तृतीयाध्यायस्य प्रथमः पादः
स्वाभाविकान्यथानामसहभावान्ययोक्तयः । अविशेषविशेषौ च सहभाIो विमिश्रता ॥1॥
विरुद्धोक्तिः सहस्थानं वैयर्थ्यं चान्यथागतिः । युक्तयः पूर्वपक्षस्य गुणाधिक्यर्थतो भवौ ॥2॥
उपपत्तिद्विरूपत्वमाधिक्यमनुरूपता । योग्यता बलवत्त्वं च विभागः कारणाभवः ।
क्लृप्तिरन्या गतिश्चैव सिद्धान्तस्यैव साधकाः ॥3॥
बीजपूरुषयोनीनां सङ्गातिनियमोज्झितिम् । अथशब्देन भगवानाह कारणतश्च ताम् ॥4॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य प्रथमः पादः ॥