प्रथमाध्यायस्य द्वितीयः पादः
। सर्वगतत्वाधिकरणम् ।
लिङ्गात्मकानां शब्दानां वृत्तिर्नारायणे परे । चिन्त्यते सर्वगत्वं तु प्रथमं प्रविचार्यते ॥1॥
तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तिप्रबोधकः । दूरतोप्यतिशक्तः स लीलया केवलं प्रभुः ॥2॥
इति ज्ञापयितुं कर्मकर्त्रोरुत्सर्गतो भिदा । अभेदोपि विशेषे स्याद्बली सोप्यनपोदितः ॥3॥
एतद्भावाभिधं लिङ्गं क्रियालिङ्गे ततः परम् । अन्तर्याम्यन्तरश्चेति क्रियाभावाख्यमुच्यते ॥4॥
अदृश्यत्वाद्यभावाख्यं श्रुतिर्लिङ्गाधिका परा ॥
। अत्तृत्वाधिकरणम् ।
अनित्यत्वात् क्रियाणां तु कथमेव स्वरूपता । इति चेत् स विशेषोपि क्रियाशक्त्यात्मना स्थिरः ॥6॥
शक्तिता व्यक्तिता चेति विशेषोपि विशेषवान् । अभिन्नोपि क्रियादिश्च स्वभाव इति हि श्रुतिः ॥7॥
ज्ञानं नित्यं क्रिया नित्या बलं शक्तिः परात्मनः । नित्यानन्दोव्ययः पूर्णो भगवान् विष्णुरच्युतः ॥8।।
इति पैङ्गिश्रुतिश्चाह शक्तिसद्भाव एव तु । क्रियादिनित्यता ज्ञेया तदन्यत्र त्वनित्यता ।।9।।
इति सत्तत्ववचनं……….. ।
। गुहाधिकरणम् ।
…….. द्वित्वं चैकस्य युज्यते । यः सेतुरिति चैकत्ववचनेन विशेषणात् ।।10।।
। अन्तरधिकरणम् ।
अन्तःस्थित्वा रमणकृदन्तरः समुदाहृतः । रमणं चात्मशब्देनादेयं मातीति चोच्यते ।।11।।
विशिष्टसुखवत्वाच्च ब्रह्मत्वं च विशिष्टता । अन्योन्यनियतिश्चेशनियमे नान्यथा भवेत् ।।12।।
चेतनानां विशेषो यः स्वभावोपीश्वरार्पितः । अन्योन्यनियमे तस्मादनवस्थित्यसम्भवौ ।।13।।
ईश्वरश्चेन्नियन्ता स्यात् स एव प्रथमागतः । किमित्यपोद्यते कस्मात् वृथावस्थितिकल्पना ।।14।।
दोषवत्येव तस्मात् सा नैैव कार्या कथञ्चन ।।
। अन्तर्याम्यधिकरणम् ।
रमणं नातियत्नस्य विक्षेपादेव युज्यते ।।15।।
इति चेत्सर्वनियमो यस्य कस्मान्न शक्यते । स्वात्मनानियतं वस्तु प्रतीपं ह्यात्मनो भवेत् ।।16।।
स्वाधीनसत्ताशक्यादि कथमात्मप्रतीपकम् ।
।अदृश्यत्वाधिकरणम् ।
गुणक्रियादयो भावा यदि वा स्युरभेदिनः ।।17।।
अभेदोभावधर्माणां ब्रह्मणा युज्यते कथम् । नाभावो भाव इति च विशेषः प्रायशो भवेत् ।।18।।
अतद्भावोन्यता चेति न विशेषोस्ति कश्चन । दोषाभावो गुण इति प्रसिद्धो लौकिकेष्वपि ।।19।।
अदृश्यत्वादिकांस्तस्माद् गुणानाह स्वयं प्रभुः । भावाभावविरोधोपि न तु सर्वत्र विद्यते ।।20।।
तदभावो हि तद्भावविरोधी न ततोपरः । पृथक्त्वाभावतद्रूपान्भेदांस्त्रीन् कल्पयन्ति चेत् ।।21।।
कल्पनागौरवाद्यास्तु दोषास्तत्र विरोधिनः । पृथक्त्वान्यत्वभेदास्तु पर्यायेणैव लौकिकैः ।।22।।
व्यवह्रियन्ते सततं वैदिकैरपि सर्वशः । दृष्टहानिरदृष्टस्य कल्पनेत्येव दूषणम् ।।23।।
यदा तदधिको दोषो विद्यते को नु वादिनाम् । भावाभावस्वरूपास्तु विशेषा एव वस्तुनः ।।24।।
अभिन्ना एव सङ्ग्राह्या व्यवहारप्रसिद्धये । यथैकः समवायोपि भेदाभेदौ च वस्तुनि ।।25।।
अङ्गीकार्या विशेषेण स्थानेषु व्यवहर्तृभिः । अखण्डवादिनोपि स्यात् विशेषोनिच्छतोप्यसौ ।।26।।
व्यावृत्ते निविशेषे तु किं व्यावर्त्यबहुत्वतः । बहुलिङ्गसमायुक्तैर्बहुभी रूढनामभिः ।।27।।
प्रसिद्धैरन्यगत्वेन वाच्यः साक्षाज्जनार्दनः । वैश्वानरादयः शब्दा अपि तद्वाचिनस्ततः ।।28।।
तानि लिङ्गानि ते शब्दा अपि तद्गा हि सर्वशः । बहुलाप्यज्ञरूढिस्तत्प्राज्ञरूढिं न बाधते ।।29।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य द्वितीयः पादः ।।