०२ मङ्गलमाचरणम्

ब्रह्मसूत्रानुव्याख्यानम्

॥ श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ॥

श्रीमद् आनन्दतीर्थभगवत्पादाचार्यविरचितं

ब्रह्मसूत्रानुव्याख्यानम्

नारायणं निखिलपूर्णगुणैकदेहं

निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः ।

अस्योद्भवादिदमशेषविशेषतोऽपि

वन्द्यं सदा प्रियतमं मम सन्नमामि ॥

श्री जयतीर्थयतिकृता श्रीमन्न्यायसुधा

टिप्पणीपञ्चकोपेता

॥ श्रीगुरुभ्यो नमः ॥ ॥ हरिः ॐ ॥

सुधा

श्रियः पत्ये नित्यागणितगुणमाणिक्यविशद-

प्रभाजालोल्लासोपहतसकलावद्यतमसे ।

जगज्जन्मस्थेमप्रलयरचनाशीलवपुषे

नमोऽशेषाम्नायस्मृतिहृदयदीप्ताय हरये ॥ १ ॥

वाक्यार्थचन्द्रिका

नित्यागण्यबलद्युतिप्रमितिसत्सौख्याग्य्रवीर्यातुलौ-

दार्यप्राभवधीरतामुखगुणव्रातात्मदिव्याकृतिम् ।

सन्तापादिसमस्तदोषविधुरं वेदैकवेद्यं जग-

ज्जन्मादिप्रदमिन्दिरेश(ममलं)मनिशं नारायणं नौम्यहम् ॥ १ ॥

वेदाम्भोधिसमुद्धृतातिविलसत्सूत्रामृताम्भो-

लसद्धारावर्षणतुष्टसद्धृदवनिज्ञानाङ्कुराधायकम् ।

संसारातपनाशनं सुरमनःसच्चातकानन्ददं

वेदव्यासविचित्रमेघमनिशं मच्छ्रेयसे संश्रये ॥ २ ॥

यद्वाग्विस्तररश्मिभिर्जगदिदं सन्मार्गमालम्बितं

सत्सिद्धान्तवरारविन्दनिवहा विस्तारमासादिताः ।

दुःसिद्धान्तमहान्धकारनिकरा देशान्तमुल्लङ्घिताः

सोऽयं मध्वदिवाकरो भवतु सज्ज्ञानप्रकाशाय मे ॥३॥

सत्सूत्रान्वितमध्वभाष्यविलसद्गाण्डीवसंयोजितैः

सन्मानेषुभिरर्दयन्कुसमयप्रत्यर्थिदुःस्यन्दनान् ।

श्रीकृष्णेरितवेदवाजिनियतश्रीमध्वशास्त्रो-

ल्लसद्दिव्यस्यन्दनसंस्थितो जयमुनीशाख्यार्जुनः स्यान्मुदे ॥ ४ ॥

सच्छास्त्रामलभावबोधकिरणैः संवर्धयन्मध्व-

सत्सिद्धान्ताब्धिमनन्तशिष्यकुमुदव्रातं विकासं नयन् ॥

उद्भूतो रघुवर्यतीर्थजलधेस्तापत्रयं त्रासयन् यस्तं

नौमि रघूत्तमाख्यशशिनं श्रीविष्णुपादाश्रयम् ॥ ५ ॥

श्रीमद्रामगिरीन्द्रपादनिरतं विद्रावयन्तं दिशो

दुर्वादीन्द्रमहामृगान्निगमसद्य्वाख्यालसन्नादतः ।

दुःशास्त्रेभकुतर्ककुम्भदलनप्रौढात्मविद्यानखं

वेदव्यासमृगेन्द्रराजमधिकं वन्देऽनिशं मद्गुरुम् ॥ ६ ॥

वेदान्ताब्धिममन्दबोधगिरिणा सद्ब्रह्मसूत्राहिना

दुस्तर्केतरदानवामरगणैः सम्मथ्य यो लब्धवान् ।

सन्न्यायामृतचन्द्रिके युधि तथा तर्केऽकरोत्ताण्डवं

सोऽयं व्यासमुनीन्द्रपूज्यचरणो नित्यं भवेन्मे मुदे ॥ ७ ॥

अनुव्याख्याब्धियुङ्न्यायसुधाऽगाधसुरापगाम् ।

गुरूणां दयया शुद्ध्यै धियः सेवितुमुत्सहे ॥ ८ ॥

टीकाकारा ग्रन्थादौ मङ्गलमाचरन्ति ॥ श्रियः पत्य इति ॥ नारायणमिति प्रथमपद्यव्याख्यान- रूपेऽत्र पद्ये नारायणपदस्थाने हरिपदप्रक्षेपेण ‘‘प्रादुर्भूत’’ इति श्लोकोक्तहरेरेव नारायणत्वादुत्तर-श्लोकोक्तं तमेवेति समर्थितं भवति । अत्र श्रियः पत्य इत्युक्तया नारा लक्ष्मीस् तत्पतित्वेन तदयन-मित्यभिप्रायव्यञ्जनेन आवश्यकसकलवाङ्मनसदेवतानमनाभावप्रयुक्तन्यूनताशङ्काऽपहस्तिता भवति । पूर्वविशेषणान्तर्गतनिखिलपूर्णगुणत्वस्य तदुत्तरनिर्दोषत्वस्य च प्रयोज्यप्रयोजकभावोऽप्यस्तीत्यभिप्रेत्य गुणावद्ययोर्माणिक्यतमोभ्यामुपमानम् । तदुपपादनायैव प्रभाजालोल्लासेति । गुणनिखिलत्वोक्ति-लब्धोपहन्यमानदोषसाकल्यकथनं सकलेति । गुणोपहतत्वयोर्नित्यत्वविशेषणेन तयोः कादाचित्कत्व-शङ्कां व्यवच्छिनत्ति । अस्येति परामर्शविषयमादिपदसंग्राह्यं च दर्शयन्नेव प्रयोजनाभावान्नोद्भवादिदानं युक्तमित्याशङ्कां च परिहरति ॥ जगदिति ॥ अत्र स्थेमशब्देनान्नदानादिनेव ज्ञानदानेनापि पालनस्याभिप्रेतत्वात्प्रलयशब्देन चाज्ञानबन्धमोक्षाणां रचनाशब्देन तन्त्रेण नियमनस्यापि ग्रहण-सम्भवादुत्तरत्राष्टकसङ्ग्राहकत्वेन व्याख्यास्यमानादिपदसङ्ग्राह्यकथनपरत्वं नास्य युक्तमिति न शङ्कनीयम् । (अजिरशिशिरशिथिलस्थिरस्फिरस्थविरखदिराः । स्थास्फाय्योष्ठिलोपः । स्थिरं निश्चलम् । स्फिरं प्रभूतम् । तिष्ठतेर्बुक् ह्रस्वत्वं च । स्थविरः । खद स्थैर्ये हिंसायां च । खदिरः । खदिरी शाखभेदे स्त्री ना चन्द्रे दन्तधावने इति मेदिनी । बाहुलकाच्छङो बुक्ह्रस्वश्च । शिबिरम् । शेरतेऽस्मिन् राजबलानि । निवेशः शिबिरं शण्डमित्यमरः । अजगतिक्षेपणयोर् अजेर्वीभावाभावः । अजिरमङ्गणम् ओर्ल्युटि अनादेशस्य बाहुलकाण्णत्वमित्येके । अन्ये तु विश्वकोशाद्युपष्टम्भेन दन्त्यमेवेच्छन्ति । इह दशपादीवृत्तौ नञ् पूर्वस्य जीर्यतेर्ऋवर्णलोपो निपात्यत इत्युक्तं तदपि ग्राह्यम् । ‘‘आशु दृतमजिरं प्रत्नमीड्यं’’ इत्यादौ न जीर्यतीत्यजिर इत्यर्थस्यानुगुणत्वात् । अजिरं प्राङ्गणे काये विषये दर्दुरेऽनिले । शश प्लुतगतौ । उपधाया इत्वम् । शिशिरं स्यादृतोर्भेदे तुषारे शीतलेऽन्यवत् । शिशिरो ना हिमे न स्त्री ऋतुभेदे जडे त्रिषु । श्रथ मोचने । उपधाया इत्वं रेफलोपः प्रत्ययरेफस्य लत्वम् । शिथिलम् ।) अत्राजिरशिशिरशिथिलस्थिरेत्युणादिसूत्रेण (उणादीत्यादिपदेन प्यञ्अञ्त्वतलां समावेशो बोध्यः) स्थाधातोः किरच्प्रत्यये आतो लोप इटि चेति धात्वाकारलोपे च निष्पन्नस्य दृढार्थस्थिरशब्दस्य दृढादित्वेन वर्णदृढादिभ्य (वर्णदृढादिभ्यः ष्यञ्च । चादिमनिच् । शौक्ल्यं शुक्लिमा । दार्ढ्यम् । पृथुमृदुभृशकृशदृढपरिवृढानामेव रत्वम् । द्रढिमा षो ङीषर्थः । औचिती । यथाकामी । ब्राह्मणा-देराकृतिगणत्वाद्गुणवचनब्राह्मणादिभ्यः ष्यञ् कर्मणि चेति सूत्रेण ष्यञ् । हलस्तद्धितस्येति यलोपः । चाद्भावे । जडस्य कर्म भावो वा जाड्यम् । मौढ्यम् । ब्राह्मण्यम् । अर्हतो नुं चेति नुमर्थः पाठः । आर्हन्त्यम् । आर्हन्ती । एकभाव । अन्यभाव । त्रिभाव । एषां पाठः स्वार्थे विधानार्थः । आन्यभावम् ।) इतीमनिचि (पृथ्वादिभ्य इमनिज्वा । वावचनमणादिसमावेशार्थम् । रऋतो हलादेर्लघोः । इष्ठेमेयस्सु । टेः । टेर्लोपः स्यादिष्ठे मेयस्सु । पृथोर्भावः प्रथिमा । पार्थवम् । म्रदिमा । मार्दवम् ।) प्रियस्थिरेत्यादिना (प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रप्द्राघिवृन्दाः । प्रियादीनां क्रमात्प्रादयः स्युरिष्ठादिषु । प्रेष्ठः स्थेष्ठः स्फेष्ठः वरिष्ठः बंहिष्ठः गरिष्ठः वर्षिष्ठस् त्रपिष्ठः द्राघिष्ठः । वृन्दिष्ठः । एवमीयम् । प्रियोरुबहुलगुरुदीर्घाणां पृथ्वादित्वात्प्रेमेत्यादि ।) स्थादेशे निष्पन्नस्थेमशब्दस्य दार्ढ्ये प्रसिद्धावपि ‘अखिलभुवनजन्मस्थेमभङ्गादिलील’ इति रामानुजभाष्यनान्दीश्लोके स्थित्यर्थत्वेन तद्य्वाख्यानरूपश्रुतप्रकाशिकायामन्यत्र चाभियुक्तप्रयोगाणां बहुलमुपलम्भात्तिष्ठतीति स्थिरमिति व्युत्पत्तेः स्थितिमत्परत्वेऽप्युपपत्तेश्च स्थेमशब्दस्य स्थितावत्र प्रयोग इति द्रष्टव्यम् । सुवाक्यैरित्यत्र वाक्यानां शोभनत्वमात्ररूपसुष्ठुत्वस्य प्रकृतानुपयोगादपौरुषेयत्वेन तन्मूलकाप्तवाक्यत्वेन वा शोभनत्व-मुच्यत इत्यभिप्रेत्याप्यतममित्यत्र तमबर्थं चाह ॥ अशेषेति ॥ (द्वन्द्वे घि । द्वन्द्वे घिसंज्ञं पूर्वं स्यात् । हरिश्च हरश्च हरिहरौ । अनेकप्राप्तावेकत्र नियमोऽनियमः शेषे । हरिगुरुहराः । हरिहरगुरवः ।) न च द्वन्द्वे घीत्यस्य पटुगुप्तावित्यत्राजाद्यन्तमित्यस्य (अजाद्यन्तम् । इदं द्वन्द्वे पूर्वं स्यात् । ईशकृष्णौ । बहुषु अनियमः । अश्वरथेन्द्राः । इन्द्राश्वरथाः । घ्यन्तादजाद्यदन्तं विप्रतिषेधेन । इन्द्राग्नी ।) चेशकृष्णौ इत्यत्र सावकाशत्वेनेन्द्राग्नी इत्यत्रेवाम्नायस्मृतीत्यत्राप्युभयप्रसङ्गे विप्रतिषेधे परं कार्यमित्यजाद्यन्तत्वादाम्नाय शब्दस्य पूर्वनिपातसम्भवेऽप्यजाद्यन्तमित्यस्य पूर्वोक्तेऽल्पाच्तरमित्यस्य (अल्पाच्तरम् । शिव-केशवौ ।) प्लक्षन्यग्रोधावित्यत्र सावकाशत्वेन वागीशावित्यत्रेवात्राप्युभयप्रसङ्गे पूर्वन्यायेनाल्पाच्तरत्वा-त्स्मृतिशब्दस्यैव पूर्वनिपातः स्यादिति वाच्यम् । लक्षणहेत्वोः क्रियायाः समुद्राभ्राद्ध इत्यादिषु यथायथं व्यभिचारं कुर्वता सूत्रकृतैतत्प्रकरणस्यानित्यत्वज्ञापनादल्पाच्तरमित्यस्यानित्यत्वाच्छकुनिसूत्रयोरिति साध्विति वदता टीकाकृता तदनित्यत्वस्योक्तत्वाच्च । अल्पाच्तरमिति लक्षणस्य व्यभिचारं कुर्वाणेनेति युक्तिपादीयटीकाकारीयोक्तिश्च तन्नित्यत्वाभ्युपगमवादेन प्रवृत्तेति न विरोध इति द्रष्टव्यम् ॥ १ ॥

परिमल

पूर्णागण्यगुणोदारमूर्तये पुण्यकीर्तये ।

नमः श्रीपतये भक्तदत्तस्वानन्दमूर्तये ॥ १ ॥

पूर्णागण्यगुणोदारनित्यसुन्दरमूर्तिने ।

श्रीब्रह्मवीन्द्रपूर्वेड्यकीर्तिने ब्रह्मणे नमः ॥ २ ॥

विश्वं यस्य वशे सर्वमनिशं शङ्करादिकम् ।

तस्य वायोस्तृतीयांशमाश्रये शमवाप्तये ॥ ३ ॥

सत्पद्मबन्धवो यस्य गावो विश्वतमोनुदः ।

स स्यात्तत्त्वप्रकाशाय जयतीर्थरविर्मम ॥ ४ ॥

पदवाक्यप्रमाणज्ञो दुर्मतध्वान्तभास्करः ।

व्यासतीर्थमुनीन्द्रो मे भूयाज्ज्ञानसमृद्धये ॥ ५ ॥

अस्मद्देशिकपादानां प्रणम्य चरणाम्बुजम् ।

श्रीमन्न्यायसुधावाक्यव्याख्यां कुर्यां यथामति ॥ ६ ॥

आद्यपद्यं विवृण्वानो ग्रन्थादौ नम्यत्वप्रयोजकविशिष्टत्वेष्टत्वाधिकृतत्वयुक्तदेवतानतिरूपं मङ्गल-माचरति ॥ श्रिय इति ॥ मूले अशेषविशेषतोऽपीत्यनेन सङ्कलय्य श्रीब्रह्माद्युत्तमत्वमुक्तम् । तत्र सकलवाङ्मनसदेवताया देव्या ग्रन्थारम्भेऽवश्यं वन्द्यत्वद्योतनाय श्रियः पत्य इति विशिष्योक्तिः । तदपि ईश्वरोपसर्जनतयेति ज्ञापनाय श्रिय इति पृथगुक्तिः । निखिलेति निर्दोषमिति च विशेषणद्वयस्य हेतुहेतुमद्भावेन योजनाद्योतनाय नित्येत्याद्युक्तम् । ‘प्रच्युतोऽशेषदोषैः सदा पूर्तित’ इत्युक्तेः सर्वस्वातन्त्र्यसर्वज्ञानसर्वशक्तिसर्वैश्वर्यादिगुणसत्त्वे पारतन्त्र्यादिदोषाणामयोगात् । एतच्च ब्रह्मपदेन गुणपूर्तिवन्निर्दोषस्यापि लाभाय । तेन नारायणशब्दस्य ब्रह्मशब्दसमानार्थत्वसूचनेन ब्रह्मतन्त्रे नारायणनतिर् मूले न युक्तेति शङ्का परास्ता । यद्वा लोके गुणदोषयोरविनाभावदृष्टेरिहापि गुणित्वे दोषित्वापत्तिरित्यतः मितगुणित्वे दोषित्वमत्रामितगुणित्वान्न दोषितेति सूचनायैवमुक्तिः । देहस्य ज्ञानादिगुणात्मकत्वे लोके ज्ञानादेरनित्यत्वाद्देहोऽपि तथा स्यादिति शङ्कानिरासाय नित्येति गुणविशेषणम् । तेन मूले सदापदस्य निखिलेत्यत्रापि अन्वयः सूचितः । निर्दोषमित्यत्र दोषपदम् अशेषदोषपरमिति ज्ञापनाय सकलावद्येत्युक्तिः । अस्योद्भवादिदमित्यत्रास्येतिपदं प्रमितसर्वपरं सदपि नेश्वरपरमिति ज्ञापनाय जगज्जन्मेत्युक्तम् । अनेनास्य समस्तस्योद्भवादिदमित्यन्वयः सूचितः । स्थेमा स्थैर्यं रक्षेत्यर्थः । उक्तं हि श्रुतप्रकाशेऽपि । ‘अखिलभुवनजन्मस्थेमभङ्गादिलील’ इति भाष्य-व्याख्यानावसरे स्थेमा स्थितिरिति । स्थिरशब्दादिमनिच्प्रत्यये प्रियस्थिरेत्यादिसूत्रेण स्थिरशब्दस्य स्थादेशे आद्गुण इति गुणे च स्थेमेति रूपम् । यद्यपि वामनवृत्यादौ मुग्धप्रौढस्थिरशब्दानां पृथ्वादिष्वपाठात्पृथ्वादिभ्य इमनिज्वेत्युक्तेमनिजप्राप्तेरिमनिजन्तप्रयोगोऽसाधुरिति उक्तम् । तथापि नैषधद्वादशसर्गस्थस्य ‘यत्कस्यामपि भानुमान्न ककुभि स्थेमानमालम्बत’ इत्यस्य व्याख्याने ‘‘वर्णदृढादिभ्यः ष्यञ् च’’ सूत्रे चकारेण इमनिचः समुच्चितत्वात् स्थिरशब्दस्य दृढादिषु पाठादि-मनिजित्युक्तत्वात्साधुरेवायं ध्येयः । यद्वा तिष्ठतेरौणादिकेमनिचि गुणे रूपं स्थेमेति । स्थितिरित्यर्थः । उद्भवादिदमित्यनेन सृष्ट्याद्यष्टकग्रहणेऽपि वियदधिकरणन्यायेन ईशादन्यसर्वसम्बन्धित्वाज्जन्मादि-त्रयस्यैवात्रोक्तिः । नियतिरप्युपलक्ष्या । ईश्वरस्य जगज्जन्मादिना फलं नास्ति चेदस्योद्भवादिद-मित्ययुक्तम् । प्रेक्षावतो निष्फले प्रवृत्त्ययोगात् । अस्ति चेन्निखिलपूर्णगुणेत्ययुक्तमित्यतः शीलेति । जन्मादिरचनास्वभावेत्यर्थः । फलाभावेऽपि स्वभावोऽयं सृष्ट्यादिव्यापारः । यथाचैतत्तथा नप्रयोजनाधि करणे वक्ष्याम इति भावः । अनेन सदाऽस्योद्भवादिदमित्यप्यन्वयः सूचितः । मूले देहमित्युक्तिर्न केवलं ज्ञानादिगुणसत्त्वाद्युपपत्त्यर्थं किन्त्वस्योद्भवादिदमित्युक्तस्रष्टृत्वाद्युपपत्यर्थं चेति सूचनाय वपुष इत्युक्तिः । अन्यथा पत्युरसामञ्जस्यादित्यधिकरणे सम्बन्धानुपपत्तिश्चेति सूत्रेऽशरीरस्य जगता कर्तृकार्यभावरूपसम्बन्धानुपपत्तेरिति वक्ष्यमाणदोषापत्तेरिति भावः । सुवाक्यैरित्येतद्वेदवेदानुसारि-सर्वपौरुषेयापौरुषेयपरमिति भावेनोक्तम् । अशेषाम्नायस्मृतीति । आपाततो नोक्तगुणविशिष्टो हरिः प्रतीयत इत्यत उक्तम् । हृदयेति । तात्पर्यप्रकाशितायेत्यर्थः । सदा प्रियतममित्यस्यार्थः हरय इति । नित्येत्यादिविशेषणद्वयेन विशिष्टत्वम् अशेषेत्यधिकृतत्वं हरत्यशेषक्लेशानिति हरय इत्यनेनेष्टत्वमुक्तं ध्येयम् । ‘हरिं हरन्तमनुयन्ति देवा’ इत्यादेः । यद्वा मूले तमेवेति श्लोके व्यासगुरोर्नारायणैक्यमुच्यते । ‘प्रादुर्भूतो हरिर्व्यास’ इति श्लोके च हर्यैक्यं तत्कथमित्यतस्तावेक एवेति ज्ञापनाय मूलोक्त-नारायणविशेषणान्येवोक्तवा हरय इति विशेष्यमुक्तम् । ‘वेदाक्षराणि यावन्ति पठितानि द्विजातिभिः । तावन्ति हरिनामानी’ति स्मृतिसूचनाय हरिपदप्रयोग इत्येके । अनेन हरेर्नारायणानन्यत्वप्रतीत्या प्रादुर्भूतो हरिर्व्यास इति व्यासस्य हर्यवतारत्वोक्तेर्नारायणानवतारत्वात्तमेवेति तदभेदोक्तिरयुक्तेति शङ्काऽनवकाश इति । तमेव शास्त्रप्रभवमित्युपपत्त्यर्थमित्यन्ये । हरेर्नारायणविशेषणविशिष्टत्वोक्तया हरिविशेषणानां कृत्यं मूलविशेषणकृत्यवद्बोध्यम् । निखिलेत्यादिविशेषणत्रये ‘वेदादिरेव मानमिति ज्ञापनाय मूलक्रमोल्लङ्घने-नाशेषाम्नायेत्यस्यान्ते निवेशः । नित्येति विशेषणेन पूर्वाध्यायद्वयस्य अशेषेत्यादिविशेषणविशेष्याभ्या-मुत्तरद्वयस्यार्थोक्तिः । ‘नासिकास्तनयोर्ध्माधेटो’रिति निर्देशादल्पाच्तरमित्यस्य प्रायिकत्वाद्वाऽभ्यर्हित-त्वाद्वा आम्नायशब्दस्य पूर्वनिपातः ॥ १ ॥

यादुपत्यम्

सुखमुखगुणबिम्बः साधुमार्गावलम्बः सुमतिजलजमोदो दूषितान्यप्रमोदः ।

भुवनविततमोहध्वान्तविध्वंसदेहो दिशतु दृशमभीष्टां व्याससूर्यः स्वनिष्ठाम् ॥ १ ॥

पूर्णप्रज्ञजयार्यपूर्वकगुरूनानम्य विद्याप्रदान् वेदेशाभिधयोगिनोऽपि कृपया

तेषां सुधाटिप्पणीम् ।

बालानां तनुते मितां यदुपतिर्बोधाय धीशुद्धये स्वस्यापि प्रविचिन्त्य

सद्गुरुमुखात्सम्यक् श्रुतार्थान्मुहुः ॥ २ ॥

न पाण्डित्याभिमानेन नापि मत्सरतः क्वचित् ।

यत्नोऽयं किन्तु धीवाचोविशुद्ध्यै मम नान्यथा ॥ ३ ॥

अथ परमकारुणिको जयतीर्थश्रीचरणो ‘ग्रन्थोऽयमपि बह्वर्थो भाष्यं चात्यर्थविस्तरम् । बहुज्ञा एव जानन्ति विशेषेणार्थमेतयो’रित्याचार्योक्तौ लोकानां विश्वासमुपजनयन्ननुव्याख्यानव्याख्यामारभमाणो अभीष्टसमाप्त्यादिप्रयोजनकं श्रीपतिस्तुतिप्रणामरूपं मङ्गलं कृत्वा शिष्यशिक्षायै ग्रन्थादौ तदुपनिबध्नाति ॥ श्रियः पत्य इति ॥ अत्राद्ये पद्ये अनुव्याख्यानाद्यपद्यगतविशेषणचतुष्टयविवरणाय नित्यागणितेत्यादि विशेषणानि । तेन तेषां विशेषणानां यद्वक्ष्यमाणं प्रयोजनं तदेतेष्वपि बोध्यम् । गुणमाणिक्यविशद- प्रभाजालोल्लासोपहतसकलावद्यतमस इत्यनेन निखिलपूर्णगुणैकदेहं निर्दोषमित्येतयोर्हेतुहेतुमद्भावो विवक्षित इति सूचितमिति ज्ञातव्यम् । यद्यपि स्थिरशब्दप्रकृतिकः स्थेमशब्दो दार्ढ्ये रूढस् तथापि स्थाधातुनिष्पन्नत्वाद्योगेन स्थितिवाच्यपि भवतीत्यभिप्रेत्य स्थेमेत्युक्तम् । अत एव ‘अखिलभुवन-जन्मस्थेमभङ्गादिलील’ इति प्राचां प्रयोगः । व्याख्यातं च तट्टीकायां स्थेमा स्थितिरिति । स्मृतिपद-स्याल्पाचतरत्वेऽपि आम्नायपदस्याभ्यर्हितत्वात्पूर्वं प्रयोग इति ज्ञातव्यम् ॥ १ ॥

श्रीनिवासतीर्थीया

वेदव्यासं गुणावासं पुर्णबोधान्मुनीनपि ।

वन्देऽहं जयतीर्थार्यांस्तथा वेदेशयोगिनः ॥ १ ॥

वेदेशमुनिसत्पादसेवासंप्राप्तवैभवान् ।

यादवार्यान् न्यायसुधाटीकाकारानहं भजे ॥ २ ॥

तत्पादाराधकश्रीनिवासेन तदनुग्रहात् ।

टीकाऽगृहीतवाक्यार्थविवृतिः क्रियते मया ॥ ३ ॥

ग्रन्थादौ श्रीपतिनमनरूपं मङ्गलमाचरति ॥ श्रियः पत्य इति ॥ १ ॥

वाक्यार्थरत्नमाला

सद्बोधोरुसुखोन्नतद्युतिवरौदार्याग्रयवीर्यातुल-

स्वातन्त्र्यादिगुणार्णवं जनिमृतिभ्रान्त्यादिदोषातिगम् ।

वैराग्योन्नतभक्तिसंश्रुतिमतिध्यानैश्च साक्षात्कृतं

सद्भिः प्राप्यमजेशपूर्वसुरपं लक्ष्मीनृसिंहं भजे ॥ १ ॥

वेदव्यासं वेदमुद्धृत्य वेदव्याख्यानार्थं भारताद्यं च सूत्रम् ।

कृत्वाऽजेशेन्द्रादिदेवेषु दत्वा जैमिन्यादीन् बोधयन्तं नमामि ॥ २ ॥

श्रीमध्वाचार्यवर्योनिलवपुरतुलं ब्रह्मसूत्रस्य भाष्यं

कृत्वा दुर्वादिभाष्याण्यपवदितुमनुव्याकृतिं चानुवर्त्य ।

तत्रत्यन्यायदीप्त्यै वरनयविवृतिं चाकरोत् सत्सुखार्थं

तं मे सद्बोधसिद्ध्यै गुरुगमनुभजे वैष्णवाध्वावभासम् ॥ ३ ॥

वाक्चेतसोर्मानिनीं भारतीं त्वां टीकाकृदुक्तौ परिगच्छतो मे ।

वाक्चेतसोः संस्कुरु सन्निधानं बद्धाञ्जलिस्त्वां प्रणमामि मूर्ध्ना ॥ ४ ॥

श्रीमध्वोक्तिविकासनी वरगुरुप्रौढप्रसादार्चिता

दुर्वादीरितमूकतापसरणी गम्भीरभावान्विता ।

शुद्धा श्रीजयराजवागनुदिनं मद्वाग्घृदोर्भासतां

यद्भानान्मम वागशेषविदुषामल्पापि मान्या भवेत् ॥ ५ ॥

यः श्रीमान् व्यासतीर्थः सुखमुनिगुरुसम्प्रोक्तभाष्यानुभाष्य-

न्यायव्याख्येतसूत्रे जयमुनिरचितव्याकृतौ चातिधीरः ।

चक्रे दुर्वादिभङ्गं सुजनसुमतये चाकरोच्चन्द्रिकादि-

ग्रन्थं जीवेशभेदादिपरमनुभजे तं धियो वीर्यसिद्ध्यै ॥ ६ ॥

रघूत्तमाद्या गुरवो ज्ञानभत्तयादिशालिनः ।

मन्मानसं वर्तयन्तु सच्छास्त्रोक्तसुवर्त्मनि ॥ ७ ॥

येनालाभि समस्तशास्त्रजमहाज्ञानं समाः षोडशं

येनाबोधि रमेशतत्त्वमपवाद्युक्तिश्च दूरीकृता ।

येनाकारि विरक्तिरच्युतपदे भक्तिश्च लोकश्रुता

विद्याधीशयतिः स मे परगुरुर् विद्याप्रदीप्त्यै भवेत् ॥ ८ ॥

यद्धस्तनिःसृतरमेशपदाभिषेकतीर्थेन शुष्कतरवः सरसा गयायाम् ।

जाता विपश्यति जने बहुदेशसंस्थे तं दैवतं परपुमांसमहं नमामि ॥ ९ ॥

पुण्यस्तम्भनिवासिगौतमसरित्स्नानाग्निहोत्रादि

सद्धौतार्षादिगुरूक्तकर्मनिचयश्रीशप्रपूजारतान् ।

श्रीमध्वीयसुशास्त्रकण्टकहरांस्तद्व्याकृतौ पण्डितान्

वन्दे व्याप्तसुशिष्यसन्नतियुतानानन्दभट्टारकान् ॥ १० ॥

इनोदयस्नानसुरार्चनाग्निहोत्रादिसत्कर्मरतातिशुद्धम् ।

श्रीश्रीनिवासाभिधमार्यवर्यं पितृव्यमानौम्यतिधीरशिष्यकम् ॥ ११ ॥

श्रीमत्सत्यनिधिप्रभूतयतिराट् श्रीसत्यनाथाभिधः

सत्याभीनवतीर्थसद्गुरुवरे संवृद्धभाग्यप्रदः ।

श्रीकृष्णश्रुतिनाथरामभजकश्चित्रैर्नवैः साधनैर्

भक्तं मां नरसिंहमाशु कृपया पायादपायात् प्रभुः ॥ १२ ॥

विद्याधीशगुरोरशेषसमयानभ्यस्य मध्वीयस-

त्तन्त्रार्थं प्रविचार्य चानुहृदयं शास्त्रप्रवक्ताऽभवत् ।

दुर्वादीन्द्रसुभङ्गकृद्वरनदीस्नानाग्निहोत्रादिकृत्

श्रीमध्वेशवरार्चने रतमनाः श्रीकेशवार्याह्वयः ॥ १३ ॥

यद्व्याख्यानस्य शाला त्वहमहमिकया शिष्यसङ्घेन पूर्णा

व्याख्या चातुर्यदूरीकृतकुमतिजना शिष्यवाक्सारयुक्ता ।

सायं ज्ञात्यादिशिष्यप्रसुतवरनरावल्ल्यपूर्वान्न जात-

प्रीत्या युक्ता गुरुं तं पितरमपि पतिं नौमि मे रूपदीपम् ॥ १४ ॥

यस्यानुग्रहलेशतोऽहमभवं विद्वत्सुमानाश्रयो

यद्वाचानुगतेर्मदीयवचनं विद्वन्मनोगोचरः ।

यो मच्छिक्षणसिद्धये मम करेणालेखयद्व्याकृतीस्

तत्सेवां करवाणि कां तदुदितार्थालोचनादेः पराम् ॥ १५ ॥

रुग्मिण्यायीमातृपादौ प्रवन्दे सुष्ट्वन्नादेर्दानतो लालनाच्च ।

मां संपाल्य ज्ञानिवर्गे निवेशयोग्यं कृत्वाऽऽशीर्वचोरक्षितारौ ॥ १६ ॥

यौ वै शास्त्रचतुष्टयेऽतिनिपुणो दूरीकृताज्ञानको

दुर्वादीन्द्रविदारणेऽतिचतुरो दाने तु कर्णोपमः ।

गुर्वानुग्रहवारिधिर्मयि परं स्नेहं दयातोऽकरोज्

ज्येष्ठभ्रातरमाश्रये सुमतये श्रीश्रीनिवासं गुरुम् ॥ १७ ॥

अथोक्तनम्यकृपया गुरुशिक्षानुसारतः ।

यथामति व्याकरिष्ये सौधवाक्यार्थचन्द्रिकाम् ॥ १८ ॥

श्रीमच्छ्रीगुरुतद्गुरूदितमहाटीकाविवृत्यादिकं

नानाशास्त्रगमर्मवाक्यरचनाशैलीविदां शोभते ।

अप्येवं गुरुपादचिन्तनबलात्स्मृत्वोरुतच्छिक्षितं

न्यायांस्तत्र यतन् स्खलन्नपि पुनर्निन्द्यो न सुज्ञानिनाम् ॥ १९ ॥

श्रीमट्टीकाकारो ग्रन्थादौ मङ्गलमाचरति ॥ नित्यागण्येति ॥ एतत्पद्यस्य श्रियः पत्य इत्येतदाद्य-पद्यविवरणरूपत्वाट्टीकाकृद्वक्ष्यमाणतत्पद्यगतविशेषणप्रयोजनेषु यावन्ति प्रयोजनानि संभवन्ति तावत् प्रयोजनकतयैतत्पद्यगतविशेषणानि योजनीयानि । मूलकारीयगुणपदनिर्दिष्टगुणानामुपलक्षणया प्रदर्शनं बलद्युतीत्यादि । नित्यपदं सादित्वविनाशरूपदोषयोरिव दुःखसंभिन्नत्वादिदोषान्तरस्याप्युपलक्षणया निरासपरमित्याशयं स्पष्टयितुं नित्यपदोपलक्ष्यकथनं सत्सौख्याग्रयेत्यादि । अत्र नित्यत्वागण्यत्वे बलद्युत्यादिसर्वान्विते । यथासंभवं च सत्त्वादिकं मध्येदीपिकान्यायेन सर्वान्वयि । प्राभवं प्रभुता । मुखपदेन शक्त्यादेर्ग्रहः । व्रातः समूहः । व्रातात्मा दिव्या अद्भुता आकृतिर्मूर्तिर्यस्येति विग्रहः । आद्यपदोक्तदोषाणामुपलक्षणया प्रदर्शनं सन्तापादीति । वेदैकवेद्यमित्येतद् आगमैकविज्ञेयं, गुणैकदेहमितिवद्व्युत्पाद्यम् । शिष्टं स्पष्टम् । यद्यपि कर्मण्यणिति कर्मण्युपपदे धातोरणि प्राप्ते तदपवादेनातोऽनुपसर्गे क इत्यनेनानुपसर्गादेवातो धातोः क इति कप्रत्यविधानाद्गोद इत्यादावनुपसर्गे तत्प्राप्तावपि गोसन्दाय इत्यादौ सोपसर्गतया कप्रत्ययाप्राप्तौ निरपवादेऽण्येव सति आतो युक् चिङ्कृतोरिति युगागमे चोक्तरूपवज्जन्मादिप्रदमित्यत्रापि निरपवादे अण्येव सति युकि च प्रदायमिति प्राप्नोति । तथापि सोपसर्गार्थमारब्धेन प्रेदाज्ञ इति सूत्रेण प्रशब्दपूर्वकाद्ददातेर्जानातेश्च कप्रत्ययविधानेन सर्वप्रदः वसुप्रदः फलप्रद इत्यादेः साधुत्ववत्प्रकृतेऽपि जन्मादिकं प्रददातीति जन्मादिप्रद इति प्रोपसृष्टाद्ददातेः प्रेदाज्ञ इत्यनेन अणोपवादेन कप्रत्यये आतो लोप इटि चेत्याकारलोपे च प्रदमित्यस्य साधुत्वम् । उक्तं च काशिकायां सोपसर्गार्थमयमारम्भ इत्यादि । कुम्भं करोतीति कुम्भकार इति तिङन्तेन विग्रहेऽपि कुम्भस्य कार इति प्रक्रियावाक्याश्रयणेनोपपद- मतिङिति सूत्रेण समासवत्प्रकृतेऽपि स्वपदविग्रहसिध्यर्थं जन्मादेः प्रद इति प्रक्रियावाक्यमाश्रित्योपपदमतिङित्यनेन समास इति ज्ञेयम् । विद्यैवेत्यधिकरणीयहत्याया मोक्षहेतुत्वं कुत इत्येतदनुव्याख्यानमूलटीका-प्रपञ्चावसरेऽधिकं च वक्ष्यामः । उत्तमपुरुषप्रयोगसत्त्वस्थलेऽपि वन्देऽहं तम्, वन्देऽहं देवभक्त्ये-त्यादाविव पृथगेवाहमिति कर्तुरुक्तिरपि युक्तैव ॥ १ ॥

देवतात्वेन नारायणप्रणामं कृत्वा शास्त्रकर्तृवेदव्यासरूपेणापि नारायणं मेघश्लेषेण स्तौति वेदेति । वेदलक्षणाम्भोधेः समुद्धृतमतिविलसत्सूत्रामृताम्भस् तस्य लसन्ती शोभमाना या धारा तस्या वर्षणेन तुष्टा सतां हृदयलक्षणा या अवनिस् तस्यां ज्ञानलक्षणाङ्कुराधायकमित्यर्थः । अन्यत्र तु प्रसिद्धजलेन वर्षणादिकं सिद्धम् । प्रसिद्धमेघासाध्यकार्यकथनेन लब्धस्यातिशयस्य कथनं विचित्रेति । एवं दिव्यस्यन्दनेति मृगेन्द्रराजमिति चातिशयकथनपरम् ॥ २ ॥

दिवाकर इत्यादौ तु विशेषणसामर्थ्यप्राप्तातिशयस्य स्पष्टत्वाशयेनानुक्तावपि न दोषः । सत्सिद्धान्तेति । सत्सिद्धान्तलक्षणानि यानि उत्कृष्टानि अरविन्दानि तेषां निवहाः समूहा अन्धकारनिकरास् तत्समूहाः ॥ ३ ॥

गाण्डीवस्थानीयभाष्यस्यरज्जुसद्भावप्रतिपादनाय सत्सूत्रेत्युक्तम् । कुसमयलक्षणा ये प्रत्यर्थिभूता विरोधिनः दुस्यन्दना दुष्टरथिनस् तानित्यर्थः । कृष्णेरितत्वं च वेदव्यासनाम्ना वासिष्ठकृष्णेनोद्धृतत्वं विभक्तत्वादिकं ज्ञेयम् । श्रीमध्वशास्त्रं च श्रीमध्वभाष्यातिरिक्तम् अत्र विवक्षितमिति न कश्चित् क्षुद्रोपद्रवः । अर्जुनश्लेषकरणेन इन्द्रावतारत्वादिप्रसिद्धिरपि अनुकूलिता ॥ ४ ॥

सच्छास्त्राणि सूत्रभाष्यटीकारूपाणि । प्रसिद्धकिरणादिवैलक्षण्यं वक्तुम् अमलेत्याद्युक्तम् । नयतेर् द्विकर्मकत्वाद् व्रातं विकासमिति उभयत्रापि द्वितीया ॥ ५ ॥

एवं विद्रावयन्तम् इत्यत्रापि । श्रीमद्रामेति । रामो मूलरामादिः । दिशः प्रति । मद्गुरुम् इत्यनेन उत्तरश्लोकोक्तमठान्तरस्थव्यासतीर्थेभ्यो व्यावृत्तिः सूचिता ॥ ६ ॥

वेदान्ताब्धिमिति श्लोके इतरे सत्तर्काः श्रीमध्वोक्ता विवक्षिताः । यद्यपि न्यायामृते मध्वसच्छास्त्रदुग्धाब्धिमित्युक्तं तथापि सूत्रे भाष्ये चेत्याद्युक्तेः स्वयं तत्र तत्र श्रुतिविचारस्यापि करणाद् वेदान्ताब्धिमित्युक्तेर्न दोष इत्यादि ज्ञेयम् । दुस्तर्केति । दुस्तर्काश्च तदितरे सत्तर्काश्च दुस्तर्केतरे । दानवाश्चामराश्च दानवामराः । दुस्तर्केतरे च ते दानवामराश्च तेषां गणाः । देवानाम् अमृतलाभवच् चन्द्रलाभवच्च व्यासमुनेस् तदुभयलाभं प्रतिपाद्यामृतपानानन्तरं देवैर् दैत्ययुद्धकरणादस्यापि तत्स्थानीय-माह युधि तथेति ॥ ७ ॥

यत्र गङ्गासागरसङ्गमस् तत्र शरीरशुद्ध्यर्थं सेवाकरणमस्तीति प्रकृते न्यायसुधाया अनुव्याख्यान-सङ्गमं गङ्गासागरसङ्गमोपश्लेषेणाह अनुव्याख्याब्धीति । सुराणां देवानाम् आपगां नदीं भागीरथीमिति यावत् । न्यायसुधैवाऽगाधा सुरापगा तथोक्ता । अनुव्याख्याब्धिना युक् योगः यस्याः सा तथोक्ता । अनुव्याख्याब्धियुक् चासौ न्यायसुधाऽगाधसुरापगा च तथोक्ता । तामित्यर्थः । धियः शुद्ध्या इति संबन्धः ॥ ८ ॥

मङ्गलमाचरन्तीति । वाचनिकमङ्गलस्यायमाचार एव इति आचरन्तीत्युक्तम् । विस्तृतं चैतन् मङ्गलमाचरतीति चन्द्रिकाव्याख्याने गुरुराजेन । अत्रापि उपयुक्तम् अनुपदमेव स्पष्टीकरिष्यामः । प्रथमपद्यव्याख्यानरूप इति । अनेनेदं पद्यं तद्व्याख्यानरूपम् इत्यत एतद्गतविशेषणप्रयोजनकथनम् उत्तरत्र क्रियमाणं नासङ्गतमिति ध्वनयति । तद्व्याख्यानं चाशेषविशेषतोऽपि वन्द्यमित्यादिविशेषणद्वयं विहायेतरांशे विवक्षितमिति न दोषः । एवमेवेदं च पद्यं भाष्यस्थोक्तश्लोक विवरणरूपत्वाद् इत्येतच् चन्द्रिकावाक्येऽपि संभवद् अंशाभिप्रायेण विवरणत्वं विवक्षितमिति ज्ञातव्यम् । प्रक्षेपेणेत्यस्य समर्थितम् इत्युत्तरेण संबन्धः । समर्थनप्रकारकथनं प्रादुर्भूत इत्यादि पञ्चम्यन्तम् ।

अयमर्थः । तमेवेति श्लोके तं पूर्वप्रणतं नारायणमेव शास्त्रप्रभवं प्रणम्येत्युत्तया नारायणस्य शास्त्रप्रभवत्वादिना गुरुत्वमुक्तम् । तत्कथम् । प्रादुर्भूतइति श्लोके हरेरेव व्यासरूपेण प्रादुर्भूतस्य शास्त्रप्रभवत्वादिप्रतिपादनेन नारायणस्य तदभावादिति न शङ्कनीयम् । तत्रोक्तहरेरेव उत्तरमूलानुसारेण नारायणत्वेन हरिस्वरूपप्रतिपादकस्य नारायणस्वरूपप्रतिपादकतया नारायणस्य शास्त्रप्रभवत्वा-देरुपपत्त्या तं शास्त्रप्रभवं नारायणमेवेति प्रतिपादनोपपत्तेरिति समर्थितमिति । नारा लक्ष्मीरिति । न विद्यन्ते अरा दोषा यस्याम् इति व्युत्पत्त्येति शेषः । अभिप्रायव्यञ्जनेनेति । अनुव्याख्यानकारीयेति शेषः । तादृशदेवताभूतलक्ष्मीपतित्वेन नारायणवन्दने तस्या अपि नमनलाभः । न च तत्पतित्व-समर्पकाभावः । नारायणपदस्यैव तथात्वाद् इत्येवंरूपोऽभिप्रायो बोध्यः । न्यूनतेति । अनुव्याख्याने प्राप्तेति शेषः । पूर्वेति । अनुव्याख्यानगतनिखिलपूर्णगुणेतिविशेषणेत्यर्थः । संपूर्णस्य एकदेह-विशिष्टत्वस्य मूलपदादलाभाद् अन्तर्गतेत्युक्तम् ॥ प्रयोज्यप्रयोजकभावोऽपीति ॥ न केवलं प्रत्येकं वैशिष्ट्यसमर्पकत्वमित्यपेरर्थः । गुणावद्ययोरित्यतः परम् उक्तस्योपहन्त्रुपहन्यमानभावस्य घटनायेति शेषः । माणिक्यतमोभ्यामित्यत्र गुणावद्ययोरिति वर्तते इति ज्ञेयम् । उपमानोक्त्या गुणा एव माणिक्यानीत्यादिरुपमितसमास इत्युक्तं भवति । तदुपपादनायैवेति । उपहन्त्रुपहन्यमानभावोपपादनाय एवेत्यर्थः । न केवलम् उपपादनायात्रोपमानमपि तु प्रभेत्यादिकमपीत्येवशब्देनाह । माणिक्यस्य द्रव्यान्तरप्रतिघाते उपहन्तृत्वं न सम्भवतीत्यतस् तस्याप्रतिहन्तत्वमस्तीति सूचनाय प्रभेत्यादिकमुक्तमिति भावः । यद्वा उपमानोपपादनायैवेत्यर्थः । उपमानमात्रेण पूर्तेः प्रभेत्यादिर् व्यर्थमिति न शङ्कनीयम् । उपमानोपपादनायैव उपहन्तृत्वसामर्थ्यप्रदर्शनाय तस्याभिधानादित्येवकारेणोक्तम् । गुणनिखिल-त्वोक्तीति । गुणपूर्णत्वस्य निर्दोषत्वोपपादकतयोक्तिस्थितावपि यद्येकमात्रदोषराहित्यं निर्दोष-मित्यत्राभिप्रेतं स्यात् तर्हि ज्ञानादिगुणेषु अज्ञानविरोधिज्ञानोक्त्यैवाज्ञानाख्य दोषाभावरूप-निर्दोषत्वलाभः । एवं दुःखविरोधिपूर्णसुखमात्रोक्त्या दुःखाख्यदोषाभावरूपनिर्दोषत्वलाभ इत्येवम् एकगुणमात्रोक्त्या तदलाभात् तदर्थं सुखादिगुणान्तरप्रतिपादकं निखिलपदं व्यर्थं स्यादित्यतो निर्दोषत्वमित्यत्रानेकदोषराहित्यमेवाभिप्रेतमित्याश्रित्य तावद्दोषराहित्योपपादकतया तद्विरोध्यनेक-गुणकथनं कृतमिति वाच्यम् । इत्येवं गुणसाकल्यकथनेन दोषसाकल्यमप्यभिप्रेतमिति लाभाद् भाष्याभिप्रेततत्साकल्यकथना सकलपदमित्यर्थः । गुणोपहतत्वयोरिति । गुणापगमकाले निर्दोषत्वमपि तत्साध्यं नास्ति सत्यपि वा गुणे दोषोपहतिर्नास्तीति कादाचित्कत्वं तयोर् यच्छङ्क्यं तदुभयं नित्यत्वविशेषणेन निरस्तमित्यर्थः । अनेन नित्याश्च ते अगणिताश्च ते गुणाश्चेति नित्यत्वं गुणविशेषणम् । तथा नित्यम् अगणितगुणमाणिक्यविशदप्रभाजालोल्लासेन उपहतमिति नित्यत्वम् उपहतत्वस्यापि विशेषणम् । तन्त्रेण च विशेषणोपादानमिति भाव इति सूचितम् । अस्येतीति । न प्राक् प्रकृतपरामर्श्य यम् इदंशब्दः किन्तु बुद्धिप्रकृतपरामर्शीति भावेनेति शेषः । शीलपदव्यावर्त्यां शङ्कां प्रदर्शयति प्रयोजनाभावादिति । नप्रयोजनत्वादित्यधिकरणीयशङ्केयम् । प्रयोजनोद्देशे चापूर्णत्वं स्यादिति भावः । अन्नदानादिनेवेति । पालनस्येत्याकृष्यते । अन्नदानादिना पालनस्येवेति योज्यम् । अज्ञानबन्धमोक्षाणामिति । मोहान्तमापिपन् नप्रेत्यसंज्ञा इत्यादौ विनाशार्थकप्रलयशब्दप्रयोगाद- ज्ञानस्य प्रलयपदेन सङ्ग्रहो युक्तः । प्रकृष्टं यल्लीयते तत् प्रलय इति व्युत्पत्त्याऽज्ञानबन्धयोर् ग्रहणमिति वा । एवं च प्रलयपदेन संहारादिचतष्टयं सङ्गृहीतं भवति । स्वतन्त्रकृत्यर्थकरचनाशब्देन तन्त्रेणोपात्तेन प्रलयश्च रचना च जन्म स्थेमप्रलयरचनास् तासां रचनेति योजनायाः सूचितत्वात् प्रथमस्य रचनाशब्दस्य नियमार्थत्वं द्वितीयस्य तु कृत्यर्थत्वम् इति योजनीयमिति भावेनाह रचनाशब्देनेति । उत्तरत्रेत्यादि । अस्योद्भवादिदम् इत्येतद् व्याख्यानावसरे मुखत उपात्तोद्भवव्यतिरिक्ताष्टकेत्यादि योज्यम् । यद्वा आदिपदेत्यस्य उद्भवपदसहितादिपदेत्यर्थः । अत एव उद्भव आदिर् यस्योद्भवादि जन्माद्यष्टकमिति मूले वक्ष्यति । उत्तरत्रेत्यादि न शङ्कनीयमिति प्रतिज्ञायाम् अत्रेत्यादिसंभवाद् इत्यन्तो हेतुः । अनेनैवात्र तद्गुणसंविज्ञानो बहुव्रीहिरित्यपि सूचितम् । आदिपदस्यान्यसङ्ग्राहकत्वविचारस्तु जन्माधिकरणे वैशेषिकाधिकरणे च करिष्यते ।

किरच्प्रत्यये निरूढत्वप्रतिपादनमुखेन किरच्विधायकमजरेति सूत्रम् इत्याशयेनाह अजरशिशिर-शिथिलस्थिरेत्युणादीति । इति उणादीत्यर्थः । आदिपदेन स्फिरस्थविरखदिरा इति सूत्रशेषग्रहणम् । स्थाधातोः किरचि स्थेरेति प्राप्तावाह आतो लोप इटि चेतीति । आकारान्तधातोः किति इटि च परे आकारलोपो भवतीति सूत्रार्थः । उक्तं च उणादिवृत्तौ दशपद्याम् । ष्ठा गतिनिवृत्तौ । अस्याकारलोपः । तिष्ठतीति स्थिरं दृढमिति । सिद्धान्तकौमुद्यां तु स्थास्फायोश्च टिलोप इति यदुक्तं तत्तु स्फायतेष्टि-लोपस्यावश्यकत्वेऽपि स्थाधातोराकारलोपेनैव सामञ्जस्ये टिलोपस्यावाच्यत्वाद् अयुक्तमिति सूचयितुं चाकारलोपाभिधानम् । दृढादित्वेनेति । दृढवृढपरिवृढेत्यादिषु तरुणमन्दस्थिरेति परिगणनादिति भावः । वर्णदृढादिभ्य इतीति । वर्णदृढादिभ्यश्चेति सूत्रेण वर्णविशेषवाचिशुक्लादिप्रातिपदिकेभ्यो दृढादिभ्यश्च ष्यञ् भवति । चकारादिमनिच्प्रत्ययश्च भवति भावरूपेऽर्थे विवक्षित इति विधानादिति भावः । प्रियस्थिरेत्यादिनेति । स्थिरोरुबहुलगुरुवृद्धेत्यादिवृन्दा इत्यन्तसूत्रेण इष्टेमेयस्सु प्रियादि-शब्दानां प्रस्थाघादेशविधानाद् इति भावः । स्थेमशब्दस्येति । इमनिच इकारचकारयोर्लेपे गुणे च स्थेमन् इति नकारान्तप्रातिपदिकसिद्धिः । तस्य च दृढार्थकस्थिरशब्दप्रकृतिकतया दाढर्््यमेवार्थतया प्राप्तम् । न केवलम् उक्तप्राप्तिमात्रमपि तु तथा प्रसिद्धिरपि अस्तीत्यर्थः । तथाच जन्मप्रलयसाहचर्येणात्र स्थितिरूपोऽर्थः प्राप्तोऽपि न युज्यत इति भावः । स्थितावपि अखिलेति । प्रयोगाणाम् इत्येतद् वक्ष्यमाणे बुद्ध्या विवेकेन प्रयोगस्येति लाभात् स्थेमशब्दस्य स्थितावपि नान्दीश्लोके अभियुक्तप्रयोगस्य उपलम्भादिति वक्ष्यमाणेन संबन्धः सिद्धः । अत्राखिलभुवनजन्मस्थेमभङ्गादिलीले विततविविधभूत-व्रातरक्षैकदीक्षे । श्रुतिशिरसि विदीप्ते ब्रह्मणि श्रीनिवासे भवतु मम परस्मिन् शेमुषीभक्तिरूपेति तदीयप्रथमपद्यपाठानुसारेण भुवनजन्मेति पाठः स्वरस एव । जगज्जन्मेति पाठसत्त्वे स्वार्थानुवादः । एवं भङ्गादिलील इति ह्रस्वलकारपाठः । सप्तम्यन्तपाठानुसाराद् लाकारपाठो लेखकागतः । भङ्गादि-लीला यस्येति विग्रहः । नप्रयोजनवत्त्वाद् इत्यधिकरणे तथा प्रमेयस्य तन्मते स्थितत्वात् । स्थित्यर्थत्वेनेति । स्थेमशब्दस्य स्थितावपीति वर्तते । तथा च स्थेमशब्दस्य स्थितावपि श्रुतप्रकाशिकायां प्रयोगस्योपलंभादिति वक्ष्यमाणेन पूर्ववदेव संबन्धः । श्रीभाष्यीयमङ्गलश्लोकवत् तट्टीकायां पद्यादौ तत्प्रयोगो नास्तीत्यत उक्तं स्थित्यर्थत्वेन तद्व्याख्यानरूपेति । स्थेमा स्थितिरिति । तत्र व्याख्यानात् । मौलप्रयोगव्याख्यानेनैव तदीयप्रयोगः सिद्ध इति भावः ।

केचित्तु नान्दीश्लोके स्थितौ प्रयोगोपलम्भे विप्रतिपद्यमानं प्रति तद्व्याख्यानसंमतिकथनाय इदम् । तथाच नान्दीश्लोकव्याख्यानरूपश्रुतप्रकाशिकायां स्थेमशब्दस्य स्थित्यर्थत्वेनोपलम्भादिति वाक्यस्य श्रुतप्रकाशिकायां स्थित्यर्थत्वेन तद्व्याख्यानस्योपलम्भादिति योजनाभिप्रेतेति न टीकाकारीयप्रयोग-गवेषणादिप्रयासप्रसक्तिरिति प्राहुः । अन्यत्र प्रयोगाः शोध्याः सन्ति ।

ननु तिष्ठतीति स्थिरमिति हि व्युत्पत्तिः स्थिरशब्दे । सा च उणादिवृत्तौ दृढमिति दृढ एव दर्शिता । तथा च स्थिरशब्दाद् इमनिचि निष्पन्नस्थेमशब्दोऽपि दृढत्वमेव ब्रूयान् न स्थितिमित्यतो भवेदेवं यदि सा व्युत्पत्तिर् दृढार्थे न संभवतीति स्यात् । न चैवम् । स्थितिमत्यपि तिष्ठतीति स्थिरमिति व्युत्पत्त्यु-पपत्तेः । तथाच स्थिरशब्दाद्भावे इमनिचि निष्पन्नस्थेमशब्दस्य स्थितिमतो भावरूपया स्थित्या व्याख्यानोपपत्तिः । वृत्तिकारोक्तिस्तु नान्यार्थव्यावृत्त्यभिप्रायेत्याशयेनाह तिष्ठतीति स्थिरमितीति । इत्यभिप्रेत्येति । आहेति वक्ष्यमाणम् अत्रापि सम्बध्यते । तथा चेत्यभिप्रेत्य आहेत्यस्येति अभिप्रेत्या पौरुषेयत्वादिरूपं शोभनत्वं न तु प्रमाणाभाससाधारणं सुश्राव्यत्वम् इत्याहेत्यर्थलाभात् तमबर्थं चेति समुच्चयोपपत्तिः । तमबर्थश्च हृदयपदेनोक्तोऽधर्मप्राणादिव्यावृत्तये महातात्पर्यरूपः । उपलक्षणं चैतत् । वर्णानां सर्वगततया वाक्याप्तेः सर्वसाधारणतया तद्य्वावृत्त्यर्थं दीप्तत्वरूपमाप्यत्वं च इह विवक्षित-मित्याहेत्यपि बोध्यम् । पटु गुप्तावित्यत्रेति सावकाशत्वेनेति वक्ष्यमाणेन सम्बन्धः । सर्वत्रापि बाधे शास्त्रवैयर्थ्यापत्त्या क्वचित् सावकाशताया आवश्यकत्वमिति दर्शयितुम् अत्र तत्र तत्र स्थले सावकाशत्वं वर्णितम् । परमितीति । परमितिन्यायेनेत्यर्थः । वक्ष्यति च पूर्वन्यायेनेति । अजाद्यदन्तत्वाद् इत्यनन्तरम् इन्द्रशब्दस्येवेति शेषः । पूर्वोक्त इति । ईशकृष्णावित्यत्रेत्यर्थः । इत्यत्र चेति । अत्र चशब्दस्य अल्पाच्तर इत्यस्य चेति संबन्धाश्रयणान् न वैयर्थ्यमिति ज्ञेयम् । अत एवाजाद्यदन्तम् इत्यस्य चेति पूर्वं शब्दप्रयोगः । सावकाशत्वेन वागीशावित्यत्रेवेति पाठः सर्वत्र । सावकाशत्वेनेवेति क्वचित्तु पाठे इवपदं लेखकागतम् । अल्पाच्तरत्वादित्यनन्तरं वाक्शब्दस्येवेति शेषः । इति न वाच्यम् इति पूर्वेणान्वयः । कुतो न वाच्यम् इत्यतस् तस्यानित्यत्वेनात्र तत्प्रवृत्त्यभावोपपत्त्या अपवादाभावे अजाद्यदन्तशास्त्रस्यैव प्रवृत्त्या इन्द्राग्नीत्यत्र इन्द्रशब्दस्येव इहापि आम्नायशब्दस्याजाद्यदन्तस्य पूर्वनिपातोपपत्तेर् इति हेतुं मनसि निधाय भवेदेवं यदि तच्छास्त्रम् अनित्यं स्यात् तदेव कुत इत्याशङ्कापरिहाराय तदनित्यत्वे नियामकमाह लक्षणेत्यादि । इत्यादिषु इत्यादिपदेन समानाधिकरणजातीययोर् नासिकास्तनयोर् ध्माधेटोर् उत्तमैकाभ्यां चेत्यादेर्ग्रहणम् । अस्तु तदनित्यत्वं सूत्रज्ञापितं तथापि ग्रन्थकाराभिप्रेतोऽयं परिहारः कस्माद् इत्यतः स्थलान्तरे तथात्वेन ग्रन्थकृताभिधानादेवेति परिहरति अल्पाच्तर-मित्यस्येति । इति वदतेति । तत्त्वनिर्णयटीकायामिति शेषः ॥ ननु व्यभिचारं कुर्वाणेनेत्युत्तया प्रयोजनार्थं लक्षणस्य व्यभिचारः कुत इति प्रतीत्योत्तरग्रन्थे तन्नित्यत्वाभ्युपगमसिद्धेस् तद्ग्रन्थविरोधः । तदनित्यत्वाश्रयणे स्याद् इत्यत आह अल्पाच्तरमितीति । धर्मादिषूभयमित्यत्राकृतिगणताया आकरे स्वीकारेण गुणवृद्धी वृद्धिगुणावित्यत्रेव पदद्वयस्यापि पर्यायेण पूर्वनिपातसिद्धेर् आम्नायस्मृतीत्यप्य-पपन्नमिति केचित् । अन्ये तु वासुदेवार्जुनाभ्यां वुन् इत्यादिनिर्देशमूलकाभ्यर्हितं पूर्वं वक्तव्यम् इति वचनाद् अल्पाच्तरशास्त्रबाधेनाम्नायमूलकतया लब्धप्रमाणभावस्मृत्यपेक्षया उपजीव्याम्नायस्याभ्यर्हि-तत्वाद् आम्नायशब्दस्यैव पूर्वनिपात इत्याहुः । एतदुभयपक्षेऽपि तत्त्वनिर्णयटीकाननुसारात् श्वयुवमघो-नामतद्धिते इति सूत्रेऽभ्यर्हितस्यापि मघवच्छब्दस्य पूर्वनिपाताभावेन तस्य नियामकस्यापि व्यभिचारेण च प्रकारान्तरं टीकायामभिहितम् । युक्तिपादीयेति । निर्णीतिजयकारक इति नविलक्षणत्वाधि-करणीयानुव्याख्याव्याख्यानवसरे तथोक्तिरिति ज्ञेयम् । मूले हरये नम इति । नमः स्वस्तीत्यादिना चतुर्थी । नित्यागणितगुणमाणिक्यानीव तेषां या विशदप्रभास् तासां यज्जालं समूहः, जालं समूह आनाय इत्यमरोक्तेः । तस्य य उल्लासो विकासस् तेन नित्यम् उपहतं सकलम् अवद्यतमो येनेति विग्रहः । नोद्यते नोच्यते इत्यवद्यं गर्हितम् । वदेर्नञि उपपदेर् वदेः सुपि क्यप्चेति यत्क्यपोः प्राप्तयोस् तदपवादेन यदेव भवति । स च गर्हायामेवेत्युभयार्थमवद्यपण्यवर्यागर्ह्यपणितव्यानिरोधेषु इत्यवद्यशब्दनिपातनात् । तत् तम इवेति । उपमितं व्याघ्रादिभिर् इत्यनेन समासः । अत्र गुणानां माणिक्योपमानेन शुभत्वाभि-धानाद् अनुभाष्यस्थगुणपदस्य तार्किकादिपरिकल्पितदुःखादिपरत्वभ्रान्तिरपि निराकृता । स्वतन्त्र-कृत्यर्थकरचनापदप्रयोगेण दानकर्मणाऽभिप्रेतत्वेन संप्रदानतयाऽस्येति षष्ठ्यनुपपत्तिरिति शङ्काऽ-पाकृता । देहशून्यस्य संबन्ध एवानुपपन्न इति शङ्का वपुष इत्युक्त्या निराकृता । अनिष्टनिवर्तकत्वार्थ-कहरिशब्दप्रयोगात्सदा प्रियतमम् इत्युपपादितं भवति । अशेषविशेषतोऽपि वन्द्यम् इत्येतद् उपपादकतया निखिलेत्यादेः प्रवृत्तिरिति मूले वक्ष्यमाणतया निखिलेत्यादिविशेषणजातविवरणेनैव तस्यापि विवृतप्रायत्वान् न तदविवरणं दोषाय । उत्तरपद्यस्य किञ्चिद् विवरणताया वक्ष्यमाणत्वेन आद्यपद्यस्य संपूर्णविवरणतायाः सिद्धत्वाद् इत्येतावन् मूलार्थो गुरुराजेन पृथगुक्तो ज्ञेयः ॥ १ ॥


सुधा

सुधा

येन प्रादुरभावि भूमिवलये व्यस्तारि गोसन्ततिः

प्राबोधि श्रुतिपङ्कजं करुणया प्राकाशि तत्त्वं परम् ।

ध्वान्तं ध्वंसमनायि साधुनिकरश्चाकारि सन्मार्गग-

स्तेन व्यासदिवाकरेण सततं मा त्याजि मे मानसम् ॥ २ ॥

वाक्यार्थचन्द्रिका

गुरुत्वोपपादकशास्त्रप्रभवत्वोप(पादक तमेवेति द्वितीयपद्यव्याख्यानरूपे)-पादनेन किञ्चिद् द्वितीयस्य पद्यस्य व्याख्यानरूपे येनेति पद्ये वेदविभागो वेदार्थोपबृंहकेतिहास-पुराणादिनिर्माणं तन्निर्णायकब्रह्मसूत्रनिर्माणं चेति त्रिविधोऽपि गोसन्ततिविस्तारोऽभिमतः । तत्राद्यस्य प्राबोधीत्युक्ते मन्दैरध्येयत्वरूपे प्रबोधे हेतुत्वम् । द्वितीयतृतीययोस्तु प्राकाशीत्याद्युक्तप्रकाशादि (त्रितयेऽपि) हेतुत्वमिति द्रष्टव्यम् । करुणयेत्येतत्प्रादुरभावीत्यादौ सर्वत्र सम्बध्यते । अनेन प्रादुर्भूत इति पद्यतात्पर्यमप्युक्तं भवति । लुङ्प्रायपाठभङ्गपरिजिहीर्षयाऽऽह ॥ मेति ॥ माङ्योगे लुङः सर्वलकारापवादकत्वान्न त्यज्यतामित्यर्थः ॥ २ ॥

परिमल

प्रतिपाद्यं नत्वा द्वितीयपद्यस्थशास्त्रप्रभवत्वादि विवृण्वन्सूत्रकृतमभीष्टं याचते ॥ येनेति ॥ गोसन्ततिरित्यनेन भारतपुराणब्रह्मसूत्रादिग्रन्थसमूहः किरणसन्ततिश्चोच्यते । प्राबोधीत्यनेन वेदप्रभवत्वं वेदव्यञ्जकत्वमेवेति दर्शितम् । गोपदश्रुतिपदयोरुक्तया शास्त्रपदेन पौरुषेयापौरुषेयग्रन्थसंग्रह इति सूचितम् । यद्वा गोसन्ततिर्ज्ञानसन्ततिरित्यादि ध्येयम् ॥ २ ॥

यादुपत्यम्

माङ्योगे लुङः सर्वलकारापवादकत्वेन मा त्यजीति लुङ् लोडर्थ इति ज्ञातव्यम् ॥

श्रीनिवासतीर्थीया

व्याचिख्यासितानुव्याख्यानमूलभूतब्रह्मसूत्रकर्तृत्वोपाधिना श्रीवेदव्यासं दिवाकरसाम्येन वर्णयन्मनसः सदा तद्विषयकत्वं प्रार्थयते ॥ येनेति ॥ भूमिवलये भूखण्डे यमुनाद्वीप इत्यर्थः । साधूनां निकरः समूहश्च सन्मार्गगोऽकारि । मानसं मनः मा त्याजि सदा तद्विषयकमेव भवत्वित्यर्थः ॥ २ ॥

वाक्यार्थरत्नमाला

गुरुत्वोपपादकेत्यादि । अनेन द्वितीयपद्यगतशास्त्रप्रभवत्वोपपादनेन किञ्चिद् द्वितीयपद्यविवरणपूर्वकं वेदव्यासं दिवाकरश्लेषेण प्रार्थयते इति श्लोकावतारः सूचितः । पद्ये गोसन्तति-विस्तारः वेदविभागादिरूपेण त्रिविधोऽपि अभिमत इति योजना । व्यस्तारि गोसन्ततिरित्युक्त-गोसन्ततिविस्तारस्य श्रुतिपङ्कजं प्राबोधीत्यादिनोक्तप्रबोधादिकार्यचतुष्टयं प्रति हेतुत्वमभिप्रेतमिति स्पष्टयन् व्यवस्थया हेतुत्वं दर्शयति तत्राद्यस्येत्यादिना । मूले येन प्रादुरभावि इत्यादौ येनेति सर्वक्रियासु सम्बध्यते । अभावीति भावे लुङ् । व्यस्तारीत्यादयो लुङः कर्मणि । भवतेर्भावे लः कर्मणि चेति लकारे भूतार्थत्वाद् लुङितिलुङि भावकर्मणोरित्यनेन भावकर्मणोर्विहितस्य लस्य स्थाने आत्मनेपदविधाना-दत्रात्मनेपदप्रथमपुरुषैकवचने तप्रत्यये ‘च्लि लुङि’ इति सूत्रेण च्लिप्रत्यये ‘चिण् भावकर्मणोरिति’ सूत्रेण भाविकर्मवाचितशब्दे परतो धातोरुत्तरच्लेश् चिणादेशे, णिति परतो ऽचो ञ्णिति इत्यादिना वृद्ध्यावादेशयोरडागमे वा अभावि त इति स्थिते चिणो लुगिति सूत्रेण चिण उत्तरस्य प्रत्ययस्य लुकि सति अभावीति रूपं सिध्यति । एवमेव व्यस्तारीत्यादिकमपि । एतावांस्तु विशेषः । अभावीत्यस्य भावे लुङत्वात् कर्मप्रयोगः । कर्तुस्तिङाऽनभिधानात् कर्तरि तृतीया । ततश्च येन प्रादुरभावीत्यस्य यत्कर्तृकप्रादुर्भाव इत्यर्थः । यः प्रादुर्भूत इति यावत् । व्यस्तारीत्यादेस्तु कर्मणि लुङ्त्वात् कर्मप्रयोगः। तिङोक्तत्वात् कर्मणि न द्वितीयेति । ननु नयतेर् द्विकर्मकतया प्रधानाप्रधानकर्मणोर् मध्ये कुत्रचिद् लकाराश्रयणे वक्तव्ये गौणे कर्मणि ध्वान्तरूपे लकारपक्षे तस्य कर्मणस् तिङोक्तत्वाद् ध्वान्तमिति द्वितीयायोग इति चेत् । अत्र गुरवः । ‘गौणे कर्मणि द्रुह्यादेः प्रधाने नीहृकृष्वहाम्’ इत्यादिनिर्णयानु-सारेण अजा ग्रामं नीयते इत्यादाविव न्यादीनां प्रधाने कर्मण्येव लकाराङ्गीकारेण तस्यैवोक्ततया ध्वान्तपदादेव प्रथमोपपत्तिरिति । स्पष्टं चैतद् भावकर्मप्रक्रियान्ते । करुणयेति सन्निधानात् प्राकाशीत्य-त्रैव अन्वेतीति भ्रमनिरासायाह करुणयेत्येतदिति । मध्ये दीपिकान्यायेनोक्तमेतत् पद्यगतक्रियामात्रेण सम्बध्यतेत्यर्थः । न केवलं द्वितीयपद्यविवरणरूपमेतत्पद्यम् । किन्तु प्रादुर्भूतो हरिरित्येतत्तात्पर्य-निरूपणरूपमपीत्याह अनेनेति । करुणया प्रादुर्भावादिप्रतिपादनेन प्रादुर्भूत इत्यादेः करुणया प्रादुर्भूत इत्याद्यर्थसूचनादिति भावः । न त्यज्यतामिति प्रार्थनायां लोटि प्रयोक्तव्ये त्याजीति लुङ्प्रयोगः कुत इत्यतो प्रादुर्भावीत्यादि लुङ्प्रायपठितमिदं क्रियापदं यदि लोडन्तं तर्हि अर्थानुगुण्येऽपि प्रायपाठभङ्ग आयाति । आशिषोऽभिप्रेततया लुङर्थस्तु न विवक्षितः । तस्माद् लोडर्थप्रतिपत्त्या च भवितव्यम् । प्रायपाठभङ्गश्च मास्तु इत्याशयेन निषेधार्थकमाशब्दप्रयोगः कृतः । माङश्च योगे लुङः सर्वलकारापवादकतया लोडर्थक एवायं लुङुक्त इत्याह लुङ्प्रायपाठेति । अत्र गुरुभिरधिकं चोक्तम् । तथा हि । तमेवेत्यनेन भाष्यकारस्य गुरुदेवतयोरैक्यं यदुक्तं तदत्र प्रादुर्भूत इत्येतत्पद्यतात्पर्य-वर्णनव्याजेनोपपादितं भवति । भगवदाज्ञया स्वव्यापारकारिदिवाकरापेक्षया दार्ष्टान्तिकेऽतिशयश्च सूचितः । एवं परमिति, ध्वान्तसामान्यवा, चिध्वान्तमिति, साधु इत्येतच्चातिशयसूचकम् । प्रसिद्ध-दिवाकरपक्षे गोशब्दः किरणवाची । सन्ततिर् विस्तारः । मानसं मानसपर्वत इति ॥ २ ॥


सुधा

सुधा

व्याप्तिर्यस्य निजे निजेन महसा पक्षे सपक्षे स्थिति-

र्व्यावृत्तिश्च विपक्षतोऽथ विषये सक्तिर्न वै बाधिते ।

नैवास्ति प्रतिपक्षयुक्तिरतुलं शुद्धं प्रमाणं स मे

भूयात्तत्त्वविनिर्णयाय भगवानानन्दतीर्थो मुनिः ॥ ३ ॥

वाक्यार्थचन्द्रिका

युक्तिप्रधानत्वादनुव्याख्यानस्य तदुद्बोधार्थं युक्तिश्लेषेण तत्प्रणेतॄन्प्रार्थयते ॥ व्याप्तिरिति ॥ अत्राचार्यपक्षे व्यापनं स्वभावसामर्थ्येन । स्वसिद्धान्ते स्वसमानसिद्धान्ते दार्ढ्यम् । अनभिमतिर्विरुद्धसिद्धान्ततः निषिद्धविषयास्नेहो विरोधिमतायोगश्च यथाक्रमं शब्दार्था द्रष्टव्याः । अत्र न वै नैवेत्युभयावधारणप्रयोगेण व्याप्तिरेवेत्यादिः सर्वत्र सम्बन्धस्तस्य सूच्यते । तेन धूमस्य ह्रदपर्वतपक्षकानुमाने पक्षे व्याप्त्या स्थितेरभावात् ह्रदे वह्निसाधनार्थं प्रयुक्तस्य पक्षे स्थित्यभावात् ह्रददृष्टान्तेन प्रयुक्तस्य सपक्षे स्थित्यभावाद् वन्ह्यभावसाधनाय प्रयुक्तस्य विपक्षतो व्यावृत्त्यभावाद् वन्हिमति वन्ह्यभावसाधनाय प्रयुक्तस्य (प्रत्यक्षादि)बाधिते विषये सक्तेश्च स्थाल्यादिमत्वसाधनाय प्रयुक्तस्य पाषाणवत्त्वादिप्रतिपक्षयोगाच्च क्वचित्सत्या एव युक्तेः क्वचिदसत्ववन्नाचार्यस्य क्वचिदपि स्वसिद्धान्तस्थित्यभावादीत्यर्थसिध्द्याऽतुल्यत्वं सिद्धं भवतीति द्रष्टव्यम् । अत्र निजे पक्षे व्याप्तिः सर्वस्मिन्स्वीये पक्षे स्थितिरित्यन्वयो द्रष्टव्यः ॥ ३ ॥

परिमल

भाष्यकर्तारमभीष्टं प्रार्थयते ॥ व्याप्तिरिति ॥ तत्वविनिर्णयाय । इदमदो वाऽन्यदेव वा तत्वज्ञानमिति संशयविपर्ययानास्कन्दितनिर्णीतप्रामाण्यकनिश्चयरूपतत्वज्ञानायेति साध्योक्तिः । प्रमाणमिति करणे ल्युट् । इतरकरणवदस्य प्रमातृप्रयोज्यत्वाभावेऽपि सर्वप्रमितिकरणमन आदिशक्ति-प्रबोधकतया प्राधान्येन प्रमाहेतुत्वात् ‘बृहत्तुलैरप्यतुलै’रित्यादाविवातुलमनुपममित्यर्थः । शुद्धं निर्दोषम् । पक्षवृत्तित्वं सपक्षे सत्त्वं विपक्षाद्य्वावृत्तिरबाधितविषयत्वम् असत्प्रतिपक्षत्वं चेति अन्वयव्यतिरेकिणः पञ्चरूपाणीति तानि क्रमेणाह ॥ व्याप्तिरित्यादिना ॥ निजे भक्तवर्गाख्ये पक्षे । भक्तवर्गस्य विष्णूत्कर्षादिज्ञानं वा तत्वज्ञानमिति तत्वज्ञानगोचरसन्देहवत्त्वेन विष्णूत्कर्षादिज्ञानमेव तत्वज्ञानं नान्यदित्येवं तत्वनिर्णयरूपप्रमाणफलस्य तस्मिन्सिषाधयिषितत्वेन तस्य पक्षत्वात् । स्वमाहात्म्यस्य तत्र प्रकटितत्वेन तैरवगतमाहात्म्यत्वात्तत्र सान्निध्यविशेषाद्वा निजेन महसा तं व्याप्नोतिति व्याप्तिपदेन पक्षे सर्वत्र वृत्तिरुक्ता । ‘व्यावृत्तं यद्विपक्षेभ्यः सपक्षे च कृतान्वयि । व्याप्त्या पक्षे वर्तमान-मन्वयव्यतिरेकि तदि’त्युक्तेः । सपक्षे हरौ इदमदो वेति सन्देहानास्कन्दितानुपचरितत्वनिर्णयवति । स्थितिर् निष्ठा न तु तत्र व्याप्तिः । हरिविषये कृत्स्नाविषयत्वात् । ईशादन्यत्रैवालोचने सर्वविषय-कत्वादिति भावः । विपक्षत उक्तरूपतत्वनिर्णयहीनायोग्यजनेभ्यः व्यावृत्तिर् उपदेशादावप्रवृत्तिः । बाधिते निषिद्धे विषये सक्तिः सङ्गो नैवास्तीति अवधारणे प्रसिद्धिद्योतको वा वैशब्दः भ्रान्तिशून्य इति वार्थः । ऋजुज्ञानस्य यथार्थैकस्वभावत्वात् । प्रतिपक्षयुक्तिः प्रतिवादियोगः । स नैव, प्रतिभटशून्य इत्यर्थः । वेदभारतबौद्धादिग्रन्थाः पक्षसपक्षविपक्षा इत्येके ॥ ३ ॥

यादुपत्यम्

आनन्दतीर्थपक्षे निजः पक्षो ब्रह्ममीमांसाशास्त्रम् । विप्रतिपत्त्या सन्दिग्धसाध्यार्थवत्त्वात् । तत्र व्याप्तिनिष्ठा । न तु परभाष्यकारस्येवानादरः । तेन श्रुतिसूत्रयोर् विरोधे सूत्राणां कथञ्चिद्योज्यत्वस्योक्तत्वात् । निजेन स्वाभाविकेनैव न वरादिलब्धेन । महसा स्वसाध्य ज्ञापनसामर्थ्येनेत्यर्थः । सपक्षे निर्णेतव्यार्थवत्तया निश्चिते वेदेतिहासादौ स्थितिर्निष्ठा । विपक्षतो विरुद्धराद्धान्ततो व्यावृत्तिस्तत्रानादरः । सक्तिरासक्तिः । आग्रह इति यावत् । ऋजुयोगिनामदुष्ट-बुद्धित्वस्य वेदादिप्रसिद्धत्वादिति हेतुं वैशब्देन सूचयति । प्रतिपक्षयुक्तिः प्रतिवादियोगः । अनुमाने सर्वत्र कथञ्चित्प्रतिपक्षयोगः सम्भावित ‘उपाधिप्रतिपक्षौ तु क्व नामातीवदुर्वचावि’त्युक्तेः । अस्य तु सर्वथा प्रतिपक्षयोगसम्भावनाऽपि नास्तीत्यभिप्रायेण नैवेत्युक्तम् । अत एवातुलमित्याहेति योजना द्रष्टव्या । अनुमानपक्षे तु निजेन महसा व्याप्त्याख्यसामर्थ्येन निजे पक्षे स्वसाध्यधर्मविशिष्टे धर्मिणि व्याप्तिस्तत्र सर्वत्र वृत्तिः । अन्यथा भागासिद्ध्यापत्तेः । शिष्टं स्पष्टम् । शुद्धं पञ्चरूपोपन्नम् । प्रमाणमनुमितिरूपप्रमाकरणम् । आनन्दतीर्थमुनेरपि सकलशेमुषीनियामकतयाऽस्मदाद्यनुमिति प्रमाकरणत्वमुपपादनीयम् ॥ ३ ॥

श्रीनिवासतीर्थीया

व्याचिख्यासितानुव्याख्यानकर्तृत्वोपाधिना श्रीमदानन्दतीर्थमुनिमनुमान-साम्येन वर्णयन् तत्त्वनिर्णयसाधनत्वं प्रार्थयते ॥ व्याप्तिरिति ॥ ३ ॥

वाक्यार्थरत्नमाला

युक्तीति । अनुव्याख्यानस्य युक्तिप्रधानत्वाद् व्याचिख्यासितानुभाष्य-व्याख्यानोपयोगितत्त्वनिर्णयजनकयुक्त्युद्बोधार्थं युक्तिसदृशत्वेन अनुव्याख्यानप्रणेतॄन् प्रार्थयत इत्यर्थः । अत्र प्रणेतॄन् इत्यतःपरं गुरूनिति शेषः । वक्ष्यति च साक्षाद् गुरूनिति । यस्य देव इत्यादि-प्रमाणानुसारेण देवताप्रणामस्येव गुरुप्रणामस्यापि अभिमतसिध्यङ्गतयाऽवश्यं ग्रन्थारम्भेऽनुष्ठेय-त्वादिति भावः । व्याप्त्यादिपदानामर्थान्तरप्रतीतेर् अभिमतार्थाप्रतीतेश्च विवक्षितमर्थमाह अत्राचार्ये-त्यादिना । व्याप्तिरित्यस्य व्यापनमित्यर्थः । निजेन महसा इत्यस्य स्वभावसामर्थ्येन इत्यर्थः । निजे पक्ष इत्यस्य स्वसिद्धान्ते इत्यर्थः । सपक्षे इत्यस्थस्य स्वसमानसिद्धान्त इति । स्थितिरित्यस्य दाढर्््यमिति । व्यावृत्तिरित्यस्य अनभिमतिरिति, विपक्षशब्दस्य विरुद्धसिद्धान्तत इति, बाधिते विषये सक्तिर्नेत्यस्य निषिद्धविषयास्नेह इति, प्रतिपक्षयुक्तिरित्यस्य विरोधिमतयोग इति, इत्येवं क्रमेण व्याप्तिर् इत्यादि तत्तच्छब्दार्था द्रष्टव्या इत्यर्थः । निज इत्यस्य प्राथम्येऽपि पश्चादुक्तपक्षे इत्ये-तद्विशेषणतया पाश्चात्यं विवक्षित्वा व्याप्तिपदार्थानन्तरं निजेन महसेत्येतदर्थ एवोक्तः । अत एव सक्तिर् इत्यत्राप्यन्वयक्रममभिप्रेत्य निषिद्धविषयास्नेह इति तदर्थ उक्त इत्यदोषः । निजे पक्षे व्याप्त्यादिकम् आचार्यधूमानुमानयोः साधारणमिति कथम् अतुलत्वलाभ इत्यतस् तद्व्यञ्जकं स्पष्टयन् तेनातुलत्वलाभं च दर्शयति अत्र न वै नैवेत्युभयेति । व्याप्तिरेवेत्यादिरिति । व्याप्तिरेव वक्ष्यमाणरीत्या सर्वस्मिन् स्वीये पक्षे स्थितिर् एवं निष्ठैवेति यावत् । न त्वनादरः । सपक्षे स्थितिरेव । न तु तत्रानभिनिवेशः । विपक्षाद् व्यावृत्तिरेव न तु तत्र कदाचिदभिमतिः । बाधितविषये स्नेहाभाव एव । नतु कदापि तत्र स्नेहः । प्रतिपक्षयुक्तिर् नास्त्येव न तु कदापि विरोधिमते योग इति सूच्यत इत्यर्थः । किं तत्सूचनेनेत्यतो धूमाद्यनुमानतुल्यत्वशङ्कानिरासायोक्तस्यातुलत्वस्योपपादनं तेन सिध्यतीत्याह तेन धूमस्येत्यादिना । व्याप्तिरेवेत्यादिरित्यत्र निजेन महसैवेत्यपि विवक्षितमिति स्वभावसामर्थ्येनैव न तु तपःप्रभावादि-नेत्यप्यर्थो ज्ञेयः । गुरवस्तु प्रतिपक्षयोगाभावे हेतुरतुलमिति । तुल्यबलप्रतिप्रमाणस्यैव प्रतिपक्षत्वादिति भावः । अत एव शुद्धमिति योजनेति वदन्ति । व्यवहितत्वादन्वयप्रदर्शनपूर्वकं व्याप्तिपदार्थं स्पष्टयति अत्र निजे पक्ष इति । निजे पक्षे इत्यस्य स्वीये पक्षे इति व्याख्यानं व्याप्तिरित्यस्य व्याप्त्या सत्त्वम् अर्थो भवतीत्यतः सर्वस्मिन् स्थितिरिति व्याख्यानमिति विवेकः । प्रसिद्धानुमाने तु निजे पक्षे स्वसाध्यविशिष्टे धर्मिणि निजेन महसा व्याप्त्याख्यसामर्थ्येन तद्विशिष्टस्येति यावत् । व्याप्तिर् व्याप्त्या वर्तमानत्वम् । अन्यथा भागासिध्यापत्तेरिति योज्यम् । यत्तु अन्यथाख्यातौ । वर्णान्तरे दूषणमस्ति । अत्राले० ॥ ३ ॥


सुधा

सुधा

भवति यदनुभावादेडमूकोऽपि वाग्मी

जडमतिरपि जन्तुर्जायते प्राज्ञमौलिः ।

सकलवचनचेतोदेवता भारती सा

मम वचसि निधत्तां सन्निधिं मानसे च ॥ ४ ॥

वाक्यार्थचन्द्रिका

वाङ्मनसयोर्भारतीसन्निधिप्रार्थनानिमित्तं सहेतुकं वदन्नेव तां प्रार्थयते ॥ भवतीति ॥ ‘स्यादेडे बधिरः प्राज्ञे गडुलः कुकरे कुणिरि’त्यभिधानादेडो बधिरश्चासौ मूकश्चेति विग्रहः

॥ ४ ॥

परिमल

देवीं सरस्वतीं व्यासमिति शिष्टाचारशिक्षामनुसृत्य वायुपत्नीसन्निधिमर्थयते ॥ भवतीति ॥ एडमूकः वक्तुं श्रोतुमशक्तः ‘जडोऽज्ञ एडमूकस्तु वक्तुं श्रोतुमशिक्षित’ इत्यमरोक्तेः । किम्वनीदृश इति कैमुत्यार्थोऽपिशब्दः । वाग्मित्वभवने प्राज्ञमौलित्वभवने च हेतुः सकलवचन-चेतोदेवतेति ॥ ४ ॥

यादुपत्यम्

यदनुभावाद्यदनुग्रहात् । यदनुभावाभावे वाग्म्यपि मूको भवतीति व्यतिरेक-समुच्चायको अपिशब्दः । एवमग्रेऽपि । अनेन वाग्देवतात्वमुपपाद्य चेतोदेवतात्वमुपपादयति ॥ जडमतिरपि इति ॥ ४ ॥

श्रीनिवासतीर्थीया

ग्रन्थकरणस्य वाक्चेतोव्यापाररूपत्वेन तद्देवतां भारतीं प्रार्थयते ॥ भवतीति ॥ ४ ॥

सुधा

रमानिवासोचितवासभूमिस्सन्न्यायरत्नावलिजन्मभूमिः ।

वैराग्यभाग्यो मम पद्मनाभतीर्थामृताब्धिर्भवताद्विभूत्यै ॥ ५ ॥

वाक्यार्थचन्द्रिका

सन्न्यायरत्नावलिग्रन्थस्यात्रोपजीवनं व्यञ्जयन्नमृताब्धिश्लेषेण तत्कर्तॄन् प्रार्थयते ॥ रमेति ॥ क्रमेण विशेषणत्रयेण भक्तिज्ञानवैराग्याणि व्यञ्जयन्ति । ‘सर्व एव वान्नावादयोऽनन्वादेशे वा वक्तव्या’ इत्युक्तेर्ममेति साधु । (किञ्चित्कार्यं विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानमन्वादेशः । कार्यं विधातुमपूर्वं बोधयितुमित्यर्थः यथाऽनेन व्याकरणमधीतमेनं छन्दोऽध्यापयेति । अन्वादेशे तु नित्यं स्युः ।) एवमुत्तरत्रापि द्रष्टव्यम् ॥ ५ ॥

परिमल

प्राचीनटीकाकारादभीष्टमाशास्ते ॥ रमेति ॥ सन्न्यायरत्नावल्या अनुव्याख्यान-टीकाग्रन्थस्य जन्मभूमिर् जनक इत्यर्थः । अब्धिपक्षे वैराग्यं शौकल्यं ध्येयम् ॥ ५ ॥

श्रीनिवासतीर्थीया

अनुव्याख्यानस्य पूर्वटीका सन्न्यायरत्नावली । तत्कतॄन् पद्मनाभतीर्थ श्रीमच्चरणान् क्षीरसमुद्रसाम्येन वर्णयन् ज्ञानाद्यैश्वर्यसाधनत्वं प्रार्थयते ॥ रमानिवासेति ॥ ५ ॥

वाक्यार्थरत्नमाला

अत्रोपजीवनमिति । सत्तर्कदीपावल्यादिग्रन्थपरित्यागेन एतदनुव्याख्यान-व्याख्यानरूपसन्न्यायरत्नावलिमात्रग्रहणेनात्र तदुपजीवनस्य सूचनादिति भावः । अमृताब्धिश्लेषेणेति पाठः । श्लेषत्वेनेति लेखकागतम् । विशेषणत्रयेणेति । रमानिवासेत्यादिरूपविशेषणत्रयेणेत्यर्थः । त्रयेणेत्यनन्तरं क्रमेणेति मूलकोशानुसारी पाठः । तदभावो लेखकप्रयुक्तः । भक्तिज्ञानेत्यादि । रमानिवासस्य उचिताऽभ्यस्ता । अभ्यस्तेत्युचितं न्याय्यम् इति यादवोक्तेः । वासभूमिरित्युक्ते भगवति सुदृढस्नेहप्रतिपादनलाभाद् भक्तिव्यञ्जनसिद्धिः । सन्न्यायेत्यनेन वेदार्थनिर्णायकन्यायकल्पाश्रयत्वोक्तया ज्ञानव्यञ्जनम् । वैराग्यभाग्य इत्यनेन वैराग्यस्य व्यञ्जनमिति स्पष्टमेवेति ज्ञेयम् । पदात्परत्वादपादादौ स्थितत्वादिलक्षणसद्भावात्तेमयावेकवचनस्येत्यनेन मयादेशप्राप्तेर् ममेति कथमित्यत आह सर्व एवेति । उक्तस्य पुनरुक्तिरन्वादेशस् तदभावे वांनावित्याद्यादेशानां विकल्पविधानान्मे इत्यादेशाप्राप्तिपक्षे ममेति प्रयोगस्य साधुत्वादिति भावः । उत्तरत्रापीति । गुरून्ममेत्युत्तरश्लोकेऽपीत्यर्थः । अत्र भवताद् इति प्रथमपुरुषैकवचनमिति ज्ञेयम् ॥ ५ ॥


सुधा

सुधा

पदवाक्यप्रमाणज्ञान्प्रतिवादिमदच्छिदः ।

श्रीमदक्षोभ्यतीर्थाख्यानुपतिष्ठे गुरून्मम ॥ ६ ॥

वाक्यार्थचन्द्रिका

साधकोक्तौ बाधकपरिहारे च सामर्थ्येनासंशयः संशयच्छिदित्युक्ततम्व-निर्णायकतया मुख्यगुरुत्वं प्रतिपादयन्नेव साक्षाद्गुरूनुपतिष्ठते ॥ पदेति ॥ अत्र पदार्थज्ञानोपायभूतं पद्यते शब्दार्थोऽनेनेति व्युत्पत्या व्याकरणं पदम् । वाक्यार्थज्ञानोपायन्यायसमर्पकप्रमेयमीमांसाशास्त्रं वाक्यम् । उद्देशलक्षणविभागपरीक्षाभिः प्रमाणस्वरूपनिर्धारकं प्रमाणमीमांसाशास्त्रं प्रमाणमुच्यत इति द्रष्टव्यम् ॥ उपतिष्ठ इति ॥ उपान्मन्त्रकरण इत्याग्नेय्याऽग्नीध्रमुपतिष्ठत इत्याद्युपपादनाय वैवक्षिकमन्त्रकरणस्य विवक्षितत्वेऽपि आदित्यमुपतिष्ठत इत्यादौ’ अमन्त्रकरणेऽपि आत्मनेपदोपपादनाय प्रवृत्ते ‘‘उपाद्देव पूजासङ्गतिकरणमित्रकरणपथिषु इति वक्तव्यमि’ति तत्सूत्रीयवार्तिके देवपूजादावप्युपपूर्वात् तिष्ठते-रात्मनेपदविधानाद् गुरोरपि देवप्रतिमात्वेन देवत्वात् तत्पूजायामपि देवपूजात्वविवक्षयोपतिष्ठ इत्यात्मनेपदोपपत्तिरिति ध्येयम् । (मन्त्रकरणे किं भर्तारम् उपतिष्ठति यौवनेन । आग्नेय्याऽग्निदेवतऋचा । वार्तिकोदाहरणानि तु । आदित्यमुपतिष्ठते कथं तर्हि स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वतीति । देवतात्वारोपात् । नृपस्य देवतांशत्वाद्वा । गङ्गा यमुनामुपतिष्ठते । उपश्लिष्यतीत्यर्थः । पथिकानुपतिष्ठते मित्रीकरोतीत्यर्थः । पन्थाः स्रुघ्नमुपतिष्ठते प्राप्नोति इत्यर्थः । इति द्रष्टव्यानि) ॥ ६ ॥

परिमल

स्वगुरून्नमति ॥ पदेति ॥ शब्दमीमांसान्यायशास्त्रज्ञानित्यर्थः । उपतिष्ठे मनसा पूजयामि । ‘उपान्मन्त्रकरण’ इति सूत्रे ‘उपाद्देवपूजासङ्गतिकरणमित्रकरणपथिष्वि’ति वार्तिकेन पूजायामात्मनेपदम् ॥ ६ ॥

यादुपत्यम्

पदं व्याकरणम् । वाक्यं वार्तिकम् । प्रमाणं न्यायः ॥ ६ ॥

वाक्यार्थरत्नमाला

साधकोक्तावित्यादि । पदवाक्येति प्रथमविशेषणेन साधकोक्तौ सामर्थ्य-प्रतिपादनादसंशः यसंशयेत्यादिवाक्यस्थासंशयपदार्थभूतसंशयराहित्यम् उक्तसामर्थ्येनोपपाद्यत इति भावः। तथा प्रतिवादीतिविशेषणेन बाधकपरिहारे सामर्थ्यप्रतिपादनादुक्तवाक्यस्थसंशयच्छिदित्युक्तम् अन्यसंशयछेतृत्वम् एतत्सामर्थ्येनोपपद्यते इति भावः । प्रमेयमीमांसेति । कर्मब्रह्ममीमांसेत्यर्थः । प्रमाण-मीमांसेति । तथाविधं तर्कशास्त्रमित्यर्थः । उपान्मन्त्रकरणे इत्यत्रेत्यादि । आग्नेय्या आग्नीध्रमुपतिष्ठत इत्याद्युपपादनाय इत्यनन्तरं प्रवृत्त इति शेषोऽभिप्रेतः । प्रवृत्त इत्युत्तरानुसारात् । तेनाग्नेय्येत्यस्यादि-पदोपात्तैन्द्य्रा गार्हपत्यमित्यस्य चोदाहरणतया तदुपपादनायेत्यस्य तदुदाहरणसमर्थनाय प्रवृत्ते इत्यर्थलाभः । तथा चोदाहरणमन्यदेवेत्याश्रित्य आग्नेय्येत्यादौ तु मन्त्रकरणस्य मुख्यस्याभावात् तत्र कथमात्मनेपदम् इति शङ्कानिरासाय तदुपपादनाय वैवक्षिकमन्त्रकरणं विवक्षितमित्यर्थोऽत्र प्रतिपाद्यतया प्रतीयते । स चायुक्तः । आग्नेय्येत्यादेरेवोदाहरणत्वादिति शङ्का गर्भस्रावेण गता । यद्वेत्याद्युपपादनाय इत्यादौ आत्मनेपदोपपत्त्यर्थम् आत्मनेपदसिध्यर्थं मन्त्रकरणं यद्विवक्षितं वक्तुम् इष्टम् । अन्यथाऽमन्त्र-करणस्थलेऽप्यात्मनेपदप्रसङ्गात् । तस्य मन्त्रकरणस्य वैवक्षिकत्वेऽपीति योजनान्नोक्तशङ्कावकाशः । उपान्मन्त्रकरणे इति सूत्रे मन्त्रः करणं साधकतमं यस्य धात्वर्थस्य स्तुतिरूपस्य तस्मिन् धात्वर्थे वर्तमानादुपपूर्वकात्तिष्ठतेरात्मनेपदं भवति । आग्नेय्येत्याद्युदाहरणम् । अग्निदेवताकया ऋचा आग्नीध्रम् अग्निविशेषे स्तौतीत्याद्यर्थविशेषात् । तथाचाग्नेय्येत्यादावुपपूर्वकतिष्ठतिर् मन्त्रकरणकधात्वर्थे वर्तमानः मन्त्रश्च साधकतमं रूपं पारिभाषिकं करणमिति । करणशब्दोऽत्र पारिभाषिको विवक्षितः । तदेतदाह वैवक्षिकमन्त्रेति । उक्तं च मञ्जर्यां पारिभाषिकमत्र करणं गृह्यत इति । न तु लुडसम्भावाद् आहुतिप्रतिपादनेऽपीति फलितोऽर्थः । अनेनोक्तस्थले उक्तरूपमन्त्रकरणे वर्तमानादेव तिष्ठतेरात्मनेपद-विधानात् प्रकृते च मन्त्रकरणाभावादुपतिष्ठामीत्येव वाच्यत्वात् कथम् उपपूर्वात्तिष्ठतेरात्मनेपदम् । मन्त्रकरणाभावस्थले भर्तारमुपतिष्ठति यौवनेनेत्यादौ तदभावादिति शङ्का सूचिता । अत्र मन्त्रकरण-मात्रमेव प्रकृतव्यावर्तकम् । विवक्षितोक्तिस्तु सूत्रार्थकथनरूपेण वस्तुस्थितिकथनायेति न तदुप-योगान्वेषणप्रयासः कार्यः । इत्यादाविति । आदिपदेन गङ्गायमुनामुपतिष्ठत इत्यादेर्ग्रहणम् । अमन्त्र-करणेऽपीति । उक्तं च पदमञ्जर्याम् अमन्त्रकरणार्थमिदमिति । देवपूजासङ्गतकरणमिन्त्रकरणेति पाठः । सङ्गतकरणम् उपश्लेषमात्रम् । मित्रकरणं तु मैत्रीसंबन्धः । स्पष्टमेतत् काशिकादौ । सङ्गतीति मैत्रीति च लेखकागतम् । अर्थानुवादोऽयम् इत्यप्याहुः । नन्वस्तु आदित्यस्य देवत्वेन आदित्यपूजाया देवपूजा-त्वेनादित्यं पूजयतीत्यर्थकादित्यम् उपतिष्ठत इत्यत्रात्मनेपदसंभवः । प्रकृते तु गुरोर् देवत्वाभावान् न तत्पूजाविवक्षायाम् उपतिष्ठे इत्यात्मनेपदोपपत्तिरित्यतो गौणं देवत्वम् उपपादयति गुरोरपीति । अत एव स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती, राजानं श्लोकैरुपतिष्ठत इत्यादौ देवतात्वारोपाद्वा राज्ञो देवांशत्वाद् वेति समाधिमाहुर् इति भावः । कैश्चित् तिष्ठतेर् अर्थेऽवस्थानरूपे यदा मन्त्रकरणं तदा उपपूर्वकात् तिष्ठतेरात्मनेपदं भवति । उपतिष्ठत इत्यस्य समीपावस्थानमात्रमेवार्थः । मन्त्रस्य समीपा-वस्थानसाध्यस्तुतिं प्रत्युपयोगादुपस्थानकरणत्वव्याघाताभावः । तथा चाग्नेय्येत्यादौ करणत्वान्यथानु-पपत्तिलब्धस्तोतुम् इत्यनेनान्वयाद् आग्नीध्रं स्तोतुं तत्समीपे अवतिष्ठतीत्येवार्थः । आदित्यमुपतिष्ठत इत्यत्र तु तत्समीपावस्थानस्यासंभवाद् आदित्यं स्तोतुं तदभिमुखत आयाति तिष्ठतीति वाक्यार्थः । इति सूत्रार्थादिवर्णनं कृतम् । तन्मतेऽपि आदित्यम् उपतिष्ठते इत्यत्र स्तोतुमिति क्रियालाभायोगः । ऐन्द्ये्रत्यादौ करणत्वान्यथानुपपत्तिवत् प्रकृते तदभावादिति दूषणमपि आदित्यमुपतिष्ठत इत्यादावमन्त्रेति वदतैव सूचितमिति सूरयो विदांकुर्वन्तु ॥ ६ ॥


सुधा

सुधा

श्रीमदानन्दतीर्थार्यसन्मनःसरसीभुवि ।

अनुव्याख्याननलिने चञ्चरीकति मे मनः ॥ ७ ॥

वाक्यार्थचन्द्रिका

स्वमनश्चञ्चरीकोपमोक्तिव्याजेन चिकीर्षितं व्यनक्ति ॥ श्रीमदिति ॥ ७ ॥

परिमल

स्वचिकीर्षितं व्यनक्ति ॥ श्रीमदिति ॥ सन्मनोरूपसरस्यां सरोवरे भुवि जात इत्यर्थः। ‘तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्ये’ति पुंवद्भावः । अनुव्याख्यानाख्यकमले चञ्चरीकति चञ्चरीक-वद्भ्रमरवदाचरति । ‘इन्दिन्दिरभ्रमरषट्पदचञ्चरीका’ इत्यादिशब्दरत्नाकरोक्तेः । इन्दिन्दिरश्चञ्चरीक इति क्वाचित्कामरपाठः प्रक्षिप्तः । अनेककोशेष्वदर्शनात् । तद्य्वाख्यातृभिरस्पृष्टत्वाच्च । अनेकधा व्याख्यातुं मनः प्रवर्तत इत्यर्थः । आचारार्थात्क्विबन्ताच्चञ्चरीकशब्दात्तिङ्प्रत्ययः ॥ ७ ॥

यादुपत्यम्

सरःशब्दपर्यायोऽयं सरसीशब्दः । ‘कासारः सरसी सर’ इत्यभिधानात् । भाषितपुंस्काद्भुवीति नलिनविशेषणमित्याहुः । वस्तुतस्तु ‘मानयानाभिधानपुलिने’त्यादि पुल्लिङ्गानु- शासनसूत्रेण नलिनशब्दस्य पुल्लिङ्गताऽभिधानादिदं विशेषणमुपपन्नमिति ध्येयम् ॥ चञ्चरीकतीति ॥ चञ्चरीको भ्रमरः । ‘इन्दिन्दिरश्चञ्चरीको रोलम्बश्चे’त्यभिधानात् । तद्वदाचरतीत्यर्थः ॥ ७ ॥

श्रीनिवासतीर्थीया

सन्मनःसरसीभुवि । निर्दुष्टमनोलक्षणसरोवरोत्पन्नेनेत्यस्य नलिन-विशेषणत्वेन भु भुनी भूनीति नपुंसकभूशब्दस्य सप्तमी भुनीति स्यात् । न तु भूर् भुवौ भुवइति पुल्लिङ्ग-शब्दस्य सप्तमी भुवि इति । अतः कथमनयोर् विशेषणविशेष्यभाव इति चेत् । उच्यते । भूशब्दस्य भाषितपुंस्कत्वात्तस्य च तृतीयादिषु ‘भाषितपुंस्कं पुंवद्गालवस्ये’ति सूत्रे टादिविभक्तिषु पुंवद्भावोक्तेर् भु भुनी भूनीति नपुंसकत्वेऽपि तृतीयादिविभक्तिषु भुवा भूभ्यामित्यादि पुल्लिङ्गवदेव भवति । अतो भुवीति युक्तम् । भाषितपुंस्कस्वरूपमुक्तम् । ‘यन्निमित्तमुपादाय पुंसि शब्दः प्रवर्तते । नपुंसकेऽपि तच्चेत्स्याद्भाषितपुंस्कं तदुच्यत’ इति । यदा हि सरसीभु नलिनं भेकश्च तदुभयत्रापि तच्छब्दप्रवृत्तौ सरसीभुत्वमेव निमित्तं नान्यदिति भवति भाषितपुंस्कम् । अत एव भाषितपुंस्कम् । अत एव भाषितपुंस्कत्वाभावात् ‘पीलुर्वृक्षः फलं पीलु पीलुने न तु पीलवे । वृक्षे निमित्तं पीलुत्वं तज्जत्वं तत्फले पुनरि’ति प्रत्युदाहरणमभाणीति द्रष्टव्यम् ॥ चञ्चरीकतीति ॥ यथा हि भ्रमरः समग्रं पुष्परसं पातुमसमर्थस्तं विहायान्यत्र गन्तुमप्यसमर्थस्तत्रैव परिभ्रमति । तथा मदीयं मनः । ग्रन्थोऽयमपि बह्वर्थः। अनुव्याख्यानगतैकवाक्यस्य समग्रार्थावगाहनं कर्तुमसमर्थं तद्विहायोत्तरानुव्याख्याव्याख्यानाय गन्तुमसमर्थं सत्तत्रैव परिभ्रमति । वैलक्षण्यं सतश्चापि, स्वभावाज्ञानवादस्य, प्रत्यक्षवच्च प्रामाण्य-मित्यादिवाक्यानां बहुप्रकारेण व्याख्यानकरण एवासक्तं भवति इत्यर्थः ॥ ७ ॥

वाक्यार्थरत्नमाला

उपमोक्तिव्याजेनेति । श्रीमदानन्देत्यादिना श्रीमदानन्दतीर्थाचार्यकृतानु-व्याख्यानरसग्रहणाय स्वमनःप्रवृत्त्युक्त्या तद्रसाविष्करणाय तद्व्याख्यानं क्रियत इति प्रतिज्ञासूचनादिति भावः । अत्र गुरवः कासारः सरसी सर इति वारिवर्गेऽमरोक्तेः सरसी नाम महत्सरः । षिद् गौरादि-त्वात् ङीष् । ननु नपुंसकलिङ्गनलिनविशेषणत्वात्सरसीभूशब्दस्य, विशेषणानां च विशेष्यनिघ्नत्वा-त्तल्लिङ्गप्राप्त्या, इकोऽपीति नुमि सरसीभुनीति स्यादिति चेन्न । वा पुंसि पद्मं नलिनमित्यत्र वाशब्दस्य पद्ममारभ्य प्रसूनमित्यन्तेन संबन्धस्य क्षीरस्वामिनोक्तेः पङ्कजनिकर्तारं पद्ममानयेत्यादिरूपेण योगरूढिवादादौ अभियुक्तप्रयोगदर्शनेन च नलिनशब्दस्य उभयलिङ्गताया एवाकरे स्थितत्वेनादोषात् । चञ्चरीकतीति । (अतिशयेन) चरतीति चञ्चरीको भ्रमरः । भ्रमरश् चञ्चरीकः स्याद् रोलम्बो मधुसूदन इत्यादित्रिकाण्डशेषात् तद्वद् आचरतीत्यर्थः । कपिदूषिभ्याम् ईकन् इत्यत ईकन् इत्यस्य, शृपृवृञां द्वे रुक् चाभ्यासस्य इत्यतो द्वेरभ्यासस्येत्यस्य चानुवृत्तौ चरेर्नुमुचेत्यस्य सूत्रस्य चरेरीकन् प्रत्ययः द्वित्वं चास्य भवति । अभ्यासस्य नुं च भवतीति अर्थाच्चरतेर् ईकन्प्रत्यये द्वित्वे हलादिशेषे अभ्यासस्य नुमि च सति निष्पन्नचञ्चरीकशब्दात् सर्वप्रातिपदिकेभ्यः क्विबाचार इत्यनेनाचारार्थे क्विपि तल्लोपे सनाद्यन्ता धातव इति धातुसंज्ञायां तिबाद्युत्पत्तौ च चञ्चरीकतीति सिध्यतीति व्युत्पादयन्ति ।


सुधा

सुधा

न शब्दाब्धौ गाढा न च निगमचर्चासु चतुरा

न च न्याये प्रौढा न च विदितवेद्या अपि वयम् ।

परं श्रीमत्पूर्णप्रमतिगुरुकारुण्यसरणिं

प्रपन्ना मान्याः स्मः किमपि च वदन्तोऽपि महताम् ॥ ८ ॥

वाक्यार्थचन्द्रिका

केवलं गुरुदेवताप्रसादलब्धैतद्ग्रन्थप्रतिपादितपदस्वरूपप्रमाणप्रमेयोपपादक न्यायजाते न अनादरः कार्य इत्येतद्य्वञ्जयन्स्वगर्वं परिहरति ॥ न शब्देति ॥ न शब्दाब्धावित्यादिना क्रमेण पदवाक्यप्रमाणज्ञत्वाभाव उच्यते । महतामित्येतच्चात्र व्यञ्जकं द्रष्टव्यम् । किमपि चेति लौकिक-कारणनिरपेक्षतामाह । अलौकिककारणभावान्नाकारणकार्योत्पत्तिरपीत्याह ॥ परमिति ॥ अत्रास्मदो द्वयोश्चेति बहुवद्भावाद्वयमिति बहुवचनम् । ‘त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नता’ इत्यादावुन्नतत्वादेर् विधेयत्वेन व्यावृत्तावतात्पर्यादविशेषणत्वान्न शब्दाब्दौ गाढा इत्यादेरपि विधेयत्वेना विशेषणत्वात्परं श्रीमदित्यादेश्चाविधेयत्वेऽपि हेतुपरतया व्यावृत्तावतात्पर्येणाविशेषणत्वान्नात्र ‘सविशेषणस्य प्रतिषेधो वक्तव्य’ इति प्रतिषेधस्य प्रसक्तिरिति द्रष्टव्यम् । (प्रतिषेधस्येति । अस्मदो द्वयोश्चेत्युक्तबहुवद्भावप्रतिषेधस्येत्यर्थः । तथा चाहं पण्डितो ब्रवीमीतिवदहं प्रपन्नो मान्योऽस्मीति न प्रयुक्तमिति भावः) ॥ ८ ॥

परिमल

चञ्चरीकतीत्युक्तया प्राप्तं स्वमहत्वं विनयेन भूषयितुं विनयप्रदर्शनं करोति ॥ न शब्देति ॥ निगमचर्चासु वेदविचारेषु । क्वचिदपि चेन्न प्रौढिस्तर्हि किम्बलं व्याख्यानम् इत्यत आह ॥ परमिति ॥ अन्यद्बलमस्तीत्यर्थः । तत्किम् । गुरुकारुण्यसरणिं प्रपन्ना इति यत्तदेव बलम् अतो मान्या इत्यन्वयः । एतेन अग्रे वक्ष्यमाणं सर्वं मूलाभिप्रेतमिति ध्वनितम् । किमपि साध्वसाधु वेत्यर्थः । विनयोक्तिरेवैषा । वस्तुतो मयि गुरुकारुण्यसरणिप्रतिपत्तिलब्धशब्दाब्ध्यवगाहादयो व्याख्यानप्रयोजकी-भूता धर्माः सन्तीति स्वगतव्याख्योपयुक्तधर्मबाहुल्याभिप्रायेण बहुवचनोक्तिः । यद्वा गाढा इत्यादेर् निषेधप्रतियोगितया प्रपन्ना इत्यस्य मान्यत्वोपपादकतयोपात्तत्वेन मान्यत्वादेर् विधेयतया च वयमित्येतदविशेषणत्वेन सविशेषणस्य तु नेति निषेधाप्रवृत्तेरस्मदो द्वयोश्चेत्येकस्मिन्नपि बहुवचनं ध्येयम् । श्लोकानां च वक्तव्यबहुत्वेऽपि ग्रन्थगौरवभयात्सङ्क्षेपः । प्रतिवाक्यं प्रतिपदमनेकाकूतगर्भिता । प्रतिभाति सुधाऽथापि ग्रन्थाल्पत्वाय नोच्यते ॥ ८ ॥

यादुपत्यम्

भगवत्पादकृपामात्रसाध्यत्वान्नात्रानादरः कार्य इत्याह ॥ न शब्दाब्धा-वित्यादिना ॥ निगमचर्चा मीमांसा । वेद्यं परमपरं च तत्त्वम् । अत्र यद्यप्यस्मदो द्वयोश्चेत्यत्र सविशेषणस्य प्रतिषेधो वक्तव्य इत्युक्तत्वाद् अहं पण्डितो ब्रवीमीतिवद् अहं प्रपन्नो मान्योऽस्मीत्येव वक्तव्यम् । तथाऽपि बहुत्वारोपमात्रेण बहुवचनोपपत्तिः । अत एवोक्तं दुर्घटवृत्तिकारेण ‘बहुत्वारोपान्न वयं वैय्याकरणा इत्यादिकमुपपादनीयमि’ति । अन्ये तु शब्दाब्धौ गाढा नेति न, निगमचर्चासु चतुरा नेति न, न्याये प्रौढाश्च नेति न । विदितवेद्या अपि यद्यपि तथाऽपीति व्याचक्षते । अत्र च न परटीकाकाराणां व्याख्यानमिवास्मद्य्वाख्यानमशेषशस्त्रपरिज्ञानमात्रसाध्यमपि तु गुरुतमश्रीमध्व-कृपासाध्यमतो नात्रानादरलेशो ऽपि कर्तव्य इत्याहेत्यवतारिका द्रष्टव्या । किमपि युक्तमयुक्तं वेत्यर्थः । आपाततोऽयुक्तार्थकमदीयं वचनं मध्वगुरुप्रसादसाध्यत्वाद्युक्तार्थप्रमापकमेव सुधियामिति भावः । चोऽवधारणे । मान्या इत्यनेन सम्बध्यते ॥ ८ ॥

वाक्यार्थरत्नमाला

प्रतिपादितपदेत्यादि । पदस्वरूपं च प्रमाणं च प्रमेयं च एतेषामुपपादकं यन्न्यायजातं तच्च केवलं गुरुदेवताप्रसादलब्धमिति तादृशेऽनादरो न कार्य इति योजना । अस्य ग्रन्थस्य न्यायसुधात्वेन तत्रोपदर्शनीयन्यायानां मध्ये केचन सूत्रभाष्यश्रुत्यादिगतपदस्वरूपोपपादकाः । केचन सूत्रभाष्योदाहृतप्रमाणोपपादकाः । केचन (सूत्रोपयुक्त) सूत्राद्युक्तप्रमेयोपपादका इति विवेकः । एतच्च तत्र तत्र उत्तरग्रन्थे स्फुटं भविष्यति । इत्यादिनेति । शब्दाब्धौ गाढा नेत्यत्येन पदशब्दोक्तव्याकरण-ज्ञत्वाभाव उच्यते इत्यादि ज्ञेयम् । व्यञ्जकाप्रतीतेः शिष्यसमाधानाय स्वयमेवाह महतामितीति । किमपि च वदन्तोऽपि, परम् इत्यादिना लौकिककारणाभावालौकिककारणसद्भावयोः प्रतिपादनेऽपि श्रद्धाजाड््यमूलकमेतन्न निर्वाहायालमिति मन्दानां बुद्धिः स्याद् अतो महतामित्युक्तम् । तेन च गुरुदेवताप्रसादलब्धन्यायानां महत्संमतत्वप्रतिपादनमुखेन सर्वेषामप्युपादेयमिदम् । न तु केनापि तत्रानादरः कार्य इति सूचनादिति भावः । कारणाभावतत्सद्भावप्रतिपादनयोर्विरोधं परिहरति । किमपि चेतीत्यादि । यत्तु न शब्दाब्धौ गाढा नेत्यादौ पूर्वोत्तरनञ्द्वयस्य एकत्र संबन्धमाश्रित्य शब्दाब्धौ गाढा नेति न निगमचर्चासु चतुराश्च न्याये प्रौढाश्च नेति न विदितवेद्याश्च अपि यद्यपि तथापि परं श्रीमद् इत्यादि केचन इत्याचक्षते । तत्तु वाक्यार्थविनोद एव गुरुराजचरणैः पराकृतम् । तथा हि । परं श्रीमद् इत्यादौ हि लौकिककारणाभावालौकिककारणसद्भावयोः प्रतिपादनस्य स्पष्टतया लौकिककारण-सद्भावपरत्वेन पूर्वार्धयोजने तद्विरोधापातादिति । यच्च एतद्य्वाख्यानोपपादनम् अन्यथाख्यातिकृद्भिः कृतम् । न परकीयटीकाकारणां व्याख्यानमिवास्मद्य्वाख्यानम् अशेषशास्त्रपरिज्ञानमात्रसाध्यं किन्तु गुरूत्तमश्रीमध्वकृपासाध्यमप्यतो नात्रानादरलेशोऽपि कर्तव्य इत्याह इति अवतारिका द्रष्टव्येत्यादिना । तदपि तत्रैव निराकृतम् । किमपि चेत्यनेन लौकिककारणाभावप्रतिपादकेन विरोधापरिहारात् । न च किमपि चेत्यस्य युक्तम् अयुक्तं वेत्यर्थः । तथा चापाततोऽयुक्तार्थकं मदीयं वचनं मध्वगुरुप्रसाद-साध्यत्वाद् युक्तार्थप्रमापकमेव सुधियामित्यभिप्रायकत्वान् न तद्विरोध इति वाच्यम् । तथा सति न वैदुष्यभ्रान्त्या न च वचनचातुर्यकुधियेत्येतत्पद्यसमानार्थकान्तिममूलपद्यविरोधापातात् । न ह्यत्रेव तत्रापि नञ्द्वयस्य एकत्र संबधमाश्रित्य वैदुष्यभ्रान्त्या नेति न किन्तु वचनचातुर्यकुधिया चेत्यादिव्याख्यानं परस्यापि संमतमिति । किञ्च सकलशास्त्रपरिज्ञानसत्त्वे तद्वचनस्य युक्तताया एव प्राप्त्या युक्तम् अयुक्तं वेत्यर्थायोगः । आपाततो अयुक्तार्थकमपीदमित्यपि शास्त्रपरिज्ञानविरोध्येव । अवतारे शास्त्रपरिज्ञान-साध्ये वचने गुरूत्तममध्वकृपासाध्यत्वेनातिशयस्य प्रतिपादनेनानादरलेशोऽपि न कार्य इति चोक्तत्वेन भावकथनावसरे अयुक्तत्वमध्वप्रसादेन सुधियां युक्तार्थप्रमापकत्वयोर् वर्णनस्य तद्विरोधात् पूर्वोत्तरा-परामर्शमूलकमिदं तद्य्वाख्यानोपपादनमित्यपि तत्र दूषणं ज्ञेयम् । अन्यत्र प्रायोऽन्यथाख्यातिग्रन्थो वाक्यार्थविनोदे खण्डितस्तत्प्रकारेण तद्दूषणं ज्ञेयम् । यत्र गुरुराजाप्रवृत्तिस् तत्र दूषणमस्माभिर् निरूपयिष्यते इत्यवधेयम् ।

ननु अस्मदर्थजयतीर्थमुनेर् एकत्वाद् वयमिति बहुवचनायोगः बहुषु बहुवचनमिति सूत्रेण बहुष्वेव तदभ्यनुज्ञानादित्यत आह अत्रास्मद इति । अयमाशयः । अस्मदो द्वयोश्चेति सूत्रे हि जात्याख्यायाम् इति पूर्वसूत्रादेव एकस्मिन् बहुवचनमित्यस्यानुवृत्तिरस्ति । जात्याख्यायामित्येतत्सूत्रीयभाष्यादौ त्वेकस्मिन् बहुवचनमित्येतद् एवं व्याख्यातम् । एकस्मिन् बहुवचनमित्येकवचनस्य बहुवचनादेशविधानमिति न विवक्षितम् । तथा सति व्रीहिभ्य आगत इत्यत्र व्रीहित्वजातिवाचिव्रीहिशब्दे चतुर्थ्येकवचनङे इत्यस्य भ्यसिति बहुवचनादेशोत्तरमपि स्थानिवद्भावेन घेर्ङितीति गुणे व्रीह्येभ्य इति रूपप्रसङ्गात् । किन्तु बहुवचनशब्दस्य पारिभाषिकजसादिग्राहकतामनङ्गीकृत्य वचनमुक्तिः । बहूनामर्थानां वचनं बहुवचन-मित्यन्वर्थत्वं चाश्रित्य बहुवचनशब्देन बह्वर्थाभिधानस्य प्राप्तावेकस्मिन्नर्थे च विद्यमाने बहूनां वस्तुतोऽत्र भावरूपसामर्थ्येन वृत्त्यर्थस्यावगम्यमानतया बहूनामिवोक्तिर्भवतीत्यर्थलाभादेकोऽर्थो बहुवद् भवतीत्येव फलतः प्राप्नोतीत्येवंप्रकारेण एकस्य बहुवद्भावे एव बहुवचनशब्दार्थ इति । उक्तं च महाभाष्ये । किं तर्हि तत्रैकवचनादेश इत्यादि । यावद्ब्रूपादेकोऽर्थो बहुवद् भवतीति तावदेकस्मिन् बहुवचनमिति च । जात्यर्थो बहुवद् भवतीति यावद् इति काशिकावाक्यस्य बहुवचनशब्दोऽयम् अन्वर्थ इत्यारभ्य यदि च जात्यर्थो बहुवद् भवति ततो बहूनामिवोक्तिर्भवतीति स एवार्थः सम्पद्यते इत्याहेति मञ्जर्याम् अवतारश्चास्ति । द्विगुरेकवचनमिति सूत्रीयभाष्येऽपि नेदं पारिभाषिकवचनस्य ग्रहणमुच्यते वचनमित्याद्युक्तिश्च । एवं युवादौ द्विवचने तेमयावेकवचनस्य एत इद् बहुवचने द्विवचनं विभज्येत्यादिसूत्रीयव्याकरणग्रन्थेषु समस्यमाने द्वेकत्वेत्यादिव्याख्याने चान्वर्थतोक्तिरस्ति । तथा च बहूक्तिरूपे बहुवचनशब्दार्थस्यातिदेश इति सिद्धेऽस्मद इति सूत्रेऽप्यतिदिश्यमानस्य बहूक्तिरूपबहुवचनशब्दार्थस्यार्थगतबहुवद्भावरूपेण पर्यवसन्नतया यथा बहुषु बहुत्वादेव बहुवचनमेवम् एकस्मिन्नस्मदर्थे द्वयोर्वा तयोर् बहुवद्भावप्रयुक्त-बहुत्वादेव बहुवचनमिति विहितमिति सिद्ध्या प्रकृते जयतीर्थमुनेरेकत्वेऽपि अस्मदर्थे तस्मिन् बहुवद्भावेन बहुत्वसत्त्वाद् वयमिति बहुवचनमिति । तथाऽस्मदर्थ इत्यर्थग्रहणस्य व्याख्यानाद् अस्मदर्थार्थकशब्दमात्रे बहुवचनसिद्ध्या ब्रूम इत्यादि तिङन्तपदे समानाधिकरणपदान्तरेषु च बहुवचनवत् प्रकृते स्म इत्यादि तिङन्तपदे गाढादित्यादिसमानाधिकरणपदे च बहुवचनमुपपन्न-मित्याद्युपलक्षणया अत्राभिप्रेतं ज्ञातव्यम् । उक्तं च काशिकायाम् । अस्मदो योऽर्थ इत्यादि । वयं ब्रूम इत्याद्युदाहृतं च मञ्जर्यामपि अस्मद इत्यभिधेयसंबन्धे षष्ठीत्याह । अस्मदो योऽर्थ इति । पञ्चम्यां तु तत्र वर्तमानस्य तिङन्तस्य न स्यादिति भाव इत्युक्तम् । तथा जात्याख्यायामिति सूत्रीयकाशिकायां जात्यर्थो बहुवद्भवतीति यावत् । तेन तद्विशेषणानामजातिशब्दानामपि संपन्नादीनां बहुवचनम् उपपद्यत इति प्रतिपादितम् । तदनुसारेण एतत्प्रकरणस्यार्थमाश्रित्य प्रवृत्तिसिद्धिः ।

मञ्जर्यामपि ततः किं सिद्धं भवतीत्यत आह तेनेति । यदि तु जातिशब्दाद् बहुवचनं जसादि विधीयते ततो विशेषणेभ्यः सम्पन्नादिशब्देभ्यो न स्याद् इत्यादेरुक्तत्वात् । अत्र च जसादीति फलिताभिप्रायेण । न तु जसादेरेव विधानमन्वर्थ इत्यादिपूर्वोत्तरग्रन्थविरोधापत्तेरिति स्पष्टम् । काशिकावाक्यस्य जातिवाचकशब्दमात्रग्रहणं नेति संपन्नादिशब्देभ्योऽपि बहुवचनमुपपन्नमित्यर्थं स्फोरयितुं प्रवृत्तस्य संपन्नादिशब्दगतबहुवचनोपपादने एव भारस्य सत्त्वेन मिश्रितया उक्तावप्यदोषात् । यत्तु कुसुमविकासे जात्यर्थो बहुवद्भवतीत्यस्याध्यारोपितबहुत्वो भवतीति व्याख्यानम् । तदपि ग्रन्थ-मविरुद्धम् । प्रयोगसंरक्षणाय प्रवृत्तलक्षणेषु तत्तद्योगादिनिमित्तेन तत्तत्सुविभक्तिलुङादिलकारात्मने-पदादिविधानेन विधानस्थले च नमो योगे चतुर्थी भवति । माङ्योगे लुङ् सर्वलकारापवादेन भवतीत्यादौ द्वितीयायां चतुर्थीत्वम् आरोपितं लटि च लुङ्त्वम् आरोपितम् इत्याद्यर्थानङ्गीकारेण प्रकृतेऽपि बहुवद्भवतीत्युक्तबहुवद्भावस्य विधानप्राप्तस्यापि दारा गृहा वर्षा इत्यादिवदेकस्मिन् बहुवचनापादकत्व-संभवात् । तस्माद् बहवो यथा बहुवचनजसादिभाज एवमेकोऽर्थस् तद्भाग् भवतीति बह्वर्थवज् जसादिभाक्तवमेव बहुवद्भाव इति सन्तोष्टव्यम् । सम्मतश्चायमर्थो दुर्घटवृत्तिकृत इत्यनुपदमेव वक्ष्यामः । यत्तु अन्यथाख्यातौ बहुत्वारोपमात्रेण बहुवचनोपपत्तिः । अत एवोक्तं दुर्घटवृत्तिकारेण बहुत्वारोपान् न वयं वैयाकरणा इत्यादिकमुपपादनीयमित्युक्तम् ।

तत्रास्मदो द्वयोश्चेत्यनेन बहुवचनोपपत्तौ आरोपाश्रयणायोगादित्येवं दूषणं वाक्यार्थविनोदे गुरुराजचरणैरेवोक्तम् । दूषणग्रन्थेऽपि बहुवद्भावादित्यस्य बह्वर्थवज्जसादिभाक्तवादित्येवार्थः । एतेन बहुत्वारोप एवास्मद इत्यनेन प्राप्त इति न कश्चिद्दोष इति निरस्तम् । आरोपाश्रयणेन तत्सूत्रप्रवृत्तेर् अस्तु वा तत्रारोपाभिप्रायस् तथापि विहितारोपाश्रयणं परित्यज्याविहितारोपाश्रयणं दुष्टमेव । दुर्घटवृत्तौ सविशेषणानां प्रतिषेधो वक्तव्य इत्युक्तम् । कथं न वयं वैयाकरणाः । ईश्वरादिवदेकत्वेऽपि बहुत्वा-रोपादिति वाक्यविन्याससद्भावेनान्यथानुवादायोगः । बहुवद्भावेन बलवचनोपपत्तिं वयं ब्रूम इत्यादा-वभिप्रेत्यैव सविशेषणविचारपरत्वात्तद्ग्रन्थस्य बहुवचनमात्रोपपादनपरत्वेन योजनायाम् अन्यथार्थकथना-पत्तेश्चेति स्पष्टम् । यदि च बहुत्वारोपेणैव बहुवचनम् अस्मद इति सूत्रविहितम् । तत्र सविशेषणानां प्रतिषेधान् निर्विशेषणस्यैव न तु सविशेषणस्य बहुत्वारोपेऽपि बहुवचनमिति काशिकार्थदुर्घटवृत्ति-कृदभिप्रेत्यात्तर्हि सविशेषणस्थले बहुवलचनोपपत्तये बहुत्वारोपं कथं शरणीकुर्यात् । अथ मन्येत नेदं वयमिति बहुवचनोपपादनायारोपाश्रयणमपि तु न वयं वैयाकरणा इत्यादाविव सविशेषणस्थलेऽपि बहुवचनोपपत्त्यर्थमेवेदं तदाश्रयणमिति । तन्न । जयतीर्थमुनेरेकतया वयमिति बहुवचनायोग इत्येवा-शङ्कायाद्बहुत्वारोपाद् बहुवचनमिति समाधानप्रकारस्य चैतद्वाक्यात् प्रतीत्या सविशेषणत्वेऽपीत्य-ध्याहाराश्रयणेन योजनायाश्च ज्ञापकाभावेनाकर्तव्यतया विशिष्टविषयकत्वानुपपत्तेः ।

ननु दुर्घटवृत्तिवाक्यस्य सविशेषणविषयकतया तत्संमतिप्रदर्शनादेवास्मद्वाक्यस्य सविशेषण-विषयत्वम् अभिप्रेतमिति ज्ञातुं शक्यम् इति चेन् न । तर्हि विमलमिदं ग्रन्थाचातुर्यं यदवश्यं वक्तव्यं सर्वमभिप्रेतत्वेनैवोच्यते इत्यापत्तेः । किञ्च न शब्दाब्धाविति प्रतीकोपादनानन्तरं निगमचर्चा मीमांसा वेद्यं परमपरं तत्त्वं बहुत्वारोपमात्रेणेति तत्तत्पदव्याख्यानक्रमानुसारेण वयमिति बहुवचनमात्रस्यैवात्रोप-पादनमिति स्पष्टतया प्रकारान्तरकल्पना न युक्ता । नापि आधुनिकपुस्तकगतपाठान्तरकल्पना युक्ता । उक्तवक्ष्यमाणदूषणानां सर्वथा परिहर्तुमशक्यत्वात् । किं मूलं परेषाम् एवं लेखनमिति चेदवहितमनाः श्रुणु । स्वामिभिर्व्याख्यानकरणसमये दुर्घटवृत्तौ वयं न वैय्याकरणा इत्यादौ सविशेषणस्थले बहुत्वारोपाश्रयणेन परिहारः कृतोऽस्तीत्येवंरूपेणैतत्प्रमेयानुवादः कृतः । तत्र एकदेशश्रवणाभावाद्वा । तत्स्मरणाभावाद्वा दुर्घटवृत्तौ वयं न वैय्याकरणा इत्यत्र बहुत्वारोपादित्युक्तमिति स्वामिवाक्यैकदेशं श्रुतवद्भिर् विशिष्टार्थज्ञानाभावादेकदेशमात्रमपूर्वार्थलाभबुद्धिमात्रेण लिखितम् । अत एव दुर्घटवृत्ति-विसंवाद इति । अभ्युपेत्य चेदमुदितम् । वस्तुतस्तु सविशेषणविचारपरोत्तरटीकानुसारेण वैय्याकरण-त्वाभावस्य विधेयतया व्यावृत्तावतात्पर्येण विशेषणत्वाभावात् प्रकृतेऽपि च विशेषणत्वाभावेनास्मद इति सूत्रादेरेव बहुवचनोपपत्तेरस्य परिहारत्वमेव नास्तीति तदाश्रयणेन प्रकृते समाधानायोगः । दुर्घट-वृत्तौ तु न वयमित्यस्योपलक्षणयाऽनुवाद्यविशेषणकविशेष्यस्थलपरत्वान्न तदनुपपत्तिः । वक्ष्यते चेदम् । एतदनुपपत्तिप्रकारं मनसि कृत्वैव टीकाकृन् मञ्जर्युक्तसमाधिं वक्ष्यतीत्यास्तां तावत् ।

ननु सविशेषणस्य प्रतिषेधो वक्तव्य इत्यस्मदो द्वयोश्चेति सूत्रीयवृत्तौ जात्याख्यायामित्येतत्सूत्रीय-व्याख्यायामपर आह अस्मदः सविशेषणस्य प्रयोगे च इदमपि सिद्धं भवति । अहं पटुर् ब्रवीमि अहं पण्डितो ब्रवीमीति भाष्ये च विशेषणयुक्तास्मदर्थस्य बहुवद्भावनिषेधावगतेः । प्रकृते च न शब्दाब्धौ गाढा इत्यादिविशेषणयुक्तत्वाद् अस्मदः कथं वयम् इति बहुवद्भावेनापि बहुवचनमित्यतो मञ्जर्युक्तरीत्या समाधिमाह त्वं राजा वयमपीति। आदिपदेन ‘‘ख्यातस्त्वं विभवैर्यशांसि कवयो हृष्टाः प्रतन्वन्ति नः । इत्थं मानधनातिदूरमुभयोरप्यावयोरन्तरं यद्यस्मासु पराङ्मुखोऽसि वयमप्येकान्ततो निस्पृहाः’’ इति पादत्रयस्यैवंजातीयस्थलस्य सङ्ग्रहः । दुर्घटवृत्तिकृता तु यत्रैवंविधेयविशेषणकता नास्ति किन्तु अहं देवदत्तो ब्रवीमि अहम् एतद्विषये निपुणो ब्रवीमि इत्यादिवद् अनुवाद्यविशेषणकता तत्र सविशेषणत्व-प्रयुक्तबहुवद्भावनिषेधप्राप्तौ बहुत्वारोपं विना गत्यभावात् तदाश्रयणेन समाधेयमित्याशयेनारोपाभिधानं कृतमिति न विरोधः । न वयं वैय्याकरणा इत्येतत्तु विधेयविशेषणकमेवेति नात्रोदाहरणतयाऽङ्गीकर्तुं शक्यमित्युदाहरणान्तरोपलक्षणमेवेति प्रागेवोक्तमिति ज्ञातव्यम् । अविशेषणत्ववदिति (अविशेषण-त्वादिति) । व्यावृत्तिप्रत्ययजनकस्यैव विशेषणतया उन्नतत्वादेर् व्यावृत्तिस्वरूपयोग्यत्वेऽपि अत्र व्यावृत्तावतात्पर्येण विधान एव च तात्पर्येण व्यावर्तकत्वाभावाद् अविशेषणत्वमित्यर्थः । श्रीमदित्यादे-श्चेत्यादिपदेन किमपि च वदन्तोऽपीत्यस्य ग्रहणम् । हेतुपरतयेति । किमपि वदन्तोऽपि परं श्रीमत् पूर्णप्रमतिगुरुकारुण्यसरणिं प्रपन्ना इत्याभ्यां लौकिककारणशून्यत्वालौकिककारणवत्त्वयोः सत्त्वान् मान्या इत्येवं प्रतिपादनस्य प्रतीतेर् हेतुपरत्वमिति ज्ञेयम् । अत्रापि व्यावृत्तावतात्पर्येणेत्यस्य पूर्ववदेव व्याख्यानं द्रष्टव्यम् । तं त्वा वयं जडधिय इत्यादौ तुच्छाद्यसत्त्वात् तदनाश्रयणम् । अथवा उपलक्षणमिदम् । तं त्वा वयमित्यादौ सविशेषणत्वेऽपि बहुवचनदर्शनात् सविशेषणस्यापि प्रतिषेधः । प्रायिकोऽतो नात्र तत्प्रसङ्ग इत्यपि ज्ञेयम् । अत एवेहतेत्त्वामवस्यव इत्यृग्भाष्यटीकाव्याख्याने गुरुपादैरन्यमतत्वेनास्य प्रतिषेधस्योक्तिरिति ज्ञेयम् ॥ ८ ॥


सुधा

सुधा

भगवता बादरायणेन प्राणिनां निःश्रेयसाय प्रणीतमपि ब्रह्ममीमांसाशास्त्रमसाधु-निबन्धान्धतमसाऽवकुण्ठितत्वेनाप्रणीतमिव मन्यमानो भगवानानन्दतीर्थमुनिर्यथाऽऽचार्याभिप्रायम् अस्य भाष्यं विधायानुभाष्यमपि करिष्यन्विलीनप्रकृतितया स्वयमन्तरायविधुरोऽप्यनवरतमीश्वर-प्रवणकायकरणवृत्तिरपि नारायणप्रणामादिकं प्रारिप्सितस्यानन्तरायपरिसमाप्तेः प्रचयस्य च हेतु- तयाऽविगीतशिष्टाचारपरम्परादिनाऽवगतमवश्यं करणीयं शिष्यान् ग्राहयितुं ग्रन्थादौ निबध्नाति ॥ नारायणमिति ।

वाक्यार्थचन्द्रिका

ननु प्रामाण्यविषयादिमत्त्वदुर्गमार्थत्वानां व्याख्येयत्वप्रयोजकतया प्रकृत-शास्त्रे च तदभावात् तद्भावेऽपि वा भाष्यान्तराणां सत्त्वेनैतद्भाष्यानुभाष्ययोरेवाकर्तव्यत्वेन तदन्तराय-परिसमाप्त्यादेः प्रयोजनस्यासम्भवाद् विलीनप्रकृतितयाऽनवरतमीश्वरप्रवणकायकरणतया भवदभ्युपेत-भाष्यकारस्य ग्रन्थारम्भ एवान्तरायविरहोद्देशेन मङ्गलकृतेस्त्वया वक्तुमशक्यत्वाच्चाचारपरम्पराया अन्ध-परम्परात्वसम्भवेन प्रमाणाभावाच्च नारायणप्रणामादेरकर्तव्यतया ग्रन्थे निवेशनस्य च प्रयोजनाभावेन सुतरामनुपपत्तेरसङ्गतमेतत्प्रथमपद्यमित्यत आह ॥ भगवतेति ॥ अत्र ज्ञानवैराग्यैश्वर्यसमर्पक-भगवच्छब्देन विवक्षितार्थतत्त्वज्ञानविवक्षाकरणपाटवानां लाभेन प्राणिनां निःश्रेयसायेति वक्तृप्रीति-विषयत्वतत्त्वज्ञानयोग्यत्वलाभेन वक्त्रानुकूल्यश्रोत्रानुकूल्ययोर्निःश्रेयसाय प्रणीतमित्यनेनैव प्रसङ्गानु-कूल्यस्य च सिद्ध्याऽऽप्तोक्ततयाऽप्रामाण्यशङ्काया वेदार्थभूतपरब्रह्मनिर्णायकन्यायग्रथनपरेण ब्रह्म-मीमांसाशास्त्रशब्देन वेदादीतिकर्तव्यतात्वलाभेन विषयादिराहित्यशङ्कायाः, निबन्धेति व्याख्यानरूप-निबन्धप्रवृत्त्युक्तया दुर्गमार्थत्वाभावशङ्काया एतद्ग्रन्थयोर्भाष्यानुभाष्यशब्दौ प्रयुज्य यथाऽऽचार्याभिप्राय-मिति तदर्थकथनेनान्यत्र नितरां बन्धकत्वार्थकनिबन्धशब्दं प्रयुज्याचार्याभिप्रायाननुसारित्वरूपासाधुत्वेन तद्विशेषणेनैतयोरन्येन गतार्थत्वशङ्कायाः, अविगीतशिष्टेत्यन्धपरम्परात्वशङ्काया विलीनेत्यादिकाय-करणवृत्तिरपि शिष्यान् ग्राहयितुमित्यन्तेन भाष्यकारस्य ग्रन्थारम्भ एवान्तरायविरहोद्देशककृत्यनु-पपत्तिशङ्काया ग्रन्थनिबन्धनानुपपत्तिशङ्कायाश्च परिहारेण पद्यं सङ्गतमिति द्रष्टव्यम् ।

परिमल

भाष्यादिवैयर्थ्यशङ्कां निराह ॥ भगवतेत्यादिना ॥ असाध्विति ॥ असमीचीन-ग्रन्थाख्यान्धतमसेन प्रतिबद्धतत्वज्ञानजननशक्तिकत्वेनाप्रणीतमिवेत्यर्थः । सूत्रकृतेः पूर्वं विद्यमानयोः साधुजनमनोगतसंशयविपर्यययोरनपगमादिति भावः । यथाचार्याभिप्रायं सूत्रकाराभिप्रायमनतिक्रम्य । अस्य ब्रह्ममीमांसाशास्त्रस्य ॥ अनुभाष्यमपीति ॥ तत्कृत्यमन्वपि चेत्यादावग्रे व्यक्तम् । ग्रन्थादौ निबन्धनेन प्रणामादिकं कृतमिति तावदवगम्यते । अन्यथा तदयोगात् । तच्चेतरजनकृतमिव विघ्नविघाताद्यर्थमिति इदानीमेव कृतमिति च प्रतीयते । तत्प्रतीतिद्वयं निरसितुं स्वयमित्याद्यप्यन्तं विशेषणद्वयम् । प्रणामादिकं प्रणामस्तवनादिकम् ॥ अविगीतेति । अविप्रतिपन्नव्यासादिशिष्टा-नामाचारेण मन्वादिशिष्टानामाचार इत्येवमाचारपरम्परया तदनुमितश्रुत्यादिना चावगतमित्यर्थः । श्रुत्यनुमानप्रकारश्चाग्रे तत्र तारेत्येतदवतारिकायां व्यक्तः ।

यादुपत्यम्

अनुव्याख्यानमङ्गलाचरणयोः कर्तव्यतामुपपादयन्नाद्यपद्यमवतारयति ॥ भगवते-त्यादिना ॥ विधायेत्यनन्तरं स्वयं कृताऽपि तद्य्वाख्येत्यत्र वक्ष्यमाणप्रयोजनायेति शेषः । नारायण-प्रणामादिकमवश्यं करणीयम् । अवश्यकरणीयत्वेन विशिष्टं नारायणप्रणामादिकमवश्यं करणीयमिति शिष्यान्ग्राहयितुमित्यर्थः । नन्वस्तु निबन्धः शिष्यान्ग्राहयितुं किन्तु ग्रन्थारम्भसमये कृतस्यैव नारायणप्रणामस्य अकृतस्य नमामीत्यादिरूपेण निवेशने प्रतारकत्वप्रसङ्गात् । न च तत्करणमत्र सम्भवति । आनन्दतीर्थमुनेर्विलीनप्रकृतितया जीवन्मुक्तत्वेन स्वत एवान्तरायविधुरत्वेन तत्करणे उक्तप्रयोजनाभावात् । न च परमास्तिकस्वभाववत्त्वात्तत्करणमिति वाच्यम् । तेनानवरतमीश्वर-प्रवणकायकरणवृत्तित्वस्यैव लाभेनारम्भसमये विशेषेण तत्करणालाभाद् इत्याशङ्क्याह ॥ विलीन-प्रकृतितयेत्यादि ॥ शिष्यान्ग्राहयितुमित्यतः परं कृतमिति शेषः । प्रणामादिकमित्यत्रादिपदेन स्तुतिर्ग्राह्या । निबध्नातीत्यतः पूर्वं गुणप्रधानभावेनेति शेषः । तथा चान्तरायविधुरोऽप्यनवरतमीश्वर- प्रवणकायकरणवृत्तिरपि सन्निहितशिष्यान्ग्राहयितुमारम्भसमये विशेषेण कृतं नारायणप्रणामादिक-मसन्निहितशिष्यानपि ग्राहयितुं गुणप्रधानभावेन निबध्नातीति योजना द्रष्टव्या ।

वाक्यार्थरत्नमाला

भगवता बादरायणेनेत्यादिविशेषणानां प्रयोजनसद्भावान्न वैय्यर्थ्यमिति दर्शयितुं क्रमेण तत्तद्व्यावर्तशङ्कोत्थापनं कुर्वन् भगवतेत्याद्यवतारवाक्यमेवावतार्य तत्तदंशेन तत्तच्छङ्का-परिहारप्रकारं च क्रमेण दर्शयति ननु प्रामाण्येत्यादिना सङ्गतमिति द्रष्टव्यमित्यन्तेन । प्रकृतशास्त्र इति । व्याख्येयत्वेन प्रकृतब्रह्ममीमांसाशास्त्र इत्यर्थः । भाष्यान्तराणामिति । सङ्करादिप्रणीतैतच्छास्त्र-भाष्याणामित्यर्थः । एतद्भाष्यानुभाष्ययोरेवेति । यद्यपि तत्त्वप्रकाशिकायाम् अविद्यापटलपिहितनयनै-रित्यादिना भाष्यारम्भः समर्थितस् तथापि सूत्रव्याख्येयत्वप्रयोजकप्रामाण्यादि तत्र न व्युत्पादितम् । किन्तु यथावद्व्याख्यानरूपभाष्यप्रवृत्तौ निमित्तमात्रमुक्तम् । अत्र तु सूत्रस्य व्याख्येयत्वप्रयोजककथनेन व्याख्येयतां समर्थ्य यथावद्व्याख्यानकर्तव्यतापि समर्थ्यते इति विशिष्टविषयकत्वादनुभाष्यस्येव भाष्यस्यापि ग्रहणं युक्तम् । किञ्चानुभाष्यं तावद् भाष्यार्थस्पष्टीकरणमिति वक्ष्यते । स्पष्टीकरणं च क्वचिदनुक्तांशस्योक्तिरिति वक्ष्यमाणमूलानुसारेणानेकविधं भवतीति व्याख्यानरूपतात्पर्यपर्यवसायि । ततश्चान्यैर्व्याख्यातत्वाद्भाष्यानुभाष्ये एवाकर्तव्ये इत्यस्य सूत्राणामन्यैर्व्याख्याततया भाष्यरूपव्याख्यान-स्यैवाकर्तव्यत्वात् तत्स्पष्टीकरणरूपानुव्याख्यानस्याप्यकर्तव्यत्वमिति फलितं भवति । अत एव मूले यथाचार्याभिप्रायम् अस्य भाष्यं विधायेत्यनुभाष्यमपीति च भाष्यानुभाष्यशब्दाभ्यां निर्देशपूर्वकं क्रमः प्रतिपादितः । अप्रणीतमिव मन्यमान इत्यस्योभयप्रवृत्तिहेतुतापि उक्तरीत्या विशिष्टव्याख्यानसमर्थनाद् युक्तेति युक्तमेवोभयग्रहणम् । तथा च बुद्ध्या विवेकेन सूत्राणामेवाव्याख्येयत्वात् । व्याख्येयत्वेऽपि वा भाष्यं कार्यम् । तत एव तद्व्याख्यानरूपानुभाष्यं च न कार्य इति लाभात्तदनन्तरायेत्यत्र च बुद्ध्या विविक्तचरमोपस्थितानुभाष्यस्यैव परामर्शोपपत्तेर्न कश्चिद्दोष इति ज्ञेयम् । यद्यपि भाष्येणानुभाष्यस्य गतार्थतापरिहारोपयोगितया व्याख्येयत्वेऽपि भाष्येणैव चारितार्थ्यादनुभाष्यं व्यर्थमित्यपि बुद्ध्या विवेकमाश्रित्यैव व्याख्यातुं शक्यते तथापि तच्छङ्कापरिहारस्यावतारवाक्ये मूलेऽप्रतीतेर् न तथा योजनीयम् । अत एव भगवतेत्यादिविशेषणप्रयोजननिरूपणावसरेऽपि टीकाकृतोभयोरपव्याख्यानेन गतार्थतापरिहारमात्रं वर्णितम् । यद्यपि च भाष्यं विधायानुभाष्यमपि करिष्यन् इत्यनेनैवान्वपि चाहमेव स्वयं कृतापि इत्युत्तरग्रन्थानुसारेण प्रयोजनविशेषः सूचित इति वक्तुं शक्यत्वान् नोभयोः साम्येन गतार्थताशङ्कोत्थापनं तत्परिहारवर्णनं युक्तमित्याभाति । तथापि बुद्ध्या विवेकेन सङ्क्षेपविस्तार-रूपयोरुभयोरप्यन्येन गतार्थतापरिहार एव भाष्यं विधायेत्यादावभिप्रेतः । भाष्येण गतार्थताया उत्तरत्रानुभाष्ये एव परिहरिष्यमाणत्वेनात्र तच्छङ्कापरिहारयोर् भानाभावात् । स्पष्टीभविष्यति चैतद् द्वितीयपद्यव्याख्यानावसरे स्वयं कृतापीत्येतद्य्वाख्यानावसरे च मूले इत्यलम् । परिसमाप्त्यादेर् इत्यादिपदेन प्रचयपरिग्रहः । विलीनेति । अन्तरायविधुरत्वेनेति पूरणीयम् । अनवरतमीश्वरप्रवणकायेति पाठः । अनवरतकायेत्येव पाठेऽपि अनवरतमीश्वरप्रवणकायेत्येवार्थः । अत्रान्तरायविरहोद्देशेन मङ्गल-कृतेर् वक्तुमशक्यत्वे विलीनप्रकृतित्वं हेतुः । ग्रन्थारम्भ एव मङ्गलकरणस्य वक्तुमशक्यत्वे ईश्वरप्रवणेति हेतुरिति विवेकः । प्रयोजनस्यासंभवेन समुच्चयार्थश्चकारः । अङ्गीकृत्य च मङ्गलस्य प्रारिप्सितपरि-समाप्त्यादिफलकत्वप्रयोजनासंभवो व्युत्पादितः । वस्तुतस्तु मङ्गलस्य तत्प्रयोजनकत्वे प्रमाणाभावान् न तस्य तथात्वम् इत्याह आचारेति । प्रयोजनासंभवसमुच्चयाय चशब्दः । प्रणामादेर् इत्यादिपदेन स्तुतिपरिग्रहः । नतिस्तुत्युभयपरत्वेनापि पद्ययोजनायाः करिष्यमाणत्वात् । एतत्पद्यमिति । व्याचिख्यासिततया बुद्धिसंनिधानं मूलकारीयमाश्रित्य एतदिति निर्देशः ।

अनेन एवं शङ्काक्रमयोजना सूचिता । इदं पद्यम् असङ्गतम् । न चैतन् मङ्गलोपनिबन्धार्थमिति वाच्यम् । प्रयोजनाभावेनेह मङ्गलस्यैवाननुष्ठेयत्वेन तदुपनिबन्धस्य सुतरामकर्तव्यत्वात् । न च एतद्ग्रन्थ-परिसमाप्त्यादिकमेव इह तत्प्रयोजनमिति वाच्यम् । एतद्ग्रन्थस्यैव प्रयोजनाभावेनानारम्भणीयत्वात् । न च ब्रह्मसूत्रव्याख्यानाय भाष्यम् । तत्प्रपञ्चनाय चायं ग्रन्थ इत्येवं सूत्रव्याख्यानमेव प्रयोजनमिति वाच्यम् । सूत्राणां व्याख्येयत्वप्रयोजकप्रामाण्यादिशून्यतया अव्याख्येयत्वेन तद्व्याख्यानस्य प्रयोजनत्वा योगात् । व्याख्येयत्वे वा भाष्यकारान्तरैरेव व्याख्याततया तद्व्याख्यानाय भाष्यस्य तत्प्रपञ्चरूपै-तदनुभाष्यस्य चाकर्तव्यत्वात् । यथाचार्याभिप्रायव्याख्यानतायाश्चात्राप्यसिद्धेः । अस्तु वोक्तक्रमेण एतद्व्याख्यानमावश्यकम् । तथापि न तत्परिसमाप्त्यादिप्रयोजनाय मङ्गलावश्यकता । मङ्गलस्य परिसमाप्त्यादिहेतुत्वे आचारपरम्परामात्रस्य निर्मूलत्वेनाप्रमाणत्वात् प्रमाणान्तरस्य चाभावात् । अस्तु वा प्रारीप्सितपरिसमाप्त्यादिप्रयोजनादिमन्मङ्गलं तथापि भवदभिमताचार्यस्य विलीनप्रकृतितयाऽन्तराय विरहोद्देशेन मङ्गलानुष्ठानायोगात् तदनुद्देशे चानवरतमीश्वरप्रवणकायकरणवृत्तितया ग्रन्थारम्भ एव तदनुष्ठानायोगः । अस्तु वा तदनुष्ठानमपि तथापि तदुपनिबन्धस्तु न कार्यः प्रयोजनाभावाद् इति । इत्यत आहेति । इत्याशङ्कां परिहरन्नाद्यपद्यं सङ्गमयतीत्यर्थः । उक्ताशङ्कानां परिहारकानंशानुपादाय तत्तदंशेन तत्तच्छङ्कापरिहारप्रकारं च शिष्यानुग्रहाय दर्शयति अत्र ज्ञानेत्यादिना सङ्गतमिति द्रष्टव्यमित्यन्तेन । ज्ञानवैराग्येति । ऐश्वर्यस्य समग्रस्येत्यादिप्रमाणादिति भावः । ज्ञानमात्रस्य प्राणभृन्मात्रसाधरण्यादत्र मुख्यं ज्ञानं सर्वविषयकमेव लभ्यते । प्रमाणेऽपि मुख्यामुख्यन्यायाश्रयणात् । समग्रस्येत्यस्य लिङ्गवचनव्यत्यासेन ज्ञानवैराग्यविशेषणत्वाङ्गीकाराभिप्रायाद्वा । तथा च विवक्षितार्थतत्त्वज्ञानस्य ज्ञानसमर्पकत्वोपाधिना करणपाटवस्य च सकलैश्वर्यसमर्पकत्वोपाधिना लाभेनेत्यर्थः । निःश्रेयसाय प्रणीतमित्यनेनैवेति वक्ष्यमाणतया तत्र एवकारस्यान्यार्थम् उपादाने तत्पदद्वयेनेति लाभेनात्र भगवता प्रणीतमिति सम्बन्धमाश्रित्य भगवच्छब्दस्य ज्ञानाद्यर्थकतायाः प्रोच्यमानतया प्रणीतमिति प्रणयन-रूपकार्येण विवक्षापि कारणीभूता सिद्धेति भावेन विवक्षाकरणपाटवानामित्युक्तिः । वैराग्यसमर्पक-त्वोक्तिस्तु एवं वक्त्राद्यानुकूल्येनाप्तोक्ततया अप्रामाण्यशङ्कायाः परिहारेणेत्युत्तरत्र वक्त्राद्यानुकूल्य-मात्रेणाप्त्येकदेशेनाप्तवाक्यतालाभवर्णनात्तत्र चास्तु वक्त्राद्यानुकूल्यं वक्तुर्विप्रलिप्सामूलत्वेनाप्रामाण्यं च भवतु इति शङ्कोदयात् तद्वारणाय श्रोतृप्रसङ्गाननुकूलतैकनिबन्धनाया विप्रलिप्सायास् तयोरानुकूल्येभावः सिद्ध इति वक्ष्यमाणरीत्या आप्तोक्ततयेत्यनेनाविप्रलिप्साघटितसमस्ताप्ति सद्भावप्रतिपादनस्याभि-प्रेततयाऽवश्यवक्तव्यत्वात् तत्सूचनाय तदुभयानुकूल्यज्ञापिताविप्रलिप्साया अपि भगवच्छब्देनैव वस्तुतोऽभिधानमस्तीति ज्ञापनायेति न तदुक्तेर्वैय्यर्थ्यम् । यत्र तु ज्ञानैश्वर्येत्येव पाठस् तत्रापि प्रागुक्त-रीत्या विवक्षायाः प्रणीतमित्यनेनैव लाभमाश्रित्योक्तरीत्यैव अविप्रलिप्साया लाभमाश्रित्य आप्तोक्ततया अप्रामाण्यशङ्कापरिहार इति वर्णनीयम् । तत्र वैराग्योक्तिप्रसक्तयभावात्तदुक्तिसङ्गतिविचारानवकाशः । यत्र तु पूर्वत्र वैराग्यपदं परत्र च तत्त्वज्ञानाविप्रलिप्साकरणपाटवानामित्येव पाठस् तत्रापि वैराग्योक्ति-रविप्रलिप्सालाभार्थतया स्पष्टैव । विवक्षाया अपि प्रणीतत्वोक्त्या लाभ इत्यभिप्रेतम् । वक्त्रानुकूल्य-लाभवर्णनमपि भगवच्छब्दसमर्पिततत्त्वज्ञानकरणपाटवरूपार्थद्वयात् प्रणीतमित्युक्तविवक्षातश्चेति त्रितयमूलकत्वाभिप्रायेणैव । अविप्रलिप्सा तु पूर्वोक्तरीत्या आप्तवाक्यतासिद्ध्युपयोगिनीति सूचनाय । वस्तुतो भगवच्छब्दसमर्पिता यातीति मनसि कृत्वा कीर्तितेति न कश्चिद्दोष इति सूरिभिरालोचनीयम् ।

लाभेनेत्येतद्द्वयस्य वक्त्रानुकूल्यश्रोत्रानुकूल्ययोरित्यत्र बुद्ध्या विवेकेन वक्त्रानुकूल्यश्रोत्रानुकूल्यस्य इति द्वयेन क्रमेण संबन्धः । अनुकूल्ययोरित्यस्य सिद्ध्येति वक्ष्यमाणेन सम्बन्धः । आप्तोक्ततयेति तु वक्ष्यमाणरीत्या अनुकूलवक्त्रादिमत्त्वसिद्धाप्तवाक्यत्वेन प्रामाण्यानुमानमिति दर्शयितुमिति ज्ञातव्यम् । शङ्काया इत्यस्य परिहारेणेत्युत्तरेणान्वयः । एवम् उत्तरस्थलपञ्चकेऽपि । वेदादीतिकर्तव्यतात्वेति । वेदादीनां च ब्रह्ममोक्षमुमुक्षुरूपविषयादिमत्तायाः सिद्धत्वेन तदितिकर्तव्यतारूपब्रह्ममीमांसाशास्त्रस्यापि विषयादिलाभाद् विषयादिराहित्यशङ्कायाः परिहारो युक्त इत्याशयः । यद्यपि ब्रह्ममीमांसापदेन ब्रह्माख्यो विषयः, प्राणिनां निःश्रेयसाय इत्यनेन तु अधिकारिप्रयोजने सूचिते इत्यपि वक्तुं शक्यं तथापि वेदादीतिकर्तव्यतारूपस्य पृथक्प्रामाण्यानभ्युपगमादित्युत्तरमूलं मनसि कृत्वा शास्त्रैकदेशसंबद्धप्रकरण इव वेदादिद्वारकमेव विषयाद्यानीति ज्ञेयम् । तदर्थकथनेनेति । भाष्यानुभाष्ययोः सङ्क्षेपविस्तररूपत्वेन विशेषसत्त्वेऽपि सूत्रव्याख्यानत्वाविशेषात् । यथाऽऽचार्याभिप्रायमिति तदुभयविशेषणस्यार्याभि-प्रायमनतिक्रम्य वर्तमानत्वार्थकस्याचार्याभिप्रायानुसारित्वपर्यवसन्नस्य ‘सूत्रार्थो वर्ण्यते यत्रे’ति भाष्य-लक्षणपर्यालोचनया च प्राप्तस्य इतरव्याख्यानव्यावृत्तस्यात्रोपादानेनाचार्याभिप्रायानुसारित्वरूपे एव भाष्यत्वानुभाष्यत्वे इत्यर्थकथनलाभादिति भावः । यद्वाऽर्थः प्रयोजनम् । तथा च तयोर् भाष्यानु-भाष्ययोर् यथाचार्याभिप्रायमित्यनेनाचार्याभिप्रायानुसारेण व्याख्यानरूपप्रयोजनस्य कथनेनेत्यर्थ इति न कश्चिद्दोषः । नितरामिति । उपलक्षणं चेदम् । अन्धतमसेनोपमेयेत्यपि ज्ञेयम् । सम्यक्ज्ञानप्रति-रूपत्वरूपत्वात् तमस्त्वस्य । तद्विशेषणेनेति । चशब्दोऽत्राध्याहार्यः । मूलेऽवकुण्ठितत्वं प्रतिबद्धत्वम् । तत्त्वज्ञानाजनकत्वमिति यावत् । विलीनेत्यादीति । आदिना प्रकृतितया अन्तराय-विधुरोऽप्यनवरतमीश्वरप्रवणेत्यस्य सङ्ग्रहः । करणवृत्तिरपीति पाठः । (प्रपदं लेखकदोषात् ।) वृत्तिरपीत्यनन्तरं शिष्यानित्याद्यनुवादेन शिष्यान् ग्राहयितुम् इत्यस्य तत्रैव संबन्ध इति सूचितम् ।

ग्रन्थारम्म एवेति । विलीनप्रकृतितया अन्तरायविधुरत्वान्नान्तरायविरहोद्देशेन मङ्गलकृति-रुपपन्नेति । अनवरतमीश्वरप्रवणकायवृत्तित्वाद् ग्रन्थारम्भ एव तत्कृतिरनुपपन्नेत्येतदुभयं सङ्गृह्य अवतारे ग्रन्थारम्भे एवान्तरायेत्यादेर् उक्तत्वात् तदनुसारेण एवात्रोभयमेकीकृत्य ग्रन्थारम्भे एवेत्याद्युक्तम् । उपनिबन्धविचारपरोत्तरग्रन्थस्थद्वितीयतृतीयप्रकारानुसारेणाचार्योऽपि मङ्गलं करोतीत्यर्थस्य लाभान् मङ्गलनिबन्धमात्रमत्रोक्तमिति न शङ्कनीयम् । परिहारप्रकारस्त्वेवनाभिमतः । विलीनप्रकृतितया अन्तरायविधुरोऽपि शिष्यान् ग्राहयितुं मङ्गलं करोति । अनवरतमीश्वरप्रवणकायकरणवृत्तिरपि शिष्यान् ग्राहयितुम् एव विशेषतो ग्रन्थारम्भ एव लोकानां व्यक्ततया मङ्गलं करोतीत्येवं तत्कृतेरनुपपत्तिर्नास्तीति । निबन्धनानुपपत्तीति । शिष्यान् ग्राहयितुमित्यंशेनैव शिष्यशिक्षाख्यप्रयोजनसद्भावेन निबन्धनस्य आवश्यकत्वप्रतिपादनादिति भावः । मूले अप्रणीतमिवेत्यादि । वस्तुतः प्रणीतत्वेऽपि तत्त्व- ज्ञानानुत्पादकत्वरूपाप्रणीतसादृश्यादिप्रणीतत्वमिति व्यञ्जयितुमेवेत्युक्तम् । यथाचार्याभिप्रायं भाष्यविधाने सामर्थ्यमुक्तं भगवान् इत्यादि । भाष्यं विधायानुभाष्यं करिष्यन् इत्येतत्तु भाष्यकरणे सिद्धे तत्प्रपञ्चायानुभाष्यकरणम् इति पूर्वोक्तरीत्या बद्धक्रमत्वं वक्तुमिति ज्ञातव्यम् । अवश्यकरणीयम् अवगतत्वादेवावश्यकरणीयतया प्राप्तमित्यर्थः । अन्यथा प्रणामादिकम् अवश्यं करणीयमित्युक्ते वाक्यसमाप्तिर्विज्ञायेत । कृधातोः कर्मणि अनीयर् प्रत्ययस्यार्हार्थे विद्यमानेन कर्तृं योग्यत्वस्य तदर्थत्वात् । स्वयं कृतापीत्येतद् व्याख्यानं मूलगतं वक्तव्यम् इत्यत्रेवेति ज्ञेयम् ।

अत्र गुरवः शिष्याणां सन्निहितासन्निहितभेदेन द्वैविध्यात् सन्निहितानां कृतिदर्शनोपदेशादिना मङ्गलकर्तव्यताबुद्धिसंभवेऽपि येऽसन्निहितास् तेषां ग्रन्थकारीयमङ्गलकृतिदर्शनायोगेन शिक्षाया अनुपपत्तिरिति तदर्थम् अयमुपनिबन्ध इति विशेषविषयत्वं वदन्ति । चन्द्रिकाटीकायां गुरुभिर्निरूपित-मदुनुसृत्याधिकं च किञ्चिद् उच्यते । तथा हि । शिष्यान् ग्राहयितुं निबध्नातीत्यनेन शिष्यशिक्षार्थं नमामि इत्यादिर्निबन्ध इत्युक्तया निबन्धस्य प्रणामाद्यङ्गतया स्वातन्त्रेण वा समाप्त्यननुकूलतया वैयर्थ्य-मित्येतच्छङ्का निराकृता । तथा हि । न हि ग्रन्थो व्यसनितया क्रियते । किन्तु ‘यावत् कीर्तिर्मनुष्याणां पुण्यलोकेषु गीयते । तावद्वर्षसहस्राणि विष्णुलोके महीयते’ इत्युक्तेः सत्कीर्त्यनुवृत्तये न चा प्रचारता तेन सत्कीर्तिर् अनुवर्तयितुं शक्या । न चाशिक्षिताः शिष्या मङ्गलं कुर्युः । न च तेषां मङ्गलाकरणे ग्रन्थाध्ययनाध्यापने भवतः शास्त्रस्यायुष्मत्पुरुषकत्वादिकं वा । कदाचित् कस्यचिद् अन्तरा विघ्नानुत्पादेऽपि बहुलं तदुत्पादात् । यथोक्तं श्रेयांसि बहुविघ्नानीति तदेवं ग्रन्थारम्भे मङ्गलाचरण-विषयशिष्यशिक्षैव युक्तेति तदर्थमुपनिबन्धः सार्थकः । अत एव उत्तरमूले कृतं च निवेशितं चेत्यादिप्रतिपादनम् । नमस्काराधिकारग्रथनसूचने शिष्यशिक्षार्थमिति तत्त्वप्रकाशिकाया अप्यमेवार्थः । अथवा शिष्यान् ग्राहयितुं निबध्नातीत्यस्य शिष्यशिक्षायै निबन्धरूपं मङ्गलमाचरतीत्यर्थः । शिष्य-शिक्षाया इति आनुषङ्गिकप्रयोजनोक्तिः । समाप्तेरेव उपनिबन्धरूपमङ्गलफलत्वात् । दधिदर्शनादि- मङ्गलस्य ग्रन्थादौ निबन्धाभावेऽपि इष्टसिध्यर्थिनां पुरुषाणां तत्र कर्तव्यताबुद्धिवन् नतिस्तुत्योरपि कर्तव्यताबुद्धेर् उपनिबन्धाभावेऽपि सम्भवेन तच्छिक्षाया मुख्यतः प्रयोजनताया अयोगात् ।

किञ्च प्रचरग्रन्थेषु सहस्रशः नमस्कारोपनिबन्धनेन शिष्यशिक्षायाः संभावितत्वेऽपि उत्तरोत्तरेषां ग्रन्थकाराणां नमस्काराद्युपनिबन्धदर्शनादवगच्छामो यत् प्रणामवाचकनमःशब्दादिवत् तदनुमापकलिपेरपि विघ्नानुत्पादोद्देशेनैव करणम् । अत एव विघ्नो मा भूदिति केचिदुल्लिखन्त्यपि । कृतेऽपि मङ्गलान्तरे विघ्नहेतुबलीयस्त्वसंभावनायां मङ्गलप्राचुर्यार्थं नमस्कारकरणवत् कृतेऽपि तस्मिन् उक्तप्रयोजनाय तदुपनिबन्धरूपमङ्गलान्तरानुष्ठानोपपत्तेश्च । अन्यार्थमपि कृतस्यान्यार्थताया दर्शनात् । शिष्यशिक्षाऽपि आनुषङ्गिकी सिद्ध्यत्येव । ‘मीनातिमीनोतिदीङां ल्यपि चे’ति षष्ठाद्यसूत्रीयमहाभाष्ये अन्यार्थमपि कृतम् अन्यार्थं भवति । तद्यथा । शाल्यर्थं कुल्याः प्रणीयन्ते । ताभ्यश्च पानीयं पीयते । उपस्पृश्यते शाल्यश्च भाव्यन्ते इति अन्यार्थस्यापिप्यन्यार्थतायाः प्रतिपादितत्वात् । एतदभिप्रायेणैव शिष्यान् ग्राहयितुम् इत्यादिरूपोक्तिः । तस्मादयं मङ्गलोपनिबन्धरूपमङ्गलस्याचार एव । अत एव मङ्गलमाचरन्तीत्येव टीकाकृदवतारयामास । चन्द्रिकापि आचरतीति । वस्तुतस्तु नमामीत्यादिको मङ्गलाचार एव । शब्दात्मकवाचनिकनमस्काराचारो हि असौ । त्रिविधनमस्कारस्यापि सैद्धान्तिकतया सर्वग्रन्थेष्वपि नमःशब्दादिप्रयोगस्य वाचनिकनमस्कारताया एव न्याय्यत्वात् । एवं निखिलपूर्ण-गुणैकदेहमित्यादेः स्तुतिरूपशब्दाप्रतिपादकतया स्तुतिरूपमङ्गलोपनिबन्धत्वायोगेन एतेषां विशेषणा-नामेव उत्कर्षप्रतिपादकशब्दत्वेन स्तुतित्वं वाच्यं न लिपिरचनया नमःशब्दादिरूपनमस्कारज्ञानत्वेन । स्तुतिपदज्ञानेन च शिष्यशिक्षापि संभवत्येवेत्यन्यार्थस्यान्यार्थत्वमेवाङ्गीकृत्य शिष्यशिक्षाप्यानुषङ्गिकी सिद्ध्यत्येव । तस्मान् मङ्गलमात्रवाचकत्वाभावेऽपि वाचनिकमङ्गलाचारत्वं युक्तम् । तदभिप्राये-णैवाचरन्तीति टीकाद्युक्तिः । तत्त्वसंख्यानमिथ्यात्वखण्डनटीकयोः किमपि मङ्गलाचरणं कस्मान्नानुष्ठितम् इत्याद्युक्तिश्च । निवेशनमेव मङ्गलानुष्ठानं न भवति । कायकादीनाम् अनेकेषां मङ्गलाचरणानां सत्त्वादिति तद्ग्रन्थपर्यालोचनेति निवेशनमपि मङ्गलानुष्ठानमिति प्रतीतेश्च । अत एवोत्तरपद्यावतारावसरे मूले मङ्गलाचरणस्यावश्यकत्वात् तदाचरणपुरःसरमिति प्रतिपादयित्वापि शिष्यशिक्षायै च एतद्ग्रन्थे निवेशनमित्युक्तम् । मङ्गलवादे तु मङ्गल एव मङ्गलाचरणशब्दप्रयोगो अनेकधा करिष्यते मूलादौ । तत्त्वप्रकाशिकायामपि मङ्गलाचरणस्यावश्यकत्वादिति ।

तदेवं सङ्करेण प्रयोगानुसारेणोक्तपक्षत्रयान्यतमपक्षस्य यत्र स्वरसतोऽवगमस् तत्र तत्पक्षाश्रयणेनो-पपत्तिर्विधेया । अत एव च प्रमाणलक्षणप्रकरणटीकासु आद्यन्तयोरादिमात्रेऽन्तमात्रे वा यथाक्रमम् इष्टदेवतानतिपूर्वकमिति स्वेष्टदेवतां प्रणमतीति प्रणतिनुतिपुरःसरम् इति स्तुतिप्रणामाभ्यां प्रीणयतीति परममङ्गलं नरसिंहस्तवनरूपम् आदावाचरतीति नारायणस्तवनं तत्प्रीतिप्रार्थनारूपम् आदितो मङ्गल-माचरतीति परमेश्वरप्रणामस्तवने विधत्त इति तादृशमेव स्तुवन् प्रकरणान्तेऽपि नमस्करोतीति अन्तेऽपि मङ्गलाचरणस्यावश्यं कर्तव्यत्वान् नारायणस्तुतिप्रणामौ करोतीति देवताप्रणाममाचरतीति भगवत्प्रणा-ममाचरतीत्युक्तयः । गुरूनपि नमतीति देवतात्वेन गुरुत्वेन चान्तेऽपि नमतीति तत्त्वप्रकाशिकाया-माद्यन्तयोः पौनःपुन्येन प्रणमतीति, संबोध्य स्तौतीति चैतन्मूलान्ते, वासुदेवं नमतीति गीतातात्पर्य-टीकायां, प्रणामस्तवने कुर्वन् इति ऋग्भाष्यटीकायां चेत्येवमाचारत्वाभिप्रायेण प्रयोगाः । अन्यत्रापि च तथा प्रयोगाः सर्वेऽप्युपपन्ना इत्यलम् । यत्तु अन्यथाख्यातौ कृतमिति शेष इति प्रतिपादनादिकं तदुक्तरीत्योपनिबन्धोक्तिगतिपरिज्ञानाभावमूलमिति स्पष्टम् । शिष्यशिक्षाया आनुषङ्गिकप्रयोजनतया शिष्यान् ग्राहयितुं निबन्धरूपं मङ्गलमाचरतीत्येवार्थोपपत्त्या शेषपूरणस्यानावश्यकत्वात् । तत्त्वनिर्णय-टीकासंबन्ध्यपव्याख्यानदूषणावसरेऽधिकं चास्ति तत्तत्र ज्ञेयम् । स्थितप्रज्ञस्य का भाषेत्येत्ये-तद्गीताभाष्यटीकायां न च प्रश्नाकरणे तदुपनिबन्धनं संभवतीत्युक्तं तु नात्र साधकम् । प्रकृते निबन्धस्यैव मङ्गलाचारत्वादिति ज्ञेयम् ॥

Load More