२३ प्रामाण्योक्तिसमर्थनम्

अतो नैतादृशं किञ्चित्प्रमाणतममिष्यते..

प्रामाण्योक्तिसमर्थनम्

अनुव्याख्यानम्

अतो नैतादृशं किञ्चित्प्रमाणतममिष्यते ।

स्वयं कृताऽपि तद्-व्याख्या क्रियते स्पष्टतार्थतः ॥ ७ ॥

सुधा

तदेवं श्रुत्यनुमानाभ्यामिदमेव शास्त्रं प्रमाणतमं नान्यदेतादृशमस्तीत्युपसंहरति ॥ अत इति । इष्यते प्रामाणिकैरिति शेषः । तथा चान्यपरिहारेणास्यैव व्याख्यानं युक्तमिति हृदयम् । ननु भारतं सर्वशास्त्रेषूत्तममुच्यते । सत्यम् । विचार्येषु शास्त्रेषु तदित्यविरोधः । ननु चास्य शास्त्रस्या-रम्भणीयत्वं सूत्रकार एव प्रथमसूत्रे समर्थयते । तद्-व्याख्यानेनैव सर्वं सम्पद्यते । किमनेन । प्रथमसूत्र एव कथं प्रवृत्तिरिति चेत् । प्रथमभाष्येऽपि कथम् । सन्देहात्प्रवृत्तस्य पुनरुक्तप्रमाणैर्निर्णय इति चेत् । समं प्रथमसूत्रेऽपि । मैवम् । विषयादिसम्पादनेनैव तत् । न च तावताऽऽरम्भणीयत्वम् । प्रामाण्ये हि सति काकदन्तपरीक्षाग्रन्थवैलक्षण्यार्थं विषयादिव्युत्पादनमुपयुज्यते । अतः सूत्राक्षिप्तमेवेदं शिष्याणां बुद्धिशुद्धये भाष्यकृतोक्तमिति ।

वाक्यार्थचन्द्रिका

नन्वत इत्युत्तरवाक्यस्य पूर्वोक्तार्थप्रतिपादकत्वात्पौनरुक्तयमित्यतः परमाख्यविद्येत्यारभ्य प्रकृतप्रमेयोपसंहारत्वान्न वैयर्थ्यमित्याह ॥ तदेवमिति ॥ मयेत्यध्याहारस्य स्वतः सिद्धत्वेऽपि प्रमाणतमत्वेन स्वाङ्गीकारमात्रस्यानुपयुक्तत्वात्सर्वाङ्गीकारस्य च बाधितत्वात्प्रमाणानां चानुपदमेवोपपादितत्वात् प्रामाणिकैरित्येव शेषपूरणं युक्तमित्यभिप्रेत्याह ॥ इष्यत इति ॥ परम-प्रमेयानुपसंहारेणोपसंहारभाष्यन्यूनतां परिहर्तुं भाष्यकाराभिप्रेतं परमप्रमेयं स्वयं दर्शयति ॥ तथा चेति ॥ ननु श्रुत्यनुमानाभ्यामस्यैव प्रमाणतमत्वे भारतस्य सर्वशास्त्रेपूत्तमत्वोक्तिर्व्याहन्येतेति शङ्कते ॥ नन्विति ॥ ‘भारतं सर्वशास्त्रेषु भारते गीतिका वरा’ इति प्रमाणमनेनानुकरोति । ‘द्वे विद्ये वेदितव्ये’ इति श्रुतौ ऋगादिपदोपलक्षिताशेषशास्त्राणामपरविद्यात्वेनोक्तया लिङ्गत्रयावसितत्वरूपस्य महत्त्वस्यात्रैव सम्भवेनास्यैव शास्त्रस्य भारतापेक्षया उत्तमत्वेऽपि भारतस्योत्तमत्वोक्तिर् निर्णेतव्यान्तरापेक्षया सङ्कोचयितव्येत्याह ॥ सत्यमिति ॥ नन्वियता प्रबन्धेन प्रतिपादितयोः प्रामाण्यतदनुत्तमत्वयोरुक्तरीत्या शास्त्रारम्भणीयतार्थत्वाच्छास्त्रारम्भणीयतायाश्च सूत्रकारेणैव प्रथमसूत्रे समर्थनात्तद्-व्याख्यानेनै-वारम्भणीयतौपयिकविषयादिवत्प्रामाण्यादेरपि सिद्धेस्तदेव व्याख्यायतां किमनेन सूत्रानर्थतया प्रामाण्यादिव्युत्पादकेन प्रथमभाष्येणेति शङ्कते ॥ ननु चेति ॥ प्रामाण्यनिश्चयस्य प्रवृत्तिप्रयोजकत्वा-च्छास्त्रप्रवृत्तिप्रयोजकप्रामाण्यनिश्चयाय प्रथमसूत्रगवेषणायां तत्र प्रवृत्तेरपि प्रामाण्यनिश्चयाधीनतया तत्प्रामाण्येऽवश्यं प्रतिपाद्ये समानन्यायतया शास्त्रप्रामाण्योक्तिः प्रथमभाष्य इत्याशङ्कते ॥ प्रथमेति ॥ तर्हि प्रवृत्तेः प्रामाण्यनिश्चयसाध्यत्वादेव व्याख्यानप्रामाण्यनिश्चयस्य व्याख्येयप्रामाण्यनिश्चयाधीनतया तन्निश्चयाभावे प्रथमभाष्येऽपि न प्रवृत्त्युपपत्तिरिति समाधत्ते ॥ प्रथमेति ॥ सूत्रे प्रामाण्यानुक्तया समाधत्ते ॥ विषयादीति ॥ तत् शास्त्रस्यारम्भणीयत्वम् । सम्पादनेन व्युत्पादनेन सूत्रकारः प्रथमसूत्रे समर्थयत इति पूर्वेण सम्बन्धः । ननु सूत्रस्य विषयादिव्युत्पादनेनैव आरम्भणीयत्वसमर्थकत्वे तावतैवारम्भणीयत्वसिद्धौ भाष्यकारीयं प्रामाण्यव्युत्पादनं व्यर्थमेवेत्यत आह ॥ न चेति ॥ तावता विषयादिव्युत्पादनेन आरम्भणीयत्वं सिद्धं भविष्यतीति शेषः । नन्वेवं प्रामाण्य व्युत्पादनस्यावश्यकत्वे प्रमाणस्य सतो निर्विषयत्वादिप्रयुक्तानारम्भणीयत्वशङ्काया अप्रसक्तेर्विषयादिव्युत्पादनं व्यर्थं सूत्रे । आवश्यकप्रामाण्याव्युत्पादनान्न्यूनता चेत्यतः काकदन्तपरीक्षाग्रन्थादौ सत्यपि याथार्थ्यरूपप्रामाण्ये निष्प्रयोजनत्वादिप्रयुक्तानारम्भणीयताया दृष्टत्वेन शङ्काप्रसञ्जकसद्भावात् । अप्रामाण्ये च तेनैवाना-रम्भणीयत्वप्राप्तौ काकदन्तपरीक्षाग्रन्थसालक्षण्यशङ्काया अनवसरग्रस्ततया तद्वैलक्षण्याय सविषय-कत्वादेरप्रतिपादनीयतया तत्प्रतिपादनेनैव प्रामाण्यव्युत्पादनस्य सूत्रकृदभिमततया सुज्ञानत्वाच्च न न्यूनताऽपीत्याशयेनाह ॥ प्रामाण्ये हि सतीति ॥ नन्वस्तु सूत्रकारीयविषयादिव्युत्पादनस्य प्रामाण्ये सत्येवोपयोगस्तथाऽपि प्रामाण्यव्युत्पादकस्यास्य कथं भाष्यत्वमित्याशङ्कां परिहरन्नेव भाष्यकारीय-तदुक्तेः प्रयोजनं चोपसंहारव्याजेन दर्शयति ॥ अत इति । न च याथार्थ्ये मानमस्तीत्यादिशङ्कापरिहारो बुद्धिशुद्धिः ।

परिमल

एकधाऽन्यत्र सर्वश इत्युक्तमात्रोपसंहारपरत्वभ्रमनिरासाय व्याकुर्वन्नेवावतारयति ॥ तदेवमित्यादिना ॥ अत इत्यस्यार्थः श्रुत्यनुमानाभ्यामिति । परविद्याख्यं चक्रे शास्त्रमित्यत्रोक्तया ‘द्वे विद्ये वेदितव्ये’ इत्यादिश्रुत्या । आप्तवाक्यत्वाद्यनुमानत्रयावगतप्रामाण्यकत्वरूपानुमानेन चेत्यर्थः । शास्त्रपदमनुवर्त्य तेन प्रमाणतमपदस्यान्वयमुपेत्योक्तमिदमेवेत्यादि । प्रमाणतमत्वोक्तेः क उपयोग इत्यतः प्रागुक्तशङ्कानिरासः फलमित्याह ॥ तथा चेति ॥ गीताभाष्ये प्रथमे ‘वेदादपि परं चक्रे पञ्चमं वेदमुत्तमम्’ ॥ भारतमिति ॥ ‘भारतं सर्वशास्त्रेषु भारते गीतिका वरा’ इत्यादिनोक्तभारतोत्तमत्व-विरोधमाशङ्क्य निराह ॥ नन्विति ॥ प्रादुर्भूत इत्यादिश्लोकचतुष्टयस्योत्सूत्रि- तार्थत्वेन वक्ष्यमाणदिशा परमते अध्यासभाष्यस्येव वैयर्थ्यदोषमाशङ्क्य निराह ॥ ननु चेत्यादिना ॥ समर्थयत इति ॥ तत्प्रकारोऽग्रे व्यक्तः ॥ किमनेनेति ॥ श्लोकचतुष्टयकृतेनारम्भणीयतोपयुक्तप्रामाण्यसमर्थनेनेत्यर्थः ॥ कथं प्रवृत्तिर् इति ॥ आरम्भणीयत्वानिर्णये तत्प्रवृत्तेरयोगात् प्रादुर्भूत इत्यादिभाष्येणारम्भणीयत्वसिद्धौ पश्चात्तत्र प्रवृत्तिरिति भावः ॥ कथमिति ॥ प्रवृत्तिरित्यनुषङ्गः । सूत्रस्यैवारम्भणीयत्वानिर्णये तद्-व्याख्यारूपभाष्ये अपि प्रवृत्तेरयोगादिति भावः । उत्तरं शङ्कते ॥ सन्देहादिति । आरम्भणीयत्वा-नारम्भणीयत्वसन्देहाद् इत्यर्थः ॥ उक्तेति ॥ आप्तवाक्यत्वादिरूपप्रमाणैः सूत्रप्रामाण्यसिद्धौ तद्-व्याख्यानत्वयुक्तया आरम्भणीयत्वनिर्णयो भविष्यतीत्यर्थः । सत्यम् । प्रथमसूत्रेऽप्यारम्भणीयत्व-सन्देहात्प्रवृत्तस्य सूत्रस्थाथादिपदोक्तप्रमाणैरारम्भणीयत्वनिर्णयो भवतीति । तथाप्यारम्भणीयत्व-सन्देहो द्वेधा । प्रामाण्यसन्देहनिमित्तको विषयप्रयोजनाधिकारिसम्बन्धसन्देहनिमित्तकश्च । तत्रान्त्यस्य सूत्रेण परिहारेऽपि आद्यस्य न परिहारः । अतो भाष्यमेतत्सार्थकमिति भावेनाह ॥ मैवमित्यादिना ॥ तदिति ॥ प्रथमपूत्रे आरम्भणीयत्वसमर्थनमित्यर्थः । तावतैवालमित्यत आह ॥ न चेति ॥ बौद्धादावपि तत्सम्पादनस्य बौद्धादिग्रन्थकर्तृक्रियमाणत्वेन व्यभिचारादिति भावः । तर्हि सूत्रे विषयादिव्युत्पादनं व्यर्थम् । तावन्मात्रस्यारम्भानुपयोगादित्यत आह ॥ प्रामाण्ये हीति ॥ अत इति ॥ प्रामाण्ये सत्येव विषयादिव्युत्पादनस्योपयोगाद् इत्यर्थः ॥ सूत्राक्षिप्तमिति ॥ विषयादिव्युत्पादनान्यथानुपपत्त्यैवार्थाल्लब्धं प्रामाण्यमित्यर्थः । आर्थिकोऽप्यर्थः सूत्रार्थ एवेति तु बन्धमिथ्यात्वमित्येतदवतारिकायां परमतानुवाद-प्रस्तावे निपुणतरमुपपादयिष्यत इति भावः । एतेन प्रामाण्ये हीत्यादिग्रन्थेनैव श्रौतार्थं प्रागनुक्तवा आर्थिकार्थमेव प्राक्कथयन् भाष्यकारो अकुशल इति परास्तम् । प्रामाण्येन विना विषयादिव्युत्पादनस्यैव अयोगादिति । बुद्धिसिद्धये प्रवृत्तिबुद्ध्युत्पादनाय ।

यादुपत्यम्

॥ तदेवं श्रुत्यनुमानाभ्यामिति ॥ श्रुतिः परविद्याख्यमित्यत्रोक्ता ॥ विषयादि-सम्पादनेनैव तदिति ॥ आरम्भणीयत्वमित्यर्थः । प्रथमसूत्रे समर्थयत इति पूर्वेणान्वयः । न प्रामाण्य-सम्पादनेनेत्यर्थः । अतो नास्य प्रामाण्यव्युत्पादनस्य प्रथमसूत्रेण गतार्थतेति भावः । ननु विषयादि-सम्पादनेनैव आरम्भणीयत्वसिद्धिसम्भवे प्रामाण्यव्युत्पादनं व्यर्थमित्याशङ्क्य निराकरोति ॥ न चेति ॥ तावता तावतैवारम्भणीयत्वं समर्थयितुं शक्यमिति शेषः । कुतो नेत्यत आह ॥ प्रामाण्ये हीति ॥ अन्यथाऽप्रामाण्येनैवानारम्भणीयत्वशङ्कायां प्रयोजनादिव्युत्पादनस्यावसरे एव नेति भावः । ननु इदं प्रामाण्यसमर्थनं सूत्रोक्तं न चेत्तर्हि गुरुर्गुरूणामित्यादेर्भाष्यत्वत्वाधातः । तदुक्तं चेद्भाष्यकारीयं तद् व्युत्पादनं व्यर्थसङ्गतं स्यादित्याशङ्कां परिहरन्नुपसंहरति ॥ अत इति ॥ प्रामाण्यसमर्थनाभावे विषयादिव्युत्पादनस्यावसर एव नेति विषयादिव्युत्पादकसूत्रेण तदाक्षिप्तमित्यर्थः ॥ बुद्धिशुद्धय इति ॥ विषयादिव्युत्पादनप्रतिबन्धकाप्रामाण्यशङ्कानिरासायेत्यर्थः ।

वाक्यार्थरत्नमाला

मूले श्रुत्यनुमानाभ्यामित्यत्र श्रुतिः परमाख्यविद्येत्यनेन सूचिता द्वे विद्ये इत्यादिका । कथं तर्हि प्रामाणिकैरित्यपि शेषलाभ इत्यत उक्तं प्रमाणानां चेति । आप्तवाक्यत्वादिरूपाणां प्रमाणानां चाव्यवधानेन पूर्वमुपपादितत्वादित्यर्थः । परमप्रमेयेति । परमाख्यविद्येत्यनेन भाष्येणेतर-परित्यागेनास्यैव व्याख्यानायोगशङ्कावारणाय सर्वोत्तमप्रामाण्यस्येहैव सत्त्वादितरपरित्यागेनास्यैव व्याख्यानं युक्तमिति पूर्वमभिधानात्तदुपसंहारस्याप्यावश्यकत्वमिति भावः ।

व्याहन्येतेति । उभयोश्च सर्वोत्तमप्रामाण्यं विरुद्धमिति भावः । विचार्येषु तदित्युक्तया विचारकेषु सूत्रमुत्तममित्येव प्राप्त्या भारतोत्तमता सूत्रस्य न सिद्ध्यतीत्यतस्तदभिप्रायमाह द्वे विद्ये इति । अस्य शास्त्रस्य भारतापेक्षयोत्तमत्वोपपादनाय ऋगादीत्यादि । अत्राशेषशास्त्राणामपरविद्यात्वमुक्तवेति पाठः । त्वोक्त्येति पाठः प्रागासीद् उत्तरत्र च परविद्यात्वोक्तया चेति चशब्दश्चासीत् । ततः पूर्वोत्तरभावज्ञापनाय चशब्दो विनाशितः । त्वमुक्तवेति च करिष्यामीति मन्वानोऽपि (च) लिङ्गत्रयेत्याद्युत्तरत्र वाक्यसङ्कोचाय प्रवृत्तो व्यासङ्गेन तथा न कृतवान् । अवसितत्वरूपमहत्त्वस्यात्रैवेति पाठे अत्रैवेत्यनेन एतत्प्रामाण्य एवेत्यर्थाश्रयणान् न दोषः । प्रमाणत्वेन लिङ्गत्रयावसितत्वरूपस्येति योजनाद्वा प्रमाणतममिति ग्रन्थपुरस्कारेणोक्ते प्रामाण्यमहत्त्वं ग्रन्थ एव पर्यवस्यतीति ग्रन्थमहत्वप्रतिपादनं युक्तमेव । अवसितत्वरूपमहत्त्वकप्रामाण्यस्यात्रैव सम्भवेनेति पाठस्तु स्वरस एव । आरम्भणीयतौपयिक-विषयादिवदिति । अन्यथा विषयादिकमपि व्युत्पाद्यं स्यादविशेषादित्याशयेन दृष्टान्तीकरणम् । सूत्रानर्थतयेति । सूत्रार्थरूपं विहायेत्यर्थः । सूत्रार्थो वर्ण्यते यत्रेति भाष्यलक्षणात् तादृशभाष्ये सूत्रार्थ एव वर्णनीयः । प्रथमभाष्ये प्रामाण्यादेश्च सूत्रार्थतया व्युत्पादनं नेति भावः । प्रथमसूत्र एव कथं प्रवृत्तिरिति शङ्काशयाप्रतीतेः सूत्रप्रतिबन्द्या शास्त्रस्याप्रामाण्यप्रतिपादनं भाष्ये युक्तमिति तदाशयं वर्णयंस्तद्वाक्यं व्याख्याति प्रामाण्यनिश्चयस्येति । शास्त्रप्रवृत्तीत्युत्तरत्रोक्ते हेत्वभिधानमिदम् । तत्र प्रथमसूत्रेऽवश्यं प्रतिपाद्ये प्रथमभाष्ये इति वक्ष्यमाणमत्रापि सम्बध्यते । प्रवृत्तेः प्रामाण्यनिश्चयसाध्यत्वेऽप्यन्येनैव प्रामाण्यनिश्चयो भाष्ये सम्भवतीति न शङ्कनीयमित्याह व्याख्यानप्रामाण्येति । तन्निश्चयाभावे व्याख्येयप्रामाण्यनिश्चयाभावे । प्रथमभाष्येऽपीति । व्याख्येयप्रामाण्यनिश्चयाभावे तदधीनव्याख्यान-प्रामाण्यनिश्चयाभावात् प्रवृत्तिप्रयोजकविरहादिति भावः । यदुक्तं प्रथमभाष्यप्रतिबन्द्या प्रथमसूत्रेऽपि प्रवृत्त्युपपत्तेः । तत्र च शास्त्रारम्भणीयतासमर्थनात् तद्व्याख्यानेनैव प्रामाण्यादिव्युत्पादनलाभान् न प्रथमभाष्यमावश्यकमिति । तद्भवेद्यदि प्रथमसूत्रे शास्त्रारम्भणीयताप्रामाण्यव्युत्पादनेन क्रियेत । न चैवं किन्तु विषयाद्यभावपूर्वपक्षनिरासाय विषयादिसद्भावप्रतिपादनेनैव शास्त्रारम्भणीयता प्रथमसूत्रे समर्थ्यते । तथा च सूत्रानुक्तप्रामाण्यव्युत्पादनाय भाष्यमावश्यकमेवेत्याशयेनावतारयति सूत्रे प्रामाण्यानुक्तयेेति । तदित्याद्यनूद्य व्याचष्टे तत् शास्त्रस्येति । साकाङ्क्षतानिरासाय सम्बन्धं दर्शयति सूत्रकार इति । तावतेत्यनुवादः । विषयादिव्युत्पादनेनेति व्याख्यानम् । आरम्भणीयत्वमित्यनूद्य सिद्धं भवतीत्येतावान् शेषः पूरितः । उपलक्षणं चेदम् । किन्तु प्रामाण्यव्युत्पादनेनापीत्यपि शेष इति ज्ञेयम् । सत्यपि प्रामाण्ये विषयाद्यभावेन काकदन्तपरीक्षादौ सत्यपि विषयादौ प्रामाण्याभावेन विप्रलम्भादिवाक्ये आरम्भणीयत्वा-भावेनोभयोरावश्यकत्वस्य सिद्धत्वात् । अत एवोत्तरवाक्ये एवं प्रामाण्यव्युत्पादनस्यावश्यकत्वेति पूर्वोक्तानुवाद आवश्यकत्वादेव भाष्ये तद् व्युत्पादनम् उपपन्नमित्यपि ज्ञेयम् । व्युत्पादनस्यावश्यकत्वे इति । तत एव भाष्ये तद्व्युत्पादनस्य सार्थक्येऽपीति शेषः । विषयादिव्युत्पादनं सूत्रे व्यर्थमिति सम्बन्धः । ननु विषयाद्यभावप्रयुक्तानारम्भणीयत्वशङ्कावारणाय तद्व्युत्पादनं सूत्रे सार्थकमित्यत उक्तं प्रमाणस्य सत इत्यादि । अप्रसक्तेरिति । प्रसञ्जकस्य प्रामाण्ये सत्यपि विषयाद्यभावदर्शनस्याभावादिति भावः । तथा चाप्रसक्तया तन्निरासस्य प्रयोजनत्वायोगात् तदर्थत्वेन सार्थक्यं न सम्भवतीति भावः । एवं प्रामाण्ये हीत्युत्तरवाक्यम् एकप्रकारेणावतार्य प्रकारान्तरेणापि तदवतारमाह आवश्यकेति । अत्राप्येवं प्रामाण्य-व्युत्पादनस्यावश्यकत्वे इति वर्तते । इत्यत इत्येतच्छङ्काद्वयं यतः प्राप्तमत इत्यर्थः । सत्यपीति । अनेन प्रामाण्ये हि सति प्रामाण्ये विद्यमाने एव किल काकदन्तपरीक्षाग्रन्थसालक्षण्यशङ्का भवति । तत्र सत्यपि प्रामाण्ये आरम्भणीयत्वाभावदर्शनात् तद्वदिहापि किं न स्यादिति । ततस् तद्ग्रन्थवैलक्षण्यप्रदर्शनेन तां शङ्कां निराकर्तुं विषयादिव्युत्पादनं सूत्रे उपयुक्तं सार्थकमिति व्याख्यानं सूचितम् । काकदन्तपरीक्षाग्रन्थे फलवत्त्वघटितं वाक्यप्रामाण्यं न सम्भवतीत्यतो याथार्थ्यरूपमेव प्रामाण्यमिह विवक्षितमिति प्रतिपादनाय याथार्थ्यरूपेत्युक्तं शङ्काप्रसञ्जकेति । प्रामाण्यस्याप्यनारम्भणीयत्वशङ्काप्रापकप्रदर्शनस्य सद्भावाद् इत्यर्थः । सद्भावादित्यनन्तरं प्रसक्ततच्छङ्कानिरासाय सूत्रे तद्व्युत्पादनं सार्थकमिति पाठः । अस्य चेत्याशयेनाहेत्युत्तरेण सम्बन्धः । (मूलटीकापुस्तके पूर्ववर्णान्त्यभागे शोधसमाप्त्यनन्तरं स्थलाभावेन सद्भावादित्यन्तमेवासीत् तदुत्तरं प्रसक्ततच्छङ्केत्यादेर् लिखनायोद्योगे कृतेऽपि द्वितीयशङ्कानिरासपरत्वेन एतद्वाक्ययोजनाया उपस्थितौ अणुपत्रान्तरे द्वितीयशङ्कानिरासपरत्वेन योजनैव लिखिता । तदनुसारेण प्रत्यन्तरे सद्भावादित्यनन्तरं द्वितीययोजनैव लिखिता प्रसक्तेत्यादिकं तु कालान्तरे अणुतरपत्रे लिखितमपि तत्पत्रस्य पूर्वलेखकालेऽभावेन प्रत्यन्तरे न निवेशितम् । आकाङ्क्षा तु शेषपूरणेन निवृत्ता भविष्यतीति लेखकाभिप्रायः । वस्तुतस्तु पर्णस्य लाभानन्तरं यथाश्रुतपाठ एवास्तु इति मत्वा अस्माभिः सन्निवेशित-मिति अदोष इति ज्ञेयम् ।) एवमाद्यशङ्कानिरासपरत्वेन प्रामाण्ये हि सतीति वाक्ययोजनां कृत्वा आवश्यकेत्यादिद्वितीयशङ्कानिरासपरतया एतदेव वाक्यं योजयति अप्रामाण्ये चेति । पूर्वं हि शब्दोऽप्यर्थ-तया योजितः । अत्रत्वेवकारार्थतया । तथा च प्रामाण्ये सत्येव भाष्योक्तरीत्या प्रामाण्यव्युत्पादनमभिप्रैति तदेव विषयादिव्युत्पादनमुपयुज्यते इत्युक्ते अन्यथा तन्न युज्यते इत्युक्तं भवति । तत्प्रकारविशदनम् अप्रामाण्ये चेत्यादि पूर्वयोजनायामुपयुज्यते इत्येतन् मूलपदम् उपयोगार्थम् । एतद्योजनायां तु सङ्गतार्थमिति विवेकः । तेनैवाविप्रलम्भादिवाक्यस्यैवेति शेषः । तत्प्रतिपादनेनैवेति । विषयादिप्रतिपादनेनैव काकदन्त-परीक्षाग्रन्थवैलक्षण्यज्ञापनान्यथानुपपत्त्या प्रामाण्यव्युत्पादनमपि सूत्रकारो भाष्योक्तरीत्याऽभिप्रेतवानिति गम्यते । ततः सूत्रकारेण विषयादिव्युत्पादनेनैव प्रामाण्यव्युत्पादनस्याभिप्रायतः सूचनात्सूचितार्थस्याप्यर्थ-त्वान् न न्यूनतापीत्यर्थः । इत्याशङ्कां परिहरन्निति । इयं च शङ्का प्रथमयोजनायाम् । द्वितीययोजनायां सूत्रसूचितायाः प्रामाण्यव्युत्पादनेऽङ्गीकृतत्वेनोत्सूत्रत्वशङ्कानुदयात् । तद्योजनायां सूत्राभिप्रेतत्त्वेऽपि भाष्यकारेण कुत इदं व्युत्पाद्यमित्याशङ्कापरिहाराय भाष्यकारीयतदुक्तेः प्रयोजनमिति योजनाङ्गीकारान् नानुपपत्तिः । भाष्यकारीयेत्यादिकं पूर्वयोजनायां सूत्राक्षिप्तमेव भाष्ये व्युत्पादितं नात उत्सूत्रत्वं मन्तव्यम् । तदपि शिष्यबुद्धिविशुद्ध्यर्थमिति प्रयोजनोक्तिर्वस्तुस्थितितया ।

द्वितीययोजनायां तु सूत्रसूचितं भाष्ये किं प्रयोजनायोक्तमिति शङ्कावारकतया प्रयोजनाभिधानपरमिति विशेष इत्यविधेयम् । यद्यपि विषयादिव्युत्पादनेनैव प्रामाण्यव्युत्पादनेनापि आरम्भणीयत्वसिद्धेस् तत्सिद्ध्यर्थं भाष्ये प्रामाण्यव्युत्पादनं सार्थकं चेदस्तु तथा । परन्तु सूत्रानुक्तप्रामाण्यव्युत्पादकभाष्यस्य सूत्रार्थकथनरूपत्वाभावादभाष्यत्वापत्तिर् इत्यतः सूत्रोक्तार्थकथनरूपत्वाभावेऽपि सूत्राक्षिप्तार्थकथन-रूपत्वान् नाभाष्यत्वप्रसङ्ग इत्यभिप्रेत्य तदाक्षेपप्रकारं दर्शयन् नाक्षिप्तस्यापि कथने किं प्रयोजनमित्यतो भाष्यकारीयं तद्व्युत्पादनस्य प्रयोजनं च दर्शयन् उपसंहरति प्रामाण्ये हि सतीत्यादिना इत्येवं प्रामाण्ये हीत्यादिग्रन्थो योजयितुं शक्यः । तस्यायं भावः । सूत्रकारेण हि आरम्भणीयत्वसिद्ध्यर्थं विषयादिव्युत्पादनं क्रियते । तदिदं व्युत्पादननमारम्भणीयत्वसिद्ध्यैतदुपयुज्यते । आरम्भणीयतासाधनसमर्थं भवतीति यावत् । यदि तत्प्रामाण्यं स्यात् प्रामाण्याभावे हि विप्रलम्भादिवाक्यवदनारम्भणीयत्वापत्तौ सत्यां विषयादि-व्युत्पादनेन तदारम्भणीयत्वसाधनायोगात् । अतः प्रामाण्ये सत्येव तत्प्रयुक्तारम्भणीयत्वप्राप्तावेवेति यावत् । विषयादिव्युत्पादनं क्रियमाणमारम्भणीयत्वसाधने उपयुक्तं भवतीत्यतः सूत्रकारीयविषयादिव्युत्पादना-न्यथानुपपत्त्या प्रामाण्यस्य सूत्रकृदभिमतत्वसिद्धेः सूत्रोक्तस्यैव तदाक्षिप्तस्याप्यर्थस्य सूत्रार्थत्वात् तत्कथनपरभाष्यस्य नाभाष्यत्वप्रसङ्गः । न च काकदन्तपरीक्षाग्रन्थवैलक्षण्याय विषयादिव्युत्पादनस्य क्रियमाणत्वात् तद्वैलक्षण्ये सति कुतो नारम्भणीयतासिद्धिरिति । अत उक्तं काकेत्यादि । काकदन्तपरीक्षादिवैलक्षण्याय कृतमपि विषयादिव्युत्पादनं प्रामाण्ये सत्येवेति पूर्वेण सम्बन्धः । अन्यथा पूर्वोक्तरीत्या प्रामाण्याभावेनैव अनारम्भणीयत्वापत्तावुक्तसालक्षण्याशङ्कायोगेन वैलक्षण्यप्रतिपादनाय विषयादिव्युत्पादनानर्थक्यमायाति । अतः सूत्राक्षिप्तमेवेदं प्रामाण्यम् । शिष्याणां बुद्धिविशुद्धये भाष्यकृतोक्तमिति । तथाऽपि एतद्योजनाया अप्यप्रामाण्ये च तेनैवेत्यादिग्रन्थमर्यादया ज्ञातुं शक्यत्वान् नेदं स्वतन्त्रयोजनान्तरम् । तत्त्वे वा उपलक्षणया इदमप्यूह्यम् । अत एव प्रामाण्ये हीति वाक्यं द्वेधा योजितमित्यलम् । न च याथार्थ्ये मानमस्तीत्यादीति । इत्यादि तद्बुद्धिस्थशङ्केति पाठो मूलकोशे । इत्यादिशङ्केति पाठस्तु तद्बुद्धिस्थ इति शोधापरामर्शात् । इयं च शङ्का परमाख्यविद्येत्येतदवतारे कृता । श्रुत्यनुमानरूपप्रमाणाभिधानेन च तत्परिहारः कृत इति ज्ञेयम् ।