर्मेत्यत्रोक्तः प्रसादोऽधमः स्वर्गादिसाधनम् । कर्मणा त्वधम इत्यादेः । मोक्षहेतुस्तु ज्ञानेनैव प्रसाद इति ज्ञानसार्थक्यमित्यपरितोषात् प्रवृत्तस्य किं चायमात्मेत्यादि ग्रन्थस्य विषयं दर्शयति जिज्ञासाया इति । अभिप्रेत्येत्यत्र अदृष्टत्वादियुक्तयाङ्गीकृत्य तयोः श्रूयमाण-साध्यसाधनभावोपपादनाय स्वीकृतो यो ज्ञानप्रसादयार्मध्ये निवेशस्तत्र दूषणान्तरमित्यर्थः । तत्राप्यदृष्ट-कल्पनाया उक्तत्वाद् दूषणान्तरमित्युक्तम् । इत्यनुव्याख्यायां व्याख्यातो योऽतःशब्दस्तन्निवर्त्यं शङ्कत इत्यर्थः । अयमात्माविद्येत्यादेरुक्तस्योपयोगमाह तत्रेति मूलम् । तथा सतीत्यर्थः । बन्धस्य तद्विद्ययैव निवृत्तेः सत्त्वादित्यर्थः । उपयोग इति । रजतादिनिवृत्तौ तदभावादिति भावः । प्रसादापेक्षा तत्रेति । मोक्षार्थप्रसादापेक्षेत्यर्थः । विवक्षितभगवदिति । विवक्षितं यद्भगवज्ज्ञानम् अपरोक्षज्ञानं तस्यैवायमाक्षेपो ज्ञानं व्यर्थमिति । नतु परोक्षज्ञानस्यापीत्यर्थः । ज्ञानमात्रस्येतीति । इत्यभिप्रायिकया तज्ज्ञानस्येत्युक्तयेति योज्यम् । इत्यस्येत्युत्तरद्वये व्यावर्त्यकथनमित्यनुवर्तते । न ज्ञानेनेति मूलम् । सत्यृङ्खलाबन्धस्य ज्ञानान्निवृत्त्यदर्शनादिति भावः । ननु विपक्षे बाधकाभावाद् दर्शनादर्शनमात्रस्य नियमासाधकत्वाद् यत् सत् तन्न निवर्तत इति व्याप्त्यसिद्धिरित्यत आह नच सत्यस्येति मूलम् । सत्यस्यापि बन्धस्य निवृत्तौ सत्य आत्मापि निवर्तेतेत्येव विपक्षे बाधकमिति तदभावोऽसिद्धः । न चैतत्तर्के व्याप्त्यभावात् तदयोगः । विशेषव्याप्त्यभावेऽपि अविशेषलक्षणसामान्यव्याप्तिसम्भवादित्याशयेनोक्तम् ।
अनादेरात्मेत्याद्यधिकारिपराथशब्देति पाठः । अनुव्याख्यानेनेति । चतुर्थद्वितीयगतेति पूरणीयम् । अन्यार्थं प्रवृत्तेनापीति । सांङ्ख्याद्युक्तस्य सुखाभावोपपादकतया शरीरराहित्यस्यासिद्धिप्रतिपादनाय प्रवृत्तेनेत्यर्थः । उत्थापयतीति । अधिकारिवैधुर्यरूपहेत्वसिद्धिपरिहारायेति हृदयम् । अदोष इत्यादि । अदोष इत्युक्तव्यावर्त्यकथनं दुःखादिप्रसङ्गश्चेत्यादिरूपेण यथायोग्यं सम्बन्धः । मूले मुक्तत्वेति । शरीरादि-संसर्गस्यैव संसारत्वादिति भावः । शरीरादिसंसर्गेऽपि कुतो दुःखादीत्यतो दुःखादिकं प्रति तत्संसर्गस्य पुष्कलकारणत्वात् तस्मिन् सति तत्प्रसङ्गो दुर्वार इत्याह कारणसामग्रीति मूलम् । तत्र सामग्रीपदस्य कारणसमुदायपरतया कारणपदानर्थक्यमित्यतो व्याचष्टे समग्रस्येति । तथाच समग्रस्य भावः सामग्रयम् । तद्वाची सामग्रीशब्दः साकल्यमात्रं प्रतिपादयन् कारणपदमपेक्षत एवेति न वैयर्थ्यमिति भावः । कथं भावार्थे प्रत्ययाश्रयणेन साधुत्वमित्यतः सदृष्टान्तं साधुतामाह औचितीत्यादिवदिति । उचितस्य भाव इति भावार्थे गुणवचनब्राह्मणादिभ्यः कर्मणि चेति सूत्रेण ब्राह्मणादेराकृतिगणतया ष्यञि सति षकारञकारयोर्लोपे यस्येति चेति उचितशब्दाकारलोपे आदिवृद्धौ औचित्यशब्दे निष्पन्ने तलन्तस्येव ष्यञन्तस्यापि शब्दस्वभावात् क्वचित् स्त्रीत्वे षिद्गौरादिभ्यश्चेति ङीषि यस्येति चेत्यनेन औचित्यशब्दाकारलोपे हल उत्तरस्य तद्धितयकारस्य लोपविधायकेन हलस्तद्धितस्येति सूत्रेण यकारलोपे औचितीति रूपम् । आदिपदेन याथा-कामीति रूपं ग्राह्यम् । तद्वत् समग्रशब्दादपि भावेऽर्थे ष्यञि यस्येति चेत्यनेनाकारलोपे उक्तरीत्या स्त्रीत्वे ङीषि हलस्तद्धितस्येति यकारलोपे सामग्रीति साकल्यवाचिरूपं साध्वित्यर्थः । नाद्यस्तस्य धर्मादीत्युक्त इति । अयमर्थः । अभ्युदयमोक्षस्वरूपपर्यालोचनायां मुक्तस्य सशरीरत्वादावङ्गीकृते भवदभिमतस्य मोक्षत्वं नायाति । किन्तु स्वर्गपदाभिहिताभ्युदयत्वमेव । तस्य च धर्ममीमांसादिलघूपायसाध्यत्वं प्रागुक्तमेवेति । जिज्ञासावैयर्थ्यलक्षणो दोष इति । नाद्यस् तस्य धर्मादीत्युक्तो दोष इत्यर्थ इति पाठः । धर्मादिलघूपाय-साध्यस्य शास्त्रान्तरप्रयोजनत्वादिति पूर्वमूले उक्तेः । धर्मादिलक्षणस्त्वनात्मेत्येतद् व्यावर्तयितुं नाद्यस् तस्येत्यधिकोदाहरणम् । धर्मादिलघूपायेत्यपि पाठोऽस्ति । तस्य धर्मादिलक्षणस्येत्यर्थ इति तु लेखक-कल्पितः । तदर्थितानुपपत्तेरिति मूलम् । मोक्षेच्छानुपपत्तेरित्यर्थः । अप्राकृतशरीरस्वरूपसुखादिसद्भावे च प्रमाणाभावादिति भावः । ननु तत्साध्यसुखाभावेऽपि प्रवृत्तिः किं न स्यादित्यत आह को हीति मूलम् । सिद्धपरित्यागेन प्रयोजनशून्ये प्रवर्तमानस्य मूर्खत्वापातादित्याशयः ।
तत्परमप्रमेयेति । शास्त्रं चेदमनारम्भणीयमिति परमप्रमेयोक्तिः । उपलक्षणं चैतत् । तावज्जिज्ञासा न कर्तव्येति प्रतिज्ञावाक्यगततावच्छब्दार्थतद्विध्यप्रामाण्यरूपावान्तरप्रमेयोक्तीत्यपि द्रष्टव्यम् । तद्विध्य-प्रामाण्यशास्त्रानारम्भणीयत्वप्राप्त्यपेक्षया तावच्छब्द इति पूर्वटीकानुसारात् । निवर्तकतयेति । अवतारिका-रूपपूर्वपक्षस्य सिद्धान्तसूत्रप्रसञ्जकत्वादिति भावः ।