तत्र ताराथमूलत्वं..
मङ्गलवादः
**तत्र ताराथमूलत्वं..
सुधा
तथाऽपि नेदं शास्त्रं व्याकर्तव्यं मङ्गलाचरणरहितत्वात् । मङ्गलाचरणपुरःसराणि खलु कर्माणि निरन्तरायं परिसमाप्यन्ते प्रचीयन्ते च । न चाकृतमङ्गलाचरणानामपि कार्यपरिसमाप्त्यादि-दर्शनात्कृतमङ्गलाचरणनामपि तदभावोपलम्भान्न तद्धेतुत्वमस्येति साम्प्रतम् । तथा सति कारीर्यादे-रपि वृष्ट्यादिहेतुत्वाभावापत्तेः । स्यादेदतेवम् । यदि कारीर्यादेर्वृष्ट्यादिहेतुत्वं निष्प्रमाणकं स्यान्न चैवम् । श्रुतिनिश्चिते तु साध्यसाधनभावे तदभावेऽपि भावोऽनेककारणकत्वस्य कल्पको भवति । दर्शपूर्णमासाभ्यामिव त्रैवर्णिकपरिचर्यादिनाऽपि स्वर्गप्राप्तेः । भावेऽप्यभावस्तु कर्तृकरणादि-वैगुण्यनिमित्तो भवति । न हि सामग्रीवैकल्येन साध्यं व्यभिचरन् हेतुरहेतुः स्यात् । कर्त्रादिसाद्गुण्ये वा प्रबलप्रतिबन्धकसद्भावः कल्प्यते । न हि प्रतिबद्धं कार्यम् अजनयत् कारणमकारणं भवति । वह्नेरपि स्फोटं प्रत्यकारणत्वप्रसङ्गात् । न चैवं सामग्रीवैगुण्यशङ्कया प्रतिबन्धशङ्कया वाऽस्या-ननुष्ठानम् । औत्सर्गिकी खलु प्राणभृतां प्रवृत्तिर्निवृत्तिस्त्वपवादात् । अन्यथैवंविधशङ्कायाः सर्वत्र सौलभ्येन सकलप्रवृत्तिविलयापातादिति । सममेतत्सकलं प्रकृतेऽपि ।
वाक्यार्थचन्द्रिका
‘तत्र ताराथमूलत्वमि’त्यनुव्याख्याने ताराथयोर्माङ्गलिकत्वेनैतत्सूत्र-निवेशितयोः सर्वशास्त्राङ्गतायाः कथयिष्यमाणत्वान्मङ्गलस्यैवाकर्तव्यत्वेऽनिवेशनीयत्वे वा माङ्गलिकत्वेन निवेशस्य कथयितुम् अशक्यतया तयोर्माङ्गलिकत्वेन निवेशं वक्तुं मङ्गलस्य कर्तव्यत्वं निवेशनीयत्वं च शङ्कामुखेनोपपादयति ॥ तथाऽपीति ॥ मङ्गलाचरणरहितस्याप्यस्तु व्याकर्तव्यत्वमित्यप्रयोजकत्वशङ्कायां मङ्गलाचरणाभावेऽन्तरायप्रसङ्गेन तत्साध्यनिरन्तरायसमाप्तिप्रचयाभावेनासमाप्तस्य स्वरूपाभावेन वीर्यवत्त्वायुष्मत्पुरुषकत्वप्रचयादिहीनस्य च शिष्यानुपादेयत्वेनाकर्तव्यत्वात् । व्याकर्तव्यताऽङ्गीकारे समाप्तिप्रचयौ स्यातां तौ च कारणाभावादनुपपन्नाविति विपक्षबाधकं सूचयन्मङ्गलसमाप्त्यादेः कार्यकारणभावं प्रसिध्द्या दर्शयति ॥ मङ्गलेति ॥ उपलक्षणं चैतन् मङ्गलाभावे विघ्नोपसंसृष्टतया वाक्यार्थेऽप्रतिपत्त्यन्यथाप्रतिपत्त्यापत्त्या शिष्टाचारपरिपालनहीनतयाऽनाप्तप्रणीतत्वप्रसङ्गाच्चाव्याकर्तव्य-त्वेन हेतोः प्रतिबन्धसिद्धिरिति द्रष्टव्यम् । अन्वयव्यतिरेकाभ्यां कार्यकारणभावग्रहोऽनयोरिति भ्रान्त्या तत्र व्यभिचारं शङ्कते ॥ न चेति ॥ साम्प्रतं युक्तम् । प्रतिबन्दीमुखेन समाधातुं गूढाभिसन्धिरुत्तरमाह ॥ तथा सतीति ॥ श्रुतिसिद्धे कार्यकारणभावे व्यभिचारशङ्का नोन्मिषतीत्येतत्सहेतुकमुपपादयितुं प्रतिबन्दीमोचनव्याजेन शङ्कामुत्थापयति ॥ स्यादेतदेवमिति ॥ निष्प्रमाणकं स्यादिति ॥ श्रुतिं विहायान्वयव्यतिरेकमात्रकल्प्यं स्यादित्यर्थः । श्रुतिसिद्धत्वेऽपि कार्यकारणभावे कुतो न व्यभिचार-शङ्केत्यतोऽन्यथासिद्धत्वात्तत्र व्यभिचारस्यान्यथासिद्धान्वयव्यतिरेकयोर्हेतुहेतुमद्भावप्रयोजकत्वाभावस्ये-वान्यथासिद्धव्यभिचारस्य तद्बाधकाभावादुत्पन्नाऽपि साऽप्रयोजिकेत्याह ॥ श्रुतीत्यादिना ॥ ननु तर्हि यत्प्रयुक्ता व्यभिचारस्यान्यथासिद्धिस्तच्छङ्काप्रतिबद्धः श्रुतिनिश्चितोऽपि हेतुहेतुमद्भावः फलार्थिनो हेतौ न प्रवृत्तिप्रयोजक इत्याशङ्कते ॥ न चैवमिति ॥ तर्हि मङ्गलेऽप्ययं प्रवृत्तिप्रयोजको हेतुहेतुमद्भाव-निश्चयादिप्रकारः समः । इयांस्तु विशेषः । कारीर्यादौ प्रत्यक्षश्रुतिर्मङ्गले त्वनुमितेति स्वाभिप्राय-माविष्कुर्वन् प्रतिबन्दीमुपपादयति ॥ सममिति ॥
परिमल
तत्रेत्यादिमूलमवतारयति ॥ तथाऽपीत्यादिना ॥ प्रामाण्ये सत्यपीत्यर्थः ॥ मङ्गलाचरणेति ॥ मङ्गलाचारपूर्वमकृतत्वादित्यर्थः । हेतोरप्रयोजकत्वमाशङ्क्य समाप्तिप्रचयभङ्गो विपक्षे बाधक इति भावेन तयोर्मङ्गलहेतुकत्वमाह ॥ मङ्गलाचरणपुरस्सराणीति ॥ निरन्तरायं निर्विघ्नं यथा भवति तथेत्यर्थः । प्रचीयन्तेऽविच्छिन्नपारम्पर्यरूपसम्प्रदायवन्ति भवन्तीत्यर्थः । मङ्गलस्य हेतुत्वा-सिद्धिमाशङ्क्य निराह ॥ न चेति ॥ अकृतमङ्गलाचरणानां कृतमङ्गलाचरणानां चेति च बहुव्रीहिः । पुरुषाणामित्यर्थः ॥ कार्येति । भोजनपचनादिकार्यपरिसमाप्तिप्रचयदर्शनादित्यर्थः । परमुखेन समाधिं वाचयितुं प्रतिबन्दीमाह ॥ तथा सतीति ॥ व्यतिरेकादिव्यभिचारेणाहेतुत्वे सतीत्यर्थः । कारीरी नाम ‘शुष्यत्सस्यसंजीवनवृद्धिकामः कारीर्या यजेत’ इत्युक्तेष्टिविशेषः । आदिपदेन च पुत्रेष्ट्यादिः । तत्र अपि उक्तव्यभिचारद्वयदर्शनादिति भावः । तत्र परेणैव समाधिं वाचयित्वा समं मङ्गलाचरणेऽ-पीत्याह ॥ स्यादेतदित्यादिना ॥ एवं व्यभिचारादिना कारीर्यादेरहेतुत्वं स्यात् । यदि हेतुत्वं निष्प्रमाणकं स्याद् इति योजना । श्रुत्युक्तसाधनाभावेऽपि साध्यसत्त्वमनेककारणकत्वकल्पकमित्येतद्दृष्टान्तेन व्यनक्ति ॥ दर्शेति । दर्शो नामामावास्यायां क्रियमाणमाग्नेययागदधियागपयोयागरूपेष्टित्रय-रूपकर्मविशेषः । पूर्णमासस्तु पौर्णमायां क्रियमाणमाग्नेयोपांश्वग्नीषोमीयाख्येष्टित्रयाख्यं कर्म । ताभ्यां दर्शत्रिकपूर्णमासत्रिकाभ्यां यथा ‘दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ इति श्रुतिबलात्स्वर्गप्राप्तिर् यथा ‘परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् । स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः’ इत्यष्टादशे गीतायामुक्तदिशा त्रैवर्णिकपरिचर्यातीर्थस्नानदानादिनाऽपि त्रैवर्णिकेतरस्य स्वर्गप्राप्तिर्यथा तथैव कारणान्तरेणाऽपि वृष्ट्यादिसम्भवादिति भावः । अन्वयव्यभिचारं निराह ॥ भावेऽपीति ॥ साधनस्य भावेऽपि साध्यस्य अभाव इत्यर्थः ॥ अस्येति ॥ कारीर्यादिश्रौतसाधनस्येत्यर्थः । औत्सर्गिकी स्वाभाविकी ।
यादुपत्यं
ननु मङ्गलाचरणस्य शास्त्रपरिसमाप्तिहेतुत्वेऽपि न तद्-व्याख्यानकरणेऽपि हेतुता येन तदभावेन तदभावसाधनं सङ्गतं स्याद् इत्यप्रयोजकताऽत्रेत्याह ॥ मङ्गलाचरणपुरस्सराणीति ॥ व्यतिरेकस्याप्युपलक्षणमेतत् । तथा चानेनान्वयव्यतिरेकौ प्रदर्शिताविति ज्ञातव्यम् । अयमभिसन्धिः । शास्त्रे ह्यनुष्ठितं मङ्गलाचरणं शास्त्रसमाप्तिमिव प्रचयरूपं तद्-व्याख्यानमपि सम्पादयति । अन्यथा मङ्गलाचरणरहितशास्त्रव्याख्याने प्रवर्तमानस्य विघ्नोपसंसृष्टतया शास्त्रार्थाप्रतिपत्तिविप्रतिपत्त्यादिप्राप्त्या शिष्टाचारपरिपालनहीनतयाऽनाप्तप्रणीतत्वशङ्कया च व्याख्यानस्य कर्तुमशक्यत्वात् । अत एवाहुः । ‘मङ्गलाचरणपुरःसराणि शास्त्राणि वीर्यवन्ति भवन्ति’ इति । तथा च व्याख्येये मङ्गलाचरणस्य तत्प्रचयरूपव्याख्यानं प्रत्यपि हेतुतया कारणाभावे च कार्यस्य शङ्कितुमशक्यत्वान्नाप्रयोजकतेति । अत्र समाप्यन्त इत्येतत्प्रसङ्गदृष्टान्ततया मङ्गलस्य समाप्तिं प्रत्यपि हेतुतामुपपादयितुमिति ज्ञातव्यम् । प्रचयशब्दस्य प्रसिद्धिमात्रपरत्वेऽपि शास्त्रप्रचयो व्याख्यानरूप एवेति न कोऽपि दोष इति ध्येयम् । केचित्तु सूत्रकृतो विघ्नाद्यसम्भवेऽपि शिष्टाचारपरिपालनार्थं शिष्यशिक्षार्थं वा मङ्गलाचरणं कर्तव्यम् । अन्यथा मोक्षफलकमहाशास्त्रे शिष्टाभारमुल्लङ्घ्य भगवान्प्रवृत्त इत्यन्येऽप्येवमेव प्रवर्तेरन् । ततश्च विघ्नादिमत्त्वं च प्रसज्येत । कुतो मङ्गलाचरणाभावे विघ्नादिप्रसक्तिरित्यत आह ॥ मङ्गलेति ॥ अनेन अन्वयव्यतिरेकावुक्तावित्याहुः ॥ स्वर्गप्राप्तेरिति ॥ शूद्रस्येति शेषः । परिसमाप्त्यादीत्यत्रादिपदेन प्रचयादिपरिग्रहः । एवमग्रेऽपि ।
श्रीनिवासतीर्थीया
सिद्धान्ती शङ्कते ॥ न चाकृतेति ॥ पूर्वपक्षी प्रतिबन्दीं गृण्हाति ॥ तथा सतीति ॥ तत्र सिद्धान्ती समाधानमाशङ्कते ॥ स्यादेतदेवमिति ॥ श्रुतीति ॥ ‘वृष्टिकामः कारीर्या यजेत’ इत्यादिश्रुतीत्यर्थः ॥ स्वर्गप्राप्तेरिति ॥ शूद्रस्येति शेषः । तस्य दर्शपूर्णमासानधिकारित्वा-त्तदभावेऽपि तस्य स्वर्गप्राप्तिसद्भावात्स्वर्गस्यानेककारणकत्वमेव कल्पनीयं न तयोर्व्यभिचारेणा-कारणत्वमित्यर्थः । सर्वत्र कृष्यादौ । पूर्वपक्षी उत्तरमाह ॥ सममेतदिति ॥
वाक्यार्थरत्नमाला
माङ्गलिकत्वेन एतत्सूत्रेति । अनेन ताराथयोर् माङ्गलिकत्वेन सूत्रे निवेशं
सिद्धवत्कृत्य तथाविधयोस् तयोर् भाष्यकृता शास्त्राङ्गता उच्यते इति सूचितं भवति । नन्वेतदनुपपन्नमिति उत्तरमूलावतारे माङ्गलिकत्वेन निवेशमुपपाद्येति वक्ष्यति च । माङ्गलिकत्वेन निवेशस्येत्यत्र तयोरिति वक्ष्यमाणस्याकर्षणम् । तयोरित्येतन्मध्यदीपिकान्यायेनोभयत्र सम्बध्यते इति वा तयोर्माङ्गलिकत्वेन निवेशस्य च मङ्गलस्यैव अकर्तव्यत्वेऽनिवेशनीयत्वे वा कथयितुमशक्यत्वेनेति योज्यम् । निवेशं वक्तुमिति । तयोर् निवेशितयोर् या शास्त्राङ्गता वक्ष्यते तदुपयोगित्वेनाकाङ्क्षाक्रमेण निवेशमुपस्थाप्य तदुपपादयितु-मित्यर्थः । मूले तथापि इत्यस्यानुत्तमप्रामाण्ये सिद्धेऽपीत्यर्थः । मङ्गलाचरणरहितत्वं साक्षादव्याकर्तव्यत्वे हेतुरिति मन्वानेन कृतामप्रयोजकत्वशङ्कामुत्थाप्य तत्परिहाराय परम्परा मूले याऽभिप्रेता तत्प्रदर्शकोत्तर-मूलवाक्याभिप्रेतां परम्परां विशदयन् उत्तरवाक्यमवतारयति मङ्गलाचरणेति । अस्तु व्याकर्तव्यत्वमित्येतत् । अव्याकर्तव्यत्वं मास्तु इत्यस्य पर्यवसितो योऽर्थस् तत्कथनरूपं वक्ष्यमाणरीत्या प्रकारान्तरेण प्रयोजकत्वोप-पादकव्याघातप्रतिपादनायेति ज्ञेयम् । तत्साध्यनिरन्तरायेति । मङ्गलाचरणसाध्येत्यर्थः । तदुभयाभावस्यापि परम्परयैव व्याकर्तव्यत्वं प्रयोजकत्वमिति दर्शयति असमाप्तस्येत्यादि । अत्रासमाप्तत्वं स्वरूपाभाव इव प्रचयहीनत्वमेव शिष्यानुपादेयत्वे न वक्तुं युक्तम् । परन्तु मङ्गलाचरणपुरःसराणीत्युत्तरमूलोक्तं वीर्यवत्वादिकमपि हेतुकोटौ निवेशितमित्यदोषः । अनेन विमतं शास्त्रं न व्याकर्तव्यं स्वरूपलाभशून्यत्वात् शिष्यानुपादेयत्वाच्च । आद्ये हेतुरसमाप्तत्वं द्वितीये प्रचयादिशून्यत्वम् । तदुभयत्र च मङ्गलाचरण-राहित्यमिति परम्पराप्रतिपादनेनाव्याकर्तव्यत्वं मङ्गलाचरणरहितत्वे सत्युक्तप्रकारेण प्राप्तं भवतीति तद्रहितस्य तत्र प्रयोजकत्वोपपत्तिरित्युक्तं भवति । एवं मङ्गलाचरणराहित्यरूपहेत्वङ्गीकारेऽव्याकर्तव्यत्व-स्यैवोक्तरीत्या प्राप्तत्वात् । तदभावास्तित्वशङ्का व्याहता इत्येवंप्रकारेणाप्रयोजकत्वशङ्कानिरासमभिधाय अव्याकर्तव्यत्वं मास्त्वित्यस्य व्याकर्तव्यत्वमस्तु इति पर्यवसानेन व्याकर्तव्यत्वास्तित्वशङ्कने व्याकर्तव्य-त्वाङ्गीकारमुखेन मङ्गलाचरणशून्यत्वस्य व्याघातमुपपादयन् अप्रयोजकशङ्कानिरासं दर्शयति व्याकर्तव्य-ताऽङ्गीकार इति । अत्र व्याकर्तव्यताङ्गीकारे वेति वाशब्दयुक्तः पाठः । मङ्गलाचरणाभाव इति
वर्तते । तस्य च तदङ्गीकार इत्यर्थकत्वान्मङ्गलाचरणाभावमङ्गीकृत्य व्याकर्तव्यत्वाङ्गीकारे वा कारणा-भावेऽपि कार्याङ्गीकारापत्त्या व्याघात इत्याशयेन तत्रापि परम्परोक्ता समाप्तिप्रचयावित्यादिना । व्याकर्तव्यत्वप्रयोजकलब्धस्वरूपत्वशिष्योपादेयत्वयोरपि व्याकर्तव्यत्वमङ्गीकुर्वता स्वीकार्यत्वात्, तयोश्च समाप्तिप्रचयसापेक्षतया तयोरप्यङ्गीकार्यत्वात्, तयोश्च मङ्गलाचरणकार्यत्वान् मङ्गलाचरणरूपकारणा-भावाङ्गीकारे तत्साध्यसमाप्तिप्रचययोरपि अभावस्यैव स्वीकर्तव्यत्वप्राप्तेः समाप्तिप्रचयाङ्गीकारो व्याहत इत्यर्थः । तथा च मङ्गलाचरणराहित्यरूपहेतूच्छित्तिरेव बाधिकेत्युक्तं भवति । अत एव प्रचयौ स्याता-मित्यत्राङ्गीकार्याविति शेषः । एवं हेतूच्छित्तिरूपबाधककथनपरतया मङ्गलाचरणेति वाक्यं योजयित्वा विपक्षे बाधकान्तरकथनपरतयाऽपीदं वाक्यं योजयितुं तत्रोपलक्षणमाह उपलक्षणं चैतदिति । अत्र मङ्गलाभावे मङ्गलाचरणरूपशिष्टाचारपरिपालनहीनता आयाति । तथा चाव्याकर्तव्यताया एव प्राप्तेर् अव्याकर्तव्यत्वा-भावोऽस्त्विति शङ्का व्याहता । अव्याकर्तव्यताप्राप्त्युपपादनाय विघ्नोपसंसृष्टतयेत्याद्युक्तम् । मङ्गलानुष्ठान-रूपशिष्टाचारपरिपालनहीनतायां हि विघ्ननिवर्तकाभावेन विघ्नोपसंसृष्टत्वे सति व्याख्यानकालेऽप्रतिपत्त्य-न्यथाप्रतिपत्त्योः प्रसङ्गेन तद्वाक्यप्रणेतुः करणपाटवादिदोषशङ्कया तद्वाक्येऽनाप्तप्रणीतत्वशङ्कोदयेनानाप्त-प्रणीतत्वस्य चाव्याकर्तव्यतया आप्तेर् विप्रलम्भकादिवाक्ये सुप्रसिद्धत्वात् परम्परया मङ्गलाचरण-राहित्यरूपहेतोरव्याकर्तव्यत्वरूपसाध्येन न व्याप्तिसिद्धिरित्यर्थः । अनेन विमतमव्याकर्तव्यम् अनाप्त-प्रणीतत्वात् । विमतमनाप्तप्रणीतम् । शिष्टाचापरिपालनहीनत्वात् । विमतं तद्धीनं विघ्नोपसंसृष्टत्वात् । विमतं विघ्नोपसंसृष्टं मङ्गलाचरणरहितप्रणीतत्वादिति प्रयोगाः सूचिताः । यदि मङ्गलाचरणशून्यं स्यात् तर्हि विघ्नोपसंसृष्टं स्याद् इत्यादिरूपेण तर्कोऽवाव्याकर्तव्यताङ्गीकारे वेति पूर्वोक्तरीत्या व्याकर्तव्यत्वमभिलषता परम्परया तदुपयोगिमङ्गलाचरणं स्वीकृतमिति तच्छून्यत्वेऽपि व्याकर्तव्यतास्तित्वशङ्का व्याहतेत्यपि ज्ञेयम् । प्रसिद्ध्येति । खल्वित्यव्ययस्य तदर्थकत्वमित्याशयः ।
प्रचीयन्ते इति मूलम् । विस्तारं प्राप्न्नुवन्तीत्यर्थः । सांप्रतं युक्तमिति । (युद्धे द्वा सांप्रतस्थान) ‘युक्ते द्वे सांप्रतं स्थान’ इत्यमरोक्तेरिति भावः । समाधातुमिति । सममेतत् सकलं प्रकृतेऽपि इत्यादिनेति पूरणीयम् । गूढाभिसन्धिरिति । मङ्गलेऽनुमिता श्रुतिरिति गूढोऽभिसन्धिः । अन्वयव्यतिरेकरूप-प्रमाणाङ्गीकार एव व्यभिचारस्य चोदिततया निष्प्रमाणकत्वानङ्गीकारेण तत्परिहारानुपपत्तिरित्यतो निष्प्रमाणपदं व्याचष्टे श्रुतिं विहायेति । अन्यथासिद्धत्वादिति । अत्र व्यभिचारस्यान्यथा कारणता-विघटनाभावेऽपि प्रकारान्तरेण घटितत्वादित्यर्थोऽभिमतः । विशेषणे वैयर्थ्यमेकासिद्धौ चेति भक्तिपादे वक्ष्यमाणविशेषणाद्यसिद्धिरूपा तु अन्यथासिद्धिरिति नञः प्रश्लेषयुक्तेति प्रागेवोक्तम् । एवमन्यत्रापि तत्तदवसरे वक्ष्यामः । अनेनान्यथासिद्धिहेतुः सहेतुकमित्येतत् पूर्वोक्तहेतुरिति दर्शितम् । श्रुतीति । वृष्टिकामः कारीर्या यजेतेति श्रुतीत्यर्थः । सेति । व्यभिचारशङ्केत्यर्थः । अप्रयोजका कार्यकारणाभावघटिका न भवति । भावेऽप्यभाव इति मूले श्रुतिनिश्चिते त्वित्यादिकमनुवर्तते । सामग्रीति । स्वेतरसकलकारणसमव-धानेत्यर्थः । तेन हेतोरपि सामग्रयन्तर्भावाद्धेतोः सामग्रीत्याद्यपियुक्तमिति निरस्तम् । औचितीतिवत्सामग्री-शब्देसाधुतां टीकाकृद् उत्तरत्र प्रतिपादयिष्यति । (सप्रकारको वाऽत्र ज्ञेयः) न च कर्त्रादिसाद्गुण्येऽपि फलाभावाद् व्यभिचार एव इत्यत आह कर्त्रादीति मूलम् । प्रतिबद्धकारणमिति मूले सम्बन्धः । यत्प्रयुक्तेति । कर्तृकरणादिवैगुण्यप्रबलप्रतिबन्धकप्रयुक्तेत्यर्थः । तर्हि मङ्गलेऽपीति । सम इति प्रतिबन्दी-मुपादाय कारीर्यादौ प्रत्यक्षेत्यादि स्वाभिप्रायमाविष्कुर्वन् प्रतिबन्दीमुपपादयतीत्यर्थः ।