१४ उपाद्युद्भावमसंगतम्

वक्तृश्रोतृप्रसक्तीनां..

उपाद्युद्भावमसंगतम्

अनुव्याख्यानम्

वक्तृश्रोतृप्रसक्तीनां यदाप्तिरनुकूलता ।

आप्तवाक्यतया तेन श्रुतिमूलतया तथा ॥ ५ ॥

युक्तिमूलतया चैव प्रामाण्यं त्रिविधं महत् ।

दृश्यते ब्रह्मसूत्राणामेकधाऽन्यत्र सर्वशः ॥ ६ ॥

सुधा

ननु तर्ह्यनेनेदमुदितं भवति । एतच्छास्त्रं प्रमाणमनुकूलवक्त्रादिमत्त्वाद्भारतादिवत् । वक्त्राद्यानुकूल्यं चोक्तहेतुसिद्धमिति । एतदनुपपन्नम् । आप्तवाक्यतायास्तत्रोपाधित्वात् । न च प्रत्यक्षादौ सत्यपि प्रामाण्ये नास्त्याप्तवाक्यत्वमिति साध्याव्यापकत्वान्नायमुपाधिरिति वाच्यम् । वाक्यत्वावच्छिन्नसाध्यव्यापकत्वेनोपाधित्वोपपत्तेः । तथाऽप्यपौरुषेये वेदे तदभावादनुपाधित्वमिति चेन्न । वेदापौरुषेयत्वस्यासम्मतत्वात् । सम्मतत्वे वा साधनावच्छिन्ने पौरुषेयवाक्यत्वावच्छिन्ने वा साध्येऽस्योपाधित्वोपपत्तेरिति । मैवम् । अभिप्रायानवगमात् । न हि वयं वक्त्राद्यानुकूल्येन शास्त्रप्रामाण्यं साक्षात्साधयितुमुद्यताः । येनात्रोपाध्युद्भावनं सङ्गच्छेत । अपि तर्ह्यनुकूलवक्त्रादि-मत्त्वस्याप्तवाक्यतया व्याप्तत्वात्तेन तां प्रसाध्य तया प्रामाण्यं शास्त्रस्य साध्यत इत्याशयवानाह ॥ वक्तृश्रोतृप्रसक्तीनामिति । यद्यत्र वाक्ये वक्तृश्रोतृप्रसक्तीनामनुकूलता तत्राप्तिः । यद्वक्त्राद्यानु-कूल्योपेतं तदाप्तवाक्यमिति यावत् । यत एवं व्याप्तिर्यतश्चास्य शास्त्रस्यास्त्यनुकूलवक्त्रादिमत्त्वम् । तेन सिद्धयाऽऽप्तवाक्यतया मानमिदं शास्त्रमिति पूर्वेण सम्बन्धः ।

वाक्यार्थचन्द्रिका

नन्वेवं मानत्वस्य गुरूणां गुरुत्वादित्यादिहेतून्प्रति परमसाध्यत्वेऽपि वक्त्राद्यानुकूल्यं प्रति तस्य साक्षात्साध्यत्वाद्वक्त्राद्यानुकूल्यस्याप्तवाक्यत्वेन व्याप्त्याद्युपपादनपुरः-सरमाप्तवाक्यत्वस्य मानत्वसम्बन्धव्युत्पादकमुत्तरवाक्यमसङ्गतमेव । न चात्रापि सा परम्पराभिप्रेतेति वाच्यम् । तथात्वे उत्तरश्लोकवैयर्थ्यापत्तेरित्यतोऽत्र श्लोके आप्तवाक्यत्वबोधकशब्दाभावेन परम्परायाः स्पष्टमप्रतीतेर्यथाश्रुतस्य वक्त्राद्यानुकूल्यमानत्वयोः साक्षात्साध्यसाधनभावाभिप्रायकत्वं प्रकल्प्य परोक्तदूषणस्य परिहाराय स्वाभिप्रायाविष्करणार्थत्वादुत्तरश्लोकस्य नासङ्गतिवैयर्थ्ये इत्यभिप्रेत्य उत्तर-वाक्यं सङ्गमतयति ॥ नन्विति ॥ यद्वा पूर्ववाक्याभिप्रायदर्शकं वक्तृश्रोतृप्रसक्तीनामित्युत्तरवाक्यं व्यर्थम् । अभिप्रायान्तराप्रतीत्याऽस्यैव सुज्ञानत्वात्प्रतीतौ वा तस्याप्युपपत्तौ तत्परित्यागेनाभिप्रायान्तर-प्रदर्शकोत्तरवाक्यवैय्यर्थ्यमेवेत्यतोऽभिप्रायान्तरप्रतीतितदनुपपत्तिप्रदर्शनपूर्वं स्वाभिप्रायस्वरूपं दर्शयन्नेव तदाशयप्रदर्शकतयोत्तरवाक्यमवतारयति ॥ ननु तर्हि इति ॥ वाक्यत्वावच्छिन्नेत्यादि ॥ यथाच पक्षधर्मसाधनधर्मावच्छिन्नयोरुपाधित्वं तथोपाधिपरीक्षायां वक्ष्यति । ननु वक्तृश्रोतृप्रसक्तीनामिति श्लोके वक्त्राद्यानुकूल्यस्याप्त्याऽमेदोक्तावपि व्याप्तेरनभिहितत्वात्पक्षधर्मतां विना तावन्मान्त्रस्य साधनत्वानु-पयोगाच्च मानमित्यस्याश्रुतत्वाच्चापि तर्हीत्यादिनोक्तमयुक्तमित्यतो यदित्यस्य यत्रेत्यर्थतां तत्सन्निधि-योगेन तत्रेत्यस्य लाभं यदित्यस्यावृत्त्या यत इत्यर्थकत्वमस्येति यागेयतया सम्बन्धं वक्तृश्रोतृप्रसक्ती-नामित्यस्यावृत्तिं तेनेत्येतद्बलेन सिध्द्येत्यस्य लाभं पूर्वेण सम्बन्धं चाभिप्रेत्योक्तमुपपादयति ॥ यद्यत्रेत्यादि ॥

परिमल

वक्त्राद्यानुकूल्यमपि प्रामाण्ये साक्षान्न हेतुः किंत्वाप्तवाक्यत्वानुमानद्वारैव । कुत एवम् । अन्यथा सोपाधिकत्वेन प्रामाण्यसाधकत्वानापत्तेरिति भावेनाशङ्कोत्तराभ्यां मूलमवतारयति ॥ नन्वित्यादिना ॥ उक्तहेत्विति ॥ गुरुर्गुरूणामित्यादिनोक्तहेतुत्रयेण वक्त्राद्यानुकूल्यत्रयं सिद्धमित्यर्थः॥ वाक्यत्वावच्छिन्नेति ॥ साध्यव्यापकत्वं हि द्वेधा । शुद्धसाध्यव्यापकत्वमवच्छिन्नसाध्यव्यापकत्वं चेति । तत्राद्यं यागीयहिंसा पापसाधनं हिंसात्वादित्यत्र निषिद्धत्वस्य । द्वितीयं च द्वेधा । पक्षधर्मावच्छिन्नसाध्य व्यापकत्वं साधनधर्मावच्छिन्नसाध्यव्यापकत्वं चेति । तत्राद्यं वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वादित्यत्र उद्भूतरूपवत्त्वोपाधेर् बहिर्द्रव्यत्वावच्छिन्नसाध्यव्यापकत्वम् । द्वितीयं तु ध्वंसो विनाशी जन्यत्वादित्यत्र भावत्वोपाधेर्जन्यत्वावच्छिन्नसाध्यव्यापकत्वम् । प्रकृतेऽस्योपाधेः शुद्धसाध्याव्यापकत्वेऽपि वाक्यत्व-रूपेण वा पौरुषेयवाक्यत्वरूपेण वा पक्षधर्मेणानुकूलवक्त्रादिमत्त्वरूपसाधनेन वाऽवच्छिन्नसाध्य-व्यापकत्वोपपत्तेः । न च स एव सत्प्रतिसाधन इति प्रमाणलक्षणोक्तयोपाध्यभावेनानुमीयमानोपि विशिष्टस्याभाव एव सिध्द्येन् न तु अभिमतशुद्धसाध्यस्याभाव इति न प्राचीनहेतोः सत्प्रतिपक्षत्वमिति वाच्यम् । विशेषणवतिविशिष्टाभावसिद्धेर्विशेष्याभावेनैव पर्यवसानादिति भावः ॥ उद्यता इति ॥ उद्युक्तवन्त इत्यर्थः । तत्राप्तिरित्ययुक्तम् । आप्तेः पुंगतत्वादित्यत सामानाधिकरण्याय फलितार्थमाह ॥ यद्वक्त्रादीति ॥ यदित्यस्य पञ्चम्यंताव्ययत्वम् आवृत्तिम् आप्तिरित्यस्य व्याप्तिरिति चार्थमुपेत्याप्तवाक्यतया तेनेत्यन्तस्य योजनान्तरमाह ॥ यत एवमिति ॥

यादुपत्यम्

आप्तेः पुरुषगताया वाक्यनिष्ठत्वाभावाद्वक्ष्यमाणानुमानायोग इत्यतोऽभिप्रायमाह । यद्वक्त्रानुकूल्योपेतमिति ॥

श्रीनिवासतीर्थीया

॥ उक्तहेतुसिद्धमिति ॥ गुरुर्गुरूणामित्यादिनोक्तहेतुत्रयेण वक्त्राद्यानु-कूल्यत्रयं सिद्धमित्यर्थः ॥

वाक्यार्थरत्नमाला

नन्वेवमिति । अप्रयोजकताशङ्कावारणाय वक्त्राद्यानुकूल्यस्य मध्ये साधनीयत्वप्रतिपादनानुसारेणेत्यर्थः । साक्षात्साध्यत्वादिति । अनेन तयोरेव यथाश्रुते साध्यसाधनभावे सम्भवति सति तत्परित्यागसूचकमित्युत्तरवाक्यविशेषणं लभ्यते । व्याप्त्याद्युपपादनेति । अप्रयोजक-ताशङ्कानिरासोपसङ्ग्रहायादिपदम् । अत्रापीति । गुरुगुरूदितत्वादिप्रामाण्ययोर्हेतुहेतुमद्भावे परम्परावद् वक्त्राद्यानुकूल्यप्रामाण्ययोरपि हेतुहेतुमद्भावे परम्पराऽभिप्रेतेत्यर्थः । उत्तरश्लोकेति । अन्त्यपादाति-रिक्तवक्त्रितिश्लोकवैयर्थ्यापत्तेरित्यर्थः । एवमुत्तरत्रापि । अयमर्थः । उत्तरश्लोके हि वक्त्राद्यानुकूल्यस्य मानत्वं परमसाध्यमाप्तवाक्यत्वं तु मध्ये साक्षात्साध्यमित्यभिप्रायः कथ्यते । तावतोऽर्थस्यात्रैवाभिप्रेतत्वे उत्तरवाक्ये तदभिप्रायकथनं व्यर्थमापद्येत इति । सा परम्पराऽभिप्रेतेत्येव ब्रूमः । न चोत्तरवाक्यं वैयर्थ्यम् । तत्परम्पराभिप्रायाविष्करणार्थत्वेनैव सार्थक्योपपत्तेः । न च पूर्ववाक्य एव कुतस्तदभिप्राया-विष्काराभाव इति वाच्यम् । आप्तवाक्यत्वबोधकशब्दस्य तत्राभावात् । न चाभिप्रायाविष्करणमपि किमर्थमिति वाच्यम् । यथाश्रुतस्य गुरर्गुरूणामित्यादेरुक्तरीत्याऽध्याहृतवक्त्राद्यानुकूल्यमानत्वयोर् यः साक्षात्साध्यसाधनभावस्तदभिप्रायकत्वं प्रकल्प्य परोक्तं यद्दूषणं सोपाधिकत्वरूपं तत्परिहाराय स्वाभिप्रेतस्य परम्परारूपस्याविष्करणस्यावश्यकत्वादित्याह अत्र श्लोक इति । अप्रतीतेरित्यन्तं प्रकल्प्येत्युक्तकल्पनायां हेतुः । तेन पूर्ववाक्य एव परम्पराभिप्रायस्य ज्ञातुं शक्यत्वात्साक्षात् साधनत्वाभिप्रायकत्वकल्पना शङ्कितुरयुक्तेति न शङ्कनीयमित्युक्तं भवति । अध्याहारस्तु निर्मूलत्वेना-कर्तव्य इति शङ्कित्राशयात् । तदेतदुक्तं स्पष्टमिति प्रकल्प्येति च । नासङ्गतिवैयर्थ्ये इति । अत्र परम्पराया अभिप्रेतत्वाद्वक्त्राद्यानुकूल्यस्याप्तवाक्यत्वेन तस्य च मानत्वेन सम्बन्धव्युत्पादनं सङ्गतमेव । उक्ताभिप्रायस्य पूर्वश्लोक एव स्पष्टमप्रतिभासात्तदाविष्करणायोत्तरश्लोकप्रवृत्तेर्न वैयर्थ्यमपीत्यर्थः । मन्दानुजिघृक्षया लघुमवतारं चाह यद्वेति । तत्रोपाधित्वादिति मूलम् । प्रामाण्यरूपसाध्यवति भारतादावाप्तवाक्यतायाः सत्त्वेन साध्यव्यापकत्वात्पक्षभूतैतच्छास्त्रे चानुकूलवक्त्रादिमत्वरूपहेतुमति मानाभावेनाप्तवाक्यत्वासिद्ध्या तदभावात् साधनाव्यापकत्वमिति प्रामाण्यसाध्यकानुमाने उपाधित्वा-दित्यर्थः । वक्ष्यतीति उपाधिपरीक्षायामिति । नविलक्षणत्वाधिकरणीय साध्यव्यापकवैलोम्यमित्ये-तदनुभाष्यव्याख्यावसर इत्यर्थः । उपाधिलक्षणगतसाध्यपदस्यावच्छिन्नानवच्छिन्नसाधारणसाध्यमात्र-परतया पक्षधर्मसाधनधर्मावच्छिन्नसाध्यव्यापकयोर् अप्युपाधिलक्षणसङ्ग्राह्यत्वोपपत्तेर्न शुद्धसाध्य-व्यापकत्वाभावप्रयुक्त उपाधित्वाभाव इति वक्ष्यतीत्यर्थः । पक्षधर्मभूतवाक्यत्वावच्छिन्नसाध्यव्यापकत्व-विवक्षणेऽपि वेदे साध्याव्यापकत्वशङ्का प्राप्तेति पौरुषेयत्वेन पक्षधर्मं विशिनष्टि पौरुषेयवाक्यत्वेति मूलम् । शास्त्रस्य साध्यत इत्यत्र मूले पूर्वप्रकृतवयमित्येतद्विभक्तिव्यत्यासेनास्माभिरित्येवमनुवर्तत इति ज्ञेयम् । इति श्लोक इति । पूर्वपादत्रय इत्यर्थः ।