१६ आप्तिस्वरूपनिरूपणम्

वक्तृश्रोतृप्रसक्तीनां..

आप्तिस्वरूपनिरूपणम्

वक्तृश्रोतृप्रसक्तीनां..

सुधा

मैवम् । विवक्षितार्थतत्त्वज्ञानमविप्रलिप्सा विवक्षा करणपाटवं चेतीयमाप्तिः । तद्वानाप्त इत्यङ्गीकारात् । आप्तत्वाभिमतेऽपि कदाचिदिदं नास्तीति चेन्मा भूत् । तदाऽसावनाप्त इत्यङ्गीकारात् । कालादिभेदेनाविरोधात् । एवं सति यो यत्रैवम्भूतः स तत्राप्त इत्युक्तं स्यादिति चेदस्तु को दोषः । यत्तच्छब्दार्थयोरननुगम इति चेत् । कोऽयमननुगमो नाम किं सार्वत्रिक-व्यवहारानौपयिकत्वमुतैकस्यानेकवृत्तित्वाभावः । नाद्यः । यो यस्य सुतः स तदीयं धनम् अर्हतीत्यादौ सार्वत्रिकव्यवहारहेतुतोपलम्भात् । न द्वितीयः । अदोषत्वात् । यथा चाननुगतस्यापि नाव्याप्तिः सार्वत्रिकव्यवहारहेतुता च तथा सामान्यपरीक्षायां वक्ष्यामः ।

वाक्यार्थचन्द्रिका

वाक्याप्रामाण्यस्याबोधकत्वविपरीतबोधकत्वनिबन्धनत्वाद्विवक्षाभावे वाक्यस्वरूपस्यैव अभावाद्वक्तुरपटुकरणत्वे चाबोधकत्वप्राप्तेस्तस्यैवाविवक्षितार्थविपरीतज्ञानविप्र-लिप्साभ्यां विपरीतबोधकत्वप्राप्तेर्वाक्याप्रामाण्यप्रसञ्जकनिरासहेतुत्वाद्विवक्षितार्थतत्त्वज्ञानादेराप्ति-शब्दार्थतया स्वविवक्षां दर्शयति ॥ मैवमित्यादिना ॥ अत्र विवक्षितार्थतत्त्वज्ञानादिमत्त्वं सर्वथा वा किञ्चिद्विशेषितं वा विवक्षितमिति विकल्पं मनसि निधायाद्येऽज्ञातसन्दिग्धेति भीमाग्रजस्यापीत्याप्ता-नामपीत्युक्तं पूर्वलक्षणयोर्दोषं शङ्कते ॥ आप्तत्वेति ॥ अलक्ष्यत्वान्न क्षतिरित्याह ॥ मेति ॥ तदेत्युक्तिप्रयोजनमाह ॥ कालेति ॥ आप्तत्वानाप्तत्वयोः समावेशस्य लक्षणस्याविशेषितत्वेऽनुपपत्त्या समावेशं कथयतो द्वितीयपक्षाभिप्रायं गूढाभिसन्धिर् उद्घाटयति ॥ एवमिति ॥ गूढाभिसन्धिरेव सिद्धान्ती तं पक्षमङ्गीकरोति ॥ अस्त्विति ॥ पूर्वलक्षणोक्तदोषो अत्रापि न निवृत्त इति पूर्ववादी स्वाशयमुद्घाटयति ॥ यत्तदिति ॥ सिद्धान्ती स्वाशयमुद्घाटयति ॥ कोऽयमिति ॥ अनुगमशब्दस्य रूढिभावव्युत्पत्तिभ्यामेकस्यानेकवृत्तित्वे रूढिकरणव्युत्पत्तिभ्यां चानुगमके प्रवृत्तेविकल्पोपपत्तिः ॥ अदोषत्वादिति ॥ एकस्यानेकवृत्तित्वाभावस्य स्वयं लक्षणदोषरूपत्वाभावादित्यर्थः । ननु लक्षणस्यानेकलक्ष्यवृत्तित्वाभाव एवाव्याप्तिरिति कथं नायं दोषः । कथं च ‘यो यस्य सुत’ इत्यादौ उपलब्धिमात्रेण घटत्वपटत्वाद्यनन्ताननुगतधर्मेष्वदृष्टा सार्वत्रिकव्यवहारहेतुता विनोपपादकं निश्चेतुं शक्या । अन्यथा यावद्द्रव्यभाविरूपादिष्वभेदस्य धर्मधर्मिभावस्य चोपलब्धिमात्रेण स्वीकर्तव्यताऽऽ-पत्त्या तदुपपादकत्वेन विशेषोऽपि न त्वत्सिद्धान्ते कल्पनीयः स्यादित्यतो न लक्षणस्यानेकवृत्तित्वा-भावमात्रमव्याप्तिरपि तु लक्ष्यजातीये लक्षणजातीयस्यावृत्तिः । यद्यपि मन्मते जातेरप्यननुगतत्वान्न साजात्यमेकजातीयत्वं तथाऽपि सदृशजात्याश्रयत्वरूपं तदुपपद्यत एव । यद्यपि मन्मते गवादिशब्द-प्रवृत्तिनिमित्तगोत्वादिजातीनां सादृश्ये विद्यमानेऽपि यत्तदादिशब्दप्रवृत्तिनिमित्तघटत्वदेवदत्तादीनां सादृश्याभावस्तथा अपि तदादिशब्दानां घटत्वाद्यवच्छिन्नघटादिशक्तिग्रहे वक्तृबुद्धेरुपाधितया स्वीकृतत्वात्तस्याश्च सदृशत्वाद् बुद्धिद्वारकं तदादिशब्दप्रवृत्तिनिमित्तं घटत्वादौ सादृश्यं विवक्षित्वा सदृशजात्याश्रयत्वं मयाऽपि वक्तुं शक्यत एव । तदेव सदृशजात्याश्रयत्वमुपपादकं विवक्षित्वा सार्वत्रिक व्यावहारहेतुत्वमपि सूपपादमित्याशयेनाह ॥ यथा चेति ॥ वक्ष्याम इति ॥ ‘व्युत्पत्तिरपि हि सादृश्ये-नैवे’त्याद्यनुव्याख्यानव्याख्याऽवसरे । एतेन कार्यकारणभावावधारणादिकमपि समाहितं वेदितव्य-मित्यत्रादिशब्दसङ्गृहीतेव्याप्तिसार्वत्रिकव्यवहारौपयिकत्वादौ शक्तिग्रहप्रकारातिदेशेन वक्ष्याम इत्यर्थः।

परिमल

॥ यत्तच्छब्दार्थयोरननुगम इति चेदिति ॥ यत्त्वतत्त्वरूपजातेरभावेन व्यक्ति- विशेषग्रहणे सति सर्वत्राननुगम इत्यर्थः । नन्वाप्तवाक्यत्वरूपहेतुशरीरप्रविष्टाप्तेरननुगमे सति यद्यदाप्त-वाक्यं तत्सर्वं प्रमाणमिति आप्तवाक्यत्वमात्रे व्याप्तिर्न स्याद् व्यक्तिविशेष एव व्याप्तिः स्यादित्यत आह ॥ यथा चेति ॥ अव्याप्तिर्व्याप्तिहीनता । यद्वाऽऽप्तत्वावच्छिन्नाप्तमात्रे अनुगतस्यैकस्याभावे तत्तद्-व्यक्ति-मात्रनिष्ठधर्मस्यैवाप्तलक्षणत्वेनोक्तावेकत्र व्यक्तौ विद्यमानस्यान्यत्र व्यक्तावभावेनाप्तलक्षणस्याव्याप्तिः । आप्तत्वावच्छिन्नसर्वव्यक्तिषु अयमाप्त इति व्यवहारश्च न स्यादित्यत आह ॥ यथा चेति ॥ वैशेषिकाधि-करणे ‘नरत्वादिकमप्येवं तत्तद्धर्मतयेवयते । न सर्वधर्म एकोऽस्ति समुदायस्तु भिन्नग’ इत्यादि सामान्यास्तित्वनास्तित्वविचारप्रकरणे । ‘इति व्युत्पत्तिरपि हि सादृश्येनैव गम्यते । सर्वेषु युगपच्छब्दः सदृशेषु च वर्तत’ इत्यादिना सादृश्येनैवाननुगतस्यापि धर्मस्य नाव्याप्त्यादिकमित्यादि वक्ष्याम इत्यर्थः । तत्र सादृश्येन सार्वत्रिकव्यवहारस्यैव स्फुटत्वेऽपि तुल्यन्यायतया लक्षणाव्याप्तेरपि सुपरिहरत्वादिति भावः । अत एव च तर्कताण्डवे सादृश्येनैव लक्षणाव्याप्तिं च निरस्य चतुर्णामपि पक्षाणामनु-व्याख्यानोक्तं सादृश्यमेव जीवातुरिति ग्रन्थेन स्वोक्तपक्षचतुष्टयं मूलारूढतया दर्शितमिति ज्ञेयम् ।

यादुपत्यम्

॥ यो यत्रैवम्भूत इति ॥ यत्र विषये एवम्भूतो विवक्षितार्थतत्त्वज्ञानादिमानित्यर्थः ॥ एकस्येति ॥ यत्तच्छब्दघटितस्यैव लक्षणस्येत्यर्थः ॥ यो यस्य सुत इति ॥ अत्रापि कथमिति चेत् । इत्थम् । विशेषविषययोरपि यत्तच्छब्दयोरपि प्रयोगोपाधिर्बुद्धिस्थत्वम् । तच्च प्रकृतसर्वसङ्ग्राहकम् । अतस्तयोः सार्वत्रिकव्यवहारहेतुतोपपद्यत इति । सर्वनाम्नां सर्वार्थत्वाद्यत्तच्छब्दयोर् विशेषविषयत्वेऽपि विशेषतः सर्वत्रानुगतिरस्तीत्यप्याहुः ॥ सामान्यपरीक्षायामिति ॥ ‘व्युत्पत्तिरपि हि सादृश्येनैव गम्यते’ इत्यनुव्याख्यानव्याख्यावसर इत्यर्थः । तत्र यद्यपि सादृश्यस्य सार्वत्रिकव्यवहारहेतुतोक्ता न त्वनुगतस्य लक्षणत्वेऽव्याप्त्यभावः । तथाऽपि सामान्यस्थानाभिषिक्तेन सादृश्येनाव्याप्तिपरिहारोऽपि तत्र तत्रोपलक्षणया विवक्षित एव । लक्ष्यसदृशे लक्षणसदृशस्यावृत्तिरव्याप्तिर्न त्वेकस्य लक्षणस्य लक्ष्यैकदेशे येनानुगतलक्षणानामव्याप्तिरिति ।

वाक्यार्थरत्नमाला

वाक्याप्रामाण्यस्याबोधकत्वेत्यादि । अत्र विवक्षितार्थतत्त्वज्ञानादेराप्ति-शब्दार्थतया विवक्षाकरणे हेतुर्वाक्याप्रामाण्यप्रसञ्जक इत्यादि । प्रसञ्जकबोधकत्वविपरीतबोधकत्व-निरासहेतुत्वादित्यर्थः । अबोधकत्वादिनिरासावश्यकत्वमुपपादयितुमुक्तं वाक्याप्रामाण्यप्रसञ्जकेति । तस्याप्युपपादनं वाक्याप्रामाण्यस्येत्यादिनिबन्धनत्वादित्यन्तम् । शब्दे स्वाभाविकदोषाभावेन पुरुषगता-ज्ञानादिदोषप्रयुक्तमेवाबोधकत्वादीत्याश्रयणीयतया तद्दोषप्रयुक्तमेव वाक्याप्रामाण्यमिति भावः । तत्त्वज्ञानाद्यभावेऽबोधकत्वादेः कथं प्राप्तिर्येन तन्निरासो विवक्षितार्थतत्त्वज्ञानादिना स्यादित्यतस्तदुपपादनं विवक्षाभाव इत्यादि । अबोधकत्वविपरीतबोधकत्वक्रमानुसारेण विवक्षादि व्यावर्त्य विवक्षाभावादेः प्रथमत उपपादनम् । विपरीतबोधकत्वप्राप्तेरित्यनन्तरं वाक्याप्रामाण्यप्राप्त्येति शेषः । वाक्याप्रामाण्यप्रसञ्जक-तन्निरासहेतुत्वादिति पाठस्तु स्वरस एव । शेषपूरणाश्रयणाभावादिति ज्ञेयम् । निरासहेतुत्वात्प्राप्ता या स्वविवक्षेति योज्यम् । अनेन स्वस्येयं विवक्षा निर्मूलेति शङ्का निराकृता । सन्दिग्धेतीति । सन्दिग्धानु-वादेत्यनेनोक्तमित्युत्तरेण सम्बन्धः । भीमाग्रजस्यापीत्याप्तानामपीतीत्येवमपीतीत्यस्योभयत्र सम्बन्धः । त्रयस्यापि पूर्वलक्षणयोरित्युक्तं दोषमिति सम्बन्धः । इत्येतद्वाक्यत्रयेणोक्तमव्याप्त्याख्यदोषमित्यर्थः । प्रयोजनमाहेति । एकस्यैवाप्तत्वं तदभावश्चेत्येवमुभयं विरुद्धमित्याशङ्कापरिहाराय तदेत्यनेन सूचितं प्रयोजनमाहेत्यर्थः । आप्ततानाप्तत्वयोरिति । विवक्षितार्थतत्त्वज्ञानादिमत्वस्य यो यत्रेत्यादिरूपेण विशेषितत्वाभावे आप्तत्वानाप्तत्वयोः समावेशस्यानुपपत्तेरित्यर्थः । कथयतस् तदेत्येतद्विवरणरूपकालादि-भेदेनेत्यनेनेति शेषः । कथयतो द्वितीयेत्यस्य तथाकथनेनाङ्गीकृततया सूचितो यः किञ्चिद्विशेषितमिति द्वितीयपक्षस्तत्र योऽभिप्रायः समावेशकथकस्य सिद्ध एव तमुद्घाटयतीत्यर्थः । गूढाभिसन्धिरित्यनेन लक्षणाननुगमरूपदूषणेन तमभिप्रायं दूषयितुं तावदुद्घाटयतीत्युक्तं भवति सिद्धान्तीति । सिद्धान्त्यपि पराभिसंहितं दोषं परिहरिष्यामीति भावेनाङ्गीकृतोऽयं किञ्चिद्विशेषितं तत्त्वज्ञानादिकमिति द्वितीयः पक्ष इत्याहेत्यर्थः । पूर्वलक्षणेति । यत्र विषये निर्दोष इति पूर्वनिरस्तचरमलक्षणेत्यर्थः । अननुगमस्यानु-गमाभावरूपत्वात्प्रतियोगिभूतानुगमज्ञाने सति तदभावज्ञानं सुलभमिति मत्वाऽनुगमपदार्थत्वेन प्रसक्त-तत्तदर्थप्रापकं कथयन् तदभावविकल्पोपपत्तिमाह अनुगमेति । भावेति । अनुगमनमनुगम इति भावव्युत्पत्तिः । वृत्तित्वे प्रवृत्तेरिति सम्बन्धः । करणेति । अनुगम्यतेऽनेनेत्यनुगम इति करणव्युत्पत्तिः । विकल्पोपपत्तिः । एवमनुगमशब्दस्यानेकवृत्तित्वानुगमकरूपार्थद्वयवत्वात्तस्यानेकवृत्तित्वाभावोऽनुगम-कत्वाभावश्चेत्यर्थद्वयप्राप्तेः किं सार्वत्रिकेत्यादिविकल्पोपपत्तिरित्यर्थः । एकस्येति । एकस्य यदनेकवृत्तित्वं तदभावस्य स्वयं साक्षात्स्वरूपेण लक्षणदोषरूपत्वाभावात् । एकस्यानेकवृत्तित्वाभावाख्यलक्षणदोषा-भावादिति यावत् । एवाव्याप्तिरिति । उक्ताभावस्य स्वरूपेण पृथग्दोषत्वाभावेऽपि तस्याव्याप्तिरूपतया तस्याश्च दोषत्वसिद्धेर्दोषत्वमनिवार्यमित्यर्थः ।

एवं सन्निहितत्वनिमित्तेनैकस्यानेकवृत्तित्वाभावरूपद्वितीयपक्षदूषणमाक्षिप्य सार्वत्रिकव्यवहारानौपयि-कत्वरूपाद्यपक्षोक्तं दूषणमप्याक्षिपति कथं च य इति । मूले तत्रत्यसार्वत्रिकव्यवहारहेतुतायाः सर्व-सम्मतत्वेन कथञ्चित्कार्यबलेन निर्वाह्यत्वमित्यभिप्रायेणैतदुदाहरणोपादानात्तत्रैवाक्षेप इति ज्ञेयम् । अनन्ता-ननुगतेति । घटत्वपटत्वस्तम्भत्वादिरूपा येऽननुगता धर्मास्तेषु कस्मिंश्चिदस्य दृष्टा या सार्वत्रिकव्यवहार-हेतुतेत्यर्थः । अत्र च घटत्वादौ सार्वत्रिकव्यवहारहेतुत्वादर्शनं नाम एकमेव घटत्वं घटपटदेवदत्तादिषु व्यवहारहेतुर्नेत्येवं प्रकृतयत्तच्छब्दधर्मभूतसार्वत्रिकव्यवहारहेतुत्वादर्शनमेव विवक्षितम् । अन्यथाऽ-नेकघटेष्वेकस्य घटत्वस्योक्तव्यवहाराहेतुता, एवं पटेषु पटत्वस्येत्यादिरूपेण सार्वत्रिकव्यवहारहेतुतापि प्रत्येकं दृश्यत एवेति तददर्शनोक्तययोगप्रसङ्ग इति ज्ञेयम् । उपपादकं विना निश्चेतुं शक्यत्वाभावे हेतुर्घटत्वेत्यादिरदृष्टेत्यन्तः । तथा च कथमित्यस्याक्षेपार्थत्वात् ‘यो यस्य सुत’ इत्यादौ सार्वत्रिकव्यवहार-हेतुतोपलभ्यमानापि उपपादकं विना निश्चेतुं न शक्येत्युक्तं भवति । सम्भावनामात्रसम्भवेऽपि तस्याप्रयोजकत्वान्निश्चयानुपपत्तिरेवोक्ता । उपपादकसहितोपलम्भस्यैव साधकत्वादिति भावः । यत्र यदुपलभ्यते तत्र तदुपपादके सत्येव तन्निश्चय इत्यनङ्गीकारे बाधकमाह अन्यथा यावदिति । अयावद्द्रव्य-भाविरूपादौ तु खण्डितत्वेन भेदस्यापि सत्त्वाद्भेदेनैव धर्मधर्मिभावोपपत्तिरित्याशङ्कावारणाय तत्रापि भेदाभेदविरोधपरिहारायां ततो विशेषोऽङ्गीकार्य एवेत्युपपादनप्रयास इत्यतो यावद्द्रव्यभाविनामेव ग्रहणम् । अभेदस्येति धर्मिणेति शेषः । तदुपपादकत्वेनेति । अभेदे सत्यपि धर्मधर्मिभावस्योपपादकत्वेनेत्यर्थः । अव्याप्तिरिति । येनाननुगमस्य दोषत्वाभावे तदुच्छेदः प्रसज्येतेति भावः । अवृत्तिरिति । अव्याप्तिरिति वर्तते । उक्तस्थलीयतर्कताण्डवे कार्यकारणभावावधारणादिकमिति सामान्यपरीक्षास्थादिपदसङ्गृहीत-प्रदर्शनपरे लक्ष्यजातीये लक्षणजातीयस्यावृत्तिरव्याप्तिः । अलक्ष्यजातीये च तस्य वृत्तिरतिव्याप्ति-रित्यादिनिरूपणात्तदनुसारेणेदमव्याप्तिनिर्वचनम् । अत्र च लक्षणजातीयस्येति पाठो मूलकोशानुसारी । लक्षणस्येति पाठस्तु लेखकप्रमादात् । उक्तविधाव्याप्तिस्वरूपान्तर्गतजातीयपदार्थं वक्तुं तमाक्षिपति यद्यपीति । एकजातीयत्वं नामैकजातिमत्वरूपं साजात्यं न विवक्षितम् । मन्मते जातेरप्यननुगतत्वादिति योजना । गोत्वादिजातीनां सादृश्य इति । गोशब्दप्रवृत्तिनिमित्तानामनन्तगोत्वानां गोशब्दप्रवृत्ति-निमित्तत्वाविशेषेण सादृश्ये विद्यमानेऽपीत्यर्थः । तथा देवदत्तशब्दप्रवृत्तिनिमित्तानामनन्तदेवदत्तत्वाना-मित्यादि योज्यम् । अत्र कथञ्चिदिति शेषः । तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वरूपसादृश्यस्य भिन्नधर्म-वादेऽभावेनोक्तसादृश्यानुपपत्तेः । तद्गतधर्मसदृशधर्मवत्त्वस्यैव च सादृश्यपदेन विवक्षणे च तद्धर्मेष्वपि सादृश्यनिरूपणस्योक्तरीत्या कर्तव्यत्वेऽनवस्थादि प्रसज्यते । अतः सदृशाविमावित्यादिप्रतीतिसिद्ध-मखण्डमेव सादृश्यं विवक्षणीयमिति गोत्वानां सादृश्यं कथञ्चिदेव प्राप्तम् । एवं देवदत्तत्वादि-तत्तज्जातीनामपि सादृश्यमूह्यम् । उक्तं च ‘वैशेषिकनयस्थव्युत्पत्तिरपि हि सादृश्येनैवे’त्येतदनुभाष्यमूले । अस्ति तावत्सादृश्यं नाम पदार्थान्तरमिति । उक्तं च तट्टीकायाम् । सामान्याद्भिन्नं परमते सामान्यादि-वदखण्डमेव सादृश्यमित्यङ्गीकारात्तत्सिद्धान्ते तदनुपपत्तिरित्याशयेनोक्तं पदार्थान्तरमितीति । एतेन तद्भिन्नत्वे सतीत्यादि निर्वचनानुपपत्तिशङ्कानिर्वचनपक्षानङ्गीकारादेव नावकाशवतीति सूचनात् । केचित्तु ययोर्यदन्योन्यधर्मिकान्योन्याभावप्रतियोगितानवच्छेदकभूयोधर्मवत्त्वं न तयोः सादृश्यमिति विवक्षितम् । अस्ति च दृश्यत्वेनाभिमतयोगो व्यक्तयोरुक्तं सादृश्यम् । एकगोधर्मिकान्योन्याभावस्याश्वादिप्रतियोगिकतया अश्वत्वादेस्तत्प्रतियोगिताद्यवच्छेदकत्वेऽपि सास्नादिमदादिप्रतियोगिकत्वाभावेन सास्नादिमत्वादेरुक्ता-न्योन्याभावप्रतियोगितानवच्छेदकतया तादृशभूयोधर्मवत्त्वस्य द्वितीयगोव्यक्तौ सत्त्वेन तथैव द्वितीयगो-व्यक्तिधर्मिकान्योन्याभावप्रतियोगितानवच्छेदकसास्नादिमत्त्वधानकर्मत्वादिभूयोधर्मत्वस्यैकेति निर्दिष्टगोव्यक्तौ सत्त्वेन तयोः सादृश्यनिरूपणसम्भवात् । गौः सास्नादिमती नेति प्रत्ययाभावे गोव्यक्ति-धर्मिकान्योन्याभावस्य सास्नादिमत्वप्रतियोगितानवच्छेदकं तच्च गोव्यक्तयन्तरेऽस्तीति तयोः सादृश्य-प्राप्तिवद् गौश्चलनादिमती नेति प्रत्ययाभावेन गोधर्मिकान्योन्याभावप्रतियोगितानवच्छेदकचलनादि-मत्वस्याप्यस्तीति तादृशधर्मवत्त्वेनाश्वादेरपि गोसादृश्यप्राप्तिवारणाय भूय इति विशेषणम् । न चोक्तप्रति-योगितावच्छेदकभूयोधर्मवत्त्वं गोव्यक्तयन्तरस्येवाश्वादेरप्यस्तीति युक्तस्तद्व्यवच्छेदः । अत्र सादृश्यं वक्तुर्येन रूपेण विवक्षितं तद्रूपस्योक्तान्योन्याभावप्रतियोगितानवच्छेदकत्वमित्युच्यत इति । गवाश्वयोः पशुत्वादिना सादृश्यविवक्षास्थले पशुत्वादेर्गोधर्मिकान्योन्याभावप्रतियोगितानवच्छेदकतया तादृशधर्मवत्त्वेन घटादि-व्यावृत्तेन युक्तं गवाश्वयोरपि सादृश्यो नेति न दोषः । एवं च यो यद्धर्मिकान्योन्याभावप्रतियोगिता-नवच्छेदक-विवक्षितधर्मवान् तस्य तेन सादृश्यमिति फलति । न चैवं सत्यतिप्रसङ्गोऽस्ति । गवाश्वयोरिव उक्तधर्मस्य घटादावभावात् । एवमन्यत्रापि सादृश्यं विवक्षानुसारेणैवेति न कश्चिद्दोषः । एवं तथापि तदादीत्युत्तरवाक्येऽपि गोत्वगोत्वत्वरूपविवक्षितधर्मवत्त्वस्यापरगोत्वे सत्त्वे वाऽनेकगोत्वधर्मिकान्योन्या-भावप्रतियोगितानवच्छेदकत्वसादृश्यप्राप्तिवच्च यत्तदादिसर्वनामप्रवृत्तिनिमित्तघटत्वं देवदत्तत्वादिजाती-नामपि तत्तद्घटत्वादिजातिधर्मिकान्योन्याभावप्रतियोगितानवच्छेदकं वक्तृबुद्धिविषयत्वरूपविवक्षितधर्मवत्त्वे च वक्तृबुद्ध्यविषयव्यावृत्तेन सादृश्यप्राप्तिः सम्भवतीति न सादृश्यनिर्वचनानुपपत्तिरित्यभि-प्रेतमित्याहुः । यत्तदादीति । यच्छब्दस्य हि घटत्वदेवदत्तत्वादिविशिष्टेषु शक्तिग्रहः । एवं तच्छब्दे तच्छब्दादेरपि प्रत्येकमुक्तेषु शक्तिग्रहः । तथा च एकगोशब्दप्रवृत्तिनिमित्तगोत्वानां गोशब्दप्रवृत्तिनिमित्तत्वेन रूपेण सादृश्यं कथञ्चिदुपपादयितुं शक्यम् । एकयच्छब्दप्रवृत्तिनिमित्तघटत्वदेवदत्तत्वादीनां तु भिन्नभिन्न-शब्दप्रवृत्तिनिमित्तत्वसद्भावेन सादृश्यं न कथञ्चिदपीत्यर्थः । घटत्वादीति । घटत्वदेवदत्तत्वादिभिन्न-भिन्नानन्तधर्मावच्छिन्नानन्तघटदेवदत्तादिव्यक्तिषु शक्तिग्रहे घटदेवदत्तादिविषयकवक्तृनिष्ठबुद्धेरुपाधितया स्वीकृतत्वादित्यर्थः । सदृशत्वादिति । तत्तद्वक्तॄणां स्वस्वबुद्धिविषयघटदेवदत्तादिष्वेते घटदेवदत्तादयो यच्छब्दवाच्यास्तथा तच्छब्दवाच्या इत्येवमेकप्रकारबुद्ध्युत्पादनात्तद्बुद्धीनां सादृश्यमिति भावः । अस्तु बुद्धेः सदृशत्वं तावतापि घटादिशब्दप्रवृत्तिनिमित्ते घटत्वादौ तु किमायातमित्यतस्तेषु साक्षात्सादृश्यासम्भवेऽपि घटत्वदेवदत्तत्वादाविशिष्टेषु यत्तदादिशब्दशक्तिग्रहोपयोगिप्रत्यासत्तिभूततदधिगतसादृश्यस्य विषयता-सम्बन्धेन बुद्धिनिरूपकघटत्वादिष्वप्युपचारेण प्रवृत्तिस्वीकारात्पदानामर्थानां च साकाङ्क्षत्वादिवद्घटत्व-सदृशं देवदत्तत्वं देवदत्तत्वसदृशं च घटत्वमित्येवं घटत्वदेवदत्तत्वादीनामपि सादृश्याद्गवामिव घटादी-नामपि सदृशजात्याश्रयत्वं मयापि वक्तुं शक्यत एवेत्यर्थः । तदादिशब्दप्रवृत्तिनिमित्तघटत्वा-दाविति समस्तपदपाठः । निमित्तमिति तु लेखकागतम् । अत्र शक्यत एवेत्यस्येत्याशयेनेत्युत्तरेण सम्बन्धः । एवमव्याप्तिमुपपाद्य परोक्तोपपादकत्वाभावे घटत्वादीनां सार्वत्रिकव्यवहारहेतुतानिश्चयो न सम्भवतीत्येतदपि दूषयति तदेवेति । सूपपादमिति । यो यस्य सुत इत्यादौ विद्यमानयत्तच्छब्दार्थभूतपुत्रपित्रोरपि पितापुत्रविषयवक्तृनिष्ठसदृशबुद्धिगतसादृश्यस्य पितृत्वपुत्रत्वयोरुपचारेण स्वीकारात्सदृशपितृत्वादि-जात्याश्रयत्वरूपमुपपादकतत्तत्पितॄणां तत्तत्पुत्राणां चास्त्येवेति तद्विवक्षया सार्वत्रिकव्यवहारहेतुत्व-मप्युपपादयितुं शक्यत इत्यर्थः । एतत्प्रमेयस्य वक्ष्यमाणत्वं घटयति इत्यत्रादिशब्देति । त्वादावित्यनन्तरं समाधानमिति शेषः । अत्र वक्ष्यमाणत्वोक्तयनुसारेणोत्तरटीकायां व्याख्यानाभावात्तद्व्याख्यावसरे आदिपद-सङ्गृहीताव्याप्त्याद्युपपादनपरैतद्ग्रन्थानुसारेण व्याप्त्यवधारणादीत्यादिपदेन टीकास्थेनाव्याप्तिसार्वत्रिक-व्यवहारोपयिकत्वयोरपि ग्रहणम् । उपपादनं त्वत्रत्यमेव तत्र लिख्यतेऽस्माभिः । तत्रत्यव्याख्यान-स्याप्युपयोगे इदमधिकत्वेन निक्षेप्यम् । तेन पूर्वोत्तरग्रन्थयोरेकवाक्यता भवतीति न दोषः ।