०३ भामतीविवरणमतविमर्शः

तत्र ताराथमूलत्वं..

भामतीविवरणमतविमर्शः

तत्र ताराथमूलत्वं..

सुधा

अत्र यत्परेषां दूषणं ‘मङ्गलस्य वाक्यार्थे समन्वयाभावादि’ति । ‘तथा हि । पदार्थ एव हि वाक्यार्थे समन्वीयते । स च वाच्यो वा लक्ष्यो वा । न चेह मङ्गलमथशब्दस्य वाच्यं लक्ष्यं वा । किन्तु मृदङ्गध्वनिवदथशब्दस्य कार्यम् । न च कार्यज्ञाप्ययोर्वाक्यार्थे समन्वयः शाब्दे व्यवहारे दृष्टः’ । ‘अस्तु वा मङ्गलस्य पदार्थत्वम् । तथाऽपि न वाक्यार्थे समन्वयः । तथा हि । न तावन्मङ्गलं ब्रह्मजिज्ञासायाः कर्तृकर्मकरणभावेन वाक्यार्थेऽन्वेति । कर्त्राद्यान्यतमभावे प्रमाणाभावात् । कारकान्तराणां विद्यमानत्वाच्च । नापि सामानाधिकरण्येन अन्वयः । जिज्ञासा मङ्गलमिति प्रशंसापरतया अर्थवादत्वप्रसङ्गात्’ इति । तदेतेनापास्तं भवति । अस्माभिरप्यानन्तर्याभिधेयोऽथ-शब्दः श्रुत्या मङ्गलप्रयोजन इत्यङ्गीकारात् । नन्वत्र सूत्रादावोङ्कार एव न विद्यते । तत्कथमुच्यते ताराथमूलत्वमिति । यद्यपि शिष्टैरध्येतृभिर् उच्चार्यमाणोऽध्यक्षसिद्धस्तथाऽपि नायं सूत्रावयवः । लक्षणान्तराभावे सति संहिततया सम्पाठे अखिलैः पठ्यमानत्वात् । वेदाध्ययनोपक्रमे अध्येतृभि-रुच्चार्यमाणोङ्कारवत् । अन्यथाऽथशब्दवत्संहिततया निर्दिश्येत । न च दृष्टान्तः साध्यविकलः । अध्ययनोपक्रमविरतिवैचित्र्येण तत्तत्स्थानपरित्यागेनान्यान्यस्थानेऽखिलैः पठ्यमानस्य वेदवाक्या-नवयवतायाः सुप्रसिद्धत्वात् । अन्यथाऽध्ययनोपक्रमविरतिवैचित्र्येऽपि ॐ इति ब्रह्मेत्यादिवन्नियत-स्थानतया पाठप्रसङ्गात् । पक्षसपक्षयोरादावुच्चारणं तु प्राङ्मुखत्वादिवदध्ययननियमान्तर्गतमध्येतृ- भिरनुष्ठीयत इत्यस्तु । एवं चायमोङ्कारः सूत्रकृता मङ्गलार्थतया सूत्रादावुपनिबद्ध इत्यनुपपन्नमित्यत आह ॥ सर्वत्र इति । अखिलैः सूत्रपाठकैर् यत्पृथगसंहिततयोङ्क्रियते तत्सर्वत्र सूत्रेष्वनु-गतत्वेनाभिलषितेन निमित्तेनोपपद्यते ।

वाक्यार्थचन्द्रिका

मङ्गलस्येति परभाष्यस्य भामत्यमिप्रेतमर्थमाह ॥ पादर्थ एव हीति ॥ विवरणाभिप्रेतमर्थमाह ॥ अस्तु वेति ॥ किमथशब्दस्य वैयधिकरण्येनान्वय उत सामानाधिकरण्येनेति विकल्पं मनसि निधायाद्यं निराचष्टे ॥ न तावदिति ॥ देवदत्तादिपदार्थानां कर्त्रादिभावेनान्वय-वत्तस्यान्वयवत्त्वे प्रमाणाभावादित्यर्थः । आकाङ्क्षाभावाच्च न कर्त्रादिरूपेणान्वय इत्याह ॥ कारकान्तराणामिति ॥ कारकशब्देन मुमुक्षुतर्कादयः सङ्गृह्यन्ते । द्वितीयं दूषयति ॥ नापीति ॥ न चार्थवादत्वमास्थेयं सूत्रस्य वाक्यार्थत्वस्य हेतुत्वेऽन्योन्याश्रय इति भामतिमतदूषणं सधूमो गिरिः साग्निक इतिवदीक्षतेर्नाशब्दमित्यत्र त्वत्पक्षेऽशब्दमितिवच्च मङ्गलत्वात्कर्तव्येत्यन्वयोपपत्तेर्नान्वयदोष इति विवरणमतदूषणं चन्द्रिकोक्तरीत्या सम्भवति । तथाऽपि यथाश्रुतभाष्यस्योपरि प्रसक्तदूषणस्य तत्र तारेति विवरणेन स्वाभिप्रेतमङ्गलार्थत्वे दूषणप्रसक्तेरभावलाभेन तावतैव दूषणासङ्गतिसिद्धौ किं तत्साधुत्वासाधुत्वचिन्तयेति मूलमेव परभाष्यदूषणे व्यापारयतो भावोऽनुसन्धेयः । ननु तत्र ताराथ-मूलत्वमिति ताराथयोः प्रथमसूत्रावयवत्वे सर्वशास्त्राङ्गत्वे चोक्ते ओंकारस्यासंहिततया निर्देशगतिकथन-परोत्तरवाक्यसङ्गतिर्न प्रतीयत इत्यतस्तत्सङ्गमयितुमुक्तेऽनुपपत्तिं शङ्कते ॥ नन्विति ॥ सूत्रानुपात्तस्य न तदेकदेशत्वमित्यर्थः । नन्वोङ्कारः प्रथमसूत्रैकदेशः सूत्रोच्चारणदशायां शिष्टैरध्येतृभिरुच्चार्यमाणत्वादथ-शब्दवत् । न चासिद्धो हेतुः । प्रथमसूत्रोच्चारणदशायाम् आदौ शिष्टानामोङ्कारोच्चारणस्य सर्वाध्यक्ष-सिद्धत्वादित्यनुमानमोङ्कारस्य सूत्रैकदेशत्वे प्रमाणमाशङ्कते ॥ यद्यपीति ॥ अनुमानबोधेनैतन्निराकरोति ॥ तथाऽपीति । सामान्यव्याप्त्यभिप्राये यथास्थितसाध्यहेतौ वा संहितानिर्दिष्टस्यापि भ्रान्त्या केनचिदसंहिततया पठ्यमाने तद्वाक्यावयवे पदे व्यभिचारवारणायाविगानसूचकम् अखिलैरिति । पददशायां तथा पठ्यमाने तद्वारणाय सम्पाठ इति । अथ शब्दादौ तद्वारणायासंहिततयेति सुकृतदुष्कृते एवेत्यादौ तद्वारणाय लक्षणान्तराभावे सतीति । सामान्यव्याप्तेरेव सम्भवात्तत्र दृष्टान्तमाह ॥ वेदेति ॥ विपक्षे बाधकमाह ॥ अन्यथेति ॥ वेदाध्ययनोपक्रमेऽध्येतृभिरुच्चार्यमाणत्वादेवोङ्कारस्य तदवयवत्व-मपीति दृष्टान्तः साध्यविकल इत्याशङ्कते ॥ न चेति ॥ अध्ययनेत्यारभ्य पठ्यमानस्येत्यन्तं हेतुगर्भं विशेषणम् । तथा च पठ्यमानतया वाक्यानवयवतायाः सुप्रसिद्धत्वादित्यर्थः । पूर्ववद्विपक्षे हेतूच्छित्तिबाधकमाह ॥ अन्यथेति ॥ स्वानुमानस्य सत्प्रतिपक्षवत्तां निराकर्तुमवयवत्वसाधकहेतो-रन्यथासिद्धिमाह ॥ पक्षसपक्षयोरिति ॥ प्राङ्मुखत्वादेरनवयवत्वेन निश्चितस्याप्यध्ययननियमान्तर्गततया आवश्यकत्ववदस्य अप्यध्ययननियमान्तर्गततया अनुष्ठानोपपत्तेरन्यथासिद्धिरित्यर्थः । लौकिकवाक्य-प्रयोक्तृभिर्नैवोङ्क्रियत इत्यखिलैरित्यनुपपन्नमित्यत उक्तम् ॥ सूत्रेति ॥ अनुगतत्वेनेत्यसंहिततया पाठे निमित्तप्रदर्शनमित्यभिप्रेत्याह ॥ निमित्तेनेति ॥

परिमल

॥ अत्रेति ॥ अथपदस्य मङ्गलार्थत्व इत्यर्थः । परेषां मायिनाम् । परभाष्यवाक्यमाह ॥ मङ्गलस्येति ॥ कथं समन्वयाभाव इत्यतो वाचस्पत्युक्तव्याख्यानप्रकारमाह ॥ पदार्थ एवेति ॥ मृदङ्गध्वनिवदिति ॥ मृदङ्गध्वनेर् यथा मङ्गलं फलं तथाऽथशब्दस्य फलमित्यर्थः ॥ कार्यज्ञाप्ययोरिति ॥ कार्यं फलम् । ज्ञाप्यं द्योत्यमुच्यते । परभाष्यवाक्यस्य विवरणोक्तमर्थमाह ॥ अस्तु वेति ॥ कारकान्तराणामिति ॥ मुमुक्षुरूपकर्तृकारकस्य । ब्रह्मरूपकर्मकारकस्य । न्यायादिरूपकरणकारकस्य च भावादित्यर्थः । इति यत्परेषां दूषणमिति पूर्वेणान्वयः ॥ तदेतेनेति ॥ यद्वाचस्पतिना मङ्गलस्याथ-पदार्थत्वं नेत्युपेत्य वाक्यार्थेऽनन्वयव्युत्पादनम् । यच्च विवरणकृता पदार्थत्वमुपेत्य वैयधिकरण्येन वा सामानाधिकरण्येन वाऽनन्वयव्युत्पादनं कृतं तदुभयं ताराथमूलत्वमिति कथनेन निरस्तमित्यर्थः । तद्-व्यनक्ति ॥ अस्माभिरिति ॥ अथशब्देन मङ्गलस्याप्रतीतेरानन्तर्यमुखेनाधिकार्याद्यसूचनापातात् ‘तस्मान्माङ्गलिकावुभौ’ इति स्मृतेश्च मङ्गलप्रयोजकत्वमेव न वाचकत्वमिति भावः । श्रुत्या श्रवणेनेत्यर्थः । उत्तरार्धमवतारयति ॥ नन्वित्यादिना ॥ अध्येतृभिरिति ॥ ब्रह्मसूत्राणामिति योज्यम् ॥ सूत्रावयव इति ॥ सूत्रेऽन्वयप्रतियोगिसमर्पको नेति साध्यार्थः ॥ सम्पाठ इति ॥ संहिताध्ययन इत्यर्थः। अथादिपदे व्यभिचारवारणायोक्तमसंहिततयेति । असंश्लिष्टतयेत्यर्थः । ‘परः सन्निकर्षस्संहिते’ति पाणिन्युक्तेः । ‘हरीम् इहोपवक्ष्यतः’ । ‘इन्द्रवायू इमे सुताः’ । ‘उभे अहनी सुदिने विवस्वतः’ । ‘अः इति ब्रह्म’ । ‘तमेवैकं जानथ आत्मानमि’त्यादौ हरी इहेत्यादिशब्देषु सामान्यतः प्रवृत्तव्याप्ते-रव्यभिचाराय सत्यन्तम् । ‘ईदूदेद्द्विवचनं प्रगृह्यम्’ । विवृतावविसर्गः स्यात् । विश्लिष्टार्थे च विशिष्टमित्यादिलक्षणान्तराभावे सतीत्यर्थः । पदाध्ययनेऽसंहिततया पठ्यमानपदेष्वव्यभिचाराय सम्पाठ इति । य एवमुक्तहेतुयुक्तः स तदवयवो नेति सामान्यव्याप्तिमुपेत्याह ॥ वेदेति ॥ विपक्षे हेतूच्छित्ति-रूपबाधकतर्कमाह ॥ अन्यथेति ॥ अन्यान्यस्थान इति ॥ एतेन विमत ओंकारो न वेदवाक्यावयवो ऽन्यान्यस्थाने पठ्यमानत्वात् सामि्न स्तोभाक्षरवत् । व्यतिरेकेण वेदगतपदवदिति सूचितम् । विपक्षे बाधकमाह ॥ अन्यथेति ॥ ओमिति ब्रह्मेतीति । ‘ॐ इति ब्रह्म, ॐ इतीदसर्वं, ॐ इत्येतदनुकृति ह स्म वा’ इत्यादितैत्तिरीयोपनिषदीव ऋगादिशाखादावपि तत्र तत्रोङ्कारपाठप्रसङ्गादित्यर्थः । नन्वय-मोङ्कारः सूत्रवेदयोरवयवो भवितुमर्हति । तदादावध्येतृभिर्नियमेन पठ्यमानत्वादथादिपदवदित्य-वयवत्वेऽप्यस्ति मानमित्यतोऽस्य हेतोरन्यथोपपत्तिं सदृष्टान्तमाह ॥ पक्षसपक्षयोरिति ॥ ‘अथ स्वाध्यायविधिः प्राग्वोदग्वा ग्रामान्निष्क्रम्य आप आप्लुत्य शुचौ देशे यज्ञोपवीत्याचम्याक्लिन्नवाससा दर्भाणां महदुपस्तीर्य प्राक्कूलानां तेषु प्राङ्मुख उपविश्ये’त्याद्युक्तया ‘अधीयेते’त्याम्नाता आश्वलायनसूत्रे । ब्रह्मयज्ञेन यक्ष्यमाण इत्यादिना तैत्तिरीयादौ चोक्तदिशा पूर्वाभिमुखत्वशुचिदेशस्थत्वशुचित्वादिर्यथा अध्ययनाङ्गत्वेनोच्यते तथोङ्कारोऽप्यस्तु न तु सूत्रावयवत्वेनेत्यर्थः । मङ्गलार्थतया मङ्गलप्रयोजनके-नेत्यर्थः। अभिलषितेनेति शेषोक्तिः । अभिमतेन इत्यर्थः । अनुगतत्वेनेति हेतौ तृतीयेत्युपेत्य तदर्थमाह ॥ निमित्तेनेति ॥

यादुपत्यम्

॥ अत्रेति ॥ यथाश्रुतभाष्य इत्यर्थः ॥ वाच्यं लक्ष्यं वेति ॥ वाक्यार्थेऽसमन्वयादिति भावः ॥ न च कार्यज्ञाप्ययोरिति ॥ ज्ञाप्यमिहार्थाज् ज्ञाप्यमेव विवक्षितम् । एवं च यथाऽर्थज्ञाप्यस्य न वाक्यार्थे समन्वयः । तथा कार्यस्याऽपीति दृष्टान्तार्थं ज्ञाप्यग्रहणमिति द्रष्टव्यम् । ननु मङ्गलमथशब्दार्थो न भवतीत्यत्र वाक्यार्थे समन्वयाभावो हेतुतयोपात्तः । तत्र च पदार्थ एव हि वाक्यार्थे समन्वीयत इत्यादिना अथशब्दार्थत्वाभावस्यैव हेतुतयोक्तत्वादन्योन्याश्रय इत्यरुचेराह ॥ अस्तु वेति ॥ मङ्गलं जिज्ञासायां किं कर्त्रादिभावेन वैयधिकरण्येनान्वेत्युत जिज्ञासा मङ्गलमिति सामानाधिकरण्येनेति विकल्पं मनसि निधायाद्यं तावद्दूषयति ॥ न तावन्मङ्गलमिति ॥ कर्त्राद्यन्यतमेति ॥ मङ्गलस्येति शेषः ॥ कारकान्तराणामिति ॥ मङ्गलापेक्षयाऽन्येषामेव कर्तृकर्मकरणरूपाणां कारकान्तराणां जिज्ञासायां सत्वादित्यर्थः । अधिकारिजीवस्यैव कर्तृत्वात्साक्षाद्वेदानामुद्देश्यफलसम्बन्धितया च ब्रह्मणः कर्मत्वाद् युक्तीनामेव करणत्वादिति भावः ॥ अस्माभिरपीति ॥ तथा च कार्यस्य वाक्यार्थे समन्वयाभावोपपादनम् अस्माकमिष्टमेवेति भावः ॥ यद्यपि शिष्टैरध्येतृभिरिति ॥ अनेन ओंकारः सूत्रावयवः शिष्टैरध्येतृभिस् तदादावुच्चार्यमाणत्वादथशब्दवदिति स्थापनानुमानमाशङ्क्य तथाऽपीत्यादिना तस्य सत्प्रतिपक्षतोच्यत इति द्रष्टव्यम् । अध्यक्षसिद्ध इति हेतुसिध्द्यर्थमुक्तम् ॥ लक्षणान्तराभावे सतीति ॥ असंहिताप्रापक-सूत्रान्तराभावे सतीत्यर्थः । सुध्युपास्य इत्यादिवाक्यवयवे सुधीत्यादिपदेऽखिलैः पठ्यमाने व्यभिचार-वारणाय असंहिततयेत्युक्तम् । कृष्ण एहीति वाक्यावयवे कृष्णेति पदे व्यभिचारवारणाय लक्षणान्तरा-भावे सति इति । तत्र हि ‘प्लुत प्रगृह्याची’ति सूत्रमेवासंहिता प्रापकमस्तीति भावः । पदपाठ-कालेऽखिलैरसंहिततया पठ्यमानेषु पदेषु व्यभिचारवारणाय सम्पाठ इति । संहितापाठकाल इत्यर्थः । संहितापाठकालेऽपि प्रामादिकेषु असंहिततया पठ्यमानपदेषु व्यभिचारवारणायाखिलैरित्युक्तम् । स्थापनानुमानस्यान्यथासिद्धिम् अपि आह ॥ पक्षसपक्षयोरिति ॥

श्रीनिवासतीर्थीया

॥ मङ्गलस्येति ॥ अथशब्दस्य मङ्गलवाचकत्वे इति शेषः ॥ वाच्य इति ॥ गङ्गायां मत्स्य इत्यादावित्यर्थः ॥ लक्ष्यो वेति ॥ गङ्गायां घोष इत्यादावित्यर्थः ॥ कार्यज्ञाप्ययोरिति ॥ घटमानयेत्यादौ घटकार्यस्य जलाहरणादेर्दिवाऽभुञ्जानः पीन इत्यादावर्थात्ज्ञाप्यस्य रात्रिभोजनादे-र्वाक्यार्थे समन्वयो न दृष्ट इत्यर्थः ॥ कारकान्तराणामिति ॥ ब्रह्मजिज्ञासायामधिकारिणः कर्तृत्वाद्वे-दानां करणत्वाद्ब्रह्मणः कर्मत्वादित्यर्थः ॥ अर्थवादत्वेति ॥ विधिवाक्ये सति तद्बोध्यार्थे प्रशंसापरत्वे-नार्थवादानां सार्थक्यस्य ‘वायव्यं श्वेतमालभेत’ ‘वायुर्वै क्षेपिष्ठा देवता’ इत्यादौ दर्शनात्प्रकृते च जिज्ञासाकर्तव्येति विधेरभावेन केवलार्थवादस्यानुपयुक्तत्वेनादौ तत्कथनस्यासङ्गतत्वादिति भावः ॥ श्रुतेति ॥ श्रवणमात्र इत्यर्थः ॥ असंहिततयेति ॥ संहिता सन्निकर्षः, वर्णानामत्यन्तं सन्निधिः । यथोक्तम् । ‘परः सन्निकर्षः संहिता’ इति । तथा च ॐ अथात इति निर्देशः स्यादित्यर्थः ॥

वाक्यार्थरत्नमाला

विवरणस्य यथा प्रतीतभाष्यार्थेऽनुपपत्तिसापेक्षत्वात् तज्जिज्ञासायां परभाष्योक्तानुपपत्तिरेवात्र मूलमित्याह अत्र यत्परेषां दूषणमिति मूलम् । यद्यपि नेदं भाष्योपरि प्रवृत्तम् । तथापि मङ्गलानन्तरेत्यभिधानानुसारेण प्राप्तमङ्गलार्थत्वस्य स्वग्रन्थे परेणैव निराकरणात् । तन्निराकरणस्य च समानन्यायतया भाष्योपर्यपि प्रसङ्ग इत्याशयेनात्र यदित्युक्तम् । भाष्यापातप्रतिपन्नेऽर्थे इत्यर्थः । परशब्दः सङ्करपरः । न चेह मङ्गलमिति मूलम् । संसर्गरूपवाक्यार्थे कार्यज्ञाप्ययोर्न निरूपकतयाऽन्वयः । किन्तु ज्ञाप्ययोरेव तथाऽन्वय इत्यर्थः । विवरणाभिप्रेतमिति । परभाष्येति वर्तते । भाष्यविवरणाभिप्रेतार्थयोः सम्बन्धस्तु भाष्यव्याख्यानरूपमङ्गलस्य चार्थे समन्वयाभावादित्यादि पञ्चपादिकाद्वारको द्रष्टव्यः । देवदत्तादीति । देवदत्तश्चक्षुषा घटं पश्यतीत्यत्र दर्शनरूपक्रियायां देवदत्तचक्षुर्घटानां कर्तृकरणकर्म-त्वेनान्वयवदित्यर्थः । अन्यतमभाव इति मूलस्यान्यतमकारकत्वेत्यर्थः । आकाङ्क्षाभावाच्चेति । इदमत्राभिप्रेतम् । जिज्ञासायाः क्रियारूपत्वेन कर्त्रादिसापेक्षत्वात् कर्त्राद्यन्तरस्य चाभावात् । जिज्ञासायाः किं कर्त्रादीत्याकाङ्क्षानिवृत्यान्यथानुपपत्त्या मङ्गलस्य कर्त्राद्यन्यतमत्वसिद्धेः कथं कर्त्रादिभावे प्रमाणाभाव इत्यपि न वाच्यम् । उक्ताकाङ्क्षायाकर्त्राद्यन्तरैरेव निवृत्तत्वेन तदन्यथानुपपत्तेरेवाभावादिति । कारकान्तराणामितीति । प्रतीकोपादानपाठः । कारकशब्देनेति । कारकान्तरशब्दो हि अन्यत्कारकं कारकान्तरमिति मङ्गलान्यकारकमाह । तथा च कारकान्तराणामित्यस्य मङ्गलातिरिक्तकारणमिति पर्यवसानात् । तत्रत्यकारकपदेन मुमुक्षुतर्कादयो गृह्यन्ते इत्यर्थः । एतेन कारकपदेन मुमुक्षुतर्कादिग्रहणे कारकान्तराणामित्यस्य मुमुक्षुतर्काद्यन्तराणामित्यर्थापत्तिरिति निरस्तम् । आदिपदेन न्यायग्रथनात्मक-शास्त्रपरिग्रहः । तत्र मुमुक्षुकर्तृत्वेन तर्कशब्दोदितवेदार्थनिर्णायकन्यायस्तु तदनुसन्धानरूपजिज्ञासां प्रति कर्मत्वेन तदनुसन्धानकारणीभूतं न्यायग्रथनात्मकं शास्त्रं च कारणत्वेन सङ्गृह्यतेत्यर्थः । तत्त्वदीपने जीवः कर्त्रा चित्रैकाग्रयसहकृतं वेदान्तवाक्यं करणमित्यादीनि कारकान्तराणीत्युक्तम् । इष्टापत्तिमाशङ्क्य निराकरोति । न चेति । आस्थेय आस्थातुं युक्तमित्यर्थः । सूचकत्वादिति भावः । इति पाठः । सूचकत्वादित्यनन्तरं तदनुपपत्तेरिति पूरणीयम् । अन्योन्याश्रय इति । भाष्ये हि मङ्गलस्यापदार्थत्वे हेतुत्वेन वाक्यार्थे समन्वयाभावोऽभिहितः । भामत्यां तु अपदार्थत्वे हेतुत्वेनोपन्यस्तसमन्वयाभावे पदार्थ एव हीत्यादिनाऽपदार्थत्वं हेतुत्वेनोपन्यस्तम् । तथा चापदार्थत्वसिद्धौ वाक्यार्थे समन्वयाभावसिद्धिस् तत्सिद्धौ च तेनापदार्थत्वसिद्धिर् इत्यन्योन्याश्रय इत्यर्थः । अत्र किञ्चिदधिकं चन्द्रिकाटीकायां द्रष्टव्यम् ।

सधूम इति । सधूमत्वादित्यर्थः । तस्य च सर्वसम्मतत्वादित्याशयः । एवं सत्यपि सामानाधिकरण्ये एकस्यापरं प्रति हेतुतयाऽन्वयसद्भावे सर्वसंप्रतिपन्नं दृष्टान्तमभिधाय परमात्रसंप्रतिपन्नं दृष्टान्तमप्याह । त्वत्पक्ष इति । प्रधानं न जगत्कारणम् अशब्दं हि तत्सामानाधिकरण्येनान्वयमभ्युपेत्याशब्दत्वादिति हेतुतयान्वयस्य परेणाभ्युपगमादिति भावः । अन्वयोपपत्तेरिति । अथशब्दार्थमङ्गलस्य जिज्ञासा-कर्तव्यत्वेनान्वयोपपत्तेरित्यर्थः । तथा च वाक्यार्थे समन्वयाभावरूपस्यापदार्थत्वहेतोर्भाष्योक्तस्यासिद्धि-रित्युक्तं भवति । यथाश्रुतेति । अथशब्दो मङ्गलार्थ इति भाष्यस्येत्यर्थः । भाष्यस्योपरीति षष्ठी तु तदुपर्यपि बादरायण इत्यत्रोक्तटीकाप्रकारेणोपपाद्या । भाष्योपरीत्येव मूलकोशे, दूषणस्येत्यस्य विवरणेनाभाव-लाभेनेति सम्बन्धः । कथं लाभ इत्यत उक्तं स्वाभिप्रेतमङ्गलार्थत्वे दूषणप्रसक्तेरिति । मङ्गलप्रयोजन-कत्वरूपमङ्गलार्थत्वस्य भाष्याभिप्रेततया तत्रोक्तदूषणस्य प्रसक्तेरेवाभावसूचनादित्यर्थः । अत्र दूषणा-प्रसक्तेरिति नञ्युक्तः पाठः । विवरणेनेति । श्रुत्या मङ्गलप्रयोजकाविति विवरणेनेत्यर्थः । ताराथमूलत्व-मित्यन्तेन कृतत्वादित्याशयः । स्वाभिप्रेतमङ्गलार्थत्वे । भाष्योक्तमङ्गलार्थत्वे मङ्गलप्रयोजनकत्वरूपेण स्थिते सति तत्र दूषणेति योज्यम् । किं तत्साधुत्वेति । इतीत्यस्य भाव इत्यन्तेनान्वयः । एतेन चन्द्रिकाया-मुक्तव्याख्यानद्वयदूषणं सत्यप्यनुव्याख्यानोक्तपरिहारेऽभ्युच्चयेन कृतमिति सूचितम् । (ए)अनेनापास्त-मित्युक्तमेव विशदयति मूले अस्माभिरपीत्यादि मूलत्वमितीति । इति पूर्ववाक्येनेत्यर्थः । कथनपरेति । कथनस्यासङ्गतत्वात् तत्परं वाक्यमसङ्गतमित्यर्थः । तत्कथनव्यावर्त्त्यशङ्काया उत्थाने बीजाभावेन तदनुत्थानादिति भावः । तत्सङ्गमयितुमित्यत्र तत्पदेनोत्तरवाक्यं परामृश्यते । बुद्ध्या विवेकाश्रयणस्य बहुलमुपलम्भात् । अत्रादावित्यारभ्येतीत्यन्तस्य फलितार्थमाह सूत्रानुपात्तस्येति । सूत्रानुपात्तत्वादित्येवं हेतुगर्भमिदं विशेषणम् । शिष्टैरित्यत्र सूत्रोच्चारणदशायामिति पूरणेन हेतुप्रयोजकत्वमुपपादनीयमित्याशयेन स्वयं विशिष्टं हेतुमाह सूत्रोच्चारणेति । उच्चार्यमाणत्वोक्तयैव पूर्तौ अध्यक्षसिद्धत्वमधिकं किमर्थमुक्तमित्यतस् तत्प्रयोजनं शङ्कासमाधानाभ्यां दर्शयति न चासिद्धो हेतुरित्यादिना । सर्वाध्यक्षेत्यत्र यत्किञ्चिदध्यक्ष-सिद्धत्वस्य भ्रान्त्याऽप्युपपन्नत्वेनाप्रयोजकत्वमिति शङ्कावारणाय सर्वेति अविगानसूचनम् । न सूत्रावयव इत्यादेरुत्तरवाक्यस्योक्तानुमाने प्रतिपक्षकथनपरत्वप्रतीतिनिरासाय तत्तात्पर्यमाह अनुमानबाधेनेति । मूले न सूत्रावयव इत्यत्रायमित्येतत्समभिव्याहारेणैतत्सूत्रेति लाभान् नाथात इति सूत्रावयव इति फलति । तेन यत्किञ्चित्सूत्रानवयवत्वसिद्ध्या सिद्धसाधनतेति निरस्तम् । व्याप्तिं तु टीकाकृदेव निरूपयिष्यतीति ज्ञेयम् । पूर्वहेताविव विशेषव्याप्तिरत्र न विवक्षिता । किन्तु सामान्यव्याप्तिरेव । तद्व्याप्तौ च व्यभिचारपरिहाराय विशेषणानामुपादानं युक्तम् ।

अथवा दृष्टान्ताभावेन विशेषव्याप्त्यभावेऽपि रूपादिषु पञ्चसु मध्येत्यादावेवकारादिप्रयोजनतया यथाश्रुतसाध्यसाधनमात्राश्रयणेन व्यभिचारादिप्रतिपादनवत् प्रकृतेऽपि विशेषव्याप्त्यभावेऽपि यथाश्रुत-साध्यसाधनमात्राश्रयणेन व्यभिचारादिप्रतिपादनं युक्तमित्याशयेन द्वेधापि विशेषणकृत्यकथनोपपत्तिं

वदंस्तत्कृत्यमाह सामान्यव्याप्तीति । संहितानिर्दिष्टस्यापीति । अत्रापि सामान्यव्याप्तिपक्षे अग्निमीे इत्यादिवाक्यावयवाग्निमित्यादिपदमिति योज्यम् । यथास्थितसाध्यसाधनपक्षे तु वृद्धिरादैच् इत्यादिसूत्रावयवे वृद्धिरित्यादिपदमिति योज्यम् । एतत्सूत्रे फलिते त्वथशब्दादाविति वक्ष्यमाणत्वादथशब्दादिरुपपद इति योज्यम् । तद्वाक्येत्यस्य च तत्सूत्रेत्यप्यर्थः । सूत्रान्तराद्युपादायापि कृत्यं दर्शनीयमित्याशयेन पूर्वस्थलद्वये तद्वाक्यावयव इत्येवोक्तम् । अथशब्दादावित्येवंजातीयकं च नोक्तम् । एवमुत्तरत्राप्यथशब्दादावित्यादिपदेन अग्निं, वृद्धिर् इत्यादिपदानामपि ग्रहणम् । संहितानिर्दिष्टस्यापि भ्रान्त्येत्यस्यायमर्थः । निर्दिष्टस्यापिपदस्य विषयत्वं षष्ठ्यर्थः । असंहितत्वभ्रान्त्येति । साध्याभावप्रतिपादनाय तद्वाक्यावयव इत्युक्तम् । अखिलै-रित्यनेन कथं परिहार इत्यत उक्तम् । अविगानेति । अविरोधेत्यर्थः । भ्रान्तिस्थले च बाधकप्रत्यय-विरोधस्यैव सत्त्वेनाविरोधसहितहेतोरभाव इति भावः । तथा पठ्यमान इति । असंहिततया पठ्यमान इत्यर्थः । सम्पाठ इतीति । संहिततया पाठकालेत्यर्थः । सुकृतदुष्कृत एवेत्यादिपदेनानारब्धकार्ये एवेत्यादेरिव चक्षोः सूर्यो अजायत इत्याद्यवयवसूर्य इत्यादेर् न धातुलोप आर्धधातुक इत्यादिसूत्रावयवधातुलोप इत्यादेश्च ग्रहणम् । इदं च सामान्यव्याप्तिपक्ष एव कृत्यकथनम् । लक्षणान्तराभाव इति । असंहितताप्रापक-सूत्रान्तराभावे सति इत्यर्थः । सुकृतदुष्कृतेत्यत्रानारब्धकार्ये एवेत्यत्र च ईदूदेद् द्विवचनं प्रगृह्यमित्यनेन एदन्तस्य प्रगृह्यभावप्रतिपादनात्सन्ध्यभावो लाक्षणिकः । तथा चक्षोः सूर्योत्यादौ प्रकृत्यान्तःपादमव्यपर इति सूत्रेण पादमध्ये प्रकृतिभावविधानात्सन्ध्यभावो लाक्षणिकः । एवमन्यत्राप्याकरोक्तं द्रष्टव्यम् । सामान्यव्याप्तौ दृष्टान्ताभिधाने निमित्तं वदन्नत्तरवाक्यमवतारयति । सामान्यव्याप्तेरेवेति । सूत्रावयव-त्वाभाववति वेदवाक्यावयवपदे लक्षणान्तेत्युक्तहेत्वभावेन सति स पक्षे तत्राप्रवेशरूपासाधारण्या-पातात्तत्परिहाराय सूत्रपाठकाले प्रयुज्यमाने सतीति विशेषणस्यावश्यकत्वाद्विशिष्टसाध्यस्याप्यभावेन दृष्टान्तत्वायोग इति ज्ञेयम् । विपक्ष इति । लक्षणान्तरेत्येतद्धेतोरप्रयोजकत्वशङ्कानिरासायेति शेषः । साध्यवैकल्यशङ्काया निर्मूलत्वशङ्कावारणाय वेदाध्ययनोपक्रम इत्यादि मूलोक्तम् । मूलत्वेन व्यापार-यन्नवतारयति । वेदाध्ययनेति । पूर्ववदिति । पक्षीकृते ओङ्कारे सूत्रानवयवत्वसाधकलक्षणान्तरेत्व हेतोरप्रयोजकत्वशङ्कावारणाय तद्धेतूच्छित्तिरूपबाधकवद् दृष्टान्तीकृते ओङ्कारेऽपि सामान्यव्याप्त्याश्रयणेन प्राप्तस्य वेदवाक्यानवयवत्वरूपसाध्यस्य साधकतयोक्ताध्ययनोपक्रमेत्यादि पठ्यमानत्वादित्यन्तहेतोरप्य-प्रयोजकत्वमिति शङ्कावारणाय तद्धेतूच्छित्तिरूपबाधकमाहेत्यर्थः । स्वानुमानस्येति । सूत्रादावुच्चार्यमा-णोङ्कारपक्षकानुमानस्य वेदाध्ययनोपक्रमे उच्चार्यमाणोङ्कारपक्षकानुमानस्य चेत्येवंद्विधस्वानुमानस्येत्यर्थः ।

सत्प्रतिपक्षवत्तामिति । विमत ओङ्कारः सूत्रावयवस् तदादौ उच्चार्यमाणत्वादिति । विमत ओकारः वेदवाक्यावयवस् तदध्ययनस्यादौ उच्चार्यमाणत्वादिति च यथाक्रमं प्रतिपक्षौ ज्ञेयौ । अन्यथासिद्धमिति । अन्यथासिद्धिश्च व्याप्यत्वासिद्धिवदप्रयोजकत्वप्रभेदभूता । अन्यथा प्रकारान्तरेण सिद्धिरिति विग्रहः । अन्यथासिद्धिस्तु युक्तिपादे अन्यथासिद्धेः प्रकारान्तरेण दोषताया वक्ष्यमाणत्वादित्युक्ता व्यर्थविशेषण-त्वादिरूपा वैयर्थ्यमेकासिद्धौ चेत्यादिभक्तिपादीयानुव्याख्यानमूलोक्तभिन्नैव द्रष्टव्या । इयप्यसिद्धिप्रभेद-भूतैव । प्रकारान्तरेण सम्भवरूपाद्यन्यथासिद्धिस्तु सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतकाला-हेत्वाभासा इति । प्रथमाध्यायसूत्रसम्बन्धिवार्तिकवाचस्पत्यादौ सविस्तरमन्यथासिद्धिप्रभेदविचारानु-सारेणान्यतररूपविकललिङ्गनिर्देशो हेत्वाभास इति । न ह्यप्रयोजको हेत्वाभासेऽन्तर्भवतीत्याद्या-शङ्क्यात्रोच्यते । अप्रयोजकस्तावद् असिद्धभेद एव । व्याप्ततया हि पक्षप्रतीतिः सिद्धिरित्युच्यते । तदभावोऽसिद्धिः । सा च व्याप्तिपक्षधर्मरूपाणाम् अन्यतमाप्रतीत्यापि भवंति अन्यथासिद्धिराश्रया-सिद्धिस्वरूपासिद्धिरित्याख्यायते । अन्यथासिद्धोऽप्रयोजकश्चेति पर्यायाविति पञ्चमाध्यायनिबन्ध्योक्त्यनु-सारेण यस्यानुकूलस्तर्कोऽस्तीत्येतत्तार्किकरक्षावरदराजीयाद्युक्तरीत्या चाप्रयोजकत्वपर्यवसन्ना ज्ञातव्या । ‘वैषम्यं निर्घृणत्वं च ते न स्यातां परस्य च’ इति ज्ञानपादीयानुव्याख्यानमूलेऽन्यथासिद्धिशङ्कानिरासार्थं विपक्षे बाधकमाहेति, तट्टीकायां चाप्रयोजकशङ्केति चोक्तेश्च । ‘एवमतोनुमा । कथं धर्म । कृच्छ्रेण साधनादेव । न मुक्तवत् । द्रव्यमेव ततोऽनन्त’ इत्याद्यनुव्याख्यानमूलटीकादावपि निःस्वेदत्वादि-कमौषधादिनामपि सम्भवदन्यथासिद्धं चेत्यादेरुक्तेश्च । अधिकमेवं चाप्रयोजकोऽन्यथासिद्धो व्याप्यत्वा-सिद्धो वा वाक्यत्वादिहेतुरितीति तत्त्वनिर्णयटीकास्थवाक्ययोजनावसरेऽस्माभिरुपपादितमस्ति । तत एव प्रतिपत्तव्यम् । एवमुत्तरत्राप्यन्यथासिद्धेः । प्रसङ्गो यत्र यत्र मूले वा टीकायां वास्ति तत्र तस्यादूषणत्व-मुपपादनीयम् । पूर्वमपि तत्र तत्र किञ्चिदुपपादितमस्ति । यत्तु साङ्ख्याधिकरणमूलेऽन्यथासिद्धत्वाद-प्रयोजकत्वाच्चेति पृथग्वचनं तदनुमानदोषभूतान्यथासिद्धिर्व्याप्यत्वासिद्धिरूपा । प्रमाणमात्रदोषभूता च साधारणैवेति विशेषोऽप्यस्तीति सूचनायेति न दोष इति ज्ञेयम् । प्राङ्मुखत्वादेर् इत्यादिपदेन समित्पाणित्वादि ग्रहणम् । अन्यथासिद्धिरित्यर्थ इति । ततश्चावयवत्वसाधकानुमानस्यान्यथासिद्धत्वा-दनवयवत्वानुमानेनासमबलतया न तत्प्रतिपक्षरूपत्वमिति भावः । तदनेनेत्यनेनैतदनुव्याख्यानस्यान्यथा-सिद्धिकथनपरतया योजनाया वक्ष्यमाणत्वादेतदनुव्याख्यानम् असंहिततया पठ्यमानत्वहेतोरन्यथासिद्धि-कथनपरं यथा भवेत्तथोद्देश्यविधेयभावप्रदर्शनेन योजयति पृथगित्यादि मूले ।