वक्तृश्रोतृप्रसक्तीनां..
यच्छतिसंवादियच्चयुक्तिसंवादितत्प्रमाणम्
वक्तृश्रोतृप्रसक्तीनां..
सुधा
एवं विजातीयसंवादेनास्य शास्त्रस्य प्रामाण्यमुपपाद्य तदनुत्तमतासिद्धये सजातीय-द्वयसंवादमप्याह ॥ श्रुतीति ॥ तथाचशब्दौ समुच्चयार्थौ । मानमित्यस्यानुकर्षणार्थौ वा । यथा आप्तवाक्यतया तथा श्रुतिमूलतयाऽपीत्युपमार्थो वा तथाशब्दः । यद्यपि श्रुतियुक्तिमूलशब्दौ श्रुतियुक्तिभ्यामर्थमुपलभ्य रचितस्य वाचकौ । तथाऽप्यत्र समानार्थतासाम्येन गौण्या वृत्त्या श्रुतियुक्तिसंवादितार्थौ व्याख्येयौ । भगवतो बादरायणस्य स्वतः सर्वज्ञत्वेन मुख्यार्थासम्भवात् । यदि च श्रुतियुक्तिसंवादित्वादित्येवावक्ष्यत्तदा यादृच्छिकसंवादिताऽपि व्यज्ञास्यत । सा मा विज्ञायीति गौणप्रयोगः । एवं हि प्रयोगेऽङ्गाङ्गिभावोऽप्यधिको विज्ञायते । स च पक्षधर्मतोपपादको भविष्यति । ततश्चायमर्थः । यच्छतिसंवादि तत्प्रमाणम् । यथा मन्वादिवाक्यम् । श्रुतिसंवादि चेदं शास्त्रम् । तदर्थविचारपरत्वात् । विसंवादे तदनुपपत्तेः । तच्च ‘पुनस्तस्यार्थवित्तय’ इत्याद्यागम-सिद्धम् । यच्च युक्तिसंवादि तत्प्रमाणम् । यथा धूमवन्तं पर्वतमुद्दिश्य पर्वतोऽयमग्निमानित्युक्तं वाक्यम् । युक्तिसंवादि चेदम् । मीमांसारूपत्वात् । मीमांसायाश्च युक्तयनुसन्धानात्मकत्वात् । तस्मात्प्रमाणम् । अन्यथा श्रुतेर्युक्तेश्चाप्रामाण्यप्रसङ्गः । अर्धवैशसासम्भवादिति ।
वाक्यार्थचन्द्रिका
आदौ तावत्प्रामाण्य इति तावच्छब्दसूचितमाह ॥ तदनुत्तमतेति ॥ वक्त्राद्यानुकूल्याप्तवाक्यत्वयोरिव न श्रुतियुक्तिमूलत्वयोः पूर्वोक्तहेतुं प्रति साध्यत्वमपि तु मानत्वं प्रति स्वतन्त्रसाधकत्वमिति अभिप्रेत्य भाष्यकृता प्रयुक्तयोस्तथाचशब्दयोस्तदभिप्रायं विशदयति ॥ तथेति ॥ तथाचशब्दयोर्हेतुसमुच्चयार्थत्वे तद्बलात्साध्यसम्बन्धलाभः । अनुक्तसाध्यसमुच्चयरूपसाध्यानुकर्षणार्थत्वे तु साक्षात्साध्यसम्बन्धलाभात्परस्परहेतुसमुच्चयफलस्यापि लाभात्पक्षान्तरमाह ॥ मानमिति ॥ चशब्दस्योक्तरीत्या समुच्चयार्थतामङ्गीकृत्य तथाशब्दस्योपमार्थतया प्रसिद्धत्वात्तदर्थत्वेऽपि समुच्चयफल-लाभात्तथाशब्दे प्रकारान्तरम् आह ॥ यथेति ॥ श्रुतियुक्तिमूलत्वशब्दयोर्मुख्यार्थत्वभ्रान्तिं वारयति ॥ यद्यपीति ॥ समानार्थतासाम्येनेति । श्रुतियुक्तिभ्यामर्थमुपलभ्य रचितवदस्यापि श्रुतियुक्तिसमानार्थ-त्वादिति भावः । मुख्यार्थानुपपत्तिमभिधाय गौणप्रयोगे प्रयोजनं वक्तुं तदप्रयोगे तदसिद्धिमाह ॥ यदि चेति ॥ मूलस्याङ्गित्वनियमेव तन्मूलकत्वोक्तया तदङ्गत्वसूचनोपपत्तिरित्याह ॥ एवं हीति ॥ व्याप्तिपक्षधर्मतयोरुभयोरप्यनुमानाङ्गत्वाद्भाष्यकारीयं पक्षधर्मतासूचनं व्याप्तेरप्युपलक्षणमित्यभिप्रेत्य व्याप्तिप्रदर्शनपूर्वं कीदृशोऽङ्गाङ्गिभावः कुतश्च स कथं च पक्षधर्मतोपपादक इत्याशङ्कां परिहरति ॥ ततश्चेति ॥ अर्धेति ॥ समानार्थत्वाविशेषेऽप्येकप्रामाण्यस्यापराप्रामाण्यस्य चार्धवैशसवदसम्भावित-त्वादित्यर्थः ।
परिमल
॥ विजातीयेति ॥ आप्तवाक्यत्वरूपप्रमाणसंवादेनेत्यर्थः । तस्य श्रुतियुक्तयोरिव साक्षाच्छास्त्रसमानार्थविषयकत्वेन विजातीयत्वमिति भावः ॥ अनुत्तमतेति ॥ सर्वोत्तमतेत्यर्थः । ‘चक्रे शास्त्रमनुत्तमम्’ इत्यत्र प्रागेव विग्रहः प्रदर्शितः । तदनुवादत्वादेतत्प्रयोगः ॥ अनुकर्षणार्थौ वेति ॥ श्रुतिमूलतया मानं युक्तिमूलतयाऽपि मानमिति प्रत्येकमनुकर्षणार्थावित्यर्थः ॥ समानार्थतेति ॥ मूलमूलिभावापन्नयोर्यथैकार्थत्वं तथाऽत्रापीत्येकार्थतागुणसाम्येनेत्यर्थः । किं गौणप्रयोगे प्रयोजनमित्यत एकं प्रयोजनमुक्तवाऽन्यदप्याह ॥ एवं हि प्रयोगे इति ॥ श्रुतिमूलतयेति प्रयोगे हि तद्विचार-परत्वाच्छास्त्रमङ्गम् अङ्गि तु श्रुतय इत्येवं विज्ञायते । मूलमूलिनोरङ्गाङ्गित्वस्य काव्यटीकादौ प्रसिद्धेः । न चाङ्गाङ्गिभावज्ञापनं व्यर्थम् । शास्त्रं मानं श्रुतिसंवादित्वादित्यत्रासिद्धिशङ्कानिरासार्थत्वात् । मूल-मूलितयाङ्गाङ्गिभावापन्नयोरेकार्थत्वस्यान्यत्र दर्शनादित्येतत्प्रयोजनलाभाय च गौणप्रयोग इति भावः । यद्वोदाहरणादिकानित्युक्तत्वादस्य मीमांसाशास्त्रत्वादुदाहरणावयवपूर्वं प्रयोगमाह ॥ यच्छतीति उपनयमाह ॥ श्रुतीति ॥ तत्र हेतुस्तदर्थेति ॥ तच्चेति ॥ श्रुतिविचारणपरत्वम् । ‘पुनस्तस्यार्थवित्तये । चकारब्रह्मसूत्राणि’ इति भाष्योक्तस्मृतिसिद्धमित्यर्थः । तस्य वेदराशेरित्यर्थः । उभयत्र निगमनमाह ॥ तस्मादिति ॥ श्रुतियुक्तिसंवादत्वादित्यर्थः । अप्रयोजकत्वनिरासाय विपक्षे बाधकमाह ॥ अन्यथेति ॥ शास्त्राप्रामाण्ये श्रुत्यादेः कुतोऽप्रामाण्यप्रसङ्ग इत्यत आह ॥ अर्धेति ॥ वैशसो हिंसा । अङ्गाङ्गिनोर् एकशरीरापन्नत्वादिति भावः । विपूर्वाच्छमु हिंसायामित्यतः पचाद्यजन्तात्तस्येदमित्यणि वैशसेति रूपनिष्पत्तेः ।
यादुपत्यम्
॥ गौणप्रयोग इति ॥ तथा च श्रुत्यादिनाऽर्थमुपलभ्य रचितं यद्वाक्यं तत्सादृश्य-नियमेन संवादित्वस्य लाभेन यादृच्छिकसंवादिताशङ्कया या व्यभिचारशङ्का तस्या निरास इति भावः । एवं प्रयोगे कृत्यान्तरमप्याह ॥ एवं हीति ॥ श्रुतिर्मूलभूता विचार्यतयोपजीव्या यस्येत्यपि व्याख्यानसम्भवेन विचार्यविचारकभावलाभादङ्गाङ्गिभावोऽपि ज्ञायत इत्यर्थः । एवं युक्तिर्मूलभूतोप-जीव्या स्वार्थनिर्णयायोपादीयमाना यत्रेति व्याख्याने विचाराङ्गयुक्तिग्रथनात्मकत्वलाभेनाङ्गाङ्गिभावो ज्ञायत इत्यर्थः । यद्वा यादृच्छिकसंवादितेत्यस्य विवक्षितस्य नियमेन श्रुत्यादिसंवादित्वस्य प्रामाण्य-साधकहेतोरसिद्धिराशङ्कितेत्यर्थः । ननु गौणप्रयोगे कथमुक्तशङ्कापरिहार इत्यत आह ॥ एवं हीति ॥ तथा चाङ्गाङ्गिभावे सति श्रुत्यादिसंवादित्वस्य कर्ममीमांसादौ दर्शनाद् अत्रापि तत्सादृश्यलाभ इति भावः । पक्षधर्मतोपादक इति । वक्ष्यमाणानुमानयोरिति शेषः ॥ अर्धवैशसासम्भवादिति ॥ अर्धहिंसान्यायासम्भवाद् इत्यर्थः । अर्थवैशसासम्भवादिति पाठेऽर्थवैशसाऽसम्भवाद्विरोधासम्भवात् । वस्तुनो द्वैरूप्यासम्भवादिति यावद् इति व्याख्यानं द्रष्टव्यम् ।
श्रीनिवासतीर्थीया
॥ अन्यथेति ॥ श्रुतियुक्तिसंवादिनो ब्रह्ममीमांसाशास्त्रस्याप्रामाण्य इत्यर्थः। कुत इत्यत आह ॥ अर्धवैशसेति ॥ ब्रह्ममीमांसाशास्त्रश्रुतियुक्तीनामेकार्थप्रतिपादकत्वे समाने ब्रह्ममीमांसाया अप्रामाण्यमितरयोस्तु प्रामाण्यमित्यर्धहिंसान्यायासम्भवादित्यर्थः । अर्थवैशसेति पाठे ब्रह्ममीमांसाशास्त्रस्य श्रुतियुक्तिसंवादे त्रयाणामेकार्थप्रतिपादकत्वं प्राप्तम् । तत्र श्रुतियुक्तयोः प्रामाण्ये तत्प्रतिपादितप्रमेयस्य सत्यत्वं प्राप्तम् । ब्रह्ममीमांसाशब्दस्याप्रामाण्ये तत्प्रतिपादितप्रमेयस्यासत्यत्वं प्राप्तमित्येकस्यैवार्थस्य सत्यत्वासत्यत्वरूपद्वैरूप्यासम्भवादित्यर्थः ।
वाक्यार्थरत्नमाला
इति तावच्छब्देति । गुरुर्गुरूणामित्येतदवतारे आदौ तावत्प्रामाण्यमात्र इत्युक्तम् । तत्र तावच्छब्देनोत्तर-प्रामाण्यस्यानुत्तमता साधयिष्यत इत्यभिप्रायसूचनात्तत्सूचितमाहेत्यर्थः । अनेनात्रत्यप्रामाण्योत्तमत्वसाधनविवक्षया तत्र तावच्छब्द इति व्याख्यातं भवति । तथा च तावदित्य-नेनोत्तरत्र तदनुत्तमत्वसाधनं यदभिप्रेतं तदिदानीं कर्तुं सजातीयद्वयसंवादमाहेति योजना च सूचिता भवति । पूर्वोक्तहेतुं प्रतीति । गुरुगुरुत्वादिरूपपूर्वानुमानहेतुं प्रति न साध्यत्वमिति सम्बन्धः । अयमाशयः । गुरुगुरुत्वादिना प्रामाण्यसाधनपरवाक्योक्तगुरुगुरुत्वादिहेतोर्न साक्षात्प्रामाण्यहेतुता अपि तु तेन वक्तृश्रोत्रित्युक्तरीत्याऽनुकूलवक्त्रादिमत्त्वरूपवक्त्राद्यानुकूल्यसिद्धिः । न च तावन्मात्रेण मानत्वसाधनं साक्षात्कर्तुं शक्यं किन्तु मध्ये आप्तवाक्यत्वसाधनमपीत्येवमप्रयोजकतापरिहाराय गुरुगुरुत्वादिपूर्वोक्तहेतुं प्रति मध्ये साध्यमानवक्त्राद्यानुकूल्याप्तवाक्यत्वयोर्यथा साध्यत्वम् । न तूक्तहेतोः प्रामाण्यं प्रति स्वतन्त्र-साधकत्वम् । गुरुगुरुत्वादिसिद्धं वक्त्राद्यानुकूल्यम् । तत्सिद्धं चाप्तवाक्यत्वं तत्सिद्धं च प्रामाण्यमित्येवं गुरुगुरुत्वादिप्रामाण्ययोः साध्यसाधनभावघटनाय मध्ये उक्तरीत्या तदुभयसाधनं साक्षात्परम्परया यथा क्रियते इति यावत् । तथाऽऽप्तवाक्यतयेति समभिव्याहारात् श्रुतियुक्तिमूलत्वयोरपि तेन हेतुना प्रामाण्य-साधनोपपादकतया मध्ये साधनं क्रियत इति न भ्रमितव्यं किन्तु गुरुगुरुत्वादिसमकक्षतया प्रामाण्यं प्रति स्वतन्त्रसाधनत्वेनैव ते कथ्येते इत्यभिप्रेत्य प्रयुक्तौ यौ तथाचशब्दौ तयोर्यस्तदभिप्रायो भाष्यकारीयोऽभि-प्रायस्तमिति योजना । भाष्यकारेण प्रयुक्तौ तथाचशब्दौ श्रुतियुक्तिमूलत्वयोर्वक्त्राद्यानुकूल्याप्तवाक्यत्व-समुच्चयार्थौ न भवतः किन्तु गुरुगुरुणोदितत्वादिना प्रामाण्ये समुच्चयार्थौ । प्रामाण्ये गुरुगुरुत्वादिना तयोः समुच्चयसिद्ध्यर्थं तौ प्रयुक्ताविति यावत् । इत्येवं तदभिप्रायं विशदयतीत्यर्थः । नन्वेवं हेतुसमुच्चयार्थत्वे प्रामाण्यरूपसाध्यसम्बन्धलाभायोगः । तत्साध्यसमर्पकाभावात् । उत्तरयोजनायामपि मानमित्यस्यानु-कर्षणीयत्वेन साध्यसम्बन्धलाभेऽपि हेतूनां समुच्चयस्य लाभाभाव एवेति कथमिदं योजनाद्वयमपीत्यत उभयपक्षेऽप्युभयलाभप्रकारं दर्शयन्नवतारयति तथाचशब्दयोरिति । तद्बलात्साक्षात्साध्येति वदता साक्षात्साध्यलाभाय द्वितीययोजनेति सूचितम् । तर्ह्यत्र पक्षे हेतुसमुच्चयलाभायोग इति साम्यमित्यत उक्तं
परस्परेति । परस्परेति च वदता नान्यतरवैयर्थ्यमिति सूचितम् । हेतुसमुच्चयो हि साध्यसम्बन्धलाभार्थ इति तत्समुच्चयफलं साध्यसम्बन्ध एव । तस्यापि लाभोऽनुकर्षणार्थत्वे भवति । कथम् । अनुक्तं यत्साध्यं तेन समुच्चयरूपत्वात् साध्यानुकर्षणस्य तेन साक्षादेव साध्यसम्बन्धलाभात् । तथा चोक्तफललाभाय हेत्वोः समुच्चयोऽपि न पृथक् वक्तव्यः । इयांस्तु विशेषः । हेतुसमुच्चयार्थत्वपक्षे फलतः साध्यसम्बन्धलाभः । अनुकर्षणार्थत्वे तु साक्षादेवेति । तथा च साक्षात्साध्यसम्बन्धलाभेन समुच्चयफलस्यापि लाभमभिप्रेत्येति ल्यब्लोपनिमित्ता पञ्चमीति ज्ञेयम् । पूर्वपक्षद्वये तथाचशब्दयोरुभयोरपि परस्परहेतुसमुच्चयार्थत्वं वा साध्यसमुच्चयार्थत्वं वाऽऽश्रितम् । इदानीं तथाशब्दमात्रस्योपमार्थत्वमुच्यते । चशब्दार्थस्तु नोक्त इत्यतोऽव्यवहितपूर्वपक्ष इवैतत्पक्षेऽपि चशब्दो यत्र वर्तते तत्रानुक्त-साध्यसमुच्चय एवेत्याश्रित्य तथा-शब्दार्थकथनान्न दोषः । तथाशब्दस्योपमार्थतया व्याख्याने श्रुतिमूलत्वस्य साध्यसमुच्चयसम्बन्धलाभायोग इति च न शङ्कनीयम् । उपमार्थत्वेऽपि समुच्चयार्थत्व इव समुच्चयस्य यत्फलं साध्यसम्बन्धस्तल्लाभादित्यर्थः। अनेन तथाशब्द एव प्रकारान्तराश्रयणे हेतुतया चशब्दापेक्षयोपमार्थत्वेन प्रसिद्ध्यादिर्विशेषः सूचितः । गुणयोगाभावात् कथं गौण्याश्रयणमित्यत उक्तं समानार्थतेति मूलम् । मुख्यार्थानुपपत्तिमाह भगवत इति मूलम् । स्वत इति । स्वभावसिद्धप्रज्ञयेत्यर्थः । प्रयोजनं वक्तुमिति । अन्यथा स्वायत्तन्यायविरोधप्रसङ्ग इति भावः । श्रुतिर्मूलभूता विचार्यतया यस्येति व्युत्पत्त्या विचार्यविचारकभावलाभेन अङ्गाङ्गिभावविज्ञान-प्रकारमाह मूलस्येति । अङ्गाङ्गीभावज्ञापनेनापि किमित्यत आह स चेति मूलम् । श्रुतियुक्तिसंवादित्व-हेतुरिति शेषः । नियतश्रुतिसमानार्थकत्वस्यैव प्रामाण्यसाधकत्वेन यादृच्छिकतत्संवादस्य साधकत्वाभावा-न्नियततत्समानार्थकत्वलाभाय मूलपदप्रयोगः । मूलमूलिनोश्च नियतसमानार्थत्वम् । अन्यथा मूलमूलि-भावानुपपत्तेः । वक्ष्यति च विसंवादे तदनुपपत्तेरित्यादीत्येवं पक्षधर्मतोपपादक इत्यर्थः । यच्छति-संवादीत्यादिना करिष्यमाणव्याप्तिप्रदर्शनादिकं सङ्गमयन्नवतारयति व्याप्तिपक्षधर्मतयोरिति । तदर्थविचार-परत्वान् मीमांसारूपत्वादित्यनेनाङ्गाङ्गिभावस्य श्रुत्यर्थविचारपरत्वमीमांसानिरूपकत्वरूपेण प्रदर्शना-त्तद्व्यावर्त्येयं शङ्का । तच्च पुनस्तस्यार्थवित्तय इत्यादिमीमांसाया युक्तयनुसन्धानात्मकत्वादित्याभ्यामङ्गाङ्गि-भावसाधनात्कुतश्च स इति तद्व्यावर्त्याशङ्का विसंवादे तदनुपपत्तेः । मीमांसाया इत्याभ्यां श्रुत्यादि-संवादित्वस्य पक्षधर्मतोपपादनात्तद्व्यावर्त्यशङ्का कथं च पक्षेऽपीति विवेकः । मीमांसारूपत्वादिति मूलम् । तन्निरूपकत्वादित्यर्थः । युक्तयनुसन्धानात्मकमीमांसानिरूपकत्वं च शास्त्रस्य तदनुसन्धानसाधन-युक्तिग्रथनात्मकत्वात्सिद्धमित्याशयेनाह मीमांसायाश्चेति मूलम् । श्रुतियुक्तिसंवादित्वयोरप्रयोजकत्वं परिहरति अन्यथेति मूलम् । तत्रार्धवैशसस्यासम्भवाभिधानं वत्यर्थमेलनेन घटयति । अर्धवैशसवदिति । समानार्थत्वे सत्यप्येकस्य प्रामाण्यमपरस्य चाप्रामाण्यमित्येतदर्धकुक्कुटीपाकवदसम्भावितमित्यर्थः । अर्धचरतीयायोगादिति यावत् । तन्न्यायश्च शेषलक्षणस्थग्रहैकत्वाधिकरणीयश्रुतशब्दाभिधेयानां नार्थानां युगपत्तथा ग्रहणाग्रहणं युक्तमर्धकुक्कुटीपाकवदिति राणकोक्तो ज्ञेयः । वक्ष्यते चायं न्यायष्टीकाकृताऽऽ-नन्दमयाधिकरणे इत्यर्थ इति । अन्यथाऽर्धकुक्कुटीपाकोऽपि स्यादिति भावो मूले ।