। अथ श्रीमन्न्यासुधायां परलयाधिकरणम् ।
। ओं तानि परे तथा ह्याह ओं ।
इतिसूत्रम् ।
अस्यार्थः ।
तानि भूताभिमानिपृभृतीनि दैवानि परे परमात्मनि लीयन्ते तथा ह्याह श्रुतिरिति ।
अत्र सर्वेषां देवानां परमात्मनि साक्षाल्लयः प्रतीयते ।
तत्परिहाराय भाष्यं’प्राणद्वारेण’ इति ।
तत्रापि प्राणे सर्वेषां साक्षाल्लयः प्रतीयते ।
अतो विस्पष्टं व्याचष्टेतस्मिन्निति ।
१२,३४२
तानि परे तथा ह्य् आह । ब्ब्स्_४,२.१५ ।
तस्मिन् लयं यान्ति भूतान्यशेषक्रमाविरोधेन स एव विष्णौ । (अनुव्याख्यानम्)४,२.१२१अब् ।
न्यायसुधा-
अशेषक्रमविरोधेन श्रुत्याद्युक्तं सर्वं क्रममनुसृत्य ।
भूतानि भूतादीनि दैवानि तस्मिन्न्प्रधानवायौ लयं यान्ति ।
स एव विष्णौ लयं याति ।
यश्च यावदिन्द्र इति श्रुताविन्द्रादीनां प्रधानवायौ लयो ऽभिहितः सो ऽपि न साक्षादित्याहइन्द्रादीनामिति ।
इन्द्रादीनां तत्र लयः क्रमं तु प्रोक्तं विशेषादनुसृत्य नान्यत् । (अनुव्याख्यानम्)४,२.१२१च्द् ।
न्यायसुधा-
तत्र प्रधानवायौ ।
विशेषादिति तृतीयार्थे पञ्चमी ।
विशेषवाक्येन प्रोक्तमनुसृत्य व्याख्यातव्यः ।
न त्वन्यद्वयाख्यानं साक्षात्तत्र लय इति ।
विशेषवाक्यविरोधादिति भावः ।
१२,३४३
तमेव क्रमं सङ्क्षेपेण तावदाहतस्मादिति ।
तस्मादशेषा गिरिजां प्रविश्य तयैव रुद्रं सह तेन वाणीम् ।
तया पतिं प्राप्य सहैव तेन लयं हरौ यान्ति समस्तजीवाः । (अनुव्याख्यानम्)४,२.१२२ ।
न्यायसुधा-
विशेषप्रमाणस्य सर्वथानुसर्तव्यत्वादिति भावः ।
अत्र गिरिजाशब्दो वारुणीसौपर्णीपरो व्याख्येयः ।
तथा रुद्रशब्दः शेषगरुडपरः ।
तथाच वक्ष्यति ।
तया गिरिजया सहैव रुद्रं प्राप्य, पतिं वाण्याः ।
समस्तजीवा इत्यस्यैव विवरणमशेषा इति ।
यद्वा रुद्रं प्रविशन्तीत्यध्याहारेण व्याख्येयम् ।
अस्यैव विवरणमुत्तरवाक्यजातम् ।
१२,३४४
तत्र वायाविन्द्र इति श्रुतावुक्तानामिन्द्रादीनां चतुर्णां पृथिव्यादीनां भूतानां च क्रमेणैव वायौ प्रवेश इति यदुक्तं तत्तावत्प्रपञ्च्यते ।
१२,३४५
इह द्वौ मार्गौ शेषमार्गो गरुडमार्गश्च ।
तत्र शेषमार्गमादावाहसोमस्त्विति ।
सोमस्तु वारीशयुतो ऽनिरुद्धं विशत्यसौ काममसौ च वारुणीम् ।
सा शेषदेवं स गिरं च सैव वायुं विशत्यञ्ज इतीह निर्णयः । (अनुव्याख्यानम्)४,२.१२३ ।
न्यायसुधा-
वारीशयुत इत्यनेनाब्देवताया वरुणस्य सोमे लय इत्युच्यते ।
इहेन्द्रादिचतुष्यये सोमस्य भूतेष्वपां च वायुप्रवेशे निर्णयः ।
प्राग्गिरिजां रुद्रमित्युक्तम् ।
इदानीं च गिरं वायुमिति ।
एते चत्वारः शब्दाः प्रसिद्धपदार्थका इति प्रतीतिं वारयितुमाहउमेति ।
उमागिरीशावपि भारतीराविति स्म वाग् वेदगता ब्रवीति ।
अहीन्द्रपत्नीमहिपं विरिञ्चपत्नीं विरिञ्चं च विमुक्तिकाले । (अनुव्याख्यानम्)४,२.१२४ ।
न्यायसुधा-
उमागिरीशाविति भारतीरावित्यपि ।
ईरः समीरः ।
वागित्येतत्पर्यायसमुदायो गृह्यते ।
प्रतीतार्थत्वे किं बाधकमित्यत उक्तम्विमुक्तिकाल इति ।
विमुक्तिप्रतिपादनावसरे ।
एतेनोमादीनां चतुर्णामिह जन्मनि मुक्त्यभावादिति बाधकं सूचितं भवति ।
वेदवाक्यानुसारिणो वयमपि तथैव प्रयुक्तवन्तः स्म इति भावः ।
उमादिशब्दानां वारुण्यादिवृत्तौ किं निमित्तमित्यत आहत एवेति ।
त एव यत् तत्पदमाप्नुवन्ति … । (अनुव्याख्यानम्)४,२.१२५अ ।
न्यायसुधा-
यद्यस्मात्त उमाद्या एव तत्पदं वारुण्यादिपदमुत्तरकल्पे प्राप्नुवन्ति तस्मादिति पूर्वेण सम्बन्धः ।
अनेनोमात्वादीनां वारुणीत्वादीनां चैकद्रव्यसम्बन्धो लक्षणाबीजमित्युक्तं भवति ।
प्रसिद्धपदत्यागेनाप्रसिद्धपदप्रयोगे किं
प्रयोजनमित्यत आहतत्काल इति ।
… तत्काल एतान् समुपास्य जीवाः ।
ब्रह्मत्वकाले प्रविशन्ति चैतानीति स्म वाक् तादृशतामुपैति । (अनुव्याख्यानम्)४,२.१२५ब्द् ।
न्यायसुधा-
तत्काले उमात्वादिकाले ।
एतानुमादीन्देवान् ।
ब्रह्मत्वकाले तेषामेव वाय्वादीनां ब्रह्मत्वादेः काले ।
एतान् वारुण्यादीन् ।
चो यस्मादित्यर्थे ।
इति तस्मात् ।
वाक् वेदवाणी ।
तादृशताम् उमादिशब्दवत्ताम् ।
१२,३४६
एतदुक्तं भवति ।
यो यस्मिन्नतिपरिचयवांस्तस्याश्रमान्तरप्राप्त्यादिना नामान्तरे प्राप्ते ऽपि प्रयोग इति किं प्रयोजनान्वेषणेनेति ।
१२,३४७
इदानीं गरुडमार्गमाहसूयर् इति ।
सूर्यो ऽग्नियुक्तो गुरुमाप्य तेन शक्रं सहैनेन सुपर्णपत्नीम् ।
तया सुपर्णं सह तेन वाणीं ब्रह्माणमेतद्गत एव याति । (अनुव्याख्यानम्)४,२.१२६ ।
न्यायसुधा-
अग्नियुक्त इत्यनेनाग्नेः सूर्ये लय इत्युच्यते ।
अनेनाग्निरिन्द्र इति श्रुतिः परम्परापेक्षेत्युक्तं भवति ।
एतद्गतो वाणीगत एव ।
एतेनेन्द्रादिष्विन्द्रादित्यबृहस्पतीनां, भूतेषु तेजसो, वायौ लयो विवृतो भवति ।
नन्वेतत्’इन्द्र उमायामुमा रुद्रे विलीयते’ इति श्रुतिविरुद्धम् ।
उमारुद्रशब्दयोः स्वार्थपरित्यागे ऽपि वारुणीशेषपरतया व्याख्यातत्वादित्यत आहइन्द्रेति ।
इन्द्रप्रवेशस्तु यदोच्यते ऽत्र तदा ह्युमेत्येव सुपर्णपत्नी ।
उक्ता सुपर्णश्च गिरीशनाम्ना ततो विरोधश्च न कश्चनात्र । (अनुव्याख्यानम्)४,२.१२७ ।
न्यायसुधा-
यदातदाशब्दावधिकरणमात्रस्यापलक्षकौ यत्र श्रुतौ अत्र उमायामिन्द्रप्रवेश उच्यते ।
तस्याश्चोमाया रुद्रे ।
सुपर्णपत्न्नयेव ।
गिरीशनाम्ना गिरीशपर्यायेण ।
सौपर्ण्यामिन्द्रलयस्य बलवच्छतिसिद्धत्वादिति हिशब्दः ।
अत्र पदसादृश्यं प्रवृत्तिनिमित्तमिति भावः ।
१२,३४९
अधुना’तानि परे’ इत्युक्तानां हिरण्यगर्भे लयप्रकारमाहभृग्वादय इति ।
भृग्वादयो दक्षमवाप्य तेन प्राप्येन्द्रमेतेन सुपर्णपत्नीम् ।
विशन्ति ये मनवो राजमुख्या मनुं प्रविश्यात्र गता महेन्द्रम् । (अनुव्याख्यानम्)४,२.१२८ ।
न्यायसुधा-
सुपर्णपत्न्नयाः सुपर्णे लयः सिद्ध एव ।
इन्द्रपर्यन्तमेव वक्तव्ये ऽधिकवचनमुक्तदार्ढ्यार्थम् ।
एवमुत्तरत्रापि ।
ये मनवो वैवस्वताद्याः ये च राजमुख्याः प्रियव्रताद्यास्ते स्वायम्भुवमनुं प्रविश्य अत्र स्वायम्भुवे मनौ गता वर्तमाना महेन्द्रम् ।
विशन्तीत्युभयत्र सम्बध्यते ।
भूतेषु पृथिव्याकाशयोर्लयप्रकारो वक्तव्यस्तमाह आकाश इति
आकाश उर्वी च गुरुं प्रविश्य तेनैव यातः पुरुहूतदेवम् ।
सनादयो यतयः काममेव विशन्ति शिष्टा अपि हव्यवाहम् । (अनुव्याख्यानम्)४,२.१२९ ।
न्यायसुधा-
वायुभूतस्य मुख्याभिमानी प्रधानवायुरित्युक्तम् ।
अमुख्याभिमानिनस्तु’शक्रं मरुद्गणाः’ इति लयो वक्ष्यते ।
सनादय इति ।
सनत्कुमारव्यतिरिक्ताः ।
तस्य कामावतारत्वात् ।
कामस्य तु वारुण्यामुक्त एव लयः ।
शिष्या उक्तेभ्यः ।
एतेन’अग्नौ सर्वे देवा विलीयन्ते’ इत्यस्य विषयो दर्शितः ।
अस्यापवादमाहवर्णाश्रमेति ।
वर्णाश्रमाचाररता मनुष्या धर्मं मनुं सो ऽपि समेति काले ।
तमेव सर्वे पितरः सुरानुगाः सर्वे कुबेरं स च सोममेव । (अनुव्याख्यानम्)४,२.१३० ।
न्यायसुधा-
एतत्प्रसङ्गान्मुक्तौ प्रवेशमात्रमुक्तं न तु देहलयः ।
तेषामुत्क्रमणस्य विद्यमानत्वात् ।
वर्णाश्रमाचाररता इत्यनेन मनुष्याणां मुक्तौ वर्णाश्रमवत्त्वमस्तीति सूचयति ।
धर्मस्य तु स्वायम्भुवे मनौ लय एव ।
काले मोक्षकाले ।
सर्वे पितरः तं धर्ममेव संयान्ति ।
सर्वे सुरानुगा गन्धर्वाद्या कुबेरम् ।
उपसंहरतिविमुक्तीति ।
१२,३५०
विमुक्तिकाले प्रविशन्त्यभीक्ष्णं भोगांश्च तद्देहगताः प्रभुञ्जते । (अनुव्याख्यानम्)४,२.१३१अब् ।
न्यायसुधा-
एवं सर्वे यथोक्तप्रकारेण विमुक्तिकाले प्रविशन्त्युत्तमानिति शेषः ।
न केवलं प्रविशन्ति किं तर्हीत्यत आहअभीक्ष्णमिति ।
आविष्यग्रहवदित्यर्थः ।
किमनेन प्रवेशेनेत्यत आहआनन्देति ।
आनन्दसुव्यक्तिरमुत्र तेषां भवत्य् … । (अनुव्याख्यानम्)४,२.१३१च् ।
न्यायसुधा-
अमुत्र उत्तमेषु प्रवेशेन ।
१२,३५१
प्रविष्यानां पुनर्निर्गमो ऽस्ति न वेति शङ्कायामाहअतश्चेति ।
… अतश्चेष्यत एव निर्गताः ।
क्रीडन्ति … । (अनुव्याख्यानम्)४,२.१३१दे ।
न्यायसुधा-
अत एभ्य उत्तमेभ्यो निर्गताश्चेति सम्बन्धः ।
इष्यम् इच्छा ।
नपुंसके भावे क्तः ।
निर्गतानां पुनः प्रवेशो ऽस्ति न वेत्यत आहभूयश्चेति ।
… भूयश्च समाविशन्ति तानेव … । (अनुव्याख्यानम्)४,२.१३१एफ़् ।
न्यायसुधा-
तान् पूर्वप्रविष्यानेव ।
नन्वेवंविधा मुक्तिः क्वापि नोपलब्धेत्यत आहसायुज्यमिति ।
… सायुज्यमिदं वदन्ति । (अनुव्याख्यानम्)४,२.१३१फ़् ।
न्यायसुधा-
वदन्ति पुराणादीनि ।
सयुजां भावो हि सायुज्यम् ।
किमिदं सायुज्यं सर्वेषामस्ति ।
नेति ब्रूमः ।
तर्हि सायुज्यहीनानां कीदृशी वृत्तिरित्यत आहसायुज्येति ।
१२,३५२
सायुज्यहीनाश्च लये तु सर्वे प्रोक्तेन मार्गेण विशन्ति सृष्टौ ।
बहिश्च निर्यान्ति … । (अनुव्याख्यानम्)४,२.१३२अच् ।
न्यायसुधा-
लये तु लय एव ।
विशन्त्युत्तमान् ।
बहिस्तेभ्यः ।
एतत्सायुज्यभाजामपि समानमिति नेत्याहतत इति ।
… ततो ऽन्यदापि सायुज्यभाजां भवति प्रवेशः । (अनुव्याख्यानम्)४,२.१३२च्द् ।
न्यायसुधा-
ततः लयकालात् ।
१२,३५३
नन्वेतत्सर्वं कुतः प्रमाणात्प्रतिपत्तव्यमित्यत आहउक्तमिति ।
उक्तं समस्तं परमश्रुतौ हि प्रोक्तं च … । (अनुव्याख्यानम्)४,२.१३३अब् ।
न्यायसुधा-
अस्यास्मिंल्लय इत्युक्तं समस्तम् ।
परमश्रुतिश्च विस्तरभयान्न पठिता ।
चशब्द उत्तरवाक्येन सम्बद्धयते ।
प्रमाणान्तरमाहसर्गेति ।
… सर्गक्रमतो विपर्ययः ।
मुक्तौ … । (अनुव्याख्यानम्)४,२.१३३ब्च् ।
न्यायसुधा-
मुक्तौ सर्गक्रमतो विपर्यय इति ।
यो यस्माज्जातस्तस्य तस्मिन्मुक्तिरिति तावदङ्गीकरणीयमित्यर्थः ।
एतच्चापवादाभावे सतीति ज्ञेयम् ।
तथाच न्यायविवरणे ।
कुत एतदित्यत आहलय इति ।
… लये यद्वद् … । (अनुव्याख्यानम्)४,२.१३३च् ।
न्यायसुधा-
साधारणप्रलये सर्गक्रमाद्विपर्ययस्य सत्त्वादिति भावः ।
एतदपि कुत इत्यत आहअथो इति ।
… अथो लयश्च विपर्ययेणेत्यवदद् गिरां पतिः । (अनुव्याख्यानम्)४,२.१३३च्द् ।
न्यायसुधा-
अथोशब्दो ऽर्थान्तरे ।
विपर्ययेण सर्गक्रममपेक्ष्य ।
अवदत् उपपादितवान् ।
गिरां वेदवाचां प्रभुः सूत्रकारः ।
यथा’विपर्ययेण तु क्रमो ऽत्र उपपद्यते च’ इति ।
लये सृष्टिक्रमतो विपर्ययश्चेन्मुक्तौ तथा भाव्यमित्यत्र किं नियमाकमित्यत आहलय इति ।
लयो यतो मुक्तिरियं सुराणां … । (अनुव्याख्यानम्)४,२.१३४अ ।
न्यायसुधा-
यतः कारणात्सुराणां लय एवेयं मुक्तिर्न तु मनुष्याणामिव प्रागेव देहादुत्क्रान्तिः ।
तस्मादुक्तं युक्तम् ।
सामान्यविशेषभावान्न साध्यविशिष्यतादोषः ।
सर्गश्चोक्तानुगुण एव श्रुत्यादिसिद्ध इति भावः ।
ननु प्राङ् मुक्तानां भोगादिकं समर्थितम् ।
इदानीं तूच्यते लय एव मुक्तिरिति ।
तत्कथं पूर्वापरविरोधो न भवतीत्यत आहभोग इति ।
१२,३५४
… भोगो विशेषेण च … । (अनुव्याख्यानम्)४,२.१३४ब् ।
न्यायसुधा-
विशेषेण देवपदादप्यतिशयेन ।
देहहानिलक्षणा मुक्तिर्लयान्न विशिष्यत इत्युक्तं न तु सर्वापीति भावः ।
अत एव प्रागियमित्युक्तम् ।
१२,३५६
भोगश्च मुक्तिरिति सूत्रकारानुक्तं कस्मादुपसङ्खयेयमित्यत आहयमिति ।
… यं वदिष्यति । (अनुव्याख्यानम्)४,२.१३४ब् ।
न्यायसुधा-
यं भोगं चतुर्थपादे सूत्रकारो वक्ष्यति मुक्तित्वेन सः ।
प्रमाणान्तरं चाहउक्तश्चेति ।
१२,३५७
उक्तश्च बिम्बप्रतिबिम्बभावः पिङ्गश्रुतावुक्तलयानुसारतः । (अनुव्याख्यानम्)४,२.१३४च्द् ।
न्यायसुधा-
बिम्बप्रतिबिम्बभावो देवानामुक्तलयानुसारत इति ।
यस्मिन्यस्यास्माभिर्लय उक्तः स बिम्बः अपरः प्रतिबिम्ब इत्युक्तमस्तीत्यर्थः ।
ततः किमित्यत आहबिम्ब इति ।
बिम्बे लयो यन्नियतश्च मुक्तौ चिदात्मनां तद्वशता च सर्वदा । (अनुव्याख्यानम्)४,२.१३५अब् ।
न्यायसुधा-
मोक्षानन्तरमपि सर्वदा ।
एतदुत्तरत्रोपयोगि ।
प्रसङ्गादिहोक्तम् ।
यद्यस्मान्मुक्तौ प्रतिबिम्बस्य बिम्बे लयो नियतः प्रमाणप्रसिद्धः, तानि चान्यत्र तस्मादुक्तं युक्तमिति ।
१२,३५८
यदुक्तं सर्वेषां भूतानां प्राणे लयस्तस्य विष्णाविति तदसत् ।
‘प्राणस्तेजसि तेजनः परस्यां देवतायाम्’ इति श्रुतिविरोधात् ।
बिम्बे प्रतिबिम्बस्य लय इति चासत् ।
नहि प्राणस्तेजाभूतस्य प्रतिबिम्ब इत्यत आहतेजो ऽभिधामिति ।
तेजो ऽभिधां तु श्रियमाप्य विष्णुमग्रे ततः पुत्रतयैव वायुः ।
आप्तः प्रसूतः पुनरेव विष्णुं प्रविश्य मुक्तः प्रळये ऽत्र तिष्ठति । (अनुव्याख्यानम्)४,२.१३५च्फ़् ।
न्यायसुधा-
वायुः प्रलये तेजो ऽभिधां श्रियमाप्य तत्र लीनो भूत्वा विष्णुमाप्तः ।
सृष्टिकाले जाते ऽग्रे सर्वेभ्यः पूर्वं, ततो विष्णोः, पुत्रतया हिरण्यगर्भत्वेन प्रसूतः ।
पुनरेव प्रलये मुक्तौ विष्णुं प्रविश्य अत्र विष्णौ तिष्ठति ।
इदमुक्तं भवति ।
तेजःशब्दस्य लक्ष्मीवाचित्वान्नोक्तविरोधः ।
एवं तर्हि’विलीनो हि प्रकृतौ संसारमेति’ इति श्रुतेर्वायोः संसारप्रसङ्ग इति चेन्न ।
इष्टत्वात् ।
हिरण्यगर्भत्वेन पुनजर्ननाङ्गीकारात् ।
एवमपि ब्रह्मविदो मुक्त्यभावप्रसङ्ग इति चेन्न ।
हिरण्यगर्भत्वानन्तरं मुक्तिस्वीकारादिति ।
इदं च प्राणशब्दस्य वायुवाचित्वपक्षमादायोक्तम् ।
हिरण्यगर्भवाचित्वपक्षे तु भाष्योक्तं द्रष्टव्यम् ।
मुक्तानां स्वस्तोत्तमदेवताः प्रविश्यावस्थानमित्युक्तम् ।
नैतावदेव ।
किन्तु भगवत्प्रवेशो ऽप्यस्ति ।
उक्तश्च भोगो नानन्दस्य जनकः किन्तु व्यञ्जक एव ।
आनन्दस्तु स्वरूपभूत इत्याहसर्वे ऽपीति ।
सर्वे ऽपि ते मुक्तगणा अमन्दसान्द्रं निजानन्दमशेषतो ऽपि ।
भुञ्जन्त एवासत ईशदेहे लये ऽथ सर्गे बहिरेव यान्ति । (अनुव्याख्यानम्)४,२.१३६ ।
न्यायसुधा-
सर्वे ऽपीत्युक्ते देवानां प्रकृतत्वात्त एवेति प्रतीतिं वारयितुमशेषतो ऽपीत्युक्तम् ।
भुञ्जन्तः अनुभवन्तः ।
१२,३५९
शिष्टा हव्यवाहमित्यस्यापवादान्तरमाहप्रयातीति ।
प्रयाति धर्मं निरृतिस्तु शक्रं मरुद्गणाः पार्षदास्तथैव ।
सर्वे ऽनिरुद्धं पृतनाधिपाद्यास् … । (अनुव्याख्यानम्)४,२.१३७अच् ।
१२,३६०
न्यायसुधा-
निरृतिस्तु धर्मं प्रयाति ।
मरुद्गणाः शक्रं प्रयान्ति ।
तथाशब्दः समुच्चये ।
पृतनाधिपाद्या विष्वक्सेनाद्याः सर्वे भगवतः पार्षदा अनिरुद्धं प्रयान्ति ।
देहलयार्थमिति शेषः ।
अनिरुद्धस्य तु कामे लय उक्त एवेत्येवार्थः ।
अत्र प्रमाणमाहतुरेति ।
… तुरश्रुतिर्हीत्थम् … । (अनुव्याख्यानम्)४,२.१३७च्द् ।
न्यायसुधा-
अत एवैतत्तत्रैव नोक्तं परमश्रुतावनुक्तत्वात् ।
१२,३६१
पादार्थमुपसंहरतिइयमिति ।
… इयं विमुक्तिः । (अनुव्याख्यानम्)४,२.१३७द् ।
न्यायसुधा-
देवादीनां देहलयरूपा विमुक्तिरुक्तेति ।
। इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना कृतायां टीकायां विषमपदवाक्यार्थविवृतौ चतुर्थे ऽध्याये
ऽत्रोत्क्रमणचरणः पर्यवसितः ।
अध्यय ४, पद ३
१२,३६२
मार्गो गम्यं चास्मिन्पाद उच्यत इति भाष्यम् ।
तत्प्राक् प्रसङ्गाद्विवृतमपीहावरप्राप्तौ विशेषतो विवृणोति उत्क्रान्तेति ।
उत्क्रान्तमार्गश्च विमुक्तगम्यं पादोदितम् … । (अनुव्याख्यानम्)४,३.१अब् ।
न्यायसुधा-
ये शरीरादुत्क्रान्ता मानुषास्तेषां मार्गो भगवल्लोकगमनार्थः ।
गम्यमपि तेषामेवेति प्रतीतिनिरासायोक्तम् विमुक्तेति ।
ये कर्मणो देहाच्च विमुक्तास्तेषां सर्वेषामपि गम्यम् ।
इदमुभयमेतत्पादोदितम् ।
अत्राधिकरणेषु पूर्वपक्षयुक्तिः सिद्धान्तयुक्तीश्चाह सुक्रमेति ।
… सुक्रमविक्रमौ च । (अनुव्याख्यानम्)४,३.१ब् ।
१२,३६३
न्यायसुधा-
सान्तानिकं प्राप्तिरभीष्यता च सौकयर्मित्यन्यमतस्य तर्काः । (अनुव्याख्यानम्)४,३.१च्द् ।
विशेषसम्प्राप्तिरुरुत्वमाप्तिः क्रमानुरागः कथितानुवृत्तिः ।
सिद्धान्तनिर्णीतिकराः … । (अनुव्याख्यानम्)४,३.२अच् ।
न्यायसुधा-
अन्यमतस्येति जातावेकवचनम् ।
सिद्धान्तनिर्णीतिकरास्तर्का इति शेषः ।
ओं अप्रतीकालम्बनान्नयतीति बादरायण उभयथा च दोषात्तत्क्रतुश्च ओं ।
विमुक्तगम्यं प्रतिपादयितुमिदं सूत्रम् ।
तद्भाष्ये न विस्पष्टमित्यतः स्पष्टीकरिष्यन्प्रतीकशब्दार्थं तावदाह प्रतीकमिति ।
१२,३६४
अप्रतीकालम्बनान् नयतीति बादरायण उभयथा च दोषात् तत्क्रतुश् च । ब्ब्स्_४,३.१५ ।
… प्रतीकं देहादिकं … । (अनुव्याख्यानम्)४,३.२च्द् ।
न्यायसुधा-
आदिपदेन मनःप्रभृतीनां भगवत्प्रतिमानां ग्रहणम् ।
यद्यपि सूत्रे ऽप्रतीकालम्बनानां गम्यमुक्तं प्रतीकालम्बनानां तु परिशेषसिद्धम् ।
तथाप्यस्पष्टस्पष्टीकरणार्थं प्रवृत्तत्वादभावस्य भावपूर्वकत्वाच्च परिशेषसिद्धमेवार्थमादावाह तद्गतमिति ।
… तद्गतमेव ये नराः । (अनुव्याख्यानम्)४,३.२द् ।
उपासते ते पुरतः समाप्नुयुर्ब्रह्माणमस्मान्मतिमाप्य विष्णुम् ।
प्राप्स्यन्त्य् … । (अनुव्याख्यानम्)४,३.३अच् ।
न्यायसुधा-
प्रतीकगतमेव विष्णुम् ।
ते प्रतीकालम्बनाः ।
पुरतः प्राक् प्रलयकालात् ।
अस्मात् ब्रह्मणः ।
मतिं भगवज्ज्ञानविशेषम् ।
प्राप्स्यन्ति प्रलये ।
इदानीं सूत्रितामप्रतीकालम्बनानां गतिं प्रपञ्चयति अत इति ।
… अतो ऽन्ये ऽपि तमाप्य तस्माद्धरिं गता मुक्तिभाजः परान्ते । (अनुव्याख्यानम्)४,३.३च्द् ।
न्यायसुधा-
प्रतीकालम्बनेभ्यो ऽन्ये व्योप्तोपासका अप्रतीकालम्बनाः ।
प्रथमतस्तं विष्णुमाप्यापि परान्तकाले ।
तस्माद्विष्णोस्तं ब्रह्माणमाप्य हरिं गता भवन्तीति ।
। इति श्रीमत्पूणर्प्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना कृतायां टीकायां विषमपादवाक्यार्थविवृतौ चतुर्थाध्याये
ऽ(र्चिःप्रभृति)स्मिन्गमनचरणः पर्यवसितः ।
। इति श्रीमन्न्यायसुधायां चतुर्थाध्यायस्य तृतीयः पादः ।
अध्यय ४, पद ४
१२,३६६
। अथ श्रीमन्न्यायसुधायां चतुर्थाध्यायस्य चतुर्थः पादः ।
पादप्रतिपाद्यं तत्सङ्गतिश्च प्रसिद्धैवेत्यतः पूर्वोत्तरपक्षयुक्तिरेवाह अतिक्रमेति ।
अतिक्रमोक्तिः कृतिरर्थलाभः परा गतिः पारगतिस्तदोकः ।
समस्तकार्यं वशिता च विश्वसम्भावना युक्तयस्त्वन्यपक्षे । (अनुव्याख्यानम्)४,४.१ ।
सामान्यरूपं प्रतिभानमुक्तिराश्चर्यताकृत्रिमतास्तदोषः ।
विशेषक्ळ्प्तिः कृतनिःश्रमश्च माहात्म्यमित्येव सुनिर्णयार्थाः । (अनुव्याख्यानम्)४,४.२ ।
न्यायसुधा-
अन्यपक्षे पूर्वपक्षेषु ।
सुनिर्णयः सिद्धान्तनिर्णयः अर्थः प्रयोजनं यासां ताः सुनिर्णयार्था युक्तयः ।
१२,३६७
। ओं अत एव चानन्याधिपतिः ओं ।
इदं (एतत्) सूत्रं कश्चिद्वयाख्याति ।
अत एव चावन्ध्यसङ्कल्पत्वा(देवान)दन्यानधिपतिर्विद्वान्भवति ।
नास्यान्यो ऽधिपतिर्भवतीत्यर्थ इति ।
तदिदमसदिति भावेनाह अनन्येति ।
अत एव चानन्याधिपतिः । ब्ब्स्_४,४.९ ।
अनन्यभृत्यत्वमिहोदितभ्यस्त्वन्यस्य भृत्यत्वनिवारणाय । (अनुव्याख्यानम्)४,४.३अब् ।
न्यायसुधा-
इह सूत्रे मुक्तस्यानन्याधिपतिरिति यदनन्यभृत्यत्वमुक्तं तत्तूदितेभ्या ये यस्य मुक्तस्याधिपतित्वेनोदिताः शास्त्रे तेभ्यः अन्यस्य भृत्यो न भवति
मुक्त इति प्रतिपादनाय ।
नतु सर्वथा अधिपतिनिवारणाय ।
कुतः ।
अनन्यपदप्रयोगात् ।
अन्यथापतिरित्यक्ष्यत् ।
१२,३६८
इतश्चैवमेवेत्याह पतिमिति ।
पतिं यदेषामपि विष्णुमाह ह्युतामृतत्वस्य पतित्ववाग्धरेः । (अनुव्याख्यानम्)४,४.३च्द् ।
न्यायसुधा-
यत् यस्माद्धरेरमृतत्वस्योत यत्पतित्वं तस्य वाक्’उतामृतत्वस्येशानः’ इति श्रुतिरिति यावत् ।
विष्णुमेषां मुक्तानां पतिमाह ।
ततो ऽप्युक्त एव सूत्रार्थो नापर इति ।
१२,३६९
अनुमानेनाप्येतमर्थं समर्थयते एते ऽपीति ।
एते ऽपिचान्याधिपतित्वयुक्ता विष्ण्वन्यचित्त्वेन यथा पुमांसः ।
प्रसिद्धिभाजस्त्विति चानुमैव ह्यभीष्यसिद्धयै भवतीह निश्चयात् । (अनुव्याख्यानम्)४,४.४ ।
न्यायसुधा-
अपि चेति प्रमाणसमुच्चये ।
एते मुक्ताः ।
अन्यो ऽधिपतिर्येषां ते ऽन्याधिपतयः ।
तेषां भावो ऽन्याधिपतित्वं तेन युक्ताः ।
विष्ण्वन्यत्वेन चित्त्वेन जीवत्वेन च ।
तुशब्दो विशेषार्थः ।
परकीयव्याख्यानानुसारेणान्याधिपतित्वयुक्ता इति प्रतिज्ञातम् ।
स्वमते त्वधिपतियुक्ता इत्येव प्रतिज्ञेति ।
यदि कश्चिदुदाहृतश्रुत्यर्थे विप्रतिपद्येत तस्यानुमानेनैवाल(मित्युक्त)मित्यनुमैव चेह मुक्तेष्वभीष्यस्याधिपतिसाहित्यस्य सिद्धयै भवतीति ।
कथम् ।
व्याप्तिपक्षधर्म(त्व)तयोः प्रमितत्वादिति हिशब्दः ।
मुक्ता अधिपतिरहिता मुक्तत्वादवन्ध्यसङ्कल्पत्वादीश्वरवदित्यनुमानप्रतिरोध इति चेन्न ।
मूलप्रकृतावनैकान्त्यात् ।
विपक्षे बाधकाभावाच्च ।
तदिदमुक्तं निश्चयादिति ।
१२,३७०
न केवलं मुक्तानां भगवानधिपतिः किं त्वन्ये ऽपि यथासम्भवं भवन्तीत्याशयवानाह मुक्तेति ।
मुक्तस्वकीयावरयन्तृतास्ति मुक्तावपि ब्रह्मपुरस्सराणाम् । (अनुव्याख्यानम्)४,४.५अब् ।
१२,३७०फ़्.
न्यायसुधा-
ब्रह्मपुरःसराणामपि मुक्तौ मुक्ताश्च ते स्वकीयाः स्वैः सह मुक्तिं गताश्च च ते ऽवराश्च मुक्तस्वकीयावरास्तान्नियन्तृतास्ति ।
अमुक्तान्प्रति यन्तृता सर्वथा नास्ति ।
यथाऽह सूत्रकारः’विकारवतिर् च’ इति ।
मुक्तेष्वपि कल्पान्तरे मुक्तान्स्वकल्पे मुक्तेष्वप्युत्तमान्समांश्च प्रति नास्तीत्यतो मुक्तेत्याद्युक्तम् ।
अनेन परोदाहृतश्रुतीनां गतिश्चोक्ता भवति ।
१२,३७१
कुत एतदित्यत आह अनेनेति ।
अनेन देवेन तथामुना च हीष्ये परार्वाक्तनलोकिनामिति । (अनुव्याख्यानम्)४,४.५च्द् ।
फलं श्रुतिर्ज्ञानत आह … । (अनुव्याख्यानम्)४,४.६अ ।
न्यायसुधा-
अनेन चक्षुरन्तस्थेन देवेन प्रसन्नेन तथामुनाऽदित्यान्तर्गतेन च परार्वाक्तनलोकवर्तिनां मुक्तानामीष्ये ईशिता भवतीति श्रुतिर्ज्ञानतो
मुक्तनियन्तृत्वं फलमाह हीति ।
अत्रामुना परलोकिनां, अनेन अर्वाक्तनलोकिनामिति ज्ञेयम् ।
अनेन’अथ य एवं विद्वान्’ इत्याद्यां’सो ऽमुनैव ये चामुष्मात्पराञ्चो लोकास्तांश्चाप्नोति देवकामांश्च, अथानेनैव ये चैतस्मादर्वाञ्चो
लोकास्तांश्चाप्नोति मनुष्यकामांश्च’ इति श्रुतिमुपादत्ते ।
नन्वस्यां श्रुतावुक्तमिदं ज्ञानफलं मुक्तिगतमित्येतत्कुत इत्यत आह मुक्ताविति ।
… मुक्तावेतच्च सर्वाशुभनाशलिङ्गात् । (अनुव्याख्यानम्)४,४.६अब् ।
न्यायसुधा-
एतच्च सर्वलोकाप्तिलक्षणं फलं मुक्तावेव ।
‘उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद’ इति सर्वपापक्षयलिङ्गात् ।
नहि मुक्तेरितत्रैतत्सम्भवति ।
प्रारब्धपापस्य आमोक्षं विद्यमानत्वात् ।
१२,३७३
यदिदं सर्वलोकाधिपत्यं मुक्तौ फलमुक्तं तत्सर्वेषामपि मुक्तानामिति प्रतीतिनिरासायाह लोकेति ।
लोकाधिपत्यं च विधातुरेव सर्वात्मना … । (अनुव्याख्यानम्)४,४.६च्द् ।
न्यायसुधा-
सर्वात्मना लोकाधिपत्यं च मुक्तस्य विधातुरेव ।
अन्येषां यथायोग्यमिति भावः ।
स्वकीयेत्युक्तमनुसन्धेयम् ।
अत्र प्रमाणमाह इत्याहेति ।
१२,३७४
… इत्याह तुरश्रुतिश्च । (अनुव्याख्यानम्)४,४.६द् ।
न्यायसुधा-
सा चान्यत्र द्रष्टव्या ।
चशब्दो वक्ष्यमाणयुक्तिसमुच्चयार्थः ।
श्रुत्यन्तरमप्येवमेव व्याख्येयमित्याह सर्व इति ।
सर्वे बलिं देवगणा वहन्तीत्येतच्च नान्यस्य हि युक्तिमेति । (अनुव्याख्यानम्)४,४.६एफ़् ।
न्यायसुधा-
‘स वेद ब्रह्म, सर्वे ऽस्मै देवा बलिमावहन्ति’ इति श्रुत्युक्तं मुक्तस्य सर्वदेवपूज्यत्वं चानवधिकं विधातुरेव न सर्वेषामुक्तश्रुतेरेवेत्यर्थः ।
इतो ऽप्येवमित्याह नेति ।
पूजका अपि हि देवा मुक्ता एव ।
अमुक्तानां मुक्तसम्बन्धस्य निवारितत्वात् ।
तथाच सर्वे देवा मुक्ताः सर्वैर्मुक्तैर्देवैः पूज्यन्त इत्युक्तं स्यात् ।
एतच्च व्याहतम् ।
तत एव न (स्यैवोत्त)स्योत्तमत्वस्याधमत्वस्य क्वाप्यदर्शनात् ।
अत उक्त एव श्रुत्यर्थः ।
१२,३७५
स्यादेतत् ।
तांश्चाप्नोतीत्युक्त आप्ता सर्वाशुभनाशलिङ्गाद्भवतु मुक्तः ।
तस्य चात्र लोकाप्तिरेवोच्यते ।
नतु (मुक्त)स्वकीयावरयन्तृतेत्यत आह लोक इति ।
लोका इतीहापि तु लोकिनां वचो … । (अनुव्याख्यानम्)४,४.७अ ।
न्यायसुधा-
इह श्रुतौ लोका इति पदं तावल्लोकिनां वचःप्रतिपादकम् ।
न केवलमाप्ता मुक्तः ।
लोकपदमपि लोकिविषयमित्यपिशब्दः ।
तुशब्दो वृत्तिविशेषद्योतकः ।
यथा मञ्चशब्दो मञ्चस्थेषु पुरुषेषु विद्यते तथा लोकशब्दो ऽपि लोकस्थेषु पुरुषेष्विति ।
अत्र लक्षणाबीजसम्बन्धस्तु स्फुट एव ।
लाक्षिणिकप्रयोगप्रयोजनं वाच्यमित्यत आह लोक इति ।
… लोका इति ह्येव रवः प्रजासु ।
प्रयुज्यते सर्वजनैः सदैव … । (अनुव्याख्यानम्)४,४.७ब्च् ।
न्यायसुधा-
हिशब्दः प्रसिद्धौ ।
प्रयोजनानुसन्धानेन विनेत्येवशब्दः ।
रवः शब्दः ।
प्रजासु प्रजाविषये ।
रूढलक्षणैषा तत्र किं प्रयोजनान्वेषणेनेति भावः ।
अथवा किं लक्षणया ।
यतो वाचक एव लोकशब्दो जनानामिति भावेनाह लोका इति सर्वजनैरिति शब्दशक्तिज्ञैः ।
प्रकारान्तरेण लोकशब्दस्य पुरुषवाचित्वमाह तदिति ।
… तन्मानिनो लोकपदेन चोक्ताः । (अनुव्याख्यानम्)४,४.७द् ।
न्यायसुधा-
लोकाभिमानिनः ।
अभिमान्यधिकरणन्यायेनेति भावः ।
१२,३७६
अस्तु लोकशब्दस्य जनेषु वृत्तिस्तथाप्यस्यां श्रुतौ तद्विवक्षा कुतो ज्ञायते ।
न तावतापीष्यसिद्धिः ।
मुक्तविषयतायां प्रमाणाभावात् ।
आप्तिरेव चेहोच्यते नतु तन्नियमनमित्यत आह तद्गा इति ।
१२,३७७
तद्गास्तु मुक्ता इह लोकशब्दा अन्योन्यनाथा इति पैङ्गिनां श्रुतिः । (अनुव्याख्यानम्)४,४.७एफ़् ।
न्यायसुधा-
तुशब्दो ऽवधारणे ।
इह ये चामुष्मादित्यस्यां श्रौतौ तद्गाः परावरलोकगताः मुक्ता एव लोक इति शब्दो एषां ते लोकशब्दाः ।
ते चान्योन्यनाथाः उत्तमा अधमानां स्वीयानां नियामका इत्येवमेतच्छतिव्याख्यानरूपा पैङ्गिश्रुतिरस्ति ।
यद्यपि मुक्तस्य विकारावर्तिव्यापारनिषेधादेवैतत्सिद्धम् ।
तथापि दार्ढ्याय श्रुत्युदाहरणम् ।
एतेन लक्षणापक्षे मुख्ये बाधकं चोक्तं भवति ।
अभिमानिपक्षे तु भूतपूर्वगत्या मुक्तेषु लोकशब्दो व्याख्येयः ।
१२,३७८
प्रकारान्तरेणास्यां श्रुतौ मुक्तस्य मुक्तनियामकत्वं प्रतिपादयन्नाह अलोकेति ।
अलोकशब्देन विमुक्तिभाजो वाच्याः … । (अनुव्याख्यानम्)४,४.८अब् ।
न्यायसुधा-
लोकदोषातीतत्वाद्विदेहत्वाद्वेति भावः ।
ततः किं प्रकृत इत्यत आह पदमिति ।
… पदं तादृगपीह युक्तम् । (अनुव्याख्यानम्)४,४.८ब् ।
न्यायसुधा-
इह पराञ्चो लोका अर्वाञ्चो लोका इत्यत्र तादृगलोक इत्यपि पदं छेत्तुं युक्तम् ।
लोकालोकशब्दयोः संहिताया(यां)ः समानरूपत्वादिति भावः ।
योगवृत्त्यापि लोकशब्दस्य मुक्तेषु वृत्तिः सम्भवतीत्याह लोकेति ।
लोकाभिधाश्चापि यतो हि मुक्ताः प्रकाशरूपाः सततं च सर्वे । (अनुव्याख्यानम्)४,४.८च्द् ।
न्यायसुधा-
यतः सर्वे ऽपि मुक्ताः सततमपि प्रकाशरूपाः प्रसिद्धास्ततो ऽपि लोकाभिधाः ।
लोकतेः पचाद्यचि कृते रूपमेतत् ।
दर्शनं प्रकाश इति च नार्थान्तरम् ।
१२,३७९
यदुक्तं प्राग्लोकाभिमानिनो ये मुक्तास्त इह लोकशब्दार्था इति तदसत् ।
ते हि उत्तमाः ।
नच तन्नियमनं मुक्तानां सम्भवतीत्यतो मोक्तं विस्मार्षीरित्याह ब्रह्मैवेति ।
ब्रह्मैव लोकाधिपतिर्विमुक्तो भवेदिति प्राह तुरश्रुतिश्च । (अनुव्याख्यानम्)४,४.८एफ़् ।
न्यायसुधा-
तथाच नानुपपत्तिरिति ।
१२,३८०
एवं स्वमतेन श्रुतिं व्याख्याय यत्परेषां व्याख्यानमादित्यमण्डले परमेश्वरमुपासीनस्य विदुषः परलाकाधिपत्यं भवति
चक्षुष्युपासीनस्यार्वाक्तनलोकाधिपत्यं भवतीति तन्निराकरोति नचेति ।
नचेह विज्ञानफलं समुक्तं लोकाधिपत्यं … । (अनुव्याख्यानम्)४,४.९अब् ।
न्यायसुधा-
इह श्रुतौ ।
लोकाधिपत्यं विज्ञानफलं समुक्तमिति व्याख्यानं न युक्तम् ।
कुत इत्यत आह रवीति ।
… रविबिम्बतो हरौ ।
उक्तं पृथक् तच्च पुरैव यस्माद् … । (अनुव्याख्यानम्)४,४.९ब्च् ।
न्यायसुधा-
चशब्देन चक्षुर्गते चेति समुच्चिनोति ।
यस्मात् कारणात् तत् लोकाधिपत्यं पुरैव पूर्ववाक्य एव रविबिम्बगे हरौ चक्षुरन्तर्गते च पृथक् विभागेनोक्तम् ।
आदित्यगतं प्रकृत्य’स एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्ये मनुष्यकामानां च’ इति ।
तस्मान्नेति ।
एतदुक्तं भवति ।
न समस्तलोकाधिपत्यं विदुषो युज्यते ।
तस्य भगवद्धर्मत्वेनात्रैवोक्तत्वादिति ।
१२,३८१
भगवद्धर्मो ऽपि विदुषो भवतीत्यङ्गीकारे को दोष इति चेत् ।
तत्किं भगवान् स्वीयसर्वलोकाधिपत्यं परित्यज्य विदुषे ददातीति ।
उत विद्वांसमवान्तरेश्वरं करोतीति ।
अथ विद्वांस्तादात्म्यं प्राप्नोतीति ।
नाद्यः ।
भगवदैश्वर्यस्य समस्तश्रुत्यादौ नित्यत्वावगमात् ।
किं चैकस्मै विदुषे दत्तस्वाधिपत्यो मगवानन्यस्मै (विदुषे) किं दद्यात् ।
सर्वपापक्षयलिङ्गविरोधाच्च ।
अत एव न द्वितीयः ।
हिरण्यगर्भे तद्युज्यत इति चेन्न ।
पाप्म(प)शब्देन प्रकृत्देर्बन्धस्य विवक्षितत्वात् ।
अत एवोक्तं सर्वाशुभेति ।
‘तस्योदिति नाम’ इति हि परमेश्वरस्योच्छब्दं नामत्वेनोक्त्वा तस्य निर्वचनं क्रियते’स एष सर्वेभ्यः पाप्मभ्य उदिते’ इति ।
तत्रोदितत्वमेवोच्छब्दाथर्ः ।
कस्मादित्यपेक्षायां योग्यं किमपि ग्राह्यम् ।
नच तत्पापमेवेति नियामकमस्ति ।
अतः सर्वमप्यशुभं तत्र विवक्षितम् ।
तदेव च विदुषः फलमुच्यते ।
तृतीयं निराकरोति भेद इति ।
… भेदो ऽमुनेत्यादि च सम्यगुक्तः । (अनुव्याख्यानम्)४,४.९द् ।
न्यायसुधा-
विदुषः ।
परमेश्वरादिति शेषः ।
आदिपदेनानेनेत्यस्य ग्रहणम् ।
क्रियाविशेषणं चैतत् ।
भेदश्चेति सम्बन्धः ।
सम्यगिति ।
स्पष्टम् ।
नहि तदात्मा तत्प्रसादात्तद्धर्मा भवति ।
१२,३८३
भवेदेतद्यद्यमुनानेनेत्येतदमुना देवेन प्रसन्नेन निमित्तेनेति व्याख्यायेव ।
नचैवम् ।
किं नाम ।
अमुना रूपेणामुष्य तादात्म्यं प्राप्येति ।
नचैवं सति भेदोक्तिरस्तीत्यत आह त्वप्रत्ययमिति ।
त्वप्रत्ययं चाप्यतिहाय नैव रूपेण तेनेति भवेदिहार्थः । (अनुव्याख्यानम्)४,४.१०अब् ।
न्यायसुधा-
चशब्दस्तत्समानार्थप्रत्ययान्तरसमुच्चयार्थः । अपिशब्दो रूपेणेति पदस्य ।
तेन इत्यमुना अनेनेत्युभयोर्ग्रहणम् ।
अतिहाय प्रवृत्तायामिह श्रुतौ ।
भवे(देवं प)दयं परस्यस्याभिलाषः श्रुतिस्तु न तथा वक्ति ।
यदि खल्वदस्त्वेनादस्तयेदन्त्वेनेदन्तयेति भाववाची प्रत्ययः स्यात् ।
यदि वा(चा)मुना रूपेणात्मना, अनेन रूपेणात्मनेति पदं स्यात् ।
तदा प्रतीमो ऽयमर्थः श्रुत्यभिप्रेत इति ।
नचैतदस्तीति ।
१२,३८४
ननु भावप्रधाना निर्देशा बहुलमुपलभ्यते ।
ततो विनापि प्रत्ययेन सो ऽर्थो भविष्यति ।
सोपस्कराणि च वाक्यानि भवन्ति ।
ततो रूपेणेत्यादिपदाध्याहारो वा करिष्यते ।
को दोष इति चेन्न ।
निश्चिते हि वाक्यार्थे तदुपपद्यते ।
नच तन्निश्चायकमत्रास्तीत्याशयवान्दोषान्तरमाह भवतीति ।
भवत्यसावित्यणुशब्दमत्र विहाय वाक्यानि बहूनि दोषः । (अनुव्याख्यानम्)४,४.१०च्द् ।
न्यायसुधा-
यद्यस्यां श्रुतौ तादात्म्यप्राप्त्या(प्तौ) तदीयं सर्वलोकाधिपत्यमस्य भवतीत्यर्थो विवक्षितः स्यात् ।
तर्ह्यत्रैतदर्थप्रतिपादने ऽयं विद्वानसौ परमात्मा भवतीत्येतावदेव वक्तव्यम् ।
नतु सो ऽमुनैवेत्यादिकम् ।
तादात्म्यप्राप्तौ तद्धर्मर्(म्य)स्य स्वतः सिद्धत्वात् ।
अयमसौ भवतीत्यल्पं शब्दं विहाय बहूनि वाक्यानि प्रयुञ्जानायाः श्रुतेरकुशलत्वदोषः स्यात् ।
नहि कश्चिदल्पीयसा प्रयत्नेन सिद्धत्यर्थे महान्तं प्रयत्नमातिष्ठमा(नः सद्भि)नो महद्भिराद्रियते ।
किं चात्र परमेश्वरः सगुणो वा विवक्षितो निर्गुणो वा ।
आद्ये न विदुषस्तत्तादात्म्यमस्ति ।
परेणा(प्य)नभ्युपगतत्वात्(मात्) ।
न द्वितीयः ।
निर्गुणस्याऽदित्यादिपरिच्छेदानुपपत्तेः ।
ऐश्वर्यासम्भवाच्च ।
नच तद्भूयङ्गतस्य सर्वलोकाधिपत्यं भवतीति ।
१२,३८६
अपव्याख्याननिराकरणमुपसंहरन्पादार्थं सङ्क्षेपेणाह अत इति ।
अतो जगद्वयापृतिमन्त एव ब्रह्मादयः पूर्णगुणाः क्रमेण ।
अमन्दमानन्दमजस्रमेव भुञ्जन्त आत्मीयमजात् समासते । (अनुव्याख्यानम्)४,४.११ ।
न्यायसुधा-
जगच्छब्देन स्वी(स्यकी)यावरमुक्ता गृह्यन्ते ।
जगद्वयापारवर्जमित्येतन्मुक्तेतरजगद्विषयम् ।
अतो न तद्विरोध इत्येतदप्यनेन सूचयति ।
अन्यथा स्वावरमुक्तनिमका एवेत्यवक्ष्यत् ।
तथाचानन्याधिपतिपदमुक्तार्थमेवेति भावः ।
आत्मीयं नतु परमेश्वरम् ।
अजात् परमेश्वरात्तमविहायेत्यर्थः ।
तत्प्रसादादिति वा ।
। इति श्रीमन्न्यायसुधायां अनन्याधिपतित्वाधिकरणम् ।
१२,३८८
एवम्परिसमापितग्रन्थो भगवानाचार्यः स्वप्रतिपादितप्रकारं स्वस्यातिविशदानादिसावर्ज्ञप्रदं निरुपाधिकपरमप्रेमास्पदगुणगणं पुरुषोत्तमं
पौनःपुन्येन प्रणमति नम इति ।
नमो नमो ऽशेषविशेषपूर्णगुणैकधाम्ने पुरुषोत्तमाय ।
भक्तानुकम्पादतिशुद्धसंविद्दात्रे ऽनुपाधिप्रियसद्गुणात्मने । (अनुव्याख्यानम्)४,४.१२ ।
न्यायसुधा-
अशेषविशेषैः पूर्णा ये गुणास्तेषां प्रधानाश्रयाय, भक्ते मय्यनुकम्पादनुक्रोशात् ।
अत एव ताच्छीलिकस्य तृनः प्रयोगः ।
सद्गुणानुवादेनानुपाधिप्रियत्वं तादात्म्यं च विधीयत इति न पुनरुक्तिः ।
१२,३९०
यथा भगवत्स्वरूपविज्ञानं समस्तपुरुषार्थसाधनं तथा स्वस्वरूपविज्ञानमपीत्यतः तदाविष्कुर्वन्नाह यस्येति ।
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यानलं बट् तद् दर्शतमित्थमेव निहितं देवस्य भर्गो महत् ।
वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुर्मध्वो यत्तु तृतीयमेतदनुमा ग्रन्थः कृतः केशवे । (अनुव्याख्यानम्)४,४.१३ ।
न्यायसुधा-
यस्य वायोर्देवस्य वेदवचने बळित्थेत्यादावलं दिव्यान्यद्भुतानि त्रीणि रूपाण्युदितानि ।
अमुना वायुनायं केशवे विषये ग्रन्थः कृत इत्यन्वयः ।
१२,३९१
कीदृशं तस्य मूलरूपं कथम्भूतानि च तानि त्रीणि रूपाणीत्यत उक्तम् बडित्यादि ।
यस्य तन्मूलरूपं बट् बलात्मकं दर्शतं ज्ञानरूपं च ।
दृशेरौणशदिको ऽतच्प्रत्ययः ।
अनेन वायुशब्दो निरुक्तः ।
वशब्दो बलवाची ।
अयतिः गत्यर्थः ।
गत्यर्थाश्चावगत्यर्थाः ।
तत उण् ।
वश्चासौ आयुश्चेति वायुरिति ।
किञ्च भर्गो भरणगमनयोः कर्तृ ।
हुभृञ् भरणे, गम्ळ् गतौ, आभ्यामसुन्प्रत्ययो डिच्च ।
इदमपि वायुशब्दव्याख्यानम् ।
वा गतिगन्धनयोरित्यतः कृवापाजिमिस्वदिसाध्यशूभ्य उणित्युण् ।
अनेकार्थत्वाद्धातूनां वातिर्भरणे ऽपि वर्तते ।
अपि च महत् श्रेष्ठम् ।
वयः श्रेष्ठत्व इत्यस्मादुण् ।
न केवलं मूलरूपमेवं किन्तु यस्यावतारेषु निहितं रूपमित्थमेव ।
यस्य प्रथमकं प्रथमं रूपं रामविषयाणि वचांसि मूलरामायणादीनि रामवचांसि तेषां नयं नीयन्ते शिष्येषु प्रवर्त्यन्ते ऽनेनेति ।
एरजित्यच् ।
यस्य द्वितीयं वपुः पृक्षः ।
पृच्छब्दः पृतनावाची प्रसिद्धः ।
तस्मिन्कर्मण्युपपदे क्षै क्षय इत्येतस्मात् आतो ऽनुपसर्गे क इति कः ।
उपपदतकारलोपश्छान्दसः ।
पुंलिङ्गं(ङ्गः) च श्रुत्यनुसारेण ।
असुन्वा प्रत्ययः ।
किदित नपुंसकमेवेदम् ।
रिपुपृतनाक्षयकारीत्यर्थः ।
१२,३९२
यस्य तृतीयं वपुः एतन्मध्वः ।
मधुशब्दः सुखवाची ।
‘मधुत द्यौरस्तु नः पिता’ इति प्रयोगात् ।
वशब्दः शास्त्रापरपर्यायतीर्थवाची ।
वातेरवगत्यर्थात्करणे घञर्थे कविधानमिति कः ।
सुखसाधनं तीर्थमस्येति ।
स्वरित्यत्रेवोकारलोपः ।
१२,३९९
भगवत्स्वरूपप्रतिपादनेनैव ग्रन्थोपसंहारः समुचित इत्याशयवान्नित्यापरोक्षं भगवन्तं सम्बोध्य स्तौति निःशेषमिति ।
निःशेषदोषरहितकल्याणाखिलसद्गुण ।
भूतिस्वयम्भुशर्वादिवन्द्यं त्वां नौमि मे प्रियम् । (अनुव्याख्यानम्)४,४.१४ ।
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने चतुर्थो ऽध्यायः ॥
न्यायसुधा-
भूतिः महालक्ष्मीः ।
१२,४००
वचनप्रसूनमाला जयतीर्थाख्येन भिक्षुणा रचिता ।
ध्रियतां हृदये सदये कमलामहिलेन पूरुषेण । १ ।
१२,४०१
न वैदुष्यभ्रान्त्या नच वचनचातुर्यकुधिया न मात्सर्यावेशान्नच चपलतादोषवशतः ।
परं श्रद्धाजाड्यादकृषि कृतिमाचार्यवचसि स्खलन्नप्येतस्माज्जगति नहि निन्द्यो ऽस्मि विदुषाम् । २ ।
अनुव्याख्यामृताम्भोधेः समुत्पन्नातिनिर्मला ।
इयं न्यायसुधा भौमैर्विबुधैः सेव्यतां सदा । ३ ।
१२,४०३
इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।
कृतायां टीकायां विषमपदवाक्यार्थविवृतौ चतुर्थे ऽध्याये ऽस्मिंश्चरमचरणः पर्यवसितः । ४ ।
। इति श्रीमन्न्यायसुधायां चतुर्थो ऽध्यायः सम्पूर्णः ।