०९ अनेकलयाधिकरण

। अथ श्रीमन्न्यायसुधायां अनेकलयाधिकरणम् ।
इदानीमेतत्पादाधिकरणेषु पूर्वपक्षसिद्धान्तयुक्तीर्विवक्षुः प्रसङ्गात्सिंहावलोकनेन पूर्वपादद्वययुक्तिकथनपूर्वकमस्मिन्पादे चाहऔदायर्मिति ।
औदार्यमुच्चावचशक्तिरात्मस्वरपूदार्ढ्यं च निजस्वभावः ।
स्वातन्त्र्यमापूर्णविशेषयोग्यता विरोधहानिश्च चतुर्थपादे । (अनुव्याख्यानम्)४,२.११४ ।
न्यायसुधा-
चतुर्थपादे तृतीयाध्यायस्य ।
पूर्वपक्षयुक्तय इति शेषः ।
व्यवस्थितिस्त्वविशेषः स्थितिश्च निषेधसामान्यविधिक्रियाणाम् ।
विभक्तता चात्वरयैव सिद्धिर्विपक्षसम्प्राप्तिविरुद्धहेतवः । (अनुव्याख्यानम्)४,२.११५ ।
न्यायसुधा-
विपक्षसम्प्राप्तिकृतां निरोधाः ।
पूर्वपक्षसम्प्राप्तिं कुर्वन्तीनां युक्तीनां निवारका हेतवः ।
विपक्षसम्प्राप्तिविरुद्धहेतव इति क्वचित्पाठः ।
तत्र सम्प्राप्तिशब्दः करणसाधनः ।
१२,३३७
सुशक्यता शश्वदतिप्रसिद्धिविवेकविन्यासविचारसञ्ज्ञाः ।
नानाप्रवृत्तिः कृतकृत्यता च विपक्षतर्काः समतीतपादे । (अनुव्याख्यानम्)४,२.११६ ।
न्यायसुधा-
समतीतपादे निरन्तरातीतपादे ।
महाफलत्वं प्रविविक्तता च सन्धिग्रहः साधनमाप्तकृत्यम् ।
विशेषकार्यं कृतिसंस्थितिश्च सुयुक्तयो निर्णयगाः स्वपक्षे । (अनुव्याख्यानम्)४,२.११७ ।
न्यायसुधा-
स्वपक्षे सिद्धान्तविषये ।
निर्णयगा निर्णयहेतवः सुयुक्तयः ।
व्यामिश्रता कार्यकरत्वमर्थक्ळ्प्तिः सुदार्ढ्यं परतन्त्रता च ।
समानधर्मः कृतशेषता च लोकोपमा पूर्वमतानुसाराः । (अनुव्याख्यानम्)४,२.११८ ।
न्यायसुधा-
पूर्वमतानुसारा युक्तयो अस्मिन्पादे ऽनुस्रियन्त एताभिरित्यनुसाराः ।
विशेषसाम्यश्रुतिराढ्यता च समानलोपो महिमा विशेषः ।
कृतार्थता शश्वदनुप्रवृत्तिः सिद्धान्तनिर्णीतिविशिष्टहेतवः । (अनुव्याख्यानम्)४,२.११९ ।
न्यायसुधा-
सिद्धान्तनिर्णीतेर्विशिष्यहेतवः ।
१२,३३९
। ओं नैकस्मिन्दर्शयतो हि ओं ।
अत्राग्नौ सर्वे देवा विलीयन्ते ।
भूतेषु देवा विलीयन्ते इति श्रुतिद्वयविप्रतिपत्त्या किमग्नावेकस्मिन्सर्वे देवा विलीयन्ते, उत पञ्चस्वपि भूतेष्विति संशये ऽग्नावेकस्मिन्नेव सर्वेषां
देवानां लयः ।
अग्निश्रुतेर्निरवकाशत्वात् ।
भूतश्रुतेस्तु सावकाशत्वात् ।
एकस्मिन्नग्नौ सर्वेषां च लये ऽग्नेश्च वायौ वायोराकाशे सति भूतेष्विति बहुवचनोपपत्तेरिति प्राप्ते सिद्धान्तितम् ।
नैकस्मिन्नग्नौ सर्वेषां देवानां लयः ।
किन्तु पञ्चस्वपि भूतेषु ।
कुतः ।
‘पृथिव्यामृभवो विलीयन्ते, वरुणे ऽश्विनौ, अग्नावग्नयो, वायाविन्द्रः, सोम आदित्यो बृहस्पतिरित्याकाश एव साध्या विलीयन्ते’
(मृत्यवः)’ऋभवः पृथिव्यां, वरुण आपः, अग्नयस्तेजसि, मरुतो मारुते, आकाशे विनायका विलीयन्ते’ इति श्रुती यथायोगं पञ्चस्वपि भूतेषु
देवानां लयं दर्शयतो हीति ।
अत्र वायाविन्द्र इति वायुशब्दो भूतवायोरप्रधानस्य वाचको विवक्षित इति प्रतीयते ।
पृथिव्यादिसङ्कीर्तनेन भूत(प्रकर)कारणात् ।
सूत्रकृता च सर्वेषु भूतेषु देवानां लय इत्यत्रार्थे गृहीते ऽयं श्रुतिः ।
भूतेषु तच्छतेरित्युपक्रमात् ।
ततो ऽप्यप्रधानो वायुरिति प्रतीतिनिवारणाय आहप्रधानेति ।
नैकस्मिन् दर्शयतो हि । ब्ब्स्_४,२.६ ।
प्रधानवायुस्त्विह वायुनामा भूतेष्वितिप्रोक्तगतो ऽपि युक्तया । (अनुव्याख्यानम्)४,२.१२०अब् ।
न्यायसुधा-
तुशब्दो ऽवधारणे ।
इह श्रुतौ भूतेष्विति प्रोक्तगतो ऽपीति शङ्काबीजानुवादः ।
भूतेषु लयं वक्ष्यामीत्याशयेन श्रुत्या प्रोक्तं यत्पृथिव्यादिकं तद्गतो ऽपीति ।
यद्वा भूतेषु देवानां लय इत्यत्रार्थे प्रोक्तं सूत्रकृता गृहीतं
श्रुतिवाक्यं तद्गतो ऽपीति ।
कुतः ।
युक्त्या उत्तमानामिन्द्रादीनामधमे भूतवायौ लयानुपपत्तेरित्यर्थः ।
प्रधानवायावपि कथमिन्द्रादीनां लयोपपत्तिरित्यत आहयस्मादिति ।
यस्माच्छ्रुतौ पवते चेति भूरि प्रोक्तो … । (अनुव्याख्यानम्)४,२.१२०च् ।
न्यायसुधा-
यस्मात्कारणात्’सा वा एषा देवतानादिर्यो ऽयं पवते’ इति श्रुतौ चशब्दादन्यास्वपि श्रुतिषु प्रधानवायुः भूरित्वेन सकलजीवोत्तमत्वेन प्रोक्तः,
तस्मात् तस्मिन्निन्द्रादीनां प्रलयोपपत्तेः, प्रधानवायुस्त्विह वायुनामेति सम्बन्धः ।
यद्वा’एष वै ब्रह्म यो ऽयं पवते तमेताः पञ्च देवताः परिम्रियन्ते विद्युद्वृष्टिश्चन्द्रमा आदित्यो ऽग्निः’ इति श्रुतिरत्र विवक्षिता ।
तत्र भूरिस्पष्टं सूर्यादीनां संहर्ता प्रोक्त इति ।
एवं तर्हि भूतप्रकरणबाधः स्यादित्यत आहयत इति ।
… यतो भूतमानी च सो ऽपि । (अनुव्याख्यानम्)४,२.१२०द् ।
न्यायसुधा-
न केवलमप्रधानवायुः किन्तु स प्रधानवायुरपि भूतमानित्वाद्भूतनामा चेति चार्थः ।
अतः प्रकरणविरोधाभावात्प्रधानवायुरेवेह वायुनामेति ।
उक्तमेव प्रपञ्चयतिमहामानीति ।
महामानी त्वल्पमानी च यस्मात् तच्छब्देनाप्युच्यते तेन सो ऽपि । (अनुव्याख्यानम्)४,२.१२०एफ़् ।
न्यायसुधा-
महांश्चासौ मानी चेति महामानी सर्वाभिमानीति यावत् ।
यथा समस्तराष्षाधिपती राजा तदन्तर्गतस्य ग्राम(क)स्याधिपतिर्भवत्येवं सर्वाभिमानी प्रधानवायुरल्पस्य वायोर्भूतस्याभिमानी भवेदेव ।
तच्छब्देन भूतशब्देन ।
न केवलं वायुशब्देनेत्यपेरर्थः ।
। इति श्रीमन्न्यायसुधायां अनेकलयाधिकरणम् ।


_
१२,३४१