०३

द्वितीयाध्यायस्य तृतीयः पादः
अथाशेषसमाम्याविरोधापाकृतिं प्रभुः । करिष्यन् अधिदैवाधिभूतजीवपरात्मनाम् ॥1॥
स्वरूपनिर्णयायैव वचनानां परस्परम् । पादेनानेनाविरोधं दर्शयत्यमितद्युतिः ॥2॥
अनुभूतियुक्तिबहुवाग्वैलोम्यं च ततोधिकम् । एतत्सर्वं सतः साम्यं द्वारवैयर्थ्यमेव च ॥3॥
दृष्टयुक्त्यनुसारित्वमुक्तान्यार्थाविरोधतः । प्रसिद्धनामस्वीकारे बहुवाक्यानुवर्तिता ॥4॥
लोकदृष्टानुसारित्वं जीवसाम्यमनादिता । तत्र तत्र परिज्ञानं गुणसाम्यश्रुती तथा ॥5॥
उत्पत्तिमत्वं स्वगुणाननुभूत्यल्पकल्पने । नानाश्रुतिश्च वैचित्र्यं युक्तयः पूर्वपक्षगाः ॥6॥
व्यवस्थानुपपत्तिश्च स्वातन्त्र्यमनुसारिता । मुख्यता शक्तिमत्त्वं च वैरूप्यं सर्वसङ्ग्रहः ॥7॥
गत्यादिरीशशक्तिश्च सर्वमानविरोधिता । अभीष्टासिद्धिसुव्यक्ती शास्त्रसिद्धिर्विपर्ययः ॥8॥
विशेषकारणं चेति सिद्धान्तस्यैव साधिकाः ।
।। वियदधिकरणम् ।।
प्रकृतिः पुरुषः कालो वेदास्तदभिमानिनः ।।9।।
महादाद्याश्च जायन्ते पराधीनविशेषिता । इदं सर्वं ससर्जेति जनिमत्त्वमिहोदितम् ।।10।।
अवकाशमात्रमाकाशः कथमुत्पद्यतेन्यथा । यद्यनाकाशता पूर्वं किं मूर्तनिबिडं जगत् ।।11।।
मूर्तसम्पूर्णता चैव यद्यनाकाशता भवेत् । मूर्तद्रव्याणि चाकाशे स्थितान्येव हि सर्वदा ।।12।।
अत आकाशशब्दोक्तस्तद्देवोत्र विनायकः । देहोत्पत्त्या समुत्पन्न इति श्रुत्याभिधीयते ।।13।।
भूतमप्यसितं दिव्यदृष्टिगोचरमेव तु । उत्पद्यतेव्याकृतं हि गगनं साक्षिगोचरम् ।।14।।
प्रदेश इति विज्ञेयं नित्यं नोत्पद्यते हि तत् । तथापि मूर्तसम्बन्धपरतन्त्रविशेषयुक् ।।15।।
खमेवोत्पत्तिमन्नाम श्रुतिशब्दविवक्षितम् । प्रकृतिः पुरुषः काल इत्येते च समस्तशः ।।16।।
ईशाधीनविशेषेण जन्या इत्येव कीर्तिताः ।कालप्रवाह एवैको नित्यो न तु विशेषवान् ।।17।।
पुरुषाव्यक्तकालानां रमैवैकाभिमानिनी । सिसृक्षुत्वविशेषं तत्साक्षाद्भगवदिच्छया ।।18।।
प्राप्तैव सृष्टेत्युदिता प्रधानं विकृतेरपि । पुमांसो देहसम्बन्धात् सृष्टिमन्त इतीरिताः ।।19।।
।। मातरिश्वाधिकरणम् ।।
एवं प्रलयकालेपि प्रतिभातपरावरः ।मुख्यवायुर्नित्यसमः शरीरोत्पत्तिकारणात् ।।20।।
पराधीनविशेषेण जनिमानेव शब्दितः । नैव किञ्चित् ततो जन्मवर्जितं परमादृते ।।21।।
पराधीनविशेषत्वे जन्मनः स्थूलताभवः । पूर्वशब्दवलिोपश्च यदि जन्मेति कीर्त्यते ।।22।।
रमाया नैव जन्मास्ति चैतन्यस्यापि केवलम् । प्रधानस्य च वेदस्यापीश्वरेच्छया ।।23।।
व्यक्तिर्नाम विशेषोस्ति तस्मात् तद्वशतैव हि । उत्पत्तिरत्र कथिता ……. ।।
।। असम्भवाधिकरणम् ।।
…… स्वतन्त्रत्वात् परात्मनः ।।24।।
नैवोत्पत्तिः कथमपि न स्वतन्त्रं ततोपरम् ।
।। व्यतिरेकाधिकरणम् ।।
अच्छेद्यस्यापि जीवस्य विभागं बहुधा हरिः ।।25।।
कृत्वा भोगान् प्रदायैव चैक्यमापादयेत् पुनः । अत ईशवशं सर्वं चेतनाचेतनं जगत् ।।26।।
अविभागं विभागाय यदा नयति केशवः । किमशक्यं परेशस्य तदेति ह्यभिधीयते ।।27।।
।। पृथगधिकरणम् ।।
एवं स्थितेपि जीवैक्यं केचिदाहुः परात्मना । तद्योहमिति पूर्वाभिः श्रुतिभिश्चानुमाबलात् ।।28।।
न तद्युक्तं यतो विष्णुः पृथगेवाभिधीयते । प्रज्ञानेत्रो लोक इति मुक्तो भेदोभिधीयते ।।29।।
एतमानन्दमित्यन्या परं साम्यमित्यपि । इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।।30।।
सर्गेपि नोपजायन्ते प्रलये न व्यथन्ति च । उपसम्पद्यते ज्योतिः स्वरूपेणाभिपद्यते ।।31।।
तत्र पर्येति जक्षंश्च क्रीडन्नपि सदा सुखी । आचक्ष्व मे परं मोक्षं धीरा यं प्रवदन्ति तम् ।।32।।
इत्युक्त आह वाग्देवी परं मोक्षं प्रजापतेः । शाखां शाखां महानद्यः संयान्ति परितः स्रवाः ।।33।।
धानापूपाः मांसकामाः सदा पायसकर्दमाः । यस्मिन्नग्निमुखाः देवाः सेन्द्राः सहमरुद्गणाः ।।34।।
ईजिरे क्रतुभिः श्रेष्ठैस्तदक्षरमुपासते । प्रविशन्ति परं देवं मुक्तास्तत्रैव भोगिनः ।।35।।
निर्गच्छन्ति यथाकामं परेशेनैव चोदिताः । भेददृष्ट्याभिमानेन निःसङ्गेनापि कर्मणा ।।36।।
कर्तृत्वात् सगुणं ब्रह्म पुरुषं पुरुषर्षभम् । स सङ्गत्य पुनःकाले कालेनेश्वरमूर्तिना ।।37।।
जाते गुणव्यतिकरे यथापूर्वं प्रजायते । ऋचां त्वः पोषमास्ते च परेण प्रेरिताः सदा ।।38।।
यत्कामस्तत्सृजत्यद्धैवात्मना तत्सृजत्यपि । सहैव ब्रह्मणा कामान् भुङ्क्ते निस्तीर्णतद्गुणः ।।39।।
दुःखादींश्च परित्यज्य जगद्य्वापारवर्जितः । भुङ्क्ते भोगान् सहैवोच्चानित्याद्यागममानतः ।।40।।
मुक्तस्य भेदावगतेः कथमेव ह्यभिन्नता । जीवेशयोर्नानुमा च तदभेदं प्रमापयेत् ।।41।।
मिथ्यैव भेदो विमतो भेदत्वाच्चन्द्रभेदवत् । इति चेत् साध्यधर्मोयं सन्न सन् वा न वोभयम् ।।42।।
यदि सन्नपसिद्धान्तः स एवासन्नितीरिते । नोभयं चेन्न सिद्धं तदिति मानस्य दूषणम् ।।43।।
न च मानान्तरेणैतच्छक्यं साधयितुं क्वचित् । अनुमानेन चेत् सैव ह्यनवस्था भविष्यति ।।44।।
न चागमस्तदर्थोस्ति नासदासीन्न तद्भवेत् । परिशेषादनिर्वाच्यं यदि सिद्ध्येत् परात्मनः ।।45।।
अनिर्वाच्यत्वमेव स्यात् परिशिष्टो ह्यसौ सदा । न चान्य आगमस्तत्र सदसत्प्रतियोगिनि ।।46।।
न च प्रत्यक्षमत्रास्ति न चार्थापत्तिरिष्यते । बाधायोगात् सत इति बाधाभावत एव हि ।।47।।
इष्टापत्तिर्न हि भ्रान्तावपि बाधोवगम्यते । विषयस्य कुतो बाधो विद्यमानं हि बाध्यते ।।48।।
न हि वन्ध्यासुतो वध्यो यज्ञदत्तो हि वध्यते । बाधायोगात् सत इति व्याप्तिरेषा क्व दृश्यते ।।49।।
कश्चायं बाध उद्दिष्टो न हि नाशोसतो भवेत् । निवृत्तिश्चाप्रवृत्तस्य कथमेवोपपद्यते ।।50।।
नासीदस्ति भविष्यच्च तदिति ज्ञानमेयता । यदि बाधस्तदा सत्त्वं तेनैवाङ्गीकृतं पुनः ।।51।।
प्रतीतिर्नासत इति वदन्नङ्गीकरोति ताम् । निषेधो ह्यप्रतीतस्य कथञ्चिन्नोपपद्यते ।।52।।
न चोपमा भवेदत्र प्रत्यक्षात् सत्त्वमेव च । शास्त्रगम्यपरेशानाद्भेदः स्वात्मन ईयते ।।53।।
अनुभूतिविरोधेन कथमेकत्वमुच्यते । किञ्चित् कर्ता च दुःखीति सर्वैरेवानुभूयते ।।54।।
सर्वज्ञो भगवान् विष्णुः सर्वशक्तिरिति श्रुतः । अनुभूताद्धि भेदेन श्रुतिरेषा वदत्यमुम् ।।55।।
उपजीव्यविरुद्धं तु कथमैक्यं श्रुतिर्वदेत् । अप्रामाण्यं यदा भेदवाचकस्य भविष्यति ।।56।।
स एव धर्मिणी ग्राही तदभेदः कथं भवेत् । यत् स्वरूपग्रहे मानं तद्धर्मे न कथं भवेत् ।।57।।
एकविज्ञानविज्ञप्त्या द्वयं मानं भविष्यति । न चेदेकं प्रमाणं तद्द्वयमप्यत्र नो भवेत् ।।58।।
धर्मिग्राहिविरोधस्तु तस्मान्मानस्य दूषणम् । नोपजीव्यो ह्यभेदोत्र क्वचिद्भेदश्रुतेर्बलात् ।।59।।
न च मानान्तरोपेयं ब्रह्म तद्भवति क्वचित् । येन मानेन चोपेयं भेदस्तेनावगम्यते ।।60।।
सर्वज्ञानुमयैवेशो यद्युपेयः कथञ्चन । सर्वज्ञत्वगुणेनैव तया भेदोवगम्यते ।।61।।
न दुःखानुभवः क्वापि मिथ्यानुभवतां व्रजेत् । न हि बाधः क्वचिद् दृष्टो दुःखाद्यनुभवस्य तु ।।62।।
यदि दुःखानुभूतिश्च भ्रान्तिरित्यवसीयते । अदुःखिताश्रुतिः केन न भ्रान्तिरिति गम्यते ।।63।।
श्रुतिस्वरूपमर्थश्च मानेनैवावसीयते । तच्चेन्मानं गृहीतं ते किं दुःखानुभवे भ्रमः ।।64।।
न च बाधविशेषोस्ति यदबाधितमेव तत् । बाधो यद्यनुभूतेर्थे कथं निर्णय ईयते ।।65।।
कोपि ह्यर्थो न निश्चेतुं शक्यते भ्रमवादिना । भ्रमत्वमभ्रमत्वं च यदैवानुभवोपगम् ।।66।।
एकस्य भ्रमता तत्र परस्याभ्रमता कुतः । भ्रमत्वमभ्रमत्वं च सर्वं वेद्यं हि साक्षिणा ।।67।।
स चेत् साक्षी क्वचिद्दुष्टः कथं निर्णय ईयते । विशेषाः सर्व एवैते साक्षिप्रत्यक्षगोचराः ।।68।।
ऊरीकृत्य च तान् सर्वान् व्यवहारः प्रवर्तते । साक्षिणो व्यवसायी तु व्यवहारोभिधीयते ।।69।।
तस्मात् सर्वप्रसिद्धस्य व्यवहारस्य सिद्धये । साक्षी निर्दोष एवैकः सदाङ्गीकार्य एव सः ।।70।।
शुद्धः साक्षी यदा सिद्धो दुःखित्वं वार्यते कथम् । उपजीव्यप्रमाणं तद्भेदग्राहकमेव हि ।।71।।
अतो जीवेशयोर्भेदः श्रुतिसामर्थ्यसुस्थिरः । तथापि तु चिदानन्दपूर्वास्तत्सदृशा गुणाः ।।72।।
सारस्वरूपमस्यापि मुक्तावप्यवशिष्यते । अतोभेदवदेवैताः श्रुतयः प्रवदन्ति हि ।।73।।
पौराणि च वाक्यानि सादृश्याभेदसंश्रयात् । सादृश्याच्च प्रधानत्वात् स्वातन्त्र्यादपि चाभिदाम् ।।74।।
आहुरीशेन जीवस्य न स्वरूपाभिदां क्वचित् । स्थानैक्यमैकमत्यं च मुक्तस्य तु विशिष्यते ।।75।।
सादृश्यं च विशेषेण जडानां द्वयमेव तु । भवेत् सादृश्यमत्यल्पं तृतीयं परमात्मना ।।76।।
ईशरूपक्रियाणां च गुणानामपि सर्वशः । तथैवावयवानां तत्स्वरूपैक्यं तु मुख्यतः ।।77।।
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति । एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति ।।78।।
इति श्रुतेः नोभयं च भेदाभेदाख्यमिष्यते । एकमेवाद्वितीयं तन्नेह नानास्ति किञ्चन ।।79।।
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति । इति श्रुताविवेत्यस्माद्भेदाभेदनिराकृतिः ।।80।।
इवोभये च सादृश्य इति वाक् शब्दनिर्णये ।
।। अंशाधिकरणम् ।।
भेदस्य मुक्तौ वचनादापि तत्पक्षनिग्रहः ।।81।।
चेतनत्वादि सादृश्यं यद्यभेद इतीष्यते । अङ्गीकृतं तदस्माभिर्न स्वरूपैकता क्वचित् ।।82।।
न केनचिदभेदोस्ति भेदाभेदोपि वा क्वचित् । समुदायमृते विष्णोः स्वगुणादीन् विनापि वा ।।83।।
इति श्रुतेर्न तस्यास्ति भेदाभेदोपि केनचित् । अभेदश्रुतयोंशत्वात् सादृश्यं चांशतास्य तु ।।84।।
अंशस्तु द्विविधो ज्ञेयः स्वरूपांशोन्य एव च । विभिन्नांशोल्पशक्तिः स्यात् किञ्चित् सादृश्यमात्रयुक् ।।85।।
अंशिनो यत्तु सामर्थ्यं यत्स्वरूपं यथा स्थितिः । स एव चेत् स्वरूपांशः प्रादुर्भावा हरेर्यथा ।।86।।
सूर्यमण्डलमान्येकस्तत्प्रकाशाभिमानवान् । सूर्योथ सप्तमाब्धेश्च बाह्योदस्य च वारिपः ।।87।।
कठिनत्वेन मेर्वादेः पृथिव्या अपि देवता । धरादेव्येवमेवैको भगवान् विष्णुरव्ययः ।।88।।
नानावताररूपेण स्थितः पूर्णगुणः सदा । विण्मूत्राद्यभिमानिन्यो यथापभ्रष्टदेवताः ।।89।।
सूर्यादिभ्यस्तथैवायं संसारी परमात् पृथक् । देहदोषैश्च दृष्टत्वादपभ्रष्टाख्यदेवताः ।।90।।
अन्याः सूर्यादिदेवेभ्यो ह्यनुग्राह्याश्च तैः सदा । एवमेवं पराद्विष्णोः पृथक् संसारिणो मताः ।।91।।
अनुग्राह्याश्च तेनैव तत्प्रसादाच्च मोक्षिणः । न तु मत्स्यादिरूपाणामनुग्राह्यत्वमिष्यते ।।92।।
गुणैरशेषैः पूर्णत्वान्मुख्याभेदो परैर्न च । अंशाभासाश्च सर्वेपि परस्यांशा न मुख्यतः ।।93।।
यथैषा पुरुषे छाया एतस्मिन्नेतदाततम् । न तु पुम्पादवत् पादा जीवा एते परात्मनः ।।94।।
पूर्णास्तस्य गुणा एव प्रादुर्भावतया स्थिताः । एवं जगाद परमा श्रुतिर्नारायणं परम् ।।95।।
अक्षयो भगवान् विष्णुर्लक्ष्म्यावासो लये स्थितः । मुक्तैः सदा चिन्त्यमानो ब्रह्माद्यैस्तारतम्यगैः ।।96।।
प्रकृतिः पुरुषः कालो वेदाश्चेति चतुष्टयम् । नित्यं स्वरूपतो विष्णोर्विशेषावाप्तिमात्रतः ।।97।।
उत्पत्तिमदिति प्रोक्तं लक्ष्मीस्तदभिमानिनी । ततो जातः पुमान्नाम ब्रह्मास्यां वासुदेवतः ।।98।।
सूत्रात्मा प्राणनामा च देव्यौ प्रकृतिमानिनी । ततो रूपं महन्नाम ब्रह्मणोहङ्कृतिः शिवः ।।99।।
ब्रह्मणो बुद्धिनाम्नोमा तत इन्द्रो मनोभिधः । स्कन्दश्च तत एवान्ये सर्वे देवाः प्रजज्ञिरे ।।100।।
तत्र पूर्वतनः श्रेयान् गुणैः सर्वैः समस्तशः । तेभ्यश्च भगवान् विष्णुस्तदधीना इमे सदा ।।101।।
जन्मस्थितलियाज्ञाननियतिज्ञानसंसृतिः । मोक्षश्च तदधीनत्वमेतेषां नैव हीयते ।।102।।
मुक्तावपि स एवैकः स्वतन्त्रः पूर्णसद्गुणः । इति श्रुत्युपपत्तिभ्यां पादेस्मिन् प्रभुणोदितम् ।।103।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य तृतीयः पादः ।।