अथ चतुर्थाध्यायः
चतुर्थाध्यायस्य प्रथमः पादः
समन्वयाविरोधाभ्यां सिद्धे वस्तुनि साधने । विचारितेष्वशेषेषु साधनेषु विशेषतः ॥1॥
नित्यशः कार्यमत्यन्तमवश्यम्भावि साधनम् । चिन्त्यते प्रथमं तत्र श्रवणादिसकृत्क्रिया ॥2॥
आवृत्तिर्वेति सन्देहे कर्तव्यावृत्तिरेव हि । उपदेशोतत्त्वमसीत्यादि ह्यसकृदेव यत् ॥3॥
लिङ्गाल्लातव्यतः पूर्वमृजोबर्रह्मत्वतः शतात् । शुश्रावोग्रतपाः नाम योग्यो रुद्रपदस्य यः ॥4॥
सार्धं परार्धं विष्णोस्तु गुणान् भक्त्या सदोद्यतः । तत्त्रिभागमुपासां च चक्रे सम्भृतमानसः ॥5॥
दशमन्वन्तरं शक्रपदयोग्यो गरुत्मतः । पदयोग्यात्सुमनसः सुनन्दो नाम चाशृणोत् ॥6॥
उपासां चक्र उद्युक्तो मन्वन्तरचतुष्टयम् । सूर्याचन्द्रमसोश्चैव पदयोग्यौ सुतेजसौ ॥7।।
सुरूपः शान्तरूपश्च मन्वन्तरचतुष्टयम् । अशृण्वतां सुमनसो मन्वन्तरमुपासताम् ।।8।।
ततः प्रोक्तास्तु ते सर्वे भक्त्योग्रतपआदयः । अपश्यन् परमं विष्णुं तत्प्रसादैधिताः सदा ।।9।।
इत्युक्तं विष्णुना साक्षात् ग्रन्थे सत्तत्त्वसञ्ज्ञिते । आत्मेति नाम कथितं साक्षान्नारायणस्य हि ।।10।।
।। आत्माधिकरणम् ।।
आत्मा ब्रह्म महांस्तारः परमेशः शुचिश्रवाः । विष्णुर्नारायणोनन्त इति श्रीपतिरीर्यते ।।11।।
इति पैङ्गिश्रुतिश्चैव तथैव परमश्रुतिः । ओमात्मा भगवान् विष्णुरात्मानन्दोक्षरः स्वराट् ।।12।।
विश्वत्राता नृसिंहोजो नारायण उरुक्रमः । अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्मषान् ।।13।।
दत्तं दुर्वाससं सोममात्मेशब्रह्मसम्भवान् । इति भागवते चैव तस्मादात्मा जनार्दनः ।।14।।
तस्मादुपास्यो विष्णुरिति ज्ञातव्यः सज्जनैः सदा । तथैवोपासते सन्तस्तथैवोपदिशन्ति च ।।15।।
आदानर्थत्वतस्छायमात्माशब्दः पतिं वदेत् । स्वामी मे विष्णुरित्येव नित्यदोपास्यमञ्जसा ।।16।।
स्वामी विष्णुरिति ध्यानं विशेषणविशेष्यतः । कर्तव्यं सर्वथैवैतन्न कथञ्चन विस्मरेत् ।।17।।
इति सत्तत्ववचनं षाड्गुण्यवचनं परम् । मम स्वामी हरिर्नित्यं सर्वस्य पतिरेव च ।।18।।
इति ध्येयः सर्वदैव भगवान् विष्णुरव्ययः ।
।। न प्रतीकाधिकरणम् ।।
प्रतीकविषयत्वेन न कार्या विष्णुभावना ।।19।।
प्रतीकं नैव विष्णुर्यन्मिथ्योपासा ह्यनर्थदा । योन्यथा सन्तमात्मेशमन्यथा प्रतिपद्यते ।।20।।
किं तेन न कृतं पापं चोरेणात्मापहारिणा । योन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते ।।21।।
किं तेन न कृतं पापं चोरेणात्मापहारिणा । योन्यथैव स्थितं विष्णुमन्यथा प्रतिपद्यते ।।22।।
किं तेन न कृतं पापं चोरेण ब्रह्महारिणा । स्वात्मानं प्रतिमां वापि देवतान्तरमेव वा ।।23।।
चेतनाचेतनं वान्यत् ध्यायेद्यः केशवस्त्विति । किं तेन न कृतं पापं चोरेणेशापहारिणा ।।24।।
योन्यद्विष्णुरिति ध्यायेज्जानीयाद्वा हरिं तथा । अन्धे तमसि मज्जेत् स यत्र नैवोत्थितिः क्वचित् ।।25।।
योन्यद्विणुरिति ध्यायेत् विष्णुरन्यदिति स्म वा । अन्यथाध्यानदोषेण सोन्धे तमसि मज्जति ।।26।।
योन्यद्विष्णुरिति ध्यायेद् विष्णुरन्यदिति स्म वा । महातमसि मग्नस्य तस्य नैवोत्थितिः क्वचित् ।।27।।
यत्किञ्चिदन्यथासंस्थमन्यथाध्यातमञ्जसा । ध्यातुर्महादोषकरं किमु सर्वेश्वरो हरिः ।।28।।
यत्किञ्चिदन्यथासंस्थमन्यथाज्ञातमञ्जसा । महादोषकरं विष्णुः किमु सर्वेश्वरेश्वरः ।।29।।
यत्किञ्चिदन्यथासंस्थमन्यथाज्ञातमञ्जसा । अनर्थकारणं लोके किमु सर्वेश्वरेश्वरः ।।30।।
न किञ्चिदन्यथा ज्ञेयं ध्येयं वा तेन कुत्रचित् । किमु सर्वोत्तमो विष्णुर्ज्ञेयो नीचतया क्वचित् ।।31।।
तस्माद्वस्तु यथारूपं ज्ञेयं ध्येयं च सर्वदा । कारणं पुरुषार्थस्य नान्यथा भवति क्वचित् ।।32।।
इति श्रुतिपुराणोक्तिबलतो न प्रतीकता । ध्येया विष्णोः क्वचिद्यस्मात् मिथ्याज्ञानमनर्थदम् ।।33।।
इत्यभिप्रेत्य न हि स इत्याह भगवान् प्रभुः । प्रतीकसंस्थितत्वेन ध्येयो विष्णुर्न चान्यथा ।।34।।
।। ब्रह्माधिकरणम् ।।
ब्रह्मेति च सदा ध्येयो भगवान् विष्णुरञ्जसा । उत्कृष्टो ब्रह्मशब्दार्थः पूर्णत्वं ब्रह्मतां यतः ।।35।।
आधिव्याधिनिमित्तेन विक्षिप्तमनसोपि तु । ध्येयैव ब्रह्मता नित्यं विष्णोर्भक्त्या निरन्तरम् ।।36।।
इति प्रकाशिकायां च वचनं विष्णुनेरितम् । नात्मेति सूत्रमीशस्य जीवत्वप्रतिपादकम् ।।37।।
आत्मशब्दं यतो हेतुं कृत्वा जीवं न्यवारयत् । स्वशब्दात् प्राणभृच्चैव नोक्त इत्येव वेदराट् ।।38।।
यद्यात्मशब्दो जीवेपि कथं स विनिवारयेत् । आत्मशब्दोदितस्तस्माद्विष्णुरेव न चापरः ।।39।।
आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् । न वदन्ति यतो नाप्ता क्वापि तैर्गुणपूर्णता ।।40।।
नारायणाध्यात्मगतमिति यद्वैष्णवं वचः । यदि जीवेशयोर्वेदपतिरैक्यं च मन्यते ।।41।।
आत्मशब्दं कथं तस्मान्निवारयति युक्तितः । भेदस्य व्यपदेशं च स्थितिं चादनमेव च ।।42।।
भेददार्ढ्ये हेतुमाह तात्पर्यं स जगत्पतिः । व्यावहारिकभेदश्चेत् क्वासावव्याहारिकः ।।43।।
व्यावहारिकमित्येव वचनं व्यावहारिकम् । उत नेति विकल्पे तु यदि स्याद् व्यावहारिकम् ।।44।।
तस्यापि बाध्यता चेत् स्यात् भेदः स्यात् पारमार्थिकः । अव्यवहारिकत्वं चेद्भेदोयं सत्यतां गतः ।।45।।
एकस्यासत्यतायां हि द्वयोरेव विरुद्धयोः । अन्यस्य सत्यतैव स्यादिति केन निवार्यते ।।46।।
असत्यं नोक्तमित्युक्तं सत्यमुक्तमिति प्रजाः । जानन्त्युक्तं तु नो सत्यमित्युक्तेसत्यतामपि ।।47।।
न स्वप्नेपि द्वयं मिथ्या तत्रैकं सत्यमेव हि । भावाभावावुभौ तत्र कथं मिथ्या भविष्यतः ।।48।।
भावस्य हि निषेधे तु नाभावस्य निषेधनम् । स्ववाचोसत्यता चेत् स्यात् तस्माद्भेदस्य सत्यता ।।49।।
तस्माज्जीवेशयोर्भेद उक्तन्यायेन गम्यते । एतस्मादात्मशब्दोयं परमात्माभिधा भवेत् ।।50।।
प्रतीकविषयत्वेन विष्णुदृष्टिर्न तद्भवेत् । प्रतीके विष्णुरित्यैव तस्मात् कार्या ह्युपासना ।।51।।
न च विष्णुः प्रतीकं यत् तस्मात् नात्मेत्युपासना । इति पक्षो यदा ब्रह्मदृष्टिश्चात्र विरुध्यते ।।52।।
स नेति युक्तिस्तत्रापि समेत्युक्तविरुद्धता । यद्यप्युत्कर्षमात्रेण ह्यतद्भावेप्युपासना ।।53।।
उत्कर्ष आत्मनोपि स्याच्चेतनत्वादचेतनात् । तस्मादतत्त्वं नोपास्यमिति वेदविदो मतम् ।।54।।
उत्कर्षाद्ब्रह्मताध्याने यदि स्यात् फलमञ्जसा । ब्रह्मणो नीचताध्यानादनर्थः किं न जायते ।।55।।
अचेतनस्य ब्रह्मत्वध्याने तुष्टिर्न हि क्वचित् । नीचस्य स्वात्मताध्यानात् कुप्यति ब्रह्म लोकवत् ।।56।।
चण्डालो नृप इत्युक्ते नृपश्चण्डाल इत्यपि । को विशेषः परिज्ञाते नृपेण स्यात् कथञ्चन ।।57।।
पुरतो नरदेवस्य चाण्डालो यदि पूज्यते । राजवत् किं न कोपः स्याद्राज्ञो लोकेभिपश्यति ।।58।।
राज्ञस्तु पुरतः प्रोक्ते चण्डाले नृप इत्यपि । आत्मानं स इति प्रोक्तमितिवद्ध्येव कुप्यति ।।59।।
अभेदेनैतयोर्ध्याने को विशेषो वचस्यपि । अयं राजा त्वमित्युक्ते चण्डालेथ नृपेपि च ।।60।।
चण्डाल इति तु प्रोक्ते सममेव हि दूषणम् । ध्यातेप्येकस्य तद्भावे तद्भावोन्यस्य किं न तत् ।।61।।
न चैव तदविज्ञातं सर्वज्ञब्रह्मणा क्वचित् । तस्मादपेशलं सर्वमन्यस्य ब्रह्मतावचः ।।62।।
तस्माद्यथोक्तमार्गेण ब्रह्मोपास्यं मुमुक्षुभिः ।
।। तदधिगमाधिकरणम् ।।
तथोपास्यञ्जसा दृष्टं ब्रह्म पापं च भस्मसात् ।।63।।
करोति निखिलं पूर्वं पाश्चात्यस्याप्यसङ्गताम् । करोति तद्द्विषश्चैवं पुण्यनाशोप्यसङ्गता ।।64।।
यदेव विद्ययेत्यत्र पूर्वोक्ताद्धि विशिष्यते । पूर्वं स्वर्गादलिब्ध्यर्थं वीयवत्वेन चोदितम् ।।65।।
कर्म विद्यायुतं पश्चान्मोक्षे वीर्यप्रदं त्विति । ततो भोगेन पुण्यं च क्षपयित्वेतरत् तथा ।।66।।
ब्रह्मद्विट् ब्रह्मदर्शी च तमोमोक्षाववाप्नुतः । ब्रह्मणां शतकालात् तु पूर्वमारब्धसङ्क्षयः ।।67।।
ब्रह्मणस्त्वेव तावत्वं पञ्चाशद्ब्रह्मणस्तथा । रुद्रस्य विंशदेव स्यादिन्द्रस्यार्कादिके दश ।।68।।
अन्येषां ब्रह्ममात्रस्य त्वन्त आरब्धसङ्क्षयः । ब्रह्मणैव सहातश्च परं नारायणं व्रजेत् ।।69।।
इति सत्तत्ववचनं स्वयं भगवतेरितम् ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य प्रथमः पादः ।।