१५ कोऽयमाप्तः

वक्तृश्रोतृप्रसक्तीनां..

कोऽयमाप्तः

वक्तृश्रोतृप्रसक्तीनां..

सुधा

एतदुक्तं भवति । विमतमाप्तवाक्यमनुकूलेन वक्त्राऽनुकूलान् श्रोतृन्प्रति तदीयहित-साधनबोधायोपदिष्टत्वात्सम्प्रतिपन्नवत् । विमतं प्रमाणमाप्तवाक्यत्वात्सम्प्रतिपन्नवदिति । वक्तुरानु-कूल्याभावाज्जैनाद्यनाप्तवाक्यम् । श्रोत्रानुकूल्यविरहाद्बौद्धादि । प्रसङ्गानुकूलतावैधुर्यान् नर्मादि । ननु कोऽयमाप्तो नाम यद्वाक्यत्वं साध्यते । यथादृष्टार्थवादीति चेन्न । भ्रान्तिदृष्टार्थवादिन्यपि प्रसङ्गात् । प्रमाणदृष्टेति विशेषणेऽपि प्रमाणदृष्टस्य प्रमादादिनाऽन्यथाकथके अपि प्रसङ्गात् । प्रमाणेन यथा दृष्टं तथा वादीति चेन्न । एकदेशे तथाभूतवादित्वेऽप्यंशान्तरे अतथाभूतवादिन्यपि प्रसङ्गात् । यावत्प्रमाणदृष्टं तावतो वक्तेति चेन्न । प्रायेणातथाभूतत्वादेव लक्ष्याणां तदव्याप्तेः । न हि केनापि यावत्प्रमाणप्रमितं तावदभिधीयते । यावत्प्रमाणदृष्टं तावत एव वक्तेति चेन्न । अज्ञातसन्दिग्धानु-वादवाक्यप्रयोक्तुरनाप्तत्वप्रसङ्गात् । भीमाग्रजस्य अपि कदाचिच्चाटुवादित्वसम्भवेनानाप्तत्वापत्तेश्च । निर्दोष आप्त इति चेन्न । आप्तानामपि क्वचिद्रागादिदोषसम्भवात् । यत्र विषये निर्दोषस्तत्राप्त इति चेन्न । यत्तच्छब्दयोर्विशेषविषयत्वेनासाधारण्यादव्याप्तेरिति ।

वाक्यार्थचन्द्रिका

एवं च सिद्धमनुमानप्रयोगं दर्शयितुमाह ॥ एतदुक्तं भवतीति ॥ प्रथमहेतौ विशेषणत्रयव्यवच्छेद्यानि दर्शयति ॥ वक्तुरित्यादिना ॥ नन्वस्तु वक्राद्यानुकूल्यं माऽस्तु चाप्तवाक्यत्वं विपक्षे बाधकाभावादप्रयोजको हेतुरित्यतो व्याघातरूपं विपक्षे बाधकमेवं चेत्यादिना वक्तुं विवक्षितार्थ-तत्त्वज्ञानाविप्रलिप्साकरणपाटवविवक्षाणामाप्तिशब्दार्थत्वं व्यवस्थापयन् द्वितीयानुमाने नन्वाप्तेत्यादिना शङ्किष्यमाणव्यभिचारपरिहाराय यो यत्रेत्यंशस्याप्तिशब्दार्थान्तर्गततां च व्यवस्थापयन् खण्डनोक्ताप्ति-लक्षणदूषणमनुवदति ॥ ननु कोऽयमिति ॥ लोके प्रायशो यथादृष्टार्थवाद्यादिष्वाप्तत्वव्यवहारादेषां पक्षाणां प्रसक्तिरिति द्रष्टव्यम् । यथादृष्टार्थवादित्वमाप्तत्वं विवक्षितं प्रमाणदृष्टार्थवादित्वं प्रमाणेन यथा दृष्टं तथा वादित्वं वा । अत्र प्रथमे दृष्टानतिक्रममात्रं वादे विवक्षितं दर्शनप्रामाण्ये त्वौदासीन्यम् । द्वितीये विपरीतं तृतीये तूभयं विवक्षितमिति द्रष्टव्यम् । तत्राद्यमुत्थाप्य तथात्वे देहात्मनोर्भ्रान्त्यैकत्वं प्रतिपाद्य देह एवात्मेति व्यवहरतोऽप्याप्तत्वं स्यादित्याह ॥ भ्रान्तीति ॥ द्वितीयमुत्थाप्य तथा सति प्रमाणेन इन्द्रियाणां प्राकृतत्वं प्रतिपद्य प्रमादादिना भौतिकानीन्द्रियाणीति वादिनः साङ्ख्यस्याप्तत्वं स्यादित्याह ॥ प्रमाणेति ॥ तृतीयेऽपि यथा प्रमाणेतिविशेषणद्वयस्यैव विवक्षा यावदित्यपि वा विवक्षितम् । नाद्यः । ग्रावाणः प्लवन्त इति वादिनोऽपि ग्रावाण इत्यंशे तथाभूतवादित्वात्प्लवन्त इत्यंशे चातथाभूतवादित्वाद् आप्तत्वापत्तिरित्याह ॥ एकदेश इति ॥ द्वितीयेऽपि यावदित्यवधारणं कार्त्स्न्यार्थमुतान्ययोगव्यवच्छेदार्थम् । नाद्यः । आप्तत्वेनाभिमतानां प्रमाणदृष्टस्य कार्त्स्न्येनावक्तृत्वाद-व्याप्तिरित्याह ॥ प्रायेणेति ॥ असम्भवे प्रसञ्जनीयेऽव्याप्तिः कुतः प्रसज्यत इत्यतः प्रायेणेत्युक्तम् । तदेवोपपादयति ॥ न हीति ॥ केनापीति ॥ अस्मत्परिचितेनेत्यर्थः । द्वितीयमुत्थापयति ॥ यावदिति ॥ भ्रान्तिदृष्टवादिनि लोके अनाप्तव्यवहारेऽप्यज्ञातवाक्यप्रयोक्तरि सन्दिग्धवाक्यप्रयोक्तर्यनुवादवाक्य-प्रयोक्तरि च लोकेऽनाप्तत्वव्यवहाराभावेन तेषामपि लक्ष्यत्वात्तत्र च लक्षणणाभावेनाव्याप्तिः स्यादित्याह ॥ अज्ञातेति ॥ भीमाग्रजस्य अपीति ॥ प्रतिपक्षसेनानिविष्टानामप्याप्तत्वेन सम्मतस्य युधिष्ठिरस्य कदाचिदनृतवादित्वदर्शनेन तत्रापि अव्याप्तिरित्यर्थः । एवं दृष्टिगर्भलक्षणानि निराकृत्य लक्षणान्तरं निराकरोति ॥ निर्दोष इति ॥ अत्र निर्दोषत्वं सर्वथा विवक्षितम् । यत्र विषय इति विशेषितं वा । आद्ये भीमाग्रजादावव्याप्तिरित्याह ॥ आप्तानामिति ॥ द्वितीयं शङ्कते । यत्रेति । एतच्चोपलक्षणम् । प्रथमपक्षेऽप्येवं विवक्षायामेतदेव दूषणं स्यादित्यपि द्रष्टव्यम् । अत एवान्ते तस्य निवेशनम् । यत्तच्छब्दयोः सर्वनामत्वात्सर्वनाम्नां च घटदेवदत्तादिविषयिणीं शक्तिग्रहाविषयतया शाब्दज्ञाने विषयतयाऽप्रविष्टां ज्ञातां बुद्धिमुपधानीकृत्य घटत्वदेवदत्तत्वाद्यनेकप्रकारावच्छिन्नेषु देवदत्तादिषु शक्तिग्रहणेन यत्तदादीनां घटत्वादिप्रकारकघटाद्युपस्थितिजनकत्वाल्लक्षणवाक्यस्य घटविषये निर्दोषो घट आप्त इत्याद्यर्थप्राप्त्या तस्य चाप्तत्वावच्छिन्नेऽभावेन अव्याप्त्यापत्त्याऽऽप्तमात्रे आप्त इत्यादिव्यवहार-सम्पादनलक्षणस्वप्रयोजनासाधकत्वाच्च नेदं लक्षणं युक्तमित्यभिप्रेत्य दूषयति ॥ यत्तदिति ॥ अव्याप्तेरिति ॥ सार्वत्रिकव्यवहारानौपयिकत्वस्याप्युपलक्षणम् । अत एवोत्तरत्र सामान्येनानूद्य विकल्पयिष्यतीति द्रष्टव्यम् ।

परिमल

वक्तृश्रोतृप्रसक्तीनामनुकूलतेत्यत्रास्येति शेषमुपेत्य फलितार्थमाह ॥ अस्येत्यादि ॥ विमतमिति ॥ ब्रह्मतन्त्रम् । आद्यप्रयोगे हेतुविशेषणकृत्यान्याह ॥ वक्तुरिति ॥ बौद्धादीत्यत्र नर्मादीत्यत्र चानाप्तवाक्यमित्यनुषङ्गः । नर्मादौ अनृतोक्तावप्यदोषात् । ‘न नर्मयुक्तमनृतं हिनस्ति न स्त्रीषु राजन्न विवाहकाले । प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानी’ति भारतोक्तेरिति भावः । विमतमाप्तवाक्यमित्यादिप्रागुक्तप्रयोगे हेतुसाध्ययोर्व्याप्तिम् एवं च वक्तुरित्यादिना व्युत्पादयितुं मैवमित्यादिनैवं चेति अन्तेनात्र विवक्षिताप्तत्वं समर्थयमान आप्तत्वमाक्षिपति ॥ ननु कोऽयमित्यादिना मैवमित्यन्तेन ॥ अज्ञातेति ॥ अज्ञातसन्दिग्धार्थकवाक्यानुवादरूपवाक्ययोः प्रयोक्तुरित्यर्थः । तत्राज्ञानादिविषयस्यापि वक्तृत्वेन प्रमाणदृष्टस्यैव वक्तृत्वाभावादिति भावः ।

यादुपत्यम्

आप्तवाक्यत्वसाधकहेतुविशेषणानां क्रमेण व्यवच्छेद्यान्निदर्शयति ॥ वक्तु-रित्यादिना ॥ आप्तवाक्यतासाधकाऽनुमानेऽप्रयोजकताशङ्कापरिहारायानुकूलतर्कं वक्तुमाप्तस्वरूपं निर्धारयितुमाह ॥ ननु कोऽयमाप्त इति ॥ तावत एव वक्तेति ॥ प्रमाणदृष्टस्यैव वक्तेत्यर्थः ॥ अज्ञातन्दिग्धेति ॥ अनुवादकर्त्रा यत्प्रमेयं स्वेन न ज्ञातं सन्दिग्धं वा तत्प्रतिपादकं यद्वाक्यं तदनुवादस्तावत्क्रियते । तस्य च आप्तत्वं वादविषये सुप्रसिद्धम् । न हि स प्रमितं वादमेव वदति । तदवच्छेदकतयाऽज्ञातस्य सन्दिग्धस्य वा विषयस्यापि वचनात् । अतो लक्षणस्य तत्राव्याप्तिरित्यर्थः । केचित्तु अज्ञाते सन्दिग्धेऽनुवादे च यद्वाक्यं तत्प्रयोक्तुराप्तत्वं न स्यादित्यर्थ इत्याहुः ॥ भीमाग्रज-स्यापीति ॥ धर्मराजत्वात्प्रमितवक्तृतया प्रसिद्धस्यापीत्यर्थः । कदाचिद् द्रोणवधसमये नर्मादिसमये वा ॥ चाटुवादित्वसम्भवेनेति ॥ अप्रमितवादित्वसम्भवेनेत्यर्थः ॥

श्रीनिवासतीर्थीया

॥ तावतो वक्तेति ॥ तावतः सर्वस्य वक्तेत्यर्थः ॥ असाधारण्यादिति ॥ सर्वानुगतत्वाभावादित्यर्थः ॥

वाक्यार्थरत्नमाला

प्रयोगमिति । प्रयोगद्वयमित्यर्थः । प्रथमहेताविति । अनुकूलेन वक्त्रेत्यादिहेतावित्यर्थः । वक्तुरानुकूल्याभावादिति मूलम् । जैनादिवाक्ये श्रोतॄणां तत्त्वज्ञानयोग्यतया वक्तृप्रेमास्पदतया वानुकूल्यसद्भावात् । श्रोत्रभिमतमोक्षोद्देश्यकतया प्रसङ्गानुकूल्यस्यापि सत्त्वेन तत्र व्यभिचार-वारणायानुकूलेन वक्त्रेति प्रथमविशेषणमुपात्तम् । जैनस्य तु विवक्षितार्थतत्त्वज्ञानादि-रूपवक्त्रानुकूल्याभावात्तद्वाक्येन व्यभिचारः । बौद्धागमेऽपि वक्त्रानुकूल्यप्रसङ्गानुकूल्ययोः सद्भावे-नानुकूलेन वक्त्रा श्रोतृहितसाधनबोधायोपदिष्टत्वसत्त्वेऽपि वास्तवतत्त्वज्ञानयोग्यत्वस्य मोहनविषय-श्रोतृष्वसम्भवेन श्रोत्रानुकूल्याभावान्न तत्र व्यभिचारः । यद्यपि वास्तवतत्त्वज्ञानयोग्यतयैव जैनादेरपि व्यवच्छेदः । वास्तवविवक्षितार्थतत्त्वज्ञानस्याप्यन्यथाविवक्षा न स्यात् । तथा च यथा बौद्धागमे वास्तवतत्त्वज्ञानादिमान् वक्ता । तादृशतत्त्वज्ञानायोग्यश्च श्रोतेति श्रोत्रानुकूल्याभाव इति कल्प्यते तथा जैनाद्यागमेऽपि । तथा च न विशेषणव्यावृत्तिव्यवस्था सम्भवतीत्याभाति । तथाप्यत्र जैनागमे वक्तृश्रोत्रोरुभयोरप्यननुकूलत्वेऽपि पुरस्फूर्तिकतया वक्त्रनानुकूल्यमनाप्तवाक्यता यैः प्रोच्यते । यथा वक्ष्यमाणपूर्वपक्षदशायां विषयशून्यत्वादित्यादिनोभयाभावस्य (वत्त्वेऽपि एकाभावस्य) विशिष्य प्रतिपादनादिकमित्याहुः । वस्तुतस्तु जैनागमीयश्रोतुर्न वास्तवतत्त्वज्ञानायोग्यत्वम् । कल्पकाभावात् । किन्तु वक्तैव वास्तवविवक्षितार्थज्ञानादिशून्यत्वादनुकूलेभ्योऽपि श्रोतृभ्यः लोके दुष्टविप्रलम्भकवत् स्वमतिपरिकल्पितमुपदिशतीत्येतावन्मात्रेण तेषां तत्त्वज्ञानाभावः । बौद्धागमे तु वक्त्रा वास्तव-ज्ञानादिमतापि दुष्टजनमोहनायैवोपदेशकरणेन वास्तवतत्त्वज्ञानायोग्यतयैव तेषां तत्तत्त्वज्ञानाभावः । इत्येवं श्रोतृवक्त्रानुकूल्ययोरभावः प्रत्येकमेव उपपादयितुमशक्यः । लोके हि व्याख्यातृशिष्ययोर्यत्र व्याख्याता परमकुशलः शिष्यश्च बहुधोपदेशेऽपि जन्यबोधानधिकरणम् । तत्र व्याख्यातृवैगुण्यं नाभिधीयते किन्तु शिष्यवैगुण्यमेव । एवमयं महता प्रयत्नेनोपदिशति तथापि काष्ठलोष्ठायितोऽयं शिष्यो न किमपि जानातीति । यत्र पुनः शिष्यो बुद्धिमान् अल्पप्रमेयकथनेऽपि स्वाभ्यासादिसामर्थ्येन विशदतत्प्रमेयावगमं सम्पादयति । गुरुश्च पूर्वोत्तरपरामर्शतद्विवक्षितार्थ तत्त्वज्ञानशून्यतया विनेयोप-युक्तप्रमेयोपदेशे समर्थो न भवति तत्र स्थले यद्यस्य विनेयस्य महानुपदेष्टा स्यात्तदासौ परमपण्डितः स्यादिति गुरुवैगुण्यमेवाभिधीयते न विनेयवैगुण्यम् । नहि गुरोरन्यथाभावमात्रेण विनेयस्तत्त्वज्ञानयोग्य एव न भवतीति व्यवह्रियते । एवमेव बौद्धागमे श्रोतुस्तत्त्वज्ञानायोग्यत्वेऽपि जैनाद्यागमे श्रोतुस्तत्त्व-ज्ञानयोग्यतास्तीत्यङ्गीकारोपपत्तेः श्रोत्रानुकूल्येन जैनादिव्यावृत्त्युपपत्त्या युक्ता विशेषणव्यावृत्ति-व्यवस्थेत्यलम् ।

अप्रयोजको हेतुरित्यत इति । विमतमाप्तवाक्यमित्येतदनुमानीयोऽनुकूलेन वक्त्रेत्यादिर्हेतुरित्यर्थः । एवं चेत्यादिनेति । एवं च वक्तुरानुकूल्यमाप्त्येकदेश एवेत्यादिनेत्यर्थः । नन्वाप्तेत्यादिनेति । न चाप्तवाक्यता स्वकपोलेत्यादिनेत्यर्थः । यो यत्रेत्यंशस्येति । अनेन विशिष्टाप्तिलक्षणे यो यत्रेत्यंशं विहाय विवक्षितार्थ-तत्त्वज्ञानाविप्रलिप्सेत्युक्ताप्तिनिरूपणं प्रथमानुमानीयाप्रयोजकतानिरासोपयोगीत्युक्तोंऽशस्तु द्वितीयानु-मानीयव्यभिचारनिरासायाप्त्यन्तर्गततया निरूपितः । पूर्वानुमाने तत्प्रयोजनाभावादिति सूचितं भवति । वक्ष्यति च प्रयोजनस्य प्रथमेति । यद्यपि प्रथमानुमान इव द्वितीयानुमानेऽप्यप्रयोजकताशङ्कानिरासका-बोधकमित्याद्युत्तरग्रन्थानुसारेण तदनुमानेऽप्यप्रयोजकताशङ्कामुत्थाप्य तत्राबोधकेत्यादिना बाधकं च वक्तु-मित्यपि पूर्वमेव वक्तुमुचिततया प्राप्नोति । तथापि प्रथमानुमाननिष्कर्षेणैवाकारणकार्योत्पत्तिरूपं द्वितीयानु-मानीयाप्रयोजकताशङ्कानिरासकमुपपादितप्रायं भवतीति नाप्तिपदार्थस्य तावतः कथनम् उत्तरानुमानीया-प्रयोजकताशङ्कानिरासेऽपि व्यापारितम् । अत एवाबोधकत्वमित्येतदवतारे द्वितीयानुमानेऽप्रयोजकत्वेत्यादि वक्ष्यति । खण्डनोक्ताप्तीति । आप्तवाक्यं शब्द इति शब्दलक्षणदूषणाय प्रवृत्तेन खण्डनकृता कोऽयमाप्तो नामेत्यादिना आप्तिलक्षणदूषणस्य कृतत्वादिति भावः । अत्र च खण्डनग्रहणं कोऽयमाप्तो नामेत्यादिना कृतं तद्दूषणं मूलीकृत्य शब्दप्रमाणलक्षणं खण्डयता तत्त्वप्रदीपिकाकारेणापि कश्चायमाप्तो नामेत्यादिरूपेण दूषणकरणेनात्रार्थे तस्य स्वातन्त्र्याभावाभिप्रायेण । न त्वयं वाक्यविन्यासो यथाश्रुतः खण्डनगतः । तत्त्वप्रदीपिकायामेव खण्डनानुवादरूपेणैवंविधवाक्यविन्याससत्त्वात् । अज्ञातसन्दिग्धानुवादेत्यु(त्तर-खण्डस्य)क्तदूषणस्य खण्डनेऽभावात् । तत्रैव सत्त्वेन तद्ग्रन्थस्यापि ग्राह्यत्वाच्च । तथा च खण्डन-पदस्योपलक्षणतया खण्डनाद्युक्तेत्यर्थ इत्यवधेयम् ।

व्यवस्थापयन्ननुवदतीति । अनुवादरूपक्रियाफलभूतं व्यवस्थापनमनुवादहेतुरिति लक्षणहेत्वोः क्रियाया इत्यनेन हेतौ लटः शत्रादेशे समानाधिकरणं रूपम् । अर्जुनस्य वा सफलतया हेतुग्रहणस्य फलकारणोभयार्थताया व्याख्यानानुसारेण वासक्रियाफलभूतार्जुनस्य वासहेतुत्वेनार्जयन् वसतीति समानाधिकरणं शत्रन्तरूपं यथेति ज्ञेयम् । आप्तस्य स्वातन्त्र्येणेहानुपक्रान्तत्वात्तल्लक्षणप्रश्नो न सङ्गत इत्यत उक्तं यद्वाक्यत्वमिति मूलम् । अनेनैव प्रतिलक्षणं यो वक्ति स आप्तस्तद्वाक्यमाप्तवाक्यतया प्रमाणं स्यादिति शेषपूरणेनातिव्याप्तियोजनं विद्यासागरीयं व्यर्थमिति सूचितम् । सम्भावितासम्भावितमेलनेनैते पक्षा आशङ्क्य निराक्रियन्ते । यथा मिथ्यात्वनिर्वचनावसरेऽसत्त्वाशङ्कनादिकमिति न भ्रमितव्यम् । अपि तु सर्वेषामपि सम्भावितत्वमेव । प्रायेण लोकानामेवंरूपेष्वे वाप्तव्यवहारदर्शनादित्याह लोक इति । अत्र मूले यथादृष्टार्थवादित्वं वा निर्दोषत्वं वेति विकल्पद्वयाभिप्रायेण कोऽयमिति किंशब्द इत्यभिप्रेत्य दृष्टिगर्भ-प्रथमकल्पेऽपि प्राथमिकपक्षत्रयेऽवान्तरविशेषाप्रतीतेस्तद्दर्शयति यथादृष्टार्थेत्यादिना । दृष्टानतिक्रमेति । दृष्टमनतिक्रम्य वादो विवक्षितस् तद्दर्शनं प्रमाणमप्रमाणं वा विशिष्य न विवक्षितम् । प्रथमपक्ष इत्यर्थः । द्वितीये विपरीतमिति प्रमाणभूतमेव दर्शनं विवक्षितम् । वादस्तु दृष्टातिक्रमेणापीति दृष्टानतिक्रमेण वा तदितिक्रमेण वेति विशिष्टा न विवक्षितं द्वितीये पक्ष इत्यर्थः । तृतीये त्विति । दृष्टानतिक्रमो दर्शनप्रामाण्यं चेत्युभयं विवक्षितं तृतीये पक्ष इत्यर्थः । आद्यमिति । येन प्रकारेणार्थो दृष्टस्तेन प्रकारेण तदर्थप्रतिपादक-वाक्यप्रयोक्तृत्वरूपं यथादृष्टार्थवादित्वमाप्तत्वमित्याद्यं पक्षमित्यर्थः । अत्र च स्वयं प्रकारान्तरेण विज्ञाय तदन्यप्रकारेण वाक्यप्रयोक्तृविप्रलम्भकनिरासाय यथापदम् । देहात्मनोरैक्यं भ्रान्त्येति विद्यासागर्यनुसारेणाह देहात्मनोरित्यादि । भ्रममात्रोपलक्षणं चेदम् । देह एवात्मेतीत्यपि तत्तद्भ्रमविषयोपलक्षणम् । विशेषणद्वयस्यैवेति । न तु यावदित्यस्यापीत्येवकारार्थः । ‘यावत्तरो मघवन्यावदोज’ इति ऋग्भाष्यटीकायामपि यावदवधारण इति स्मरणादित्युक्तिं मनसि कृत्वाऽऽह यावदित्यवधारणमिति । अवधारणमियत्तापरिच्छेदस्तत्रार्थे वर्तमानं यावदित्यव्ययमित्यर्थः । यावद्दत्तं तावद्भुक्तं नावधारयामि किं मया भुक्तमित्यत्रावधारणार्थत्वाभावः । यावन्ति पञ्च षड् वा आमन्त्राणि तावतो ब्राह्मणानामन्त्र-यस्वेत्यर्थकयावदामन्त्रणं ब्राह्मणानामन्त्रयस्वेत्युदाहरणे तु अवधारणस्य गम्यमानत्वाद्यावदवधारण इत्यनेन समासः । तथा च यावदित्यस्य साकल्यावधिमानावधारणरूपार्थकचतुष्टयमध्येऽवधारण-पदेनेयत्तापरिच्छेदमात्रप्रतिपादनेऽपि तत्परिच्छेद एव न्यूनाधिक्यप्रसक्तिवारणायमन्त्रसङ्ख्यातो न्यून-सङ्ख्यारहितानिति तदधिकसङ्ख्यारहितानिति च विवरणाद्यावदित्यस्यावधारणार्थत्वेऽपि विवक्षावशेन कृत्स्नामन्त्रसङ्ख्याकानिति अमन्त्रसङ्ख्यानधिकसङ्ख्यानिति च बोधानुसारेण कार्त्स्न्यान्ययोगव्यवच्छेद-रूपार्थद्वयवदेवकारादिसमानार्थत्वात्प्रकृतेऽपि यावदित्यस्यावधारणार्थत्वपक्षेऽपि पक्षद्वयप्रसक्तिरिति युक्त एव कार्त्स्न्यार्थमित्यादिविकल्पः । तेन साकल्यस्य पृथगर्थत्वादन्ययोगव्यवच्छेदस्य चार्थतया प्रसक्ते-रेवाभावादवधारणत्वपक्षे विकल्पायोग इति शङ्कानवकाशः । यावदित्यवधारणे वर्तमानमिति तूक्तमेव । अवधारणपदेनात्रैवकाराद्यर्थो गृह्यते । अव्ययानामनेकार्थत्वा(द्यावदर्थ)त्वाद्यावदित्येतदेवकाराद्यर्थे वर्तमानं कार्त्स्न्यार्थमित्यादि योज्यमित्यप्याहुः ।

यद्वेयत्तापरिच्छेदस्योक्तरीत्या साकल्यान्ययोगव्यवच्छेदरूपद्वयवत्तामनाश्रित्य पृथग्गणितसाकल्याति- रिक्तान्ययोगव्यवच्छेदरूप एवेयत्तापरिच्छेद इत्याश्रित्य यावदमन्त्रमित्यादावपि यावत्कार्यं तावत्कृतमित्यत्रेव साकल्यबोधमनाश्रित्य यावन्त्यमंत्राणि तावतो ब्राह्मणान्न त्वधिकानिति बोधस्य प्रसिद्धतां चाश्रित्य प्रवृत्तेऽत्र यावदवधारणमित्यस्य बुद्ध्या विवेकेन यावदिति कार्त्स्न्यार्थमुतावधारणरूपमन्ययोग-व्यवच्छेदमिति विकल्पार्थमिति वा यद्यप्येकदेशे तथाभूतेति दूषणपरिहारोऽन्ययोगव्यवच्छेदार्थक-त्वाङ्गीकारेण प्रमितस्यैवेति विवक्षयैव स्वरसतो भवति । कार्त्स्न्यार्थत्वे तु विषयान्तरं प्रतीयते इति तदाशङ्कनायोगः । तथापि स्वारसिकपक्षमेव परिशेषयितुं यावत्पदस्यार्थान्तरासम्भवप्रतिपादनाय पक्षान्तरा-शङ्कनतन्निराकरण इत्याशयेन मूलप्रवृत्तेर्न कश्चिद्दोष इति ज्ञेयम् । तदेवेति । प्रायः लक्ष्याणामतथा-भूतत्वमेवेत्यर्थः । प्रायःपदमनुसृत्य व्याख्याति अस्मदिति । अपरिचितेन तु तथा वचनेऽपि न दोषः । अव्याप्तेरेव विवक्षितत्वादिति स्पष्टम् ।

इष्टापत्तिपरिहाराय लक्ष्यत्वमुपपादयन्नव्याप्तिप्रतिपादनपरतयोत्तरवाक्यमवतारयति भ्रान्तिदृष्टेति । विपर्यस्तार्धविषयकवाक्यप्रयोक्तुस्त्वनाप्ततायाः सिद्धत्वात् तत्राव्याप्तिर्नायातीति तत्परित्यागेनाज्ञातादि-प्रयोक्तुरेव ग्रहणं मूल इति सूचयितुं भ्रान्तीत्यादिव्यवहारेऽपीत्यन्तम् । सन्दिग्धवाक्यप्रयोक्तरीत्यादि वदता अज्ञातं च सन्दिग्धं च अनुवादश्चेति द्वन्द्वान्ते श्रूयमाणं वाक्यपदं प्रत्येकमभिसम्बध्यत इति सूचितं भवति । अज्ञातसन्दिग्धार्थविषयकवाक्ययोरनुवादरूपवाक्यस्य च प्रमाणदृष्टार्थविषयकत्वाभावेन तत्प्रयोक्तरि लक्षणाभावादिति भावः । विशिष्टमेकमेवोदाहरणमिति केषाञ्चिद् व्याख्यानं तु अनुवादस्य वादविषयत्वे-नेत्युत्तरमूलानुसारेण प्रत्येकपक्षस्यैव स्पष्टत्वेन स्वयमज्ञातस्य सन्दिग्धस्य वा प्रतिपादकं यद्वाक्यं तद्वद् विपर्यस्तस्य प्रतिपादकं यद्वाक्यं तदप्यनूद्यत इति । विपर्यस्तस्यापि ग्रहणापाते न लाघवेनाप्रतीतानुवाद-वाक्येत्येव वक्तव्यतापातेन चायुक्तमित्यादिना वाक्यार्थविनोदे गुरुचरणैरेव निराकृतं ज्ञेयम् । प्रतिपक्षसेनेति । सम्मतस्येत्यन्तेनापिपदार्थमाह । चाटुवादित्वेत्येतदनृतवादित्वेति विवृतम् । सम्भवेनेत्युक्ते सन्दिग्धसाध्यव्याप्तिरिति प्रतीतिः स्यात्तद्वारणाय दर्शनेनेति विवृतम् । भारते तथा स्मरणाद्दर्शनं सिद्धमिति भावः । भारते स्मर्यत इति विद्यासागर्यामुक्तेः । यद्यपि द्रोणवधसमये अश्वत्थामा हत इत्येव न प्रयोगो ऽपि तु नरः कुञ्जरो वेत्यपि । तथा च नानृतवादिता तस्य प्राप्नोति । तथापि कोट्यन्तरस्योपांशुवचनादानृतवादित्वं तस्येति ज्ञेयम् । वस्तुतस्तु भगवदाज्ञया प्रवृत्तस्यानृतवचनं परमधर्मत्वानुसन्धाने नास्तीति न दोषः । दृष्टिगर्भलक्षणानीति । यद्यपि यथादृष्टार्थवादीत्येकमेव लक्षणं प्रमाणेत्यादिविवक्षया पूर्वपूर्वदोषोद्धाराय विशेषितमिति न दृष्टिगर्भलक्षणानेकत्वमिति भाति तथापि पूर्वपूर्वलक्षणप्राप्तदोषोद्धार उत्तरलक्षणेन भवतीत्येतावतैव तेषां लक्षणान्तरत्वप्राप्तेर्लक्षणानेकत्वं युक्तमित्याशयेन लक्षणानीति बहुवचनप्रयोगः । अत एव प्रथमपक्षेऽपीत्युत्तरग्रन्थे पूर्वलक्षणेषु प्रथमपक्ष इत्येकवचनमेव प्रयुक्तमिति ज्ञेयम् । अत्रैतल्लक्षणानां दृष्टिगर्भत्वेन क्रोडीकरणान्निर्दोषत्वलक्षणस्य मध्ये कुतो न निराकरणमिति शङ्का निराकृता । बहुत्वादेव महामल्लेशभङ्गन्यायेन प्रथमतस्तन्निराकरणमिति च सूचितम् । निर्दोषत्वं सर्वथेति । दोषा हि रागादयस्तद्राहित्यं सर्वथा क्वचिदपि विषये रागादिकं नास्तीति विवक्षितमित्यर्थः । यत्र विषय इति । यत्र विषये रागादिरहितस्तत्रासावाप्त इत्येवं यत्र विषय इत्यनेन विशेषितं वेत्यर्थः ।

ननु निर्दोष आप्त इति लक्षणे क्वाचित्करागादिसद्भावप्रयुक्ताप्तत्वेन सम्मत भीमाग्रजादावव्याप्ति-वारणाय यत्र विषय इति विवक्षया परिहारशङ्कावद् यथादृष्टार्थवादीत्यादिलक्षणेष्वपि प्रमाणेन यथेति तृतीयलक्षणे अंशान्तरेऽन्यथावादिन्यतिप्रसङ्गवारणाय यदंशे प्रमाणदृष्टानतिक्रमस्तत्र स आप्त इत्येव विवक्षयाऽतिव्याप्तिपरिहारसम्भवात् । तच्छङ्काया यावत्प्रमाणदृष्टं तावत एव वक्तेति पञ्चमलक्षणेऽप्य-ज्ञातादिवाक्यप्रयोक्तुरप्यज्ञाताद्यंशं विहाय स्थलान्तरे प्रमाणदृष्टमात्रप्रयोक्तृत्वेन तदंशे तस्याप्तत्वसम्भवेन यदंश इति विवक्षया तत्राव्याप्तिपरिहारसम्भवात्तच्छङ्काया उक्तविवक्षयैव भीमाग्रजेऽन्यत्रानाप्तत्वेन लक्ष्यत्वादेव नाव्याप्तिरिति परिहारसम्भवात् तच्छङ्कायाश्च कर्तव्यतया यत्तच्छब्दयोरित्युक्तदूषणेन तत्परि-हारस्य च कर्तव्यतया तदकरणायोग इत्यतोऽत्र लक्षणे तथाशङ्कनस्य तत्परिहारस्य च पूर्वत्राप्युप-लक्षणयाऽभिप्रेतत्वान्न तदकरणमित्याशयेनाह एतच्चोपलक्षणमिति । प्रथमपक्षेऽपीत्यस्य दृष्टिगर्भ-लक्षणेऽपीत्यर्थः । उक्तलक्षणानामनेकत्वेऽपि दृष्टिगर्भत्वेन क्रोडीकारादेकवचनम् । यथादृष्टार्थवादीत्यादि-लक्षणेष्वपीत्यत्र तात्पर्यम् । अत्र च यथासम्भवमिति शेषपूरणान्न सार्वत्रिकत्वाभावो दोषाय । विवक्षाया-मेतदेवेत्यस्योक्तविवक्षणेन दोषापरिहारशङ्काकरणे यत्तच्छब्दार्थयोरननुगमरूपं वक्ष्यमाणमेव दूषणमित्यर्थः । नन्वेतत्पक्षे एतच्छङ्कापरिहारप्रवृत्तिः । स्थलान्तरे उपलक्षणयोह्येत्यत्र किं नियामकमित्यतो मूलकारीयं ज्ञापकमाह अत एवेति । शङ्कासमाधानादिविचारस्य चरमपक्षे प्रवर्त्यस्य प्रथमादिपक्षसाधारण्यस्थले सर्वत्रोह्यत्वाभिप्रायेणान्तेन तत्प्रवृत्तिवर्णनस्य तत्र तत्रोपलम्भादिति भावः । वक्ष्यति चाख्यातिमतत्र-यनिरासेऽप्यस्यान्यथाख्यातिबाधकत्वेनाभिप्रेतत्वा-त्सर्वशेषत्वज्ञापनाय मतत्रयनिरासान्ते तदभिमतं बाधकमाशङ्क्य निराकृतमिति ज्ञेयमिति । उक्तं च । ‘उद्यतायुधदोर्दण्डा पतिते’ति वाक्यविचारावसरे तत्त्वनिर्णयटीकायाम् । उभयशेषत्वादस्यात्रोपन्यासो युक्त इति । यद्यपि यत्तच्छब्दयोर्विशेषेत्युत्तर-वाक्योपपादनानन्तरं विकल्पयिष्यतीति द्रष्टव्यमित्यनन्तरमेवैतच्चोपलक्षणमित्येतत्प्रमेयं वाच्यम् । विवक्षादूषणयोरुभयोरप्युपस्थितिसत्त्वात् । तथापि शङ्काग्रन्थप्रवृत्तिवर्णनानन्तरमेव प्रथमपक्ष एव

शङ्का कुतो न प्रवर्तितेति शङ्का स्यादेव । ततस्तत्तदुपलक्षणापि वाच्यैव । तावन्मात्रवचने परिहारग्रन्थ प्रवृत्तिवर्णनानन्तरं पुनः पूर्वपक्षे प्राप्तशङ्कापरिहारोपलक्षणापि वाच्या । ततो गौरवमिति मत्वा वक्ष्यमाणदूषणस्य बुद्धिसन्निहितत्वेन तदुपस्थितिमाश्रित्य शङ्कासमाधानयोरुभयोरपीहैवातिदेशवर्णनमिति न दोषः । यत्तच्छब्दयोरित्यादि । अत्र यत्तदादीनां घटत्वादिप्रकारकघटाद्युपस्थितिजनकत्वे हेतुकथनं सर्वनाम्नां घटदेवदत्तादीत्यारभ्य ग्रहणेनेत्यन्तम् । अस्तु सर्वनाम्नां तथा शक्तिग्रहः । यत्तच्छब्दयोस्तु किमित्यत उक्तं यत्तच्छब्दयोः सर्वनामत्वादिति । सर्वनाम्नां तत्तत्पदार्थतावच्छेदकप्रकारकतत्तत्पदार्थोप-स्थितिजनकत्वाद्यत्तच्छब्दयोरपि सर्वनामत्वेन घटत्वादिप्रकारकघटाद्युपस्थितिजनकत्वमावश्यकमिति समुदाययोजना ।

अत्र च सर्वनाम्नां च इत्यनन्तरं वक्तृनिष्ठामिति पूरणीयम् । अनुगतजात्यभावेऽपि शक्तयादि ग्रहसमर्थनस्थलीयतर्कताण्डवे वक्तृनिष्ठां देवदत्तादिविषयामित्युक्तत्वात् । वक्ष्यति च वक्तृनिष्ठा बुद्धेरिति । उपधानीकृत्येत्यनन्तरमपि वक्तृनिष्ठबुद्धिविषयेष्विति उक्तग्रन्थानुसारेण पूरणीयम् । घटदेवदत्तादिविषयिणीं बुद्धिमिति सम्बन्धः । तां बुद्धिमुपादानीकृत्येत्यस्य तद्बुद्धिलक्षणप्रत्यासत्त्येत्यर्थः । गोत्वादीनां प्रत्यासत्ति-तामते ज्ञातानां तेषामिवोक्तबुद्धेरपि ज्ञाताया एव तत्तत्प्रकारकतत्तद्व्यक्तयुपस्थितिहेतुतेति भावेन ज्ञातमित्युक्तम् । न च तावता गोत्वादिस•म्यं द्गोत्वादेर्व्यक्तिशक्तिग्रहे व्यक्तिविशेषणतया विषयत्वेन शाब्दज्ञानेऽपि विषयत्वेन तस्यानुप्रवेशात् । देवदत्तादिविषयकवक्तृनिष्ठबुद्धेस्तु व्यक्तिषु शक्तिग्रहे व्यक्ति-विशेषणत्वेन विषयता नास्तीत्यतः शाब्दज्ञाने विषयतया गोत्वादिवदप्रविष्टत्वात् । उक्तं च तर्कताण्डवे । ‘त्वन्मते गोत्वं शक्तिग्रहे विशेषकत्वाच्छाब्दज्ञाने विषयत्वे प्रविशति । मन्मते तु सादृश्यं प्रत्यासत्ति-मात्रत्वान्न तत्र प्रविशती’त्यादि । सादृश्यसमाना चेयं बुद्धिरिति सापि तथाभूता । उक्तं च तर्कताण्डवे । ‘अत्रोपधानमित्युक्तया सादृश्यं सर्वनामि्न वक्तृगतबुद्धिरिव ज्ञातमप्युपलक्षणत्वान्न शक्तिग्रहविषय’ इति सूचितमिति । अवच्छिन्नेष्वित्यनन्तरं घटेति पूरणीयम् । देवदत्तादीत्यादिपदेन घटस्यापि सङ्ग्रहः । प्रकारावच्छिन्नत्वं तु न यथाक्रममपि तु यथायोग्यं सम्बन्धनीयमिति शेषाश्रयणानावश्यकतेत्यप्याहुः । यत्तच्छब्दयोरिति प्रकृतत्वाद्यत्तच्छब्दयोरित्येव वक्तव्ये यत्तदादीनामित्यादिपदप्रयोग उक्तसमानन्याय-किमेतदादिशब्दान्तरेऽप्येवं विशेषोपस्थापकत्वं सर्वनाम्नामित्युक्तप्रकारेण ज्ञेयमित्याशयेन । वस्तुतस्तु ‘यो यस्य सुतः स तस्ये’ति वक्ष्यमाणोदाहरणानुसारेण यत्र विषय इत्यत्र मूलेऽपि यो यत्रेत्यादिरूपेण पर्यवसानाद्यत्तच्छब्दद्वयस्य च भिन्नभिन्नप्रकारकबोधजनकत्वनिमित्तेन यच्छब्दयोस् तच्छब्दयोश्च प्रथमा-सप्तमीनिर्दिष्टत्वे प्रयुक्ते पार्थक्यमाश्रित्य यत्तदादीनामित्युक्तमिति प्रतिभाति । अव्याप्तेर्दूषणत्वाभावं मन्वानं प्रति दूषणान्तरमाह आप्तमात्र इति । आप्त इति व्यवहार इत्येव मूलकोशे पाठः । आप्त इत्यादीति पाठे आदिपदेनाप्तावाप्ता इत्यस्य तत्र तत्रेदमाप्तस्य वाक्यमिदमाप्तेनोक्तमित्यादिव्यवहारस्थषष्ठ्यन्तादेश्च परिग्रहः। अव्याप्तेरितीति । अव्याप्तेरित्येतदित्यर्थः ।