गुरुर्गुरूपणां प्रभवः..
साध्यान्तराध्याहारसमर्थनम्
गुरुर्गुरूपणां प्रभवः..
सुधा
सत्यम् । तथाऽपि नैतदेवं विज्ञातुं शक्यम् । तथा सत्युत्तरवाक्ये वक्त्राद्यानुकूल्यस्य साध्यसम्बन्धव्युत्पादनमसङ्गतं स्यात् । तदनुमानान्तरं भविष्यतीति चेन्न । तथात्वे प्रामाण्यं त्रिविधमिति वक्ष्यमाणविरोधात् । विजातीयसंवादत्वेनानयोरैक्यविवक्षया त्रित्वोक्तिर् अस्त्विति चेत् । एवं तर्हि वक्ष्यमाणश्रुतियुक्तिसंवादोऽपि सजातीयसंवादतयैक एव स्यात् । अर्धज(च)रतीयानुपपत्तेः । तथा च पुनस्त्रित्वानुपपत्तिरेव । भवेदयं ग्रन्थकृतोऽभिप्रायः । तेनापीदं प्रयत्नगौरवं कस्मादाश्रितमिति चेन्न । उक्तसाधनोपपन्नत्वेऽप्यस्तु भारतादीनां प्रामाण्यं मा भूच्चास्येति शङ्कायां वक्राद्यानुकूल्यसाधनस्यावश्याश्रयणीयत्वात् । अन्यथाऽप्रयोजकत्वापत्तेरिति ।
वाक्यार्थचन्द्रिका
किं ग्रन्थकृतोऽयमेवाभिप्राय इति मनुषे आहोस्विदेतादृशि लघूपाये सति ग्रन्थकृतैवं प्रयत्नगौरवं नाश्रयणीयम् । नाद्य इत्याह ॥ तथाऽपीति ॥ तथा सतीति ॥ बादरायणेन ब्रह्मादीन्प्रति तन्मोक्षार्थमुपदिष्टत्वस्य हेतुतया ग्रन्थकृताऽभिप्रेतत्वे तस्यैव मानत्वरूपसाध्यसम्बन्ध उत्तरवाक्ये प्रतिपाद्यः स्यात् । वक्त्राद्यानुकूल्यस्य मानत्वोपपादकाप्तवाक्यतया व्याप्तिपक्षधर्मतो-पपादनद्वारा मानत्वरूपसाध्यसम्बन्धकथनस्य न काऽपि सङ्गतिरित्यर्थः । वक्त्राद्यानुकूल्यस्यापि मानत्वहेतुत्वमित्यभिप्रायेणोत्तरवाक्यसङ्गतेर्न तस्य बादरायणेनेत्यादेर्मानत्वहेतुत्वाभावज्ञापकत्व- मित्याशयेन शङ्कते ॥ तदिति ॥ विजातीयेति । वक्राद्यानुकूल्यरूपसंवादस्य बादरायणेन तन्मोक्षार्थमुपदिष्टत्वस्य च ब्रह्मसूत्रसमानार्थकत्वाभावे सति तत्प्रामाण्यग्राहकतया विजातीयसंवादत्व-मित्यर्थः । श्रुतियुक्तिसंवादस्य तु ब्रह्मसूत्रसमानार्थतया तत्प्रामाण्यग्राहकत्वेन सजातीयसंवादत्वमिति द्रष्टव्यम् ॥ अर्धेति ॥ केनचित्पाशुपतेन सर्वजरत्या योषितोऽनुपभोग्यत्वात्सर्वतरुण्याश्च वृद्धे मय्यरुचिप्रसङ्गादर्धजरत्यानयने दूतः प्रेषित इति लोकप्रवादोऽर्धजरतीशब्देनोच्यते । छप्रत्ययेन चोपमानोपमेयभावरूपः सम्बन्ध उच्यते । तथा च तत्प्रवादतुल्यप्रवादानुपपत्तेरित्यर्थः । अस्तु श्रुतियुक्तिसंवादस्य सजातीयसंवादितयैकत्वमित्यत आह ॥ तथा चेति ॥ द्वितीयं निराकरोति ॥ भवेदेवमिति ॥ अत्र ह्यप्रयोजकत्वशङ्कायां विपक्षे बाधकान्तरस्याभावात्प्रामाण्यानङ्गीकारे अस्य शास्त्रस्य वक्त्राद्यानुकूल्योपेतत्वं न स्यादित्येव विपक्षे बाधकं वक्तव्यम् । तत्रेष्टापादनत्वशङ्कायां गुरूणां गुरुत्वादित्यादिहेतुभिर्वक्त्राद्यानुकूल्यस्यावश्यं साधनीयत्वे प्रथमत एव तदस्त्विति ग्रन्थकृतोऽभि-प्रायत्वान्न प्रयत्नगौरवाश्रयणं तस्येत्याह ॥ उक्तेति ॥
परिमल
॥ एवमिति ॥ साक्षाद्धेतुत्वेनेत्यर्थः ॥ साध्येति ॥ आप्तिपदोक्ताप्तवाक्यरूप-साध्येत्यर्थः ॥ तदनुमानान्तरमिति ॥ विमतं शास्त्रं मानं भवितुमर्हति । अजादिमोक्षोद्देशेन व्यासप्रोक्तत्वाद्भारतादिवदिति पूर्वश्लोकोक्तानुमानाद्विमतं मानमाप्तवाक्यत्वादिति प्रामाण्ये अनुमानान्तरं भविष्यतीति आप्तवाक्यत्वासिद्धिपरिहारार्थं वक्तृश्रोत्रित्यादिसार्थकं भविष्यतीत्यर्थः ॥ त्रिविधमितीति ॥ आप्तिमूलत्वश्रुतिमूलत्वयुक्तिमूलत्वरूपत्रैविध्यवदजादिमोक्षोद्देशेन प्रोक्तत्वरूपैकविधस्याधिकस्य प्राप्ततया प्रामाण्यं चतुर्विधं महदिति वक्तव्यं स्यादिति भावः ॥ विजातीयेति ॥ शास्त्रप्रतिपाद्यार्थ-विषयकं सजातीयं विजातीयं तु साक्षात्तदर्थाविषयकं तत्प्रामाण्यनिश्चायकम् । यथा सत्यरजते इदं रजतमिति ज्ञानस्य तादृशज्ञानान्तरं सजातीयम् । विजातीयं तु कटकाद्यर्थक्रियाकारित्वम् । प्रकृते च वक्ष्यमाणदिशा श्रुतियुक्तयोर्ब्रह्मतन्त्रार्थसमानविषयकत्वमेव साक्षादिति सजातीयत्वम् । अजादि-मोक्षोद्देशेनोक्तत्वस्याप्तवाक्यत्वस्य च न साक्षात्तदर्थविषयकत्वं किं तु तत्प्रामाण्यविषयकतयेति विजातीयत्वम् । अतो विजातीयसंवादित्वेन सजातीयसंवादतयेत्युक्तम् । तथा च द्वैविध्यमेव प्रामाण्यस्य प्राप्तं न त्रैविध्यमिति भावः ॥ अर्धचरतीयेति ॥ सगर्भमत्स्यस्यार्धं भक्षणायार्धं गर्भप्रसवायेति यथा न युक्तं तथेत्यर्धचरतीयन्याय इत्येके । अलाब्वादिफलादेरर्धं भक्षणायार्धं बीजाभिवृद्धिद्वाराङ्कुरादिप्रसवाय यथा न युक्तं तथेत्यर्थ इत्यन्ये ॥ इदमिति ॥ शास्त्रप्रभवत्वादिना वक्त्राद्यानुकूल्यं तेन च प्रामाण्यमिति प्रयत्नगौरवमित्यर्थः । विमतं शास्त्रं प्रमाणं शास्त्रप्रभवत्त्वादिविशिष्टेन प्रोक्तत्वाद्भारतवदित्येवोक्ताव प्रयोजकत्वशंका स्यात्तन्निवृत्त्यर्थमेवमाश्रितमिति भावेनाह ॥ उक्तसाधनेति ॥ यथा हि क्षित्यादिकं सकर्तृकं सावयवत्वादित्युक्ते हेतोरप्रयोजकत्वशङ्कानिरासाय मध्ये कार्यत्वं निवेश्यते तद्वदिति भावः ॥ वक्त्रादीति ॥ तत्र च नाप्रयोजकत्वमिति भावः ॥
यादुपत्यम्
॥ साध्यसम्बन्धेति ॥ आप्तिद्वारा प्रामाण्यरूपसाध्यसाधकताव्युत्पादनमित्यर्थः ॥ तदनुमानान्तरमिति ॥ गुरुर्गुरूणामिति श्लोकोक्तप्रामाण्यसाधकानुमानापेक्षया वक्तृश्रोतृप्रसक्ती-नामित्यनेन उच्यमानवक्त्राद्यानुकूल्यसिद्धमाप्तोक्तत्वं प्रामाण्यसाधकानुमानमपरमित्यर्थः ॥ विजातीय-संवादत्वेनेति ॥ शास्त्रप्रामाण्यव्यवस्थापनद्वारा शास्त्रविषयव्यवस्थापकमानान्तर संवादत्वेनेत्यर्थः । स्वप्रमाण्यव्यवस्थापनद्वारा स्वविषयव्यवस्थापकमानान्तरसंवादस्यैव विजातीयसंवादतया विवक्षितत्वात् ॥ सजातीयसंवादतयेति ॥ साक्षाच्छास्त्रविषयविषयकमानान्तरसंवादतयेत्यर्थः । साक्षात्स्वविषय-विषयकमानान्तरसंवादस्यैव सजातीयसंवादत्वेन विवक्षितत्वादित्याशयः । केचित्तु गुरूपदेष्ट्रा-द्युपदिष्टत्वस्यानुकूलवक्त्रादिमत्त्वसिद्धाप्तवाक्यत्वस्य च लौकिकवाक्यसाधारण्येन प्रामाण्यमात्र-साधकत्वात्संवादस्य विजातीयत्वम् । श्रुतियुक्तयोस्त्वलौकिकार्थत्वात्सर्वोत्तमप्रामाण्यमात्र-साधकत्वात्तत्संवादस्य सजातीयत्वमित्याहुः ॥
॥ अर्धजरतीयानुपपत्तेरिति ॥ अत्रार्धजरतीशब्देन सर्वात्मना जरतीं त्यक्तुमशक्नुवतः प्रक्रिया लक्ष्यते । छप्रत्ययेन चोपमानोपमेयरूपः सम्बन्ध उच्यते । तथा च तत्प्रक्रियातुल्यप्रक्रियानु- पपत्तेरित्यर्थः पर्यवस्यति । इत्थं हि तत्प्रक्रिया । अर्धं जरत्याः कामयतेऽर्धं न कामयते मुखं जरत्याः कामयते नाङ्गान्तरमिति । एवं जरत्या एकदेशे कामना एकदेशे नेत्येतद्यथा जुगुप्सितमेवं प्रकृते साम्ये सम्भवे च सत्येकत्रैक्यविवक्षाऽन्यत्र तु नेत्येतज् जुगुप्सितमिति भावः । अर्धचरतीयानुपपत्तेरिति पाठे तु चरतिश्चरणं भक्षणमिति यावत् । तेन तत्कर्तुः प्रक्रिया लक्ष्यते । छप्रत्ययेन च पूर्ववदुपमानोपमेयरूपः सम्बन्ध उच्यते । तेनार्धभक्षणकर्तुः प्रक्रियातुल्यप्रक्रियानुपपत्तेरित्यर्थः पर्यवस्यति । इत्थं हि तत्प्रक्रिया । सगर्भां मत्स्यवधूं गृहीत्वा कश्चिदस्याः प्रसवे मत्स्यान्तरं भविष्यति । एवं च तदपि भक्षणार्थं भविष्यति । इदानीं चेमामपक्तवाऽनश्नन्नहं न स्थातुमुत्सह इति विचार्य वदति । अस्या अर्धं पाकायार्धं प्रसवायेति । तद्यथा जुगुप्सितमेवमेतदपीति भाव इत्याहुः । अन्ये तु ‘लम्बमानौ सुतौ दृष्ट्वा व्याधः परमबुद्धिमान् । सर्वनाशे समुत्पन्नेऽर्थं चरति पण्डित’ इति न्यायस्य प्रकृतेऽनुपपत्तेरित्यर्थ इत्याहुः ॥ उक्तसाधनोपपन्नत्वेऽपीति । बादरायणेन ब्रह्मादीन्प्रति तन्मोक्षार्थमुपदिष्टत्वरूपसाधनोपपन्नत्वेऽ-पीत्यर्थः ॥ वक्त्राद्यानुकूल्यसाधनस्येति ॥ तथा च उक्तरीत्या नाप्रयोजकतेति भावः ।
श्रीनिवासतीर्थीया
तथात्व इति ॥ गुरूणां गुरुत्वादिहेतुभिः प्रामाण्यानुमानमेकं वक्त्राद्यानु-कूल्यसिद्धाप्तवाक्यत्वेन तदनुमानपरं श्रुतिसंवादित्वेन तदनुमानं तृतीयं युक्तिसंवादित्वेन तदनुमानं चतुर्थमिति प्रामाण्यसाधकहेतूनां चतुष्ट्वप्राप्तेरित्यर्थः ॥ विजातीयसंवादित्वेनेति ॥ ब्रह्ममीमांसाशास्त्र-प्रामाण्यव्यवस्थापनद्वाराऽर्थसत्तानिश्चायकत्वात्तत्संवादस्य विजातीयत्वम् । प्रामाण्यस्यार्थसत्ता-घटितत्वादित्यर्थः ॥ अनयोरिति ॥ प्रामाण्यसाधकयोर्गुरुगुरुत्वाप्तवाक्यत्वयोरित्यर्थः ॥ त्रित्वोक्तिरिति ॥ श्रुतिसंवादो द्वितीयो युक्तिसंवादस्तृतीय इति त्रित्वोक्तिरित्यर्थः ॥ सजातीयेति ॥ श्रुतियुक्त्योः साक्षाद्ब्रह्ममीमांसाशास्त्रप्रतिपाद्यार्थस्यैव प्रतिपादकत्वेन साक्षात्स्वविषयविषयकमानान्तर संवाद-रूपत्वात्तदुभयसंवादस्य सजातीयत्वमित्यर्थः ॥ अर्धजरतीयेति ॥ गुरुगुरूपदिष्टत्वाप्तवाक्यत्वयो-र्विजातीयसंवादत्वंगैक्यं श्रुतियुक्तिसंवादद्वयस्य सजातीयसंवादत्वेनैक्यमनङ्गीकृत्य पार्थक्योक्तेरयुक्त-त्वादित्यर्थः ॥ पुनस्त्रित्वोक्तिरिति ॥ संवादद्वयस्यैव प्राप्तेरित्यर्थः ॥ इदमिति ॥ शास्त्रप्रभवत्वादिना वक्त्राद्यानुकूल्यं तेन च प्रामाण्यमिति प्रयत्नगौरवमित्यर्थः ॥
वाक्यार्थरत्नमाला
नाश्रयणीयमित्यनन्तरमिति मनुषे इति वर्तते । मानत्वोपपादकेति । अबोधकत्वविपरीतबोधकत्व- लक्षणाप्रामाण्यस्याप्तवाक्यतया पटुकरणत्वादिविशिष्टपुरुषवाक्यत्वरूपया निवृत्तेर्वक्ष्यमाणतया मानत्वोपपादकत्वमाप्तवाक्यतायास्तिष्ठतीत्याशयः । आप्तवाक्यतया या व्याप्तिः पक्षधर्मता चेति विवेकेन योज्यम् । वक्त्राद्यानुकूल्यस्यापीति । बादरायणेनेति हेतुमभिप्रेत्य अपिपदोपपादनम् । वक्त्राद्यानुकूल्यरूपेति । अनेन विजातीयत्वसजातीयत्वे संवादविशेषणे इति सूचितम् । अत एव श्रुतियुक्तिसंवादस्य तु इत्युत्तरवाक्येऽपि श्रुतियुक्तिरूपसंवादस्येति व्याख्येयमिति ज्ञेयम् । अत्र संवादेन खलु प्रमाणानां प्रामाण्यमनुमातव्यम् । संवादश्च सजातीयेन वा विजातीयेन वा भवतीति तत्त्वनिर्णयटीकादिविरोधस्तत्परिहारप्रकारश्च तट्टीकाव्याख्यानप्रपञ्चेऽस्माभिः कृतोऽवधेयः । अत्रापि स विचारो लेख्योऽस्ति । ‘विरोधे त्वनपेक्षं स्यादसति ह्यनुमानमि’ति स्मृतिपादीयविरोधाधि-करणस्थ ‘तेनासौ यदि वा नैव क्वचिदस्ति प्रमाणता । सर्वत्रे’त्यादिसिद्धान्तवार्तिकव्याख्यान-रूपराणकोक्तरीत्या न्यायशरीरं दर्शयति केनचित्पाशुपतेनेति । एतद्विचारस्तु आनन्दमयाधिकरणीये अन्नं ब्रह्मेत्याद्युपासामित्येतदनुभाष्यसम्बन्धि अकस्मादर्धजरतीयेत्येतन्मूलव्याख्यानरूपटीका-व्याख्यावसरे भविष्यति । श्रुतियुक्तिसंवादोऽपीति मूले श्रुतियुक्तिरूपः संवादः । श्रुतियुक्तयाख्यौ संवादावपीति यावत् । एकत्वविवक्षणीयौ स्यातामित्यर्थः । तत्संवादयोरप्येकत्वं विवक्षणीयं स्यादिति यावत् । एकवचनं तु समुदायविवक्षयेति ज्ञेयम् । एवमेव टीकाव्यवहारोऽपि योज्यः । एक एव स्यादित्युक्ते प्राप्तेष्टापत्तिशङ्कावारकतयोत्तरमूलं योजयति अस्त्विति । द्वितीयमिति । एतादृशि लघूपाये सति ग्रन्थकृतैवं प्रयत्नगौरवं नाश्रयणीयमित्युच्यत इति द्वितीयमित्यर्थः । निराकरोतीति । निराकर्तु-माशङ्कत इत्यर्थः । मूले भवेदयमिति क्वाचित्कपाठेऽप्यर्थस्त्वेक एव । एवं ग्रन्थकृतोऽभिप्रायो भवेद् अयं ग्रन्थकृतोऽभिप्रायो भवेदित्युक्तयोर्विशेषाभावात् । मूलेऽप्रयोजकताशङ्कानिरासकतया वक्त्राद्यानुकूल्य-साधनस्यावश्यकत्वमुच्यते । तच्च साक्षान्न भवति । एतत्साधनेनाप्रयोजकताशङ्कानिरासाभावात् । किन्तु मध्ये वक्त्राद्यानुकूल्योपेतत्वानुपपत्तिं तच्छङ्कानिरासकतया अभिप्रेत्यास्तु नाम तदनुपपत्तिरपीति शङ्का-वारणाय गुरुर्गुरुत्वादिना तत्साधनस्यावश्याश्रयणीयत्वादिति परम्परयैवेति दर्शयन् बाधकान्तर-परित्यागेन वक्त्राद्यानुकूल्योपेतत्वानुपपत्तिरेव कुतो वाच्येति शङ्कां च निराकरोति । अत्र ह्यप्रयोजक-त्वेति । अवश्यं साधनीयत्वे उक्तक्रमेणास्तु साधनीयत्वम् । प्रथमत एव साधनं तु कुत इत्याशङ्का-परिहाराय मूलाभिप्रायं दर्शयति प्रथमत एवेति । यत एवं साधनमावश्यकं ततो लाघवात्प्रथमत एव वक्त्राद्यानुकूल्यो-पेतत्वस्यैव साधनं कृत्वा तेन प्रामाण्यसाधनं कार्यमिति गुरुगुरुत्वादीनां प्रामाण्यं परमसाध्यमित्येव स्वरसमित्यर्थः ।