०४

प्रथमाध्यायस्य चतुर्थः पादः
। आनुमानिकाधिकरणम् ।
दुःखिबद्धावराद्यास्तु तदधीनत्वहेतुतः ॥1॥
शब्दा ब्रह्मणि वर्तन्ते राज्ञि यद्वत्पराजयः । स्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणम् ॥2॥
स्वातन्त्र्यं तत्र मुख्यं स्यात् कुतो राज्ञि जयोन्यथा । न हि भृत्यस्य विजयिशब्दस्तावत् प्रयुज्यते ॥3॥
यावद्राज्ञ्यन्यगत्वेपि स्वातन्त्र्याभासमात्रतः । भृत्यबन्धादिकं राज्ञि राज्ञो बन्धादियोग्यतः ॥4॥
कारणं संशयस्य स्यादिति नैव प्रयुज्यते । अमङ्गलत्वाच्छब्दानां राज्ञो योगादमङ्गले ॥5॥
अप्रियत्वात्तु शब्दस्य स्यात् प्रयोगनिवर्तनम् । गुणास्तु तादृशा यत्र प्रयुज्यन्तेखिला अपि ॥6॥
पूज्येष्वेव विशेषेण स्वातन्त्र्यं मुख्यकारणम् । अतो दोषातिदूरत्वात् संशयस्याप्यसम्भवात् ॥7॥
दोषाणां विष्णुगत्वस्य प्राज्ञबुद्धिव्यपेक्षया । स्वातन्त्र्यार्थमभिप्रेत्य दोषशब्दाश्च विष्णवि ॥8॥
वासुदेवश्रुतिश्चाह नैव विष्णावमङ्गलम् । मङ्गलामङ्गलेन्यत्र ततो नामङ्गलं वदेत् ॥9॥
स्वातन्त्र्यापेक्षया विष्णौ दोषो नामङ्गलोक्तितः । बहुभुक्त्वं यथा दोषो नृषु नैव हरौ क्वचित् ।।10।।
एवं दुःख्यादिशब्दाश्च स्वातन्त्र्यापेक्षयोदिताः । नैव दोषा हरौ तद्गबुद्ध्योक्ता दोषकारिणः ।।11।।
तस्मात्ते दोषशब्दाश्च तत्रैव गुणवाचकाः ।
। ज्योतिरुपक्रमाधिकरणम् ।
जातमोतं हरौ यस्माज्ज्योतिः षः प्राणरूपतः ।।12।।
आयजेतश्चायजेतो वसन्तिश्च वसंस्ततः । विगतच्छादनत्वात्तु गच्छ भूतभयङ्करः ।।13।।
भुङ्क्ष्वेत्युक्तो हरिहुर्र्ं च हुतमस्मिन् जगद्यतः । स्फुटत्वात् फडिति प्रोक्तः कव रक्षण इत्यतः ।।14।।
कवचं वर्तते यस्मात् षड्गुणत्वेन सर्वदा । वषट् तद्गत्वतस्तेषां वौषडित्येव कथ्यते ।।15।।
स्वीयं स्वीकुरुते यस्मात् स्वाहेत्युक्तो जनार्दनः । नमन्त्यस्मिन् गुणा यस्मान्नम इत्येव कथ्यते ।।16।।
इत्यशेषक्रियानामशब्दैरेको जनार्दनः । उच्यते मुख्यतो यस्मात् पदवर्णस्वरात्मभिः ।।17।।
तस्मादनन्तगुणता श्रुतितात्पर्यतोस्य हि । विज्ञानार्थत्वतः सर्वशब्दानां नास्ति दूषणम् ।।18।।
अङ्गीकृतेपि नैवास्ति दोषो वाक्यसमन्वये । तदर्थत्वेन कर्मादेः सम्भवादल्पबुद्धये ।।19।।
कश्छन्दसां योगमिति श्रुतेर्योगार्थतत्त्ववित् । ब्रह्मैको नैव चान्योस्ति क इत्यस्योभयार्थतः ।।20।।
तस्यापि पूर्वसिद्धस्य ज्ञानमेवेति निश्चयात् । नित्ययोगोपि शब्दानामर्थैर्नैव निषिध्यते ।।21।।
। प्रकृत्यधिकरणम् ।
स्त्रीशब्दाश्च निषेधार्थाः सर्वेपि ब्रह्मवाचकाः । विरोधिसर्वबाहुल्यकारणस्त्रीनिषेधिनाम् ।।22।।
पृथक्समन्वयार्थानि स्थानान्येतानि सर्वशः । सर्वमानैर्विरोधश्च व्युत्पत्तेरप्यशक्यता ।।23।।
परस्परविरोधश्च विरोधः कार्यतद्वतोः । स्त्रीलिङ्गत्वं निषेधश्च पूर्वपक्षेषु युक्तयः ।।24।।
दोषात्यस्पृष्टिनियमः शब्दार्थानेकता तथा । बहुरूपत्वमीशस्य व्यक्त्यव्यक्तिविशेषिता ।।25।।
उत्पादनं स्वदेहाच्च दुर्जनाव्यक्तता तथा । इत्यादियुक्तयः साक्षात् सिद्धन्तस्थापकाः इह ।।26।।
अन्वयः सर्वशब्दानामशक्यो ज्ञातुमञ्जसा । इति यल्लोकवैमुख्यं जैमिन्यादिमतं वदन् ।।27।।
विद्याधिनाथो भगवानपाचक्रे स्वयं प्रभुः । स्वशिष्याणां प्रसिद्ध्यर्थं मतमात्मीयमंशतः ।।28।।
विज्ञातं तैर्जगादात्र तारतम्यं नृणां वदन् । तेषु तेषु पदार्थेषु रूढिरङ्गीकृता यतः ।।29।।
प्रयोजनबहुत्वेन तस्य तस्याविरोधतः । उपदेशादिसामर्थ्याद्विष्णौ शक्तिश्च गृह्यते ।।30।।
तथाप्येतद्विरोधे तु तद्वाचित्वमपोद्यते । अविरोधे तु बह्वर्था एतन्मूलतया मताः ।।31।।
इतो हि रूढतान्येषामुपजीव्यत्वमत्र हि । तत्सिद्धिस्तदपेक्षा च सापेक्षा च हरीच्छया ।।32।।
तस्मात् परममुख्यत्वं विष्णावन्यत्र मुख्यता । उपलक्षणा च गौणी च तिस्रः शब्दस्य वृत्तयः ।।33।।
प्रवृत्तिहेतोर्बाहुल्यं ज्ञेयं परममुख्यता । तत्र प्रयोगबाहुल्यं यदि तत्परता किमु ।।34।।
उभयं दृश्यते विष्णौ शब्दानामपि सर्वशः । प्रयोगमात्रबाहुल्यं रूढिरित्यभिधीयते ।।35।।
प्रयोगयुक्तसादृश्यं सम्बन्धो वाप्यमुख्यतः । वृत्तिहेतुरिति ज्ञेयः पूर्वायोगेपरग्रहः ।।36।।
एतमेव तथा सन्तं शतर्चीत्यादिनामभिः । आचक्षत इति ह्यत्र सन्तमित्यवधारणात् ।।37।।
योगस्य रूढेः प्राबल्यं विद्वद्रूढिं च तत्रगाम् । बहुशो दर्शयत्यञ्जस्तात्पर्यात् सनिरुक्तिकम् ।।38।।
अ इति ब्रह्म कथितं तद्-व्याख्यानात्मता तथा । शब्दानामपि सर्वेषां नामवित् कृतकृत्यता ।।39।।
विष्णुनामार्थरूपत्वं संहितादेरथाब्रवीत् । णकारं च षकारं च बलचेष्टात्मकं वदन् ।।40।।
तज्ज्ञानपूर्वकत्वेन संहिताध्ययनं तथा । उपसर्गत्वतो वेस्तु ताच्छील्यार्थादुनस्तथा ।।41।।
णकारश्च षकारश्च नामरूपतया मतौ । तस्मात् समन्वयो विष्णौ स्वरवर्णपदात्मनः ।।42।।
अपि वेदस्य किमुत वाक्यरूपेण सङ्गतिः । घोषाः सर्वेपि वेदाश्च सर्वे वेदाश्च यत्पदम् ।।43।।
इन्द्रं मित्रं यमिन्द्रं च प्रथमः सङ्कृतिस्तथा । नामधाः सर्वदेवानामेक इत्यादिका श्रुतिः ।।44।।
प्रमाणमुक्तविषये तदेवोक्तमुपक्रमात् । इति स्वयं भगवता ब्रुवताशेषमन्वयम् ।।45।।
न शब्दवाच्यतैवात्र प्रधानस्य निषिद्ध्यते । सर्ववेदेतिहासेषु पुराणेषु च सङ्ग्रहात् ।।46।।
सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः । निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ।।47।।
इत्यादिवाक्यरूपेण यत्रार्थो नान्य इष्यते । तेजोबन्नात्मकं वापि यद्युपादानमिष्यते ।।48।।
अनाद्येवापराधः कः प्रधानमिति चोदिते । अजामेकामिति प्राह श्रुतिरेतां यदा तदा ।।49।।
को दोषः सर्वथैवास्ति परिणामि जडं यदि । अस्माकं परमुख्यार्थो भगवानेक एव तु ।।50।।
मुख्यमात्रतया रूढं सर्वमभ्युपगम्यते । सर्वेषामपि शब्दानां गौणाद्यं तदयोगतः ।।51।।
अर्थद्वयमभिप्रेत्य प्रवृत्ते हरिरुक्तवान् । कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् ।।52।।
योगानां परमां सिद्धिं परमं ते पदं विदुः । इति बुद्धौ समारोहादुभयोर्योगरूढयोः ।।53।।
त्यागे च कारणाभावादुभयार्थत्वमिष्यते । विपरीतप्रमाभावे पूर्वारोहस्तु कारणम् ।।54।।
सा भवेद्यत्र न व्यर्थः पूर्वारोहो भ्रमो यथा । अतो जगदुपादानं प्रधानं वक्ति सा श्रुतिः ।।55।।
यतत्त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् । प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत् ।।56।।
पञ्चभिः पञ्चभिः ब्रह्म चतुर्भिर्दशभिस्तथा । एतच्चतुर्विंशतिकं गणं प्राधानिकं विदुः ।।57।।
इति भागवते प्राह विद्याधीशः स्वयं प्रभुः । न च प्रकृतिशब्देन ब्रह्मोपादानमुच्यते ।।58।।
अविकारः सदा शुद्धो नित्य आत्मा सदा हरिः । सदैकरूपविज्ञानबल आनन्दरूपकः ।।59।।
निर्विकारोक्षरः शुद्धो निरातङ्कोजरोमरः । अविश्वो विश्वकर्ताजो यः परः सोभिधीयते ।।60।।
निर्विकारमनौपम्यं सदैकरसमक्षयम् । ब्रह्मेति परमात्मेति यं विदुर्वैदिका जनाः ।।61।।
इति श्रुतिपुराणोक्त्या न विकारी जनार्दनः । पराधीनविशेषाप्तिरनिवर्त्यान्यथाभवः ।।62।।
क्षीरादिवद्विकारः स्यान्नैव स स्याद्धरेः क्वचित् । अपादानत्वमेवास्य यद्युपादानतयेष्यते ।।63।।
अङ्गीकृतं तत्पितृवन्न तु विश्वात्मना भवः । न चोर्णनाभिजनितृमातॄणां च विकारिता ।।64।।
चेतनात्वात् तदन्नं हि कार्यरूपतया भवेत् । अपादानतया विश्वकर्तृत्वं बुद्धिपूर्वकम् ।।65।।
उक्तं भाल्लविशाखायां ब्रह्मतर्के च सादरम् । इच्छामात्रात् प्रभोः सृष्टिरविकारस्य सर्वदा ।।66।।
स्वभावोयमनन्तस्य रजो येनाभवज्जगत् । स्वदेहादिच्छया विश्वं भुक्तपूर्वं जनार्दनः ।।67।।
ससर्ज मातापितृवदूर्णनाभिवदेव वा । प्रधानं परिणाम्येशो निर्विकारः स्वयं सदा ।।68।।
न चेतनविकारः स्याद्यत्र क्वाप ह्यचेतनम् । नाचेतनविकारोपि चेतनः स्यात् कदाचन ।।69।।
न चान्यस्यान्यरूपत्वं विकृतत्वेपि दृश्यते । न क्षीरादन्यता दध्नः केनचिद्दृश्यते क्वचित् ।।70।।
सर्वज्ञात् ब्रह्मणोन्यत्वं जगतो ह्यनुभूयते । अभेदः सत्वमात्रेण स्यात् खर्वस्वर्णयोरपि ।।71।।
भागेन परिणामश्चेद्भागयोर्भेद एव हि । यो भागो न विकारी स्यात् स एवास्माकमीश्वरः ।।72।।
भिन्नानां समुदायस्य नाम ब्रह्मेति तद्भवेत् । ब्रह्मोपादानता न स्यात् तदा विश्वस्य हि क्वचित् ।।73।।
शृङ्गाच्छरोवलिोमभ्यो दूर्वा गोमयतस्तथा । वृश्चिकश्चेत्येवमाद्येष्वपादानत्वमिष्यते ।।74।।
उपादानैकदेशत्वं यद्यप्यत्र प्रदृश्यते । अप्यपादानतैवात्र दृष्टान्तो ब्रह्मणो भवेत् ।।75।।
न ह्युपादानतैवात्र बाह्यावयवगौरवात् । न चाचेतनतस्तत्र चेतनस्य समुद्भवः ।।76।।
उपादानतया किं तर्ह्यपादानं ह्यचेतनम् । कार्यदेहगतस्यास्य चेतनस्य प्रदृश्यते ।।77।।
सच्च त्यच्चाभवदिति नास्य विश्वत्वमुच्यते । तत्सृष्ट्वेति गिरैवास्य पूर्वं विश्वस्य सिद्धितः ।।78।।
सत्त्वात् ततेर्वैदिकत्वात् सम्यग्वक्तुमशक्यतः । आश्रयत्वात् स्वाश्रयत्वाज्ज्ञानत्वाद् दुर्विदत्वतः ।।79।।
सत्ततेर्यातनाच्चैव ह्यप्राप्तत्वाच्च दुर्जनैः । नित्यसाधुगुणव्याप्तियन्तृरूपत्वतः सदा ।।80।।
जगद्गतेन रूपेण ब्रह्मैव हि तथोच्यते । व्यक्तिरुक्तगुणानां हि पुरुषापेक्षया नृणाम् ।।81।।
भवेदभवदित्याद्यः प्रयोगश्चात्र युज्यते । तस्मादशेषकर्तैको निर्विकारो रमापतिः ।।82।।
शब्दैः प्रकृतिरित्याद्यैः स्त्रीलिङ्गैरभिधीयते । बहु स्यामिति तस्यैव ह्युक्तमार्गेण युज्यते ।।83।।
तत्तद्गतेन रूपेण तदर्थं ह्यसृजज्जगत् । यच्चाविकृतमेवैकं ब्रह्म विश्वात्मना मृषा ।।84।।
दृश्यते मन्ददृष्ट्यैव स सर्ग इति कथ्यते । सा मन्ददृष्टिस्तस्यैव ब्रह्मणः किं ततोन्यगा ।।85।।
ब्रह्मणश्चेत् क्व सार्वज्ञमन्यथा चेत् स्वतोन्यता । नादेहयोगिनो दृष्टिरिति तत्कारणं स्वतः ।।86।।
देहिनः कारणयुता देहाश्च यदि न भ्रमात् । किं भ्रान्तिकल्पितं तत्र भेदोपि भ्रमजो यदि ।।87।।
भ्रान्तेरज्ञानमूलत्वात् तस्य भेदव्यपेक्षया । नाज्ञानकल्पकं किञ्चिदन्योन्याश्रयता यतः ।।88।।
भ्रमत्वे त्वियमुक्तिश्च तदन्तःपतनान्न हि । व्यावहारिकता चास्य स्यादबाध्यत्व एव हि ।।89।।
बाध्यं नार्थक्रियाकारि न च स्वप्नोपि नो मृषा । वासनाजनितत्वेन तस्याप्यङ्गीकृतत्वतः ।।90।।
स हि कर्तेति वाक्याच्च जाग्रत्वमिति हि भ्रमः । सर्पभ्रमादावपि हि ज्ञानमस्त्येव तादृशम् ।।91।।
तदेवार्थक्रियाकारि तत्सदेवार्थकारकम् । ब्रह्म त्वर्थक्रियाकारि परतः स्वत एव वा ।।92।।
अङ्गीकृतं हि तेनैव परतस्त्वे न च प्रमा । अमुख्यसत्यमानस्य साधकत्वे सदावयोः ।।93।।
न हि सम्प्रतिपत्तिः स्यादतस्तिष्ठतु सा प्रमा । न हि विप्रतिपन्नेन शक्यं साधयितुं क्वचित् ।।94।।
साधकत्वं तु सत्यस्य साक्षिणो ह्यावयोर्द्वयोः । सम्यक् सम्प्रतिपन्नं तन्न विवर्तमतं भवेत् ।।95।।
यदि नाङ्गीकृतं किञ्चिदनङ्गीकृततापि हि । नाङ्गीकृतेति मूकः स्यादिति नास्मद्विवादिता ।।96।।
विश्वं सत्यं यच्चिकेत प्र घा न्वस्य यथार्थतः । इत्याद्याः श्रुतयः सर्वा विश्वसत्यत्ववाचिकाः ।।97।।
सत्यत्वं गगनादेश्च साक्षिप्रत्यक्षसाधितम् । साक्षिसिद्धस्य न क्वपि बाध्यत्वं तददोषतः ।।98।।
सर्वकालेष्वबाध्यत्वं साक्षिणैव प्रतीयते । कालो हि साक्षिप्रत्यक्षः सुषुप्तौ च प्रतीतितः ।।99।।
अतीतानागतौ कालावपि नासाक्षिगोचरौ । पक्षीकर्तुमशक्यत्वान्नानुमा तत्र वर्तते ।।100।।
तदेतदिति सर्वं च दृश्यं वा स्मृतिगोचरम् । साक्षिसिद्धेन कालेन खचितं ह्येव वर्तते ।।101।।
तस्मान्न तं विना किञ्चन्स्मर्तुं द्रष्टुमथापि वा । शक्यं तन्नित्यसिद्धेर्हि नानुमावसरो भवेत् ।।102।।
अतोदोषप्रतीतस्य सत्यत्वं साक्षिणा मतम् । परीक्षादेश्च सत्यत्वं तेन ह्येव मतं भवेत् ।।103।।
अन्यथा श्रुतियुक्त्यादिप्रमाणैश्च सहैव तु । अकस्माद्विनिवृत्तिश्च किं विश्वस्य न शङ्क्यते ।।104।।
इतः पूर्वं तथा भावाद्यदि नो संसृतेर्गतिः । वाक्यानुमादितश्चेत् स्यात् तत्प्रामाण्यं च साक्षिणा ।।105।।
तत्प्रामाण्यं यथा साक्षी स्थापयत्येवमेव हि । सर्वकालेष्वपि स्थैर्याद् व्यभिचारमपोह्य च ।।106।।
एवमक्षजमानत्वसिद्धां विश्वस्य सत्यताम् । किमिति स्थापयेन्नायं निर्दोषज्ञानशक्तितः ।।107।।
एकाज्ञानकृतं विश्वमिति यच्चोच्यते मृषा । बहुज्ञानकृतं विश्वमिति तस्योत्तरं भवेत् ।।108।।
परस्य सत्यतां जानन्नपि यः स्वात्मतस्करः । परो नास्तीति वदति किमित्युन्मत्तवद्वदेत् ।।109।।
पराभावे हि वाग्व्यर्था यदि नैवोच्यते तदा । कशावेत्रादिकं तस्य तस्करस्योत्तरं वदेत् ।।110।।
प्रपञ्चो यदि विद्येत निवर्तेत न संशयः । मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ।।111।।
विकल्पो विनिवर्तेत कल्पितो यदि केनचित् । उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ।।112।।
इत्यत्र यदिशब्दौ च निवर्तेतेति च द्वयम् । विश्वस्य सत्यतामाहुः विद्येतोत्पत्तिमेव च ।।113।।
विदोत्पत्ताविति ह्यस्माद्धातोरुत्पत्तिरेव हि । निवृत्तिव्याप्तियुक् प्रायः प्रपञ्चो भेदपञ्चकः ।।114।।
जीवेश्वरभिदा चैव जडेश्वरभिदा तथा । जीवभेदो मिथश्चैव जडजीवभिदा तथा ।।115।।
मिथश्च जडभेदोयं प्रपञ्चो भेदपञ्चकः । सोयं सत्यो ह्यनादिश्च सादिश्चेन्नाशमाप्नुयात् ।।116।।
द्वैतं न विद्यत इति तस्मादज्ञानिनां मतम् । इति श्रुतेः मितं त्रातं मायाख्यहरिविद्यया ।।117।।
उत्तमोर्थो हरिस्त्वेकस्तदन्यन्मध्यमाधमम् । वाचारब्धं तु साङ्केत्यनाम स्याद्विकृतं बहु ।।118।।
नित्यं तु नामधेयं यन्मृत्तिकेत्यादि वैदिकम् । प्राधान्यात् तत्परिज्ञानात् प्राकृताज्ञोपि पूरुषः ।।119।।
विद्वानित्युच्यते सद्भिरेवं नित्यपरात्मवित् । सदातनं सत्यमिति नित्यमेवोच्यते बुधैः ।।120।।
प्रयोगश्चोत्तरत्रास्ति जरा यद्येनमाप्नुयात् । देहः प्रध्वंसते वायं किं ततोस्यातिशिष्यते ।।121।।
हन्यते न वधेनायं जरया च न जीर्यति । एतत्सत्यं ब्रह्मपुरमिति नित्यत्व एव हि ।।122।।
वाचारम्भणमित्युक्ते मिथ्येत्यश्रुतकल्पनम् । पुनरुक्तिर्नामधेयमितीत्यस्य निरर्थता ।।123।।
एकः पिण्डो मणिश्चेति पदवैयर्थ्यमेव च । विकारित्वविवक्षायां न चैकनखकृन्तनम् ।।124।।
सर्वं कार्ष्णायसं च स्यादतः सादृश्य एव च । विवक्षात्र तु नित्यत्वे प्राधान्ये चोक्तवर्त्मना ।।125।।
प्राधान्यप्रतिपत्त्यर्थं सृष्ट्यादेश्चैव विस्तरः । तस्मात् केनापि मार्गेण न विवर्तमतं भवेत् ।।126।।
तदसङ्ख्‌यातदोषेतं हेयमेव शुभार्थिभिः । असङ्ख्यत्वेन दोषाणां ग्रन्थाधिक्यभयादपि ।।127।।
उपरम्यते ततो विष्णुरिच्छापूर्वकमश्रमः । करोति पितृवद्विश्वं पूर्णाशेषगुणात्मकः ।।128।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य चतुर्थः पादः ।।