०६ व्याख्येयत्वसमर्थनम्

तमेव शास्त्रप्रभवं प्रणम्य

व्याख्येयत्वसमर्थनम्

तमेव शास्त्रप्रभवं प्रणम्य

सुधा

स्यादेतत् । अथातो ब्रह्मजिज्ञासेत्यादिकं ग्रन्थं व्याख्यातुमयं देवतादिप्रणामः । न चायं व्याख्यातव्यः । अर्थविवक्षापूर्वकस्यैव पौरुषेयवाक्यस्य व्याख्यातव्यत्वात् । न हि मातृकामात्रव्याख्याने पे्रक्षावान्प्रवर्तते । न चास्यार्थविवक्षापूर्वकत्वे मानमस्ति । प्रणयनमात्रस्य व्यभिचारित्वात् । प्रेक्षावत्प्रणयनस्य चानिश्चयात् । निश्चये वा विषहरमन्त्रस्येव जपादिनाऽभ्युदय-सिद्धये निर्माणोपपत्तेः । गृहीतसङ्गतेरर्थप्रतिभासो हि विषहरमन्त्रेऽपि समानः । न चार्थविवक्षा-पूर्वकत्वमात्रेणोपादेयतया व्याख्यानं युक्तम् । विप्रलम्भकादिवाक्यव्याख्यानप्रसङ्गात् । किं नाम याथार्थ्ये च सति । न चास्य याथार्थ्ये मानमस्ति । तद्भावेऽपि तथाविधवाक्यान्तरपरित्यागेनास्यैव व्याख्याने कारणं वक्तव्यमित्याशङ्कानिरासाय परमाख्यविद्येत्युक्तम् ।

वाक्यार्थचन्द्रिका

व्याख्यां समर्थयमान इत्युक्तं परमाख्यविद्येत्यंशस्य व्याख्यासमर्थनरूपत्वं घटयितुं तन्निवर्त्याशङ्कामुत्थापयति ॥ स्यादेतदिति ॥ नायं ग्रन्थो व्याख्यातव्योऽर्थावबोधोद्देश्यकत्व-शून्यत्वान्मातृकादिवदिति विवक्षितानुमाने वेदवदस्याप्यर्थावबोधोद्देश्यकत्वादसिद्धिरित्याशङ्कायां वेदस्य फलवदर्थावबोधपर्यन्तस्वाध्यायाध्ययन विधिनाऽर्थावबोधोद्देश्यकत्वसिद्धावपि पौरुपेयेऽर्थावबोधोद्देश्य-कत्व तदभावयोर्मन्वादिग्रन्थमातृकामात्रयोर्दृष्टत्वेन नात्र वेदवदर्थावबोधोद्देश्यकत्वसिद्धिरित्यभि-प्रायेणोत्तरवाक्योक्तस्य पौरुषेयवाक्येत्यंशस्य समर्थनाय प्रसक्तिमाह ॥ अथात इति ॥ अयमिति ॥ प्रकृतः पौरुषेय इत्यर्थः । अर्थविवक्षापूर्वकत्वं चार्थावबोधोद्देशकत्वं वेदादिसाधारणमभिमतं न तु तद्-व्यावृत्तं वक्तृविवक्षापूर्वकत्वम् । परिहारग्रन्थानानुगुण्यापत्तेः । अत्र व्यतिरेकदृष्टान्तो मन्वादि-ग्रन्थोऽभिमतः । विपक्षे बाधकमुखेनान्वयदृष्टान्तमाह ॥ न हीति ॥ हेत्वसिद्धिं परिहरति ॥ न चेति ॥ व्यभिचरितत्वादिति ॥ वर्णसमाम्नायरूपे मातृकामात्र इति शेषः ॥ अनिश्चयादिति ॥ तथा च सन्दिग्धासिद्धिरिति भावः । ननु ‘भगवान्पुरुषोत्तमः । अवतीर्णो महायोगी सत्यवत्यां पराशरात्’ इत्याद्यागमादेव प्रणेतुः प्रेक्षावत्वनिश्चय इत्यतो विशिष्टहेतोरपि प्रेक्षावत्प्रणीतेऽर्थावबोधोद्देशशून्ये विषहरमन्त्रे व्यभिचारः । तद्वदेव च प्रकृतसाध्याभावेऽपि जपादिनाऽभ्युदयसिद्धये प्रेक्षावत्प्रणयनो-पपत्तेरन्यथासिद्धिरित्यतोऽगृहीतसङ्गतेरर्थावभासाभावाद्गृहीतसङ्गतेरर्थावभासस्य समवेतार्थाप्रतिपादक त्वेनार्थावबोधोद्देश्यकत्वशून्यतयोभयसम्प्रतिपन्ने विषहरमन्त्रेऽपि तत्त्वेन पूर्वोक्तदोषद्वयानतिवृत्ति-रित्याशयेनाह ॥ गृहीतसङ्गतेरिति ॥ एवं विद्याशब्दार्थतयाऽभिमतयथार्थज्ञानसाधनतान्तर्गतार्थज्ञान-साधनतांशनिवर्त्यां शङ्कामुत्थाप्य ब्रह्मसूत्रेभ्य उपयुक्तर्थप्रतिभासनेन विषहरमन्त्रवैषम्यात्पुनस्तस्यार्थ-वित्तय इत्याद्यागमाच्चार्थावबोघोद्देश्यकतासिद्धिरित्याशङ्कायां तथापि सिद्धान्त्यभिमतमुपादेयतया व्याख्यानं तत्प्रयोजकाभावान्न सम्भवतीत्येवंरूपां विद्याशब्दार्थान्तर्गतयथार्थांशनिवर्त्यं शङ्कामुत्थापयति ॥ न चेति ॥ बोधकस्य सतो बाधकाभावे प्रामाण्यस्य स्वतः सिद्धत्वात्किं तत्र प्रमाणान्तर-गवेषणयेत्यतः परशब्दव्यावर्त्याशङ्कामुत्थापयति ॥ तद्भावेऽपीति ॥

परिमल

परमाख्यविद्येत्येतदवतारयितुमाह ॥ स्यादेतदिति ॥ विद्याशब्दस्य व्यावर्त्यमाह ॥ अर्थविवक्षेति ॥ मातृकेति ॥ कखगघङेत्यादिवर्णमात्रेत्यर्थः । व्याप्तिमुपपाद्योपनयमाह ॥ न चास्येति ॥ अथातो ब्रह्मजिज्ञासेत्यादिग्रन्थस्येत्यर्थः । तथा च प्रयोगः । अथात इत्यादिग्रन्थो न व्याख्येयः । अर्थविवक्षापूर्वकत्वाभावात् । मातृकाक्षरमात्रसन्दर्भवत् । यो व्याख्येयः सोऽर्थविवक्षापूर्वक इति व्यतिरेकव्याप्तौ काव्यादिदृष्टान्तः । न च हेतुरसिद्धः । विमतो ग्रन्थो ऽर्थविवक्षाशून्यो ऽर्थविवक्षावत्त्व-साधकमानहीनत्वादिति । ननु मानाभावोऽसिद्धः । प्रणीतत्वस्य वा प्रेक्षावत्प्रणीतत्वस्य वा व्युत्पन्न-प्रतीयमानार्थकत्वस्य वा मानत्वादित्यतः क्रमेण निराह ॥ प्रणयनेत्यादिना ॥ हेतोरप्रयोजकत्वमाह ॥ निश्चये वेति ॥ विषहरमन्त्रे वर्णमालामात्रपाठेन कार्यकरत्वस्य लोके प्रसिद्धेरिति भावः । विद्यपदस्य व्यावर्त्यान्तरं चाह ॥ न चेति ॥ किं चेति चार्थः । ख्यात्यर्थमप्रमाणत्वेन निश्चितबौद्धादिग्रन्थ-व्याख्यानदर्शनेन व्यभिचारनिरासायोपादेयतयेत्युक्तम् । पुरुषार्थहेतुतयेत्यर्थः । न चास्येत्युपनयः । अत्रापि प्रयोगौ । विमतं नोपादेयतया व्याख्येयम् । अयथार्थज्ञानजनकत्वाद्विप्रलम्भादिवाक्यवत् । न चासिद्धो हेतुः । विमतं न यथार्थं याथार्थ्यनिर्णायकमानशून्यत्वाद्विप्रलम्भादिवाक्यवदिति । परमाख्यपदव्यावर्त्यमाह ॥ तद्भावेऽपीति ॥ याथार्थ्यभावेऽपीत्यर्थः ।

यादुपत्यं

ननु मीमांसया वेद इवार्थविवक्षापूर्वकत्वाभावेऽपि व्याख्येयत्वमस्त्वित्यत आह ॥ पौरुषेयवाक्यस्येति ॥ अभ्युपेत्याह ॥ निश्चये वेति ॥ विषहरमन्त्रस्येवेति । तस्य हुं फडित्यादिवज्जपेनै- वाभिमतसिद्धये निर्माणमित्यर्थः । तथा चान्यथासिद्धिरिति भावः । ननु तथाऽपि प्रतिभासमानार्थ-त्वमर्थविवक्षापूर्वकत्वे हेतुर्भविष्यतीत्यत आह ॥ गृहीतसङ्गतेरिति । तथाच व्यभिचार इति भावः । तुष्यत्विति न्यायेनाह ॥ न चार्थविवक्षापूर्वकत्वेति ॥

श्रीनिवासतीर्थीया

॥ मातृकामात्रेति ॥ अर्थविवक्षापूर्वकत्वरहितककाराद्यक्षरमात्रव्याख्यान इत्यर्थः । ननु इदं ब्रह्ममीमांसाशास्त्रमर्थविवक्षापूर्वकं प्रणीतत्वादित्यनुमानमेव मानमिति चेत्तत्राह ॥ प्रणयनमात्रस्येति ॥ हुं फडित्यादिविषहरमन्त्र इत्यर्थः । शुकबालादिवाक्ये व्यभिचारादित्यर्थः ॥ प्रेक्षावदिति ॥ तादृशमन्त्रप्रणयनकर्ता न प्रेक्षावानिति भावः । अनिश्चयादिति । ग्रन्थकर्तुर्व्यासस्य प्रेक्षावत्त्वानिश्चयादित्यर्थः । अर्थविवक्षापूर्वकत्वमङ्गीकृत्याप्याह ॥ न चार्थविवक्षेति ॥

वाक्यार्थरत्नमाला

अर्थविवक्षापूर्वकस्यैवेत्युत्तरवाक्येऽभिप्रेतं प्रयोगं दर्शयन् तत्र प्राप्तासिद्धि-शङ्कावारणाय पौरुषेयवाक्यस्येत्युक्तमिति मनसि निधाय तदुपपादनं च कुर्वन् पौरुषेयत्वकथनपरतया उत्तरग्रन्थं योजयति नायं ग्रन्थ इत्यादिना । फलवदर्थावबोधेति अथातो धर्मजिज्ञासेति जैमिनीय-प्रथमाधिकरणे स्वाध्यायोऽध्येतव्य इत्यध्ययनविधिवाक्यमुपादाय अदृष्टार्थत्वपूर्वपक्षमुत्थाप्य अध्यापनस्य फलवदर्थावबोधपर्यन्ततायाः समर्थनादिति भावः । एतदधिकरणशरीरम् उपासनापादीय-सर्वशाखाधिकरणटीकायां व्यक्तीभविष्यति । व्याख्यास्यते च तत्प्रपञ्चे तदस्माभिः । पौरुषेयेऽर्थेति । अत्र पौरुषेयेऽर्थावबोधोद्देश्यकत्वतदभावयोर् दृष्टत्वेनेति संबन्धः । तथा च पौरुषेये द्वैविध्यदर्शनान् न प्रकृते तन्निश्चयः सम्भवतीति सन्दिग्धासिद्धिरित्यर्थः । ननु कुत्र पौरुषेये द्वैविध्यं दृष्टम् इत्यत उक्तं मन्वादिग्रन्थमातृकामात्रयोरिति । अत्र च पौरुषेय इत्यनूद्य मन्वादीत्यादिना द्विवचनान्तेन व्याख्यानान् नान्वयानुपपत्तिः । तथा च मन्वादिग्रन्थमातृकामात्रयोस् तद्रूपे पौरुषेय इति योज्यम् । मन्वादिग्रन्थरूपे पौरुषेये मातृकामात्ररूपे च पौरुषेय इति प्रत्येकं वा बुद्ध्या विवेकेन संबन्धः । अवच्छेदकत्वं वा सप्तम्यर्थः । एतदुभयावच्छेदेनेति । यथाक्रमं चार्थावबोधोद्देश्यकत्वतदभावयोः प्रदर्शनमिति स्पष्टमेवेति ज्ञेयम् । उक्तस्य पौरुषेयवाक्यस्येत्यंशस्येति । अनेनास्मात्पदादिममर्थं जानन्तु इति वक्तृविवक्षापूर्वकत्वरूपमर्थविवक्षापूर्वकत्वमाश्रित्य वेदे सत्यपि व्याख्येयत्वे अर्थविवक्षापूर्वकत्वा-भावेन व्यभिचारात् तस्य व्याख्येयत्वव्यापकत्वायोगेन व्यापकाभावेन व्याप्याभावानुमानायोग इत्या-शङ्कापरिहारायपौरुषेयत्वावच्छिन्नव्याख्येयव्यापकत्वस्य सत्त्वाद् युक्तमर्थविवक्षापूर्वकत्वाभावेन पौरुषेयत्वविशिष्टव्याख्येयत्वाभावानुमानमिति प्रतिपादनाय पौरुषेयस्य युक्तमिति केषाञ्चिद् व्युत्पादन-मसदिति सूचितम् । तथात्वे परिहारग्रन्थानानुगुण्यापत्तेरिति वक्ष्यमाणदूषणप्रसङ्ग इति ज्ञेयम् । व्याख्यातुमयमिति मूलम् । व्याख्यानस्य निर्विघ्नपरिसमाप्त्याद्यर्थं प्रथमपद्यद्वितीयपद्ययोर् अनुष्ठितः प्रणाम इत्यर्थः । न चायमित्यत्रत्यायमित्येतद् उत्तरवाक्यगतपौरुषेयेत्येतदनुसारेण व्याख्याति प्रकृतः पौरुषेय इति । परिहारेति । तत्र विद्याशब्देनार्थविवक्षेति परिहारेत्यर्थः । परिहारग्रन्थेऽर्थज्ञानसाधनत्व-मात्रेणार्थविवक्षायाः सिद्धिप्रतिपादनेन तद्विवक्षाया अर्थावबोधोद्देशकत्वरूपत्वे तत्प्रतिपदानसंभवेऽपि तस्यावक्त्रन्तर्भावे तदसंभवेन तदनानुगुण्यमित्याशयः । वक्ष्यति चार्थज्ञानसाधनतांशनिवर्त्यमिति । मन्वादिग्रन्थस्य व्यतिरेकदृष्टान्तत्वमभिप्रेतमित्यन्वयव्यतिरेकी हेतुरयमित्याशयेनाह अत्रेति । प्रागुक्त-विवक्षितानुमान इत्यर्थः । प्रेक्षावत्वन्यथा न स्यादिति बाधककथनपरतया योज्यमित्याशयेन उक्तं विपक्षे बाधकेति । मातृकामात्रेति मूलम् । ननु पञ्चाशद्वर्णानां नित्यतयाऽप्रणीतत्वेन पौरुषेयत्वरूपं वेदवैषम्यं कथं मातृकामात्रपदोक्तपञ्चाशद्वर्णानाम् । अत एव वक्ष्यमाणप्रणयनमात्रस्य तत्र व्यभिचाराभिधानं चायुक्तमिति चेन् न । न्यायरीत्योक्तवैषम्याद्याश्रयणेन दोषाभावात् । मातृकामात्रपदेन केनचित् पुंसा स्वबुद्धिघटितक्रमेण कचटतपा जबगडदबा इत्यादिरूपेणोदाहृतानां वर्णानां ग्रहणमभिप्रेतमिति तु परमार्थः । अत एव वक्ष्यति वर्णसमाम्नाय इति । पुरुषबुद्धिक्रमविशिष्टकचटतपा इत्यादिवर्णसमुदाय इति तदर्थः । पञ्चाशद्वर्णानां तु ईश्वरबुद्धिघटितक्रमविशिष्टत्वेऽपि तद्बुद्धेर्नित्यतया वेदसमानत्वमिति विशेषो ज्ञेयः । विमतो अर्थावबोधोद्देश्यकः प्रणीतत्वादित्यनुमानमस्तु इत्यत आह । मूले प्रणयनमात्रस्येति । अस्तु तर्हि प्रेक्षावत्प्रणीतत्वं हेतुरित्यत आह । मूले प्रेक्षावदिति । अभिमतं दूषणं स्पष्टयति तथा चेति । मूलस्थजपादिनेत्याद्यधिकोक्तितात्पर्यमाह तद्वदेव चेति । अन्यथासिद्धिश्चेति । अत्रान्यथा प्रकारान्तरेण सिद्धिर्घटनैवान्यथासिद्धिरित्यभिमतं न तु हेतुदोषान्तरनिरासस्थलीययुक्तिपादे मूलगतान्यथासिद्धेर्दोषत्वस्य प्रकारान्तरेण वक्ष्यमाणत्वादित्युक्तान्यथासिद्धिः । तस्या भक्तिपादगत-वैयर्थ्यमेकासिद्धौ चेति वक्ष्यमाणानुभाष्यसंबन्धिमूलोक्तरीत्या व्यर्थविशेषणत्वादिरूपतया प्रकृते तदसंभवात् । अधिकं ज्ञानबाध्यत्वानुमानसिद्धमित्येतदनुभाष्यमूलटीकाव्याख्यानावसरे । अन्यत्रापि समवायनिराकरणादिस्थले तत्र तत्र वक्ष्यामः । हेत्वन्तरेति । प्रणयनमात्रादिरूपेति पूरणीयम् । यदि गृहीतसङ्गतेर् अर्थावभासो विषहरमन्त्रेऽपि तर्हि तद्व्यापकार्थावबोधोद्देश्यकत्वमपि तत्रास्त्विति न व्यभिचार इत्यत उक्तं समवेतार्थेत्यादि । यत्किञ्चिदर्थप्रतिपादनलाभेऽपि तत्रत्यमन्त्रप्रयोगानुसार्युप-युक्तार्थेत्यर्थः । वक्ष्यति च उपयुक्तार्थेति । दोषद्वयेति । व्यभिचारान्यथासिद्धिरूपेति योज्यम् ।

शङ्कामुत्थाप्येति । विद्याशब्दार्थान्तर्गतेत्यादि वक्ष्यमाणेन सम्बन्धः । शङ्कास्वरूपप्रदर्शनं तथापीत्यादि । उक्तशङ्कोत्थापनबीजतया पूर्वशङ्कोन्मूलनं दर्शितं ब्रह्मसूत्रेभ्य इत्यादि । बौद्धादि-शास्त्रस्यापि ख्यात्याद्यर्थ व्याख्यानदर्शनात् तद्व्यावृत्त्यर्थमुपादेयत्वेन व्याख्येयता मूलटीकयोर्विशेषिता । उपादेयत्वं च मोक्षसाधनज्ञानजनकमिति धीविषयत्वं विवक्षितमिति योज्यम् । अनेन न चेत्यस्य नापीत्यर्थः । त्वदुक्तरीत्या अर्थावबोधोद्देश्यकत्वप्राप्तावपि वा न तावन्मात्रेणोपादेयतया व्याख्येयता-सिद्धिरित्युक्तं भवति । तत्प्रयोजकेति । अर्थावबोधोद्देश्यकत्वं तु विप्रलम्भादीति मूलोक्तरीत्या न प्रयोजकमिति भावः । मूले प्रामाण्ये सतीति वक्तव्ये प्रामाण्यस्वरूपविवरणार्थं याथार्थ्ये इत्युक्तम् । बोधकस्य सत इति । बोधकत्वे सति यत्र बाधकत्वाभावस् तत्र प्रामाण्यस्य ज्ञानसाधनत्वग्राहकान्वय-व्यतिरेकग्राह्यत्वादित्यर्थः । तथाविधवाक्यान्तरेति मूलम् । याथार्थ्ये सत्यर्थविवक्षापूर्वक-वाक्यान्तरेत्यर्थः ।