२४ स्पष्टतार्थः

स्वयं कृताऽपि तद्-व्याख्या क्रियते स्पष्टतार्थतः..

स्पष्टतार्थः

स्वयं कृताऽपि तद्-व्याख्या क्रियते स्पष्टतार्थतः

सुधा

तथाऽपि नेदं व्याख्यातव्यं व्याख्यतत्वादित्यत्रान्वपि चेति यत् प्रयोजनान्तरम् अस्तीति सूचितं तद्विवरणार्थमाह ॥ स्वयमिति । यद्यपि तेषां ब्रह्मसूत्राणां व्याख्या स्वयं मयैव भाष्ये कृता तथाऽपि पुनरत्र स्पष्टतैवार्थः प्रयोजनं यस्य स्पष्टतार्थः । तस्मै स्पष्टतार्थतः । भाष्ये अस्पष्टीकृतमर्थं स्पष्टीकर्तुं क्रियते । स्पष्टीकरणं चानेकविधम् । क्वचिदनुक्तांशस्योक्तिः । क्वाप्यतिसङ्क्षिप्तस्य विस्तरणम् । क्वचिदतिविस्तृततया बुध्द्यनारूढस्य सङ्क्षेपः । क्वापि विक्षिप्तस्य एकीकरणम् । कुत्राप्युक्तस्योपपादनम् । क्वचिदपव्याख्याननिरासेन दृढीकरणमित्यादि तत्र तत्र द्रष्टव्यम् । नन्वेकत्रैव सर्वं वक्तव्यं वक्तव्यं किं प्रस्थानभेदेन । मैवम् । यतः सङ्क्षेपविस्तराभ्यामुक्तं श्रोतॄणां सुग्रहं सप्रयोजनं च भवति । यथोक्तम् । ‘सङ्क्षेपविस्तराभ्यां तु कथयन्ति मनीषिणः । बहुवारस्मृतेस्तस्य फलबाहुल्यकारणात्’ इति । तत्र भाष्याद्यपद्यार्थो अत्र श्लोकत्रयेण विवृतः । तथा हि । सर्वगुणोदीर्णतोक्तया प्राप्ता गुणगुणिभेदशङ्का निखिलेत्यादिना निराकृता । ज्ञेयत्वगम्यत्व-योरितरसाधारण्यात्कथं विशेषणत्वमित्याशङ्का आप्यतममित्यनेन परिहृता । अपिशब्दो विशेषणान्तरसमुच्चयार्थः । तद्विवरणमस्येत्यादि । शास्त्रप्रभवम् इत्यादिभिर्बहुभिः प्रकारैर्यद्गुरुत्वो-पपादनं तेन गुरूंश्चेति बहुवचनान्तं पदं विवृतम् । गुरुदेवतयोर् भेदेऽपिपदेनारुचिः सूचिता । तद्विवृतिस्तमेवेति । सम्प्रशब्दाभ्यां नत्वेति विशेषितम् । निरुपपदसूत्रग्रहणेन यद्ब्रह्मसूत्राणां सर्वोत्तमप्रामाण्यं सूचितं तदुपपादनं परमाख्येति । यद्द्वापर इत्यादिभाष्यं तदसङ्गतम् । सूत्रार्थवचनं प्रतिज्ञाय तदुत्पत्तिक्रमकथनस्योपयोगादर्शनात् । मैवम् । यस्मादाप्तिमूलत्वादियुक्तयाऽपि ब्रह्मसूत्राणां सर्वोत्तमं प्रामाण्यं समर्थयितुम् एतदिति दर्शयति गुरुर्गुरूणामित्यादिनेति ।

वाक्यार्थचन्द्रिका

कृतस्य करणायोगात् । यद्यपि तथाऽपि पुनरित्यर्थकत्वमपि शब्दस्य दर्शयन्वाक्यं योजयति ॥ यद्यपीति ॥ ननु सर्वत्रानुव्याख्याने सङ्क्षिप्य भाष्योक्तविस्तरणादर्शना-दयुक्तमेतदित्यत आह ॥ स्पष्टीकरणं चेति ॥ इत्यादि तत्र तत्रेति ॥ आदिपदेनासङ्गतिपरिहारादिकं सङ्गृह्यते । अतःशब्दार्थतया बन्धसत्यत्वोक्तिप्रभृत्यनुपदं वक्ष्यमाणस्योद्भवादिदं शास्त्रप्रभवमित्यादि । एवमेवाविरोधेन प्रारब्धस्यैव कर्मणः । ज्ञानं दृष्टफलं प्रोक्तं मुक्तिश्चैवेह लभ्यते । अतो जगद्य्वापृतिमन्त एवेत्यादि । वैराग्यतो भक्तिदार्ढ्यं युक्तितो ज्ञातवेदार्थ इत्यादि परमाख्यविद्येत्यादि । आत्मेति नाम कथितमित्यारभ्य तस्माद्यथोक्तमार्गेणेत्यादि गुरुर्गुरूणामित्यादि च क्रमेण तत्र तत्र द्रष्टव्यमित्यर्थः ।

परिमल

॥ सूचितमिति ॥ ‘अन्वपि चाहमेव’ इत्यत्रस्थचशब्देनेति भावः ॥ अनुक्तांशस्येति ॥ सिद्धार्थे व्युत्पत्त्यादेः ॥ अतिसङ्क्षिप्तस्येति ॥ व्यक्तमेतदनुपदं तत्र भाष्याद्यपद्यार्थ इत्यादौ ॥ सङ्क्षेप इति ॥ ‘एतद्भावाभिधं लिङ्गम्’ इत्यादिविषयमालायाः पूर्वोत्तरपक्षयुक्तिमालादेश्च करणादिति भावः ॥ एकीकरणमिति ॥ आनन्दमयनयादौ ॥ कुत्रापीति ॥ अन्तरादिनयेष्वभ्यधिकाशङ्कादिनोपपादनम् । अपव्याख्याननिरासस्तत्र तत्र व्यक्त एव । इत्यादीत्यादिपदेन क्वचिद्भाधकोद्धारादिर्ग्राह्यः ॥ यथोक्तम् इति ॥ प्रथमस्कन्धतात्पर्ये । अतिसङ्क्षिप्तस्य विस्तरणमित्येतद्-व्यनक्ति ॥ तत्रेति ॥ निखिलेत्यादिना निराकृतेति । देहस्य गुणात्मकत्वोक्तया देहदेहिनोरभेदस्य प्रमितत्वाद्गुणाभेद एवोक्तो भवतीति भावः ॥ इतरेति ॥ कर्मदेवतासाधारण्यादित्यर्थः । अपिशब्दस्यारुचिसूचकत्ववदनुक्तसमुच्चयरूपार्थान्तर-मप्युपेत्य आह ॥ अपिशब्द इति ॥ सम्प्रेति ॥ आद्यद्वितीयश्लोकस्थसम्प्रशब्दाभ्यां यथाक्रमं देवतानतिर्गुरुनतिश्च विशेषितेत्यर्थः । द्वापर इत्यादिभाष्यविवृतिपरं गुरुर्गुरूणामित्यादीत्याह ॥ द्वापर इतीति ॥

यादुपत्यम्

॥ अस्तीति सूचितमिति ॥ अन्वपि चाहमेवेत्यत्र चशब्देनेति शेषः ॥ अनुक्तांशस्य इति ॥ यथा प्रथमाधिकरणे भाष्यानुक्तानामतःशब्दार्थानामुक्तिरित्यादि ॥ अतिसङ्क्षिप्त-स्येति । एतद् उदाहरणं त्वपिशब्दो विशेषणान्तरसमुच्चयार्थः । तद्विवरणमस्येत्यादीति वक्ष्यमाणम् । तथा मान्त्रवर्णिकसमाख्याया भाष्ये सङ्क्षेपेणोदितायास्तत्र सत्यत्वं सृष्ट्यन्नप्राणयोरपीत्यादिनाऽत्र विवरणमित्यादिकं ज्ञेयम् ॥ सङ्क्षेप इति ॥ यथा प्रथमेऽध्याये तृतीयपादार्थस्य पूर्वपक्षसिद्धान्त-न्यायोक्तयादिमात्रेण सङ्क्षेप इत्यादि ॥ विक्षिप्तस्येति ॥ यथा चतुर्थे शेषमार्गगरुडमार्गस्य वा भाष्ये विक्षिप्ततयोक्तस्यात्र ‘सोमस्तु वारीशयुत’ इत्यादिनैकीकरणमित्यादि । उक्तस्योपपादनमित्यस्य ‘चेष्टा हि चेतनानां सा सा भवेत्तत्प्रसादत’ इत्याद्यभ्यधिकाशङ्काप्रदर्शनादिनो- पपादनमुदाहरणं ज्ञेयम् ॥ अपव्याख्याननिरासेनेति । यथा ‘बन्धमिथ्यात्वं नैवमुक्तिरपेक्षत’ इत्यादि । इत्यादीत्यत्रादिपदेन द्वितीये प्रमाणलक्षणादेरुक्तिरनुक्तांशेत्युक्तोपपादनयोः सूत्रार्थमात्रविषयत्वान्न ताभ्यामिदं गतार्थ-मित्यवधेयम् ।

श्रीनिवासतीर्थीया

॥ बहुवचनान्तं पदमिति ॥ गुरुत्वोपपादकप्रकाराणां बहुत्वोपपादक-प्रकाराणां बहुत्वाद् बहुवचनम् । तथा च गुरूनित्यस्य बहुभिः प्रकारैरुपपाद्यं यद्गुरुत्वं तदुपेतानित्यर्थो द्रष्टव्यः ।

वाक्यार्थरत्नमाला

सूचितमिति मूलम् । अन्वपि चेति । चशब्देनेति शेषः । इत्यर्थकत्वमिति । इत्येतत्त्रितयार्थकत्वमित्यर्थः । सङ्क्षिप्येति । भाष्योक्तविशेषणम् । इत्यादीत्यादिपदोक्तासङ्गतिपरिहारादि-मेलने स्पष्टीकरणं सप्तधा जातमिति तथैव तदुदाहरणान्याह अतःशब्देत्यादि । प्रभृत्यन्तमनुक्तांशो-दाहरणम् । प्रभवमित्यादि इत्यादीनि इत्यादिपञ्चकानि दृढीकरणमित्यन्तपञ्चकानामुदाहरणानि । आदिपदोक्तासङ्गतिपरिहारस्य गुरुर्गुरूणामित्यस्य उदाहरणम् । टीकास्थादिपदेन पुनरुक्तिपरिहारादि-सङ्ग्रहः । यथा ‘मानमेयविभेदेन पुनरुक्तिर्न जायते’ इत्यादि ज्ञेयम् । वक्तव्यं वक्तव्यमिति मूलम् । प्रथमस्य वक्तव्यमित्यस्य वक्तुमिष्टं यावत्तावदित्यर्थः । द्वितीयं तु द्रष्टव्य इत्यादिवद् विधिरूपमिति विवेकः । एवं तद्वाच्यं वाच्यमिति तत्त्वोद्योेतटीकायामपि ज्ञेयम् । सङ्क्षेपविस्तराभ्यां कथनस्य प्रयोजनमाह बहुवारेति मूलम् । तस्यार्थस्य स्मृतेरिति मूले चतुर्थ्यर्थे षष्ठी । बहुवारस्मृत्यर्थमित्यर्थः । अर्थविषयबहुवारस्मृतिरेव सङ्क्षेपादिकथनस्य प्रयोजनमिति भावः । स्मृतेरपि किं फलमित्यतः फलबाहुल्यकारणात् कारणत्वा-दित्युक्तम् । तस्य बहुवारस्मृतेर् यत् फलबाहुल्यं तल्लक्षणात् कारणादिति वा सम्बन्धः । मूले श्लोकत्रयेणेति । पूर्वश्लोकगतपरमाख्यविद्येत्येतदुपपादनपरत्वात् प्रादुर्भूत इति श्लोकस्यापि विवरणरूपत्व-मित्याशयेन त्रयेणेत्युक्तम् । परमाख्येतीत्यन्तिममूलवाक्ये तु परविद्याख्यमित्यपि उपलक्षणया अभिप्रेतमिति न दोषः । एतेन तृतीयश्लोकस्य विनियोगानुक्तेस् त्रयेणेति मूले कथमुक्तिरिति निरस्तम् । श्लोकत्रयस्य भाष्याद्यपद्यविवरणत्वं सर्वस्याप्यविशेषेण सर्वपरत्वमिति प्रतीतिं विव्रियमाणविवरणविवेकप्रदर्शनेन परिहर्तुं प्रतिजानते । तथा हीति मूलम् ।