०१

॥ अथ द्वितीयोध्यायः ॥
द्वितीयाध्यायस्य प्रथमः पादः
उक्तः समन्वयः साक्षादविरोधोत्र साध्यते । चतुर्विधस्य तस्यादौ यौक्तः तत्रापि च स्मृतेः ॥1॥
तस्याश्चतुःस्वरूपत्वात् प्रत्येकं चतुरात्मकाः । पादाः सर्वे तदंशाश्च मूर्तीनां वर्णमागमात् ॥2॥
आप्तता समतादृष्टिश्रुतिसाम्यबलोद्भवाः । सर्वानुसारो लघुता विशेषादर्शनाफले ॥3॥
इष्टासिद्धिश्च नियमः पूर्वपक्षेषु युक्तयः । एता एव त्वतिबलाः सिद्धान्तस्य नियामकाः ॥4॥
॥ स्मृत्यधिकरणम् ॥
आप्तैः प्रत्यक्षतो दृष्ट्वा प्रोक्तमर्थं कथं श्रुतिः । पिपीलिकालिपिनिभा वारयेत् सर्वगा हि ते ॥5॥
इति चेद् यद्यशेषज्ञा रुद्राद्या हरिपूर्वकाः । किं नाशेषविदो मानं ह्युभयत्र समं भवेत् ॥6॥
न चाप्तिनिश्चयस्तत्र शक्यते व्यभिचारतः । न चास्या व्यभिचारेपि हीयते मानता क्वचित् ॥7॥
निर्दोषवाक्यमूलत्वान्न च तद्युक्तिमूलता । वेदोक्तस्याधिकारस्य दुर्निरूपत्वतः सदा ॥8॥
नियमो व्यभिचारो वा नैव ज्ञातुं हि शक्यते । अधिकारो हि सुलभः कथितोन्यागमेष्वलम् ॥9॥
वेदोक्तो ह्यधिकारस्तु दुर्लभः सर्वमानुषैः । अन्यागमेषु विप्रत्वमपि चण्डालजन्मनाम् ।।10।।
मण्डलान्तःप्रवेशेन क्रमशः प्रतिपाद्यते । अधिकारं दुरापाद्यमुक्त्वातिसुलभं पुनः ।।11।।
अशक्यं साधनं चोक्त्वा सुशकं तत्फलाप्तये । उच्यतेतस्तदुक्तं हि व्यभिचारे फलेपि तु ।।12।।
कथं प्रमाणतां गच्छेत् …… ।
।। न वलिक्षणत्वाधिकरणम् ।।
…….. नित्यत्वात् पुरुषोद्भवैः । उज्झितं सर्वदोषैश्च कथं नो मानतां व्रजेत् ।।13।।
विरूप नित्यया वाचा नित्ययानित्यया सदा । इत्यादिश्रुतिभिर्वेदो नित्य इत्यवगम्यते ।।14।।
पिपीलिकालिपिश्चापि प्रमाणमविरोधतः । यथा द्रौणेरुलूकेन कृतमप्यास बोधकम् ।।15।।
अविरुद्धं विरुद्धं तु विरोधादेव बाधितम् । विरोधादर्शनात् तस्माद्वेदप्रामाण्यमिष्यते ।।16।।
तन्मूलत्वात् स्मृतीनां च विरोधो यत्र न क्वचित् । विरोधोपि स एवोक्तः प्रत्यक्षेणागमेन वा ।।17।।
आगमेनागमस्यैव विरोधे युक्तिरिष्यते । उपजीव्यविरोधे तु वेदस्यान्यार्थकल्पना ।।18।।
प्रत्यक्षमुपजीव्यं स्यात् प्रायो युक्तिरपि क्वचित् । आगमैकप्रमाणेषु तस्यैव ह्युपजीव्यता ।।19।।
युक्तोयुक्तश्च यद्यर्थ आगमस्य प्रतीयते । स्यात् तत्र युक्त एवार्थः युक्तिश्च त्रिविधा मता ।।20।।
व्याप्तिः प्रत्यक्षगा यस्या युक्तिगागमगा तथा । प्रत्यक्षागममूला तु युक्तिस्तत्र बलीयसी ।।21।।
याथार्थ्यमेव मानत्वं तन्मुख्यं ज्ञानशब्दयोः । अर्थत्वमर्यतैव स्यान्न क्रियार्थेषु सा मता ।।22।।
ज्ञानार्थे ज्ञेयता मुख्या शब्दार्थे तदनन्तरम् । यथार्थज्ञानजनका यथार्था युक्तयः स्मृताः ।।23।।
अनुप्रमाणमेतानि ह्यक्षयुक्तिवचांस्यतः । प्रामाण्यं नानुवादस्य स्मृतेरपि विहीयते ।।24।।
याथार्थ्यमेव प्रामाण्यशब्दार्थो यद्विवक्षितः । अङ्गीकृतं चेत् प्रामाण्यं स्मृत्यादेः का विरुद्धता ।।25।।
न चाफलत्वं वक्तव्यं सर्वस्मृत्यनुवादयोः । फलवत्वं न चास्माभिः प्रामाण्यं हि विवक्षितम् ।।26।।
तृणादिदर्शने किं च फलवत्वं निगद्यते । सुखदुःखादिकं किञ्चित् स्मृतावपि हि दृश्यते ।।27।।
न परिच्छेदकार्येव प्रमाणमिति च प्रमा । निर्दोषाक्षोद्भवं ह्यत्र प्रत्यक्षमिति गीयते ।।28।।
प्राकृतं शुद्धचैतन्यमक्षं तु द्विविधं मतम् । शुद्धमीशरमामुक्तेष्वन्यत्र प्राकृतैर्युतम् ।।29।।
निर्दोषमेव चैतन्यमन्यत्रोभयमिष्यते । सुखदुःखादिविषयं शुद्धं संसारगेष्वपि ।।30।।
निर्दोषत्वातिनियमात् तद्बलिष्ठतमं मतम् । पञ्चेन्द्रियमनोभेदात् प्राकृतं षड्विधं स्मृतम् ।।31।।
अनुमा युक्तिरेवोक्ता व्याप्तिरेव तु सा स्मृता । प्रतिज्ञातार्थसिद्ध्यर्थं व्याप्तिरेव यदोदिता ।।32।।
अवशिष्टं किमत्रास्ति लिङ्गं तत्र विजानतः । यदि लिङ्गमसिद्धं स्यात् कुत एवास्य मानता ।।33।।
यदि स्मारकमात्रं स्यात् स्मर्तुर्नात्र प्रयोजनम् । न पञ्चावयवोक्तौ च विवादावसितिर्भवेत् ।।34।।
दृष्टान्तादिषु चैवं स्यात् साधनं पुनरेव तु । लिङ्गोक्तावपि चैवं स्यादनुमावसितिधर्‌रुवा ।।35।।
विरोधोसङ्गतिश्चैव साक्षाद्युक्तेस्तु दूषणम् । प्रतिज्ञायामसम्बन्धो युक्तेरुक्ता ह्यसङ्गतिः ।।36।।
विरोधोपि त्रिधैव स्यात् प्रतिज्ञार्थविरुद्धता । लिङ्गराहित्यमव्याप्तिर्न्यूनाधिक्ये तु वाचिके ।।37।।
साध्यव्यापकवैलोम्यमव्याप्तिः साधनस्य च । दुर्बलेन विरोधेपि न प्रमाणामसाधकम् ।।38।।
स्ववाक्येन विरोधेपि नैव साधकतां व्रजेत् । संवादनुक्तिसंयुक्ता एत एव तु निग्रहाः ।।39।।
वादो जल्पो वितण्डेति कथास्तिस्रो विजानताम् । स्वार्थं परार्थमपि वा तत्त्वनिर्णयसाधिनी ।।40।।
केवलं तु कथा वादो जल्पोर्थादिव्यपेक्षया । सतामेव कथा ज्ञेया वितण्डा त्वसतां सताम् ।।41।।
अप्रकाश्य स्वसिद्धान्तमसतां पक्षदूषणम् । उक्ते तैः प्रथमं माने वक्तव्ये तस्य दूषणम् ।।42।।
विद्यापरीक्षापूर्वैव वितण्डा जल्प एव च । उच्चनीचत्वनिर्णीतिर्यतो जयपराजयौ ।।43।।
विनैव तत्वनिर्णीतिं न हि जल्पादिना क्वचित् । उच्चनीचत्वविज्ञानमिति विद्यापरीक्षणम् ।।44।।
वादेन चोच्चनीचत्वविज्ञानं भवति स्फुटम् । इति वादस्य पूर्वत्वं तत्सिद्धौ व्यर्थतान्ययोः ।।45।।
बहुविद्यत्वसिद्धौ तु नैव वादोपि कारणम् । सभासभापतिप्राश्नीकपूर्वस्तु स्पर्धिनामपि ।।46।।
वाद एवोभयार्थः स्यान्निर्णीतिजयकारकः । तत्वाप्रकाश एवैको वितण्डाजल्पयोः फलम् ।।47।।
विना वादेन विद्याया यदि शक्यं परीक्षणम् । स्याज्जल्पादिरपि क्वापि वाद एवान्यथा भवेत् ।।48।।
जल्प इत्यपि नाम स्याद्वादस्यैतादृशस्य तु । प्रतिज्ञामात्रसाध्यत्वमपि स्याद्याज्ञवल्क्यवत् ।।49।।
संवादे वादिनोः क्वापि विवादे हेतुरिष्यते । सभा सभापतिश्चैव प्राश्निकाश्चैव वैष्णवाः ।।50।।
रागद्वेषविहीनाश्च स्युः सभ्याः सर्ववेदिनः । प्राश्निकाश्चैतदज्ञाने सभ्याश्चैषां च दूरगाः ।।51।।
प्रमाणं निर्णयाय स्युः पक्षपातविवर्जिताः । उभाभ्यां साधनं चैव दूषणं वादजल्पयोः ।।52।।
सद्भिरागम एवैकः प्रयोज्योभीष्टसाधकः । स्वसिद्धान्तानुसारेण ह्यसद्भिरनुमोच्यते ।।53।।
प्रत्यक्षागमवैरूप्यमाश्रित्यान्यार्थतैव तु । आगमे दर्शनीयात्र दोषो लिङ्गवलिोमता ।।54।।
लिङ्गानुकूल्यं स्वार्थस्य श्रुत्यादीनमनुग्रहः । त्रिपञ्चवयवामेव युग्मावयविनीमपि ।।55।।
नियमाद्योनुमां ब्रूयात् तं ब्रूयाद्यदि तादृशी । नानुमेति तदा केन साध्यावयवकल्पना ।।56।।
नियतावयवासिद्धौ व्याप्तिमात्रेण साधनम् । कर्तव्यमेव तेन स्यात् तस्मात् सैवानुमा मता ।।57।।
अनुभूतिः प्रमाणं चेत् केन स्मृतिरपोद्यते । पूर्वानुभूते किं मानमित्युक्ते स्यात् किमुत्तरम् ।।58।।
मानसं तद्धि विज्ञानं तच्च साक्षिप्रमाणकम् । अतीतानागतं यद्वद्योगिभिर्दृश्यतेञ्जसा ।।59।।
एवं पूर्वानुभूतं च मनसैवावगम्यते । विज्ञातं मनसा पूर्वं मयैतत्कृतमित्यपि ।।60।।
साक्षादनुभवात् सिद्धं कथमेव ह्यपोद्यते । एवंलक्षणके मानत्रये ब्रह्मादिवस्तुषु ।।61।।
प्रमाणं वेद एवैकस्तत्प्रामाण्यं च साधितम् ।
।। अभिमान्यधिकरणम् ।।
तथापि मृज्जलादीनां बुद्धिवागादिवाचकः ।।62।।
दृष्टव्याप्तिविरुद्धत्वात् तत्र मानं कथं भवेत् । ततस्तन्नामकः कश्चित् पुमानन्यो भवेदिति ।।63।।
युक्त्यागमविरोधेन प्राप्तमत्राभिधीयते । बालरूढिं विनैवापि विद्वद्रूढिसमाश्रयात् ।।64।।
तत्तन्नामान एवैते तत्तद्वस्त्वभिमानिनः । सन्ति तेषां विशेषेण शक्तिरन्येभ्य उच्यते ।।65।।
व्याप्तिश्चोक्तानुसारेण दृश्यते चाधिकारिभिः । शास्त्रोक्तवस्तुनश्चैव व्युत्पत्तिः शास्त्रलिङ्गतः ।।66।।
व्युत्पत्तिः सा बलवती मूर्खव्युत्पत्तितो हि यत् । दृढयुक्तिविरोधे तु सर्वत्र न्याय ईदृशः ।।67।।
।। असदधिकरणम् ।।
अल्पवाक्ययुता युक्तिर्बहुलैव विरोधिनी । यत्र तत्र कथं वस्तुनिर्णयः स्यादितीरिते ।।68।।
विरोधियुक्तिबाहुल्यादिति न्यायो विनिश्चितः । युक्तेस्तु युक्तिबाहुल्यमागमादागमस्य च ।।69।।
कथं न निर्णयं कुर्यादिति असत्कारणं न हि । श्रुत्यर्थो भवति क्वापि श्रुतिप्रायोपपत्तिभिः ।।70।।
अविरोधश्चतुर्थे तु पादे सम्यक् समर्थ्यते । असत्कार्यं यथा दृष्टं वस्तुत्वात् कारणं तथा ।।71।।
इति चेन्न निषेधैकस्वरूपस्य न कर्तृता । बुद्धिपूर्वप्रवृत्तिर्हि कर्तृत्वमिति निश्चितम् ।।72।।
प्रतिषेधात्मकत्वं तु भावस्याभावधर्मतः । धर्मधर्म्यैक्यतश्चैव न तु तन्मात्रता भवेत् ।।73।।
अभावस्य च भावोपि धर्मोथापि हि धर्मिणः । तादृक्त्वं मात्रतेहोक्ता बुद्धिराहित्यमेव तत् ।।74।।
विशेष्यतैव धर्मित्वं प्रथमप्रतिपत्तिषु । निषेधविधिरूपत्वं भावाभावत्वमत्र हि ।।75।।
सर्वनाशेष्वपि सदा शिष्टत्वाद्यस्य कस्य नुः । नाशोयं विमतोपि स्यात् नाश्ुतवात् कर्तृशेषवान् ।।76।।
न चाशेषनृनाशस्तु दृष्टो दृश्योस्ति वा क्वचित् । धर्माधर्माश्रयत्वेन स्वीकार्योपि नरो लये ।।77।।
अनादित्वं विना दृष्टं कथं स्यात् कारणं क्वचित् । पूर्वदृष्टात् परादृष्टं यदि नैवोत्तरं कुतः ।।78।।
अदृष्टं कारणं नो चेल्लये मानं च किं भवेत् । उत्पत्तिनाशकारी च बुद्धिमान् दृश्यते क्वचित् ।।79।।
तद्दृष्टान्तेन सर्वत्र कर्ता हि नानुमीयते । आगमानुगृहीता तु मानमेषानुमापि तु ।।80।।
आगमानुग्रहाभावे न तर्कः स्यात् प्रतिष्ठितः । अक्षजागममूलस्य स्यादेवास्य प्रतिष्ठितिः ।।81।।
अन्यथास्याप्रतिष्ठा च स्ववाचा व्याहतैव हि । न च शिष्टागृहीतत्वं निरीशादीशवादिनः ।।82।।
अतोवशिष्टजीवादिकर्तृतात्र निषिद्ध्यते । तन्मनोकुरुतेत्यादेरसतो मनसो जनिः ।।83।।
निवारिता तु पूर्वत्र ह्यकस्मादिति तद्विना । असतो विश्वजननमाशङ्क्यात्र निषिद्ध्यते ।।84।।
प्रापकं वाक्यमात्रं तु परिहारोविशेषितः । क्वचिज्जीवाकृतं दृष्ट्वा चेतनादेव चाकृतम् ।।85।।
तद्वदेवानुमान्त्यत्र वस्तुत्वात् क्रियते श्रुतेः ।
।। भोक्त्रधिकरणम् ।।
नान्यदन्यत्वमापन्नं क्वचिद् दृष्टं कथञ्चन ।।86।।
अतो जीवस्य न ब्रह्मभावः स्याद्धि कदाचन । क्वचिद्भिन्नताय दृष्टं तदभिन्नतया कथम् ।।87।।
दृश्येन्नो दृष्टपूर्वं हि तादृशं न च दृश्यते । भोक्तृत्वापत्तित इति यन्मतं तत्कुतो हरिः ।।88।।
भोक्त्रापत्तेरिति प्राह …… ।
।। आरम्भणाधिकरणम् ।।
…… कथं च तदनन्यता । जगतस्त्वविकारत्व उक्तन्यायेन साधिते ।।89।।
स्वतन्त्रकारणान्यत्वं तेन ह्यत्र निषिद्ध्यते । द्रव्यं कर्म च कालश्च स्वभावश्चेतना धृतिः ।।90।।
यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया । इति श्रुतेः तद्वशस्य भावो न पर इत्यतः ।।91।।
शक्तोपि ह्यन्यथा कर्तुं स्वेच्छानियमतो हरिः । कारणैर्नियतैरेव करोतीदं जगत्सदा ।।92।।
नित्यभेदो निमित्तेन ह्युपादानेन तु द्वयम् । असद्यत्कार्यरूपेण कारणात्मतयास्ति हि ।।93।।
अनवस्थान्यथा हि स्यात् सर्वत्रोत्पत्तिनाशयोः । शक्तोपि भगवान् विष्णुरकर्तुं कर्तुमन्यथा ।।94।।
स्वभिन्नं कारणाभिन्नं भिन्नं विश्वं करोत्यजः । इति श्रुतेरवसित उक्तार्थोयमशेषतः ।।95।।

।। इतरव्यपदेशाधिकरणम् ।।
अनंशस्यापि जीवस्य किञ्चित् सामर्थ्ययोजनम् । कार्येषु यः करोत्यद्धा नमस्तस्मै स्वयम्भुवे ।।96।।
यदि भागेन कार्येषु जीवशक्तिं न योजयेत् । हरिस्तदा हि सर्वत्र कृत्स्नयत्नोंशितापि वा ।।97।।
अंशिनो हि घटाद्या ये भिन्नैरेव परस्परम् । अंशैरंशिन उच्यन्ते नैवमेव हि चेतनाः ।।98।।
अतोनंशिन इत्येव श्रुतिरेतेषु वर्तते । अप्यनेकस्वरूपेषु विशेषादेव केवलम् ।।99।।
बहुस्वरूपताख्या तु तेष्वस्त्येव हि सांशता । बहुत्वेनाविनाभावाद्भिन्नता नियमाद्भवेत् ।।100।।
यदि नैवं नियमकृद्भगवान् पुरुषोत्तमः ।
।। शब्दमूलत्वाधिकरणम् ।।
तस्य त्वशेषशक्तित्वाद्युज्यते सर्वमेव च ।।101।।
विरोधः सर्ववैशिष्ट्ये यो द्वितीये निरस्यते । नारायणस्य त्वध्याये तदन्ये तत्र तत्रगाः ।।102।।
सृष्टिसंहारवाक्यानां जीवरूपाभिधायिनाम् । अप्यन्योन्याविरोधस्तु द्वितीयाध्यायगोचरः ।।103।।
मानमेयविशेषेण पुनरुक्तिर्न जायते ।
।। न प्रयोजनाधिकरणम् ।।
सदा प्रवृत्तिरीशस्य स्वभावादेव केवलम् ।।104।।
अङ्गचेष्टा यथा पुंसः काश्चिदुद्देशवर्जिताः । देवस्यैष स्वभावोयमित्याह श्रुतिरञ्जसा ।।105।।
क्रीडां प्रयोजनं कृत्वा सृष्टिः श्रुतिविरोधिनी । इति केवललीलैव निर्णीता प्रभुणा स्वयम् ।।106।।
आत्मप्रयोजनार्थाय स्पृहां श्रुतिरवारयत् । न प्रयोजनवत्त्वेनेत्यत आह जगद्गुरुः ।।107।।
इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिता । इति प्रशंसया कामश्रुतिभ्यश्चैव युक्तितः ।।108।।
महातात्पर्ययुक्तैश्च नेच्छामात्रं निषिद्ध्यते । मोक्षार्थाः श्रुतयो यस्मात् स च तस्य प्रसादतः ।।109।।
उन्निनीषति वाक्याच्च लोकदृष्टानुसारतः । इच्छानिमित्तको यस्मात् तदभावे कुतः श्रुतिः ।।110।।
महातात्पर्यरहिता प्रमाणत्वं गमिष्यति । याथार्थ्यमेव मानत्वमिति वाक्यं प्रयोजकम् ।।111।।
मानत्वमेति तत्रापि यत्सम्पूर्णप्रयोजनम् ।
।। वैषम्यनैर्घृण्याधिकरणम् ।।
वैषम्यं चैव नैघृण्यं वेदाप्रामाण्यकारणम् ।।112।।
नाङ्गीकार्यमतोन्यत्तु न वैषम्यादिनामकम् ।
।। सर्वधर्मोपपत्त्यधिकरणम् ।।
यदधीना गुणाश्चैव दोषा अपि हि सर्वशः ।।113।।
गुणास्तस्य कथं न स्युः स्युर्दोषाश्च कथं पुनः । सर्वधर्मोपपत्तेस्तद्वाक्यैरपि हि तादृशैः ।।114।।
निर्दोषाशेषगुणको निर्णीतो भगवान् हरिः ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य प्रथमः पादः ।।