प्रथमाध्यायस्य तृतीयः पादः
तत्रान्यत्र प्रसिद्धानां लिङ्गानाम्नां पुनर्हरिः । विशेषान्मुख्यतो वृत्तिं स्वस्मिन्नेवात्र वक्त्यजः ॥1॥
। द्युभ्वाद्यधिकरणम् ।
विष्णावेवात्मशब्दस्य रूढत्वान्न शिवादिकान् । श्रुतिर्वक्त्यखलिेशत्वात् ………….॥
। भूमाधिकरणम् ।
……………भूमा विष्णुः सुखाधिकः ॥2॥
। अक्षराधिकरणम् ।
अतो विरुद्धवद्भातमपि व्याख्याय तत्त्वतः । योजनीयं हरौ वाक्यं विरुद्धैर्लाःक्षणैर्युतम् ॥3॥
ब्रह्मैव तानि लिङ्गानि तदन्यत्र त्वसन्त्यपि । अविरोधेन गोविन्दे सन्त्यस्थूलादिकान्यपि ॥4॥
अन्यवस्तुस्वभावानां स्थौल्यादीनामपाकृतिम् । नारायणे श्रुतिर्वक्ति न तु तस्यास्वभावताम् ॥5॥
सर्वधर्मा सर्वनामा सर्वकर्मा गुणाः श्रुताः । दोषाः श्रुताश्च नेत्याद्याः प्रमाणं श्रुतिरत्र च ॥6॥
। वामनाधिकरणम् ।
लिङ्गं साधारणं शब्दौ स्थानं लिङ्गमनुग्रहः । पुनः शब्दा लिङ्गशब्दौ विचायर् द्विःस्थिता इह ॥7॥
बाहुल्यं लिङ्गशब्दानामनुक्तिश्च विरुद्धता । अदृष्टिरन्वयाभावो विपरीतश्रुतिभ्रमः ॥8॥
लिङ्गावकाशराहित्यभ्रमस्तादृग्द्वयं तथा । बहुतादृक्त्वमुक्तस्य विरोधोर्थात् तथागतिः ॥9॥
समस्तमेतदित्यत्र पूर्वपक्षेषु युक्तयः । ता एव बलवत्यस्तु गत्यन्तरविवर्जिताः ।।10।।
सिद्धान्तयुक्तयो ज्ञेया दृश्यन्ते ताश्च सर्वशः । मुक्तोपसृप्यता प्राणादाधिक्यं सर्वतस्तथा ।।11।।
वैलक्ष्ण्यं स्वभावस्य प्रेक्षापूर्वा क्रिया तथा । अरस्य ण्यस्य चेशत्वं सूर्याद्यनुकृतिस्तथा ।।12।।
वामनाख्या सर्वकम्पस्तच्छब्दानन्यसिद्धता । अनामरूपता भेदस्योपजीव्यप्रमाणता ।।13।।
सर्वैश्वर्यादिकाद्यास्ता वेदेशेन प्रदर्शिताः । अधिकारश्च तद्धानिः प्रसङ्गादेव चिन्तितौ ।।14।।
। देवताधिकरणम् ।
तत्फलाय विधिः सिद्धे चोपासाया निराकृतः । यतो जैमिनिनान्यार्थमसिद्धेर्थे विधिस्तथा ।।15।।
विद्याधिराजस्य मतमविरोधस्तयोस्ततः । मोक्षे फलविशेषोस्ति न च सर्वं प्रकाशते ।।16।।
सर्वदा तेन देवानामपि युक्ता ह्युपासना । नित्यं वृद्धिक्षयापेतं विष्णोः पूर्णं तु वेदनम् ।।17।।
स्पष्टातिस्पष्टविशदं ब्रह्मणोशेषवस्तुगम् । अन्येषां क्रमशो ज्ञानं मितवस्तुगतं सदा ।।18।।
इत्यादयो विशेषास्तु सदा विद्यापतेर्हृदि । जैमिन्याद्यास्तु सामान्यवेत्तृत्वात् तत्तथावदन् ।
विद्येशमतमेतस्मान्नैव सद्भिर्विरुध्यते ।।19।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य तृतीयः पादः ।।