। अथ श्रीमन्न्यायसुधायां तदधिगमाधिकरणम् ।
। ओं तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्वयपदेशात् ओं ।
निवृत्ता साधनचिन्ता ।
प्रतिबन्धा(का)नां पूर्वोत्तराणामनन्तकर्मणां भावान्न ज्ञानिनो मोक्षः सम्भवतीत्याशङ्कानिरासाय कर्मनाशाख्यं ज्ञानफलमिदानीं निरूप्यते ।
तत्र ज्ञानसामर्थ्येनैव कर्मक्षयो भवतीति प्रतीतिं निराकर्तुं सूत्रतात्पर्यमाहतथेति ।
तदधिगम उत्तरपूर्वाघयोर् अश्लेषविनाशौ तद्व्यपदेशात् । ब्ब्स्_४,१.१३ ।
तथोपास्याञ्जसा दृष्टं ब्रह्म पापं च भस्मसात् ।
करोति निखिलं पूर्वं पाश्चात्त्यस्याप्यसङ्गताम् ।
करोति … । (अनुव्याख्यानम्)४,१.५७अए ।
१२,९०
न्यायसुधा-
तथा उक्तप्रकारेण, अञ्जसा आदरनैरन्तर्याभ्यां, उपास्य दृष्टं, ज्ञानात् पूर्वं, निखिलं पापं, चशब्दादनिष्यं पुण्यं च, पाश्चात्यस्य
पापस्यानिष्यपुण्यस्य च ।
अनेन’अतो ऽन्यदपीत्येकेषामुभयोः’ इति सूत्रतात्पर्यमुक्तं भवति ।
। ओं इतरस्याप्येवमसंश्लेषः पाते तु ओं ।
१२,९०फ़्.
इदं सूत्रं केचिद्ब्रह्मविद एवाघस्येव पुण्यस्या(संश्ले)शेषो विनाशो भवति, शरीरपाते प्रत्यासन्ने सतीति व्याचक्षते, तदसत् ।
अतो ऽन्यदपीत्यस्य पुनरुक्तताप्रसङ्गात् ।
व्याख्यानव्याख्येयभावस्य चानन्यगतित्वात् ।
पूर्वसूत्र एवाघपदस्थाने कर्मपदप्रक्षेपेणोपपत्तौ सूत्रान्तरारम्भवैयर्थ्यात् ।
अस्माकं त्वग्निहोत्रादीत्यादिसूत्राणि पुण्ये ऽपि विभागसूचनार्थानि ।
ज्ञानोत्तरं पुण्यार्जनस्याभावादश्लेषशब्दो विनाशार्थो व्याख्यातव्यः ।
तथाच प्रकृतपरित्यागो ऽप्रकृतस्वीकारश्चेत्याशयवानन्यथा सूत्रतात्पर्यमाहतद्द्विषश्चेति ।
इतरस्याप्य् एवम् असंश्लेषः पाते तु । ब्ब्स्_४,१.१४ ।
… तद्द्विषश्चैवं पुण्यनाशो ऽप्यसङ्गता । (अनुव्याख्यानम्)४,१.५७एफ़् ।
न्यायसुधा-
ब्रह्मद्विषश्च ।
एवं ज्ञानिवत् ।
द्वेषपरिपूर्तेः पूर्वस्य पुण्यस्य नाशो भवत्युत्तरस्यासङ्गतापि ।
अत्र सूत्रं यदेव विद्ययेति हीति, तत्पुनरुक्तम् ।
एतदर्थस्य तच्छ्रुतेरिति सूत्रेण प्रागुक्तत्वादित्यत आहयदेवेति ।
यदेव विद्ययेत्यत्र पूर्वोक्ताद्धि विशिष्टते । (अनुव्याख्यानम्)४,१.५८अब् ।
न्यायसुधा-
अत्रोक्तं प्रमेयमिति शेषः ।
अतो न पुनरुक्तिदोष इति हेरथर्ः ।
वक्ष्यमाणो ऽर्थविभागः प्रकरणवशात् प्रसिद्ध इति वा ।
कथं विशिष्यत इत्यतः पूर्वसूत्रतात्पर्यं तावदाहपूर्वमिति ।
पूर्वं स्वर्गादिलब्ध्यर्थं वीर्यवत्त्वेन चोदितम् ।
कर्म विद्यायुतं … । (अनुव्याख्यानम्)४,१.५८च्ए ।
न्यायसुधा-
स्वर्गादीति मोक्षेतरपुरुषार्थग्रहणम् ।
उत्तरसूत्रतात्पर्यमाहपश्चादिति ।
… पश्चान्मोक्षे वीर्यप्रदं त्विति । (अनुव्याख्यानम्)४,१.५८एफ़् ।
न्यायसुधा-
पश्चात्त्विति सम्बन्धः ।
विद्यायुतं कर्मेति वर्तते ।
वीर्यपदं आनन्दातिशयप्रदम् ।
इति चोदितमिति सम्बन्धः ।
सकलकमर्क्षये तदैव मुक्तिः स्यात् ।
न चैवम् ।
जीवन्मुक्तानामुपलम्भादित्याशङ्कापरिहारायोक्तम्सूत्रकारेण अनारब्धकार्ये एव तु पूर्वे तदवधेः इति ।
तर्हि प्रारब्धकर्मभावात्कथं मोक्ष इत्याशङ्कय पुनः सूत्रितम्भोगेन त्वितरे क्षपरित्वाथ सम्पत्स्यत इति ।
एतदपि न ब्रह्मविन्मात्रविषयमित्याशयवान् व्याचष्टेतत इति ।
भोगेन त्व् इतरे क्षपयित्वाथ सम्पद्यते । ब्ब्स्_४,१.१९ ।
ततो भोगेन पुण्यं च क्षपयित्वेतरत् तथा ।
ब्रह्मद्विड् ब्रह्मदर्शी च तमोमोक्षाववाप्नुतः । (अनुव्याख्यानम्)४,१.५९ ।
न्यायसुधा-
अनारब्धक्षयानन्तरम् ।
इतरत्पापम् ।
१२,९४
प्रारब्धकर्मणामनन्तत्वे भोगेन क्षयो न शक्य(ते)इत्याशङ्कामागमवाक्येन परिहरतिब्रह्मणामिति ।
ब्रह्माणं शतकालात्तु पूर्वमारब्धसङ्क्षयः ।
ब्रह्मणस्त्वेव तावत्त्वं पञ्चाशद् ब्रह्मणस्तथा ।
रुद्रस्य विंशदेव स्यादिन्द्रस्यार्कादिके दश । (अनुव्याख्यानम्)४,१.६० ।
अन्येषां ब्रह्ममात्रस्य त्वन्त आरब्धसङ्क्षयः ।
ब्रह्मणैव सहातश्च परं नारायणं व्रजेत् ।
इति सत्तत्त्ववचनं स्वयं भगवतोदितम् । (अनुव्याख्यानम्)४,१.६१ ।
न्यायसुधा-
ब्रह्मणां शतमिति षष्ठया अलुक् ।
तस्य कालो ब्रह्मणां शतकालः तस्मात्तत्समाप्तेः पूर्वमेव सर्वेषां ज्ञानिनामारब्धसङ्क्षयो भवति ।
अस्यैव विवरणं ब्रह्मणस्तु तावत्त्वमेव ब्रह्मकल्पानां शतेनैव कर्मक्षयवत्त्वम् ।
ब्रह्मण इति जातावेकवचनम् ।
पञ्चाशतां ब्रह्मणां कालात्पूर्वं रुद्रस्यारब्धसङ्क्षयः ।
तथाशब्दः समुच्चये ।
विंशतिपर्यायो विंशच्छब्दः ।
ब्रह्मणां विंशतिरेव तदवच्छिन्न एवेन्द्रस्य प्रारब्धकर्मसङ्क्षयकालः ।
अर्कादिके अर्कादीनां दश ब्रह्मणस्तदवच्छिन्नः कर्मक्षयकालः ।
ब्रह्ममात्रस्य एकस्यैव ब्रह्मणः ।
अतः परं प्रारब्धकर्मसङ्क्षयानन्तरमपि ब्रह्मणा सहैव नारायणं व्रजेत् ।
। इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना कृतायां टीकायां विषमपदवाक्यार्थविवृतौ चतुर्थे ऽध्याये
ऽस्मिन्प्रथमचरणः पर्यवसितः ।
। इति श्रीमन्न्यायसुधायां चतुर्थाध्यायस्य प्रथमः पादः ।
अध्यय ४, पद २
१२,१०२
द्वितीयपादप्रतिपाद्यप्रदर्शनपरं भाष्यं’देवानां मोक्ष उत्क्रान्तिश्चास्मिन्पाद उच्यते’ इति ।
तत्र देवानामित्येतद्यदि मोक्षोत्क्रान्तिभ्यां सम्बद्धयते तदा देवेभ्यो ऽन्येषां सशरीराणामेवावस्थानमिति प्राप्नोति ।
अन्यत्र वा तच्छरीरपरित्यागप्रकारश्चिन्तनीयः ।
अचिन्तने वा कारणं वाच्यम् ।
यदि च मोक्षेणैव सम्बद्धयते तदा देवानां मोक्ष इतरेषामुत्क्रान्तिश्चेत्युक्तं भवति ।
मोक्षश्च प्रकरणवशाद्देहादिति गम्यते ।
तथाच प्रथमपादे कर्मनाशाख्यं फलमस्मिन्पादे उच्यत इति यथा सामान्येनोक्तं तथात्राप्युत्क्रान्तिरस्मिन्पाद उच्यत इति वक्तव्यम् ।
किमनेन विभागे(नेत्य)न कृतं स्यादित्यत आहदेवानां चेति ।
देवानां च मनुष्याणामेतावत् सममेव हि ।
उत्क्रान्तिमार्गौ देवानां न प्रायेण भविष्यतः । (अनुव्याख्यानम्)४,२.१ ।
न्यायसुधा-
यदतीतपादे चिन्तितं कर्मनाशाख्यं फलमेतावद्देवानां मनुष्याणां च सममेव ।
कर्मनाशाभावे तत्फलानुवृत्तेरावश्यकत्वात् ।
मनुष्यशब्दो देवव्यतिरिक्तान् लक्षयति ।
तस्मात् सामान्येन पूर्वपादप्रतिपाद्यमुक्तम् ।
एतत्पादप्रतिमाद्या देहादुत्क्रान्तिस्तृतीयपादप्रतिपाद्यो ऽर्चिरादिमार्गश्च देवानां न प्रायेण भविष्यतो ऽतो विभागेनोक्तिर्युक्तेति ।
अनेन’मार्गो गम्यं चास्मिन्पाद उच्यते’ इत्येतद्भाष्यमपि देवव्यतिरिक्तानां मार्गः सर्वेषां गम्यं चेति व्याख्येयमिति सूचितं भवति ।
स्फुटं चैतद्वक्ष्यति ।
‘उत्क्रान्तिमार्गश्च विमुक्तगम्यम्’ इति ।
१२,१०४
भवत्विदं प्रतिपाद्यं एत(त्पादप्रति)त्प्रतिपादने का सङ्गतिरित्यतः प्रसङ्गात्पादचतुष्ययस्यापि सङ्गतिमाहकर्मेति ।
कर्मक्षयसतथोत्क्रान्तिर्मार्गो भोगश्चतुष्ययम् ।
फलं मोक्ष इति प्रोक्तः क्रमात् पादेषु चोदितः । (अनुव्याख्यानम्)४,२.२ ।
न्यायसुधा-
तथाशब्दः समुच्चये ।
उत्क्रान्तिशब्देन देवतदितरसाधारणश्चरमदेहनाशो लक्ष्यते, मार्गशब्देन ब्रह्मप्राप्तिश्च ।
इतिशब्दो भोग इत्यतः परो (परं) योज्यः ।
क्वचित्पाठः प्रोक्तमित्युदितमिति च तत्र यथास्थान एव इतिशब्दः ।
आद्ये मोक्षानुवादेन फलचतुष्ययात्मकत्वं विधेयम् ।
द्वितीये तु विपर्ययेण ।
क्रमादित्येतदावर्तनीयम् ।
१२,१०५
ततश्चायमर्थः ।
फलं खल्वत्राध्याये निरूपणीयम् ।
फलं च मोक्षः ।
सच कर्मक्षयादिचतुष्ययात्मकः ।
आत्यन्तिकानिष्यनिवृत्तीष्यप्राप्त्योरत्रैवान्तर्भावात् ।
कर्मक्षयादयश्च क्रमाद्भवन्ति ।
ज्ञानोदयानन्तरमेव हि कर्मक्षयः क्षीणकर्मणश्चोत्क्रान्तिः उत्क्रान्तस्य च स्वयोग्यमार्गेण गतस्य ब्रह्मप्राप्तिः ततो भोग इति ।
तस्मादेतेषु पादेषु क्रमादेवोदिता इत्यन्तर्भावलक्षणा चानन्तर्यलक्षणा च सङ्गतिरिति ।
१२,१०८
देवानां मार्गो नास्तीत्युक्तम् ।
तत्किं यत्र स्थितास्तत्रैव मुक्ता भवन्तीत्यत आहस्रष्टृष्वेवेति ।
१२,१०९
स्रष्टृष्वेव तु सृज्यानां प्रवेशो ब्रह्मणो लये ।
देवानां मार्ग उद्दिष्टो … । (अनुव्याख्यानम्)४,२.३अच् ।
न्यायसुधा-
क्वचिदस्रष्टृष्वपीति चशब्दः, तथाच न्यायविवरणे ।
ब्रह्मणो लये प्रत्यासन्ने सति प्रवेशार्थं तदभिसर्पणमेव मार्गगमनमित्यर्थः ।
तर्हि देवानां मार्गो नास्तीत्युक्तस्य को विषय इत्यत आहनेति ।
… नार्चिरादिर् … । (अनुव्याख्यानम्)४,२.३द् ।
न्यायसुधा-
देवानां देहादुत्क्रमो नास्तीत्युक्तम् ।
तत्कुतः ।
सदेहानामेवावस्थानप्रसक्तेरित्यत आहनचेति ।
… न चोत्क्रमः । (अनुव्याख्यानम्)४,२.३द् ।
न्यायसुधा-
अत एवेत्युपस्कर्तव्यम् ।
चशब्देन सदेहानामवस्थानं समुच्चिनोति ।
एतदेव विवृणोतिस्रष्टु(स्त्विति)रिति ।
स्रष्टुस्तु ग्रासभूतस्य देहस्तत्र लयं व्रजेत् ।
यतः सृज्यस्य देवस्य नैवोत्क्रान्तिस्ततो भवेत् । (अनुव्याख्यानम्)४,२.४ ।
न्यायसुधा-
देहश्चेतनाधिष्ठित एव ।
तत स्रष्टरि ।
उत्क्रान्तिः शरीरम् ।
चेतननिष्क्रमणात्प्रागेव सृज्यानां देहः स्रष्टृषु विलीयत यत इत्यर्थः ।
स्रष्टृषु लये निमित्तं स्रष्टुर्ग्रासभूतस्येति ।
देहस्त्विति सम्बन्धः ।
१२,१११
देवानामर्चिरादिमार्गो नास्तीत्युक्तं तत्कुत इत्यतो यत्पुरा मार्गान्तरमुक्तं तत एवैतत्सिद्धमित्याशयवान्स्ततनुवादेन युक्तयन्तरमाहलयाच्चेति ।
लयाच्चैवार्चिरादीनां लोकानामपि सर्वशः ।
कथं मार्गो भवेत् तेषां विशतामुत्तमं स्वतः । (अनुव्याख्यानम्)४,२.५ ।
न्यायसुधा-
देवतामुक्तेः प्रागेवेत्यर्थः ।
अर्चिरादीनां लोकानामिति व्यधिकरणे षष्ठयौ ।
सर्वेषामपि भवेत् अर्चिरादिरिति शेषः ।
स्वत(कं) उत्तरं विशतामित्युक्तानुवादः ।
ननु प्रायेणेत्युक्तत्वात्कदाचिद्देवानामुत्क्रान्तिमार्गावङ्गीकार्यौ ।
तत्रोक्तयुक्तिविरोध इत्यत आहजातानामिति ।
जातानां मानुषे लोके देवानां च कदाचन ।
उत्क्रान्तिमार्गौ भवतो न तदा मुक्तिरिष्यते । (अनुव्याख्यानम्)४,२.६ ।
न्यायसुधा-
यद्यपि भवतस्तथापि न तदा मुक्तिरिष्यते किन्तु ब्रह्मणा सहैव ।
अतो नोक्तयुक्तिविरोधः ।
एतदुक्तं भवति ।
उत्क्रान्तिमार्गसामान्यमपेक्ष्यैव प्रायेणेत्युक्तम् ।
नतु मुक्तिकालीनावुत्क्रान्तिमार्गौ ।
तस्य च व्यावर्त्यावमोक्षकालीनौ ।
युक्तिस्तु मुक्तिविषयेति न विरोध इति ।
१२,११२
किं देवानामेव ब्रह्मणा सह मुक्तिः ।
अन्येषामपीति ब्रूमः ।
तर्हि’भेजे खगेन्द्रध्वजपादमूलम्’ इत्यादिविरोध इत्यत आहअन्येषामपीति ।
अन्येषामपि साक्षात्तु मुक्तिः प्राप्यापि तं हरिम् ।
सहैव ब्रह्मणा भूयादिति शास्त्रस्य निर्णयः । (अनुव्याख्यानम्)४,२.७ ।
१२,११३
न्यायसुधा-
साक्षान्मुक्तिः लिङ्गशरीरभङ्गलक्षणा ।
प्राप्यावस्थितानामपीति योज्यम् ।
तमिति वैकुण्ठादिस्थम् ।
छन्दस्युभयथेति अनाशीर्विषयस्यापि लिङ आर्धधातुकत्वाद्भूयादिति साधु ।
इतीश्वराशीरिति ।
अस्मिन्पक्षे साध्यमादौ पृथग्वाच्यं तस्य निमित्तं ज्ञापकं चानेनोच्यत इति ।
१२,११५फ़्.
इति शास्त्रस्य निर्णय इत्युक्तमेव विवृणोतिक्ष्मेति ।
क्ष्माम्भोनलानिलवियन्मनैन्द्रियार्थभूतादिभिः परिवृतः प्रतिसञ्जिघृक्षुः ।
अव्याकृतं विशति यर्हि गुणत्रयात्मा कालं परं स्वमनुभूय परः स्वयम्भूः । (अनुव्याख्यानम्)४,२.८ ।
एवं परेत्य भगवन्तमनुप्रविष्टा ये योगिनो जितमरुन्मनसो विरागाः ।
तेनैव साकममृतं पुरुषं पुराणं ब्रह्म प्रधानमुपयान्त्यगताभिमानाः । (अनुव्याख्यानम्)४,२.९ ।
भगवन्तमनुप्राप्ता अपि तु ब्रह्मणा सह ।
परमं मोक्षमायान्ति लिङ्गभङ्गेन योगिनः । (अनुव्याख्यानम्)४,२.१० ।
प्राप्ता अपि परं देवं सहैव ब्रह्मणा पुनः ।
आनन्दव्यक्तियायान्ति पूर्णां लिङ्गस्य भङ्गतः । (अनुव्याख्यानम्)४,२.११ ।
इति श्रुतिपुराणोक्तिबलाद् विज्ञायते च तत् । (अनुव्याख्यानम्)४,२.१२अब् ।
१२,११६
न्यायसुधा-
भूतानामादिर्भूतादिः ।
क्ष्माऽदिपदैः पञ्चानां महाभूतानां, मनसो, दशानामिन्द्रियाणां, पञ्चानां विषयाणां, भूतादिपदोपलक्षितस्य त्रिविधस्याप्यहङ्कारस्याभिमानिनो देवा
उच्यन्ते ।
अव्याकृतं परमेश्वरम् ।
यर्हि यदा ।
गुणत्रयस्यात्माभिमानी ।
परं परसङ्खयोपेतम् ।
परः क्ष्मादिभ्यः ।
एवं तदा ।
भगवन्तमिति तदीयं लोकम् ।
अगताभिमाना अगतजीवभावाः ।
परमं मोक्षमित्यस्यैव विवरणं लिङ्गभङ्गेनेति ।
इत्थम्भूतलक्षणे तृतीया ।
यद्वा ।
लिङ्गभङ्गेन निमित्तेन परमं मोक्षमानन्दाविर्भावमायान्तीति व्याख्येयम् ।
तच्चेति चशब्देन स्रष्टृष्वेवेत्युक्तं समुच्चिनोति ।
श्रुत्यादिकं भाष्योदाहृतं ग्राह्यम् ।
१२,११९
ननु यथा द्वितीयतृतीयपादप्रतिपाद्यमुत्क्रमादिकमसाधारणं तथा चतुर्थपादोदितो भोगः किमसाधारणः ।
किंवा प्रथमपादोदितकर्मक्षय इव साधारण इत्यपेक्षायामाहभोगस्त्विति ।
भोगस्तु सर्वदेवानां नरादीनां च विद्यते । (अनुव्याख्यानम्)४,२.१२च्द् ।
न्यायसुधा-
असाधारण्ये प्रमाणाभावादिति भावः ।
अस्मिन्प्रथमभाष्ये देवानां मोक्ष इति प्रथमनिर्देशः कृतस्तस्य तात्पर्यमाहतत्रेति ।
तत्र प्रवेशो देवानामुत्तरोत्तरतः क्रमात् ।
उच्यते … । (अनुव्याख्यानम्)४,२.१३अच् ।
न्यायसुधा-
तत्र द्वितीयपादे ।
प्रथममिति शेषः ।
उत्तरोत्तरतः उत्तरोत्तरेषु ।
अतः प्रथममसौ निर्दिष्य इति ।
१२,१२०
नन्वयुक्तमेतत् ।
वाङ्मनसीत्यादिसूत्रेषु देवानामश्रवणात् ।
अथ वागादिशब्दास्तदभिमानिनामुपलक्षका इति मतं तदा, सति वाचके लाक्षणिकप्रयोगस्य प्रयोजनं वाच्यम् ।
यद्वा वाचका एवेति पक्षस्तथापि प्रसिद्धशब्दपरित्यागेनाप्रसिद्धपदप्रयोगे प्रयोजनं वक्तव्यमेवेत्यत आहदेहेति ।
… देहगानां च वृत्तीनामेवमेव तु । (अनुव्याख्यानम्)४,२.१३ ।
न्यायसुधा-
बाह्यतत्त्वव्यावृत्त्यर्थं देहगानामित्युक्तम् ।
वर्तते देह एताभिरिति वृत्तयो जडा वागाद्याः यथा मुच्यमानानां देवानामेवमेव देहगानां तदभिमतानां वागादीनामुत्तरोत्तरेषु मरणकाले लयो
भवतीत्येतदपि प्रसङ्गाज्ज्ञापयितुं वागादिपदप्रयोग इति भावः ।
वागादिशब्दा देवानां वाचका एवेति तुशब्देन सूचयति ।
१२,१२१
भवेदेवं पदार्थः सङ्गतिश्च ।
यदि भगवज्ज्ञानभोगाभ्यां निवृत्तसमस्तानिष्यकर्माणः, स्वोत्तमप्रवेशेन ब्रह्मनाड्योत्क्रमेण वा परित्यक्तदेहाः, स्वोचितेनाचिर्रादिना वा पथा
वैकुण्ठलोकवासिनं भगवन्तं हिरण्यगर्भेण सह प्राप्ता भिन्नलिङ्गशरीराः विध्वस्तप्रकृतयो ऽत्यन्तनिवृत्तानिष्याः सम्यगाविर्भूतानन्दादिगुणा
भगवत्समीप एव तदुपासीनाः, स्वरूपेण वा लीलानिवृत्तानिष्याः सम्यगाविर्भूतानन्दादिगुणा भगवत्समीप एव तमुपासीनाः, स्वरूपेण वा
लीलागृहीतविग्रहैर्वा सङ्कल्पमात्रसाध्यान्दिव्यभोगांस्तारतम्येन भुञ्जाना न कदाचित्पुनरावर्तन्त,
इत्येतन्मोक्षस्वरूपं’कर्मक्षयस्तथोत्क्रान्तिः’ इत्यादिनोक्तं निश्चितं स्यात् ।
न चैवम् ।
तैस्तैः वादिभिरन्यथामोक्षस्वरूपस्य वर्णितत्वात् ।
विप्रतिपत्तौ च संशयस्य ध्रुवत्वादित्यत आहतत्रेति ।
तत्र मोक्षस्वरूपं तु वादिनः प्रतिभाश्रयात् ।
नाना वदन्ति … । (अनुव्याख्यानम्)४,२.१४अच् ।
न्यायसुधा-
तत्र ।
तथा सति, सूत्रकारेणोक्तलक्षणे मोक्षे श्रुत्यादिप्रमाणैरुपपादिते सति ।
वादिनस्तु प्रतिभाश्रयात् स्वोत्प्रेक्षामात्रेण नाना वदन्ति ।
अतः प्रमाणमूलत्वादस्याप्रमाणमूलानामुत्प्रेक्षामात्रयोनीनां वादानां च साम्याभावान्न संशयावकाशः ।
१२,१२३
ननु यदि तथा तथा प्रमाणानि सन्ति तर्हि तत्तद्वादिनां तादृशानि ज्ञानानि कुतो न जायन्ते ।
प्रमाणाभासैर्विमोहितास्त इति चेत् ।
तत्त्वज्ञाभिमता अपि कुतस्तैनर् विमूढाः ।
दोषदर्शनादिति चेत् ।
इतरे ऽपि कुतो न दोषान्पश्यन्ति प्रमाणैस्तत्त्वज्ञानोदयो ऽपि समान इत्यतो मूलकारणमाहपुंसां हीति ।
… पुंसां हि मतयो गुणभेदतः ।
पृथक् पृथक् प्रजायन्ते … । (अनुव्याख्यानम्)४,२.१४च्ए ।
१२,१२४
न्यायसुधा-
गुणभेदो गुणविशेषः ।
हिशब्देन’ज्ञानं कर्म च कर्ता’ इत्यादिप्रमाणप्रसिद्धिं द्योतयति ।
एतद्विशदयतितमसैवेति ।
… तमसैवान्यथामतिः । (अनुव्याख्यानम्)४,२.१४फ़् ।
रजसा मिश्रबुद्धित्वं सत्त्वेनैव यथा मतिः । (अनुव्याख्यानम्)४,२.१५अब् ।
न्यायसुधा-
मिश्रज्ञाने ऽन्यथात्वं सम्यक्तवं चास्तीत्यतो ऽन्यथैवेत्युक्तम् ।
यथेति भिन्नं पदं सम्यग्वाची ।
तमोगुणः प्रमाणेषु चेतःप्रवृत्तिं प्रतिबध्याभासानां दोषानाच्छाद्य विपरीतज्ञान(मुत्पा)मप्युत्पादयतीत्यादि द्रष्टव्यम् ।
१२,१२५
सम्यग्ज्ञानं सत्त्वगुणेन भवतीत्युक्तम् ।
तस्य मुक्तेषु तावदपवादमाहगुणेति ।
गुणातीता विमुक्तानां मतिः शुद्धचितिर्यतः । (अनुव्याख्यानम्)४,२.१५च्द् ।
साम्यगेवाथ नित्या च … । (अनुव्याख्यानम्)४,२.१६अ ।
१२,१२५फ़्.
न्यायसुधा-
यद्यपि विमुक्तानां मतिः सम्यगेव अथापि गुणातीता सत्त्वजन्या न भवति ।
कुतः शुद्धचितिः नित्या च यतः ।
जडं हि कुतश्चिज्जायते न चेतनम् ।
तथानित्यमेव न नित्यम् ।
दैत्यानां स्वरूपज्ञानेष्वविद्यमानं सम्यक्तवं तर्हि कथमित्यतः शुद्धेत्युक्तम् ।
स्वाभाविकदोषरहितेत्यर्थः ।
१२,१२६
स्वरूपोपाधिगतदाषनिबन्धनं हि दैत्यानां ज्ञानानामसम्यक्त्वम् ।
करणनिमित्तो ज्ञानानां विषयनियमो वैशद्यभेदश्च ।
तत्र यदि मुक्तानां ज्ञानं नित्यं तर्हि निर्विषयं वा स्यात् सर्वविषयं वा ।
एवं वैशद्ये ऽपीति ।
तत्राहतत्तदिति ।
… तत्तन्माहात्म्ययोगतः ।
बहला चातिविशदा … । (अनुव्याख्यानम्)४,२.१६ब्च् ।
न्यायसुधा-
तेषां तेषां माहात्म्यं योग्यतारूपं तदेव योगो निमित्तं ततस्तदनुसारेण (बहुल)बहुलार्थविषयिण्यतिविशदा च ।
१२,१२७
श्रीदेव्यामप्युक्तस्यापवादमाहस्पष्टा चेति ।
१२,१२८
… स्पष्टा चैव श्रियो मतिः । (अनुव्याख्यानम्)४,२.१६द् ।
महाशुद्धचितित्वेन … । (अनुव्याख्यानम्)४,२.१७अ ।
न्यायसुधा-
श्रियो मतिश्च सम्यक्तवे ऽपि गुणातीतेति सम्बन्धः ।
महाशुद्धचितित्वेनेति पूर्ववदेव तत्र हेतुः ।
महच्छब्देन कदापि (बाह्य)दोषसम्बन्धो नास्तीत्युच्यते ।
स्पष्टैवेति भुक्तमतेरप्यतिशयेन विशदेत्यर्थः ।
एतदपि पूर्ववद्वयाख्येयम् ।
भगवज्ज्ञाने ऽप्यपवादमाहततो ऽपीति ।
… ततो ऽप्यतिमहाचितिः ।
अशेषोरुविशेषाणामतिस्पष्टतया दृशिः ।
नित्यमेकप्रकारा च नारायणमतिः परा । (अनुव्याख्यानम्)४,२.१७ब्फ़् ।
सूर्यप्रभावदखिलं भासयन्ति निरन्तरा ।
निर्लेपा वीतदोषा च नित्यमेवाविकारिणी । (अनुव्याख्यानम्)४,२.१८ ।
न्यायसुधा-
नारायणमतिश्च सम्यक्तवे ऽपि परा गुणेभ्य इति शेषः ।
तत्र पूर्ववदेव हेतुः ।
ततः श्रियो ऽप्यतिशयेन महाशुद्धचितिः ।
विशिष्यन्त इति विशेषाः पदार्थाः ।
अशेषाणामुरूणामनन्तानां विशेषाणां दृशिर्विषयीकारिणी ।
अतिस्पष्टतयाशेषपदार्थविषयेत्येतदपि बहुला चातिविशदेतिवद्वयाख्येयम् ।
दृशिः साक्षात्कार इति वा ।
नित्यमेकप्रकारेत्युत्पत्तिविनाशरहितेत्ययमपि गुणातीतत्वे हेतुः ।
केचिदेकमेवेश्वरज्ञानमित्यास्थिताः ।
अपरे त्वनेकानीति ।
तद्विवेकार्थमुक्तं निरन्तरा निर्भेदेति ।
तर्हि किं तेषु तेषु पदार्थेषु ज्ञातेषु विक्रियते नेत्याहनित्यमविकारिण्येवेति ।
कथं तर्हि तत्तद्विषयीकरणमित्यत उक्तम्सूर्येति ।
यथा सूर्यप्रभा स्वयं निर्विकारापि तांस्तान्प्राप्तान्विषयान्प्रकाशयति तथेयमपीत्यर्थः ।
अत्र च विशेष एव निर्वाहकः ।
अत एवैकेत्यनुक्तवा निरन्तरेत्युक्तम् ।
निर्लेपा वीतदोषा चेति शुद्धत्वव्याख्यानम् ।
लेपः कर्मसम्बन्धः ।
महच्छब्दव्याख्यानं पूर्ववत् ।
यद्वा नित्यमेवेति तदर्थमत्रापि योज्यम् ।
परा स्वतन्त्रेत्यतिशब्दस्य व्याख्यातत्वेनापि व्याख्येयम् ।
अत एव तत्तन्त्रत्वाच्चेति वक्ष्यति ।
१२,१३४
एतानि विशेषणानि लक्ष्मीमाने ऽप्यतिदिशतिविशेषानीति ।
विशेषांसतद्गतांस्त्यक्तवा प्रायस्तल्लक्षणा श्रियः । (अनुव्याख्यानम्)४,२.१९अब् ।
न्यायसुधा-
तद्गतान्भगवद्गतांस्तानि लक्षणानि यस्याः सा तथोक्ता ।
श्रियो मतिः प्रतिपत्तव्येति शेषः ।
भगवद्गताशेषविशेषविषयीकारित्वं विहायान्यधर्मवती ज्ञातव्येत्यर्थः ।
प्राय इत्युक्तस्य तात्पर्यमाहतथैवेति ।
तथैव स्पष्टताभावात् तत्तन्त्रत्वाच्च केवलम् ।
न तादृशी … । (अनुव्याख्यानम्)४,२.१९च्ए ।
न्यायसुधा-
यथा भगवन्मतेर्निरतिशयस्पष्टत्वं तथैव ।
केवलं तत्तन्त्रत्वात् भगवन्मात्राधीनत्वात् ।
अत्र केवलमिति स्वरूपकथनम् ।
पराधीनत्वादित्येव हेतुः ।
तादृशी भगवन्मतिसदृशी ।
अतः प्राय इत्युक्तमिति भावः ।
१२,१३५
लक्ष्मीमतिविशेषणानि मुक्तब्रह्ममतावतिदिशतिब्रह्मणस्त्विति ।
… ब्रह्मणस्तु प्राय एव श्रियो यथा । (अनुव्याख्यानम्)४,२.१९एफ़् ।
न्यायसुधा-
ब्रह्मणस्तु मतिः श्रियो यथैवं प्रायः ।
तथा वैशद्याद्यभावात्प्राय इत्युक्तम् ।
केवलमित्युक्तयभावाच्च ।
अत एव तत्र तदुक्तम् ।
ब्रह्मण इति विशिष्याभिधाने को हेतुरित्यत आहमुक्तानां त्विति ।
मुक्तानां तु तदन्येषां समुद्रतरळोपमा । (अनुव्याख्यानम्)४,२.२०अब् ।
न्यायसुधा-
विशेषबलेन वृद्धिह्रासवतीत्यर्थः ।
यथोक्तं अवृद्धिह्रासरूपत्वमित्यादि ।
मुक्तग्रहणस्य तात्पर्यमाहअग्नीति ।
अग्निज्वालावदेव स्यात् स्मृतिगानां दृशो भवः । (अनुव्याख्यानम्)४,२.२०च्द् ।
न्यायसुधा-
अग्निज्वालाया अग्नेरिव संसारिणां दृशो ऽन्तःकरणाद्भव उत्पत्तिरेव स्यान्न तु व्यक्तिमात्रम् ।
१२,१३७
भवत्वेवं ज्ञानानां गुणनिमित्तं नानाविधत्वम् ।
प्रकृते तु किमित्यत आहएवंविधेष्विति ।
एवंविधेषु ज्ञानेषु तमसा मुष्यदृष्टयः । (अनुव्याख्यानम्)४,२.२१अब् ।
न्यायसुधा-
ज्ञानेष्वेवंविधेषु सत्सु मुष्यदृष्टयो ऽपहृतसम्यग्ज्ञानाः ।
सम्यग्ज्ञानाभावे ऽन्यथादृक्तवमपि नोपपद्यते ।
अधिष्ठानसामान्यज्ञानस्य भ्रान्त्युपयोगित्वादित्यत उक्तङ्खद्योतेति ।
खद्योतसदृशात्यल्पज्ञानत्वादन्यथादृशः ।
वदन्ति वादिनो मोक्षं नानामतसमाश्रयात् । (अनुव्याख्यानम्)४,२.२१च्फ़् ।
न्यायसुधा-
यथान्धतमसे खद्योता अपि भयहेतवस्तथा विपर्ययबहुलमल्पं सम्यग्ज्ञानमपि तामसमेव ।
यथोक्तम् ।
अतत्त्वार्थवदल्पं चेति ।
नानामतसमाश्रयान्नाना वदन्तीति योजना ।
ज्ञानानां गुणवशादनेकविधत्वोपपत्तेस्तमसाऽवृत्ता वादिनः
प्रमाणावधीरणात्सम्यग्ज्ञानविकला आभासादरणादधिष्ठानसामान्यज्ञानवत्त्वाच्च विपरीतज्ञानिनो मोक्षं नानाविधमाचक्षत इत्यर्थः ।
कारणैकत्वान्मिथ्याज्ञानेनाप्येकविधेन भाव्यमिति चेन्न ।
सहकारिवैचित्र्याद्वैचित्र्योपपत्तेः ।
तदिदमुक्तम्नानामतमाश्रयादिति ।
मतानां च प्रवाहेणानादित्वमुक्तम् ।
मूलकारणे तमोगुणे ऽपि वैचित्र्याच्च ।
अत एवोक्तङ्गुणभेदत इति ।
१२,१३९
समधिगतमेतत् नानाविधेषु मोक्षवादेष्वेकः प्रमाणमूलो ऽन्ये मिथ्याज्ञानमूला इति ।
नतु विशेषो ऽतः पुनः संशय एवेत्यत परमतानां सर्वेषां हेयत्वं दिदर्शयिषुरादौ तावज्जिनोदितं मोक्षस्वरूपमनुवदतिआश्रित्येति ।
आश्रित्य प्रतिभामाह जिनस्तत्रातितामसीम् । (अनुव्याख्यानम्)४,२.२२अब् ।
न्यायसुधा-
तत्र तेषु वादिषु ।
वेदप्रामाण्या(स्या)नङ्गीकारादतितामसीमित्युक्तम् ।
किमाहेत्यत अहज्ञानादिति ।
ज्ञानात् कर्मक्षयान्मोक्षो भवेद् देहाख्यपञ्जरात् । (अनुव्याख्यानम्)४,२.२२च्द् ।
न्यायसुधा-
ज्ञानात्केषाञ्चित्कर्मणां क्षयो भवति ।
केषाञ्चिद्भोगात् ।
ततः कर्मक्षयात् पक्षिणः पञ्जरादिव आत्मनो देहान्मोक्षो भवेत् ।
देहावस्थानस्य कर्मनिमित्तत्वात् ।
ततः कथं वर्तत इत्यत आहपञ्जरेति ।
पञ्जरोन्मुक्तखगवदलाकाकाशगोचरः ।
नित्यमूर्ध्वं व्रजत्येव पुद्गलो हस्तपादवान् । (अनुव्याख्यानम्)४,२.२३ ।
इति … । (अनुव्याख्यानम्)४,२.२४अ ।
न्यायसुधा-
यथा पञ्जरोन्मुक्तः खग ऊर्ध्वं व्रजत्येवमेवोर्ध्वं व्रजति ।
अयं तु विशेषः ।
अलोकाकाशो गोचरो यस्य स तथोक्तः ।
नित्यमेवेति च ।
देहपरिमाणस्यात्मनो देहाभावे परिमाणाभावप्राप्तौ उक्तम्हस्तपादवानिति ।
चरमदेहस्य यः सन्निवेशस्तथाभूत इत्यर्थः ।
इत्याहेति सम्बन्धः ।
अनूदितं दूषयतितदिति ।
… तत् केन मानेन मोक्षरूपं प्रदृश्यते । (अनुव्याख्यानम्)४,२.२४अब् ।
न्यायसुधा-
प्रदर्श्यते परं प्रति जिनेन ।
यदप्यनन्तचतुष्ययावाप्तिर्मुक्तस्योच्यते जिनेन ।
तथापि सा सम्प्रतिपन्नत्वान्नानूदिता नापि दूषिता ।
१२,१४२
कथमुक्तमोक्षस्वरूपमप्रामाणिकमिति चेत् ।
न तावदत्र प्रत्यक्षमस्ति नापि आगमः ।
तदीयागमस्यास्माभिरनङ्गीकारात् ।
वेदादेश्च परेणानङ्गीकृतत्वात् ।
अतः केवलं किञ्चिदनुमानं वक्तव्यं तत्राहगतिरिति ।
गतिरूर्ध्वा च दुःखेता गतित्वाल्लौकिकी यथा ।
इत्युक्ते चानुमानैकशरणस्य किमुत्तरम् । (अनुव्याख्यानम्)४,२.२४च्फ़् ।
न्यायसुधा-
चशब्दो ऽनुक्तसमुच्चयार्थः ।
तेन विप्रतिपन्नेति प्रतिज्ञायां सिद्धयति ।
हेतौ च चेतनाश्रितेति ।
तेनाचेतनगतौ बाधो, देवदत्तगतौ सिद्धार्थत्वं, अचेतनगतौ व्यभिचारश्च न सम्भवति ।
दुःखेनेता प्राप्ता दुःखेता ।
प्राप्तिश्च न साध्यसाधनभावलक्षणा ।
तथा सति देवदत्तस्य सुखार्थायां मन्दगतौ व्यभिचारापातात् ।
दूरत्वस्य चानियतत्वात् ।
तीव्रत्वस्याप्यपरिनिष्ठितत्वात् ।
किं तर्हि समानकालीनेन दुःखेन सहैकाधिकरणत्वलक्षणा ।
कदाचिद्देवदत्तः दुःखेन विनापि गच्छति तत्र व्यभिचार इति चेन्न ।
देवदत्तस्य कदापि निर्दुःखताया अनङ्गीकारात् ।
आध्यात्मिकादिष्वन्यतमेन महताल्पेन वायं खलु सदा संवलितः ।
चेतनशब्देन जाग्रतो ऽभिधानान्न सुप्तगतौ व्यभिचारः ।
सुखार्थापि गतिरल्पं दुःखमुत्पादयतीत्यभ्युपगम्य दुःखसाधनत्वं वा साध्यम् ।
लौकिकी देवदत्तादिगतिः ।
इति च प्रत्यनुमाने केनचिदुक्ते, एकं च तच्छरणं चैकशरणं अनुमानमेकशरणं यस्यासौ तथोक्तः ।
अन्यथा पूर्वकालैकेत्येकशब्दस्य पूर्वनिपातः स्यात् ।
१२,१४५
प्रत्यनुमानस्योत्तरं शङ्कतेअनूर्ध्वेति ।
अनूर्ध्वगतिता तत्र यद्युपाधिः … । (अनुव्याख्यानम्)४,२.२५अब् ।
न्यायसुधा-
तत्र देवदत्तगतेर्दुःखतत्वे ऽनूर्ध्वताविशिष्यं गतित्वं प्रयोजकं न गतित्वमात्रमिति यदि ब्रूयादित्यर्थः ।
पक्षेतरो ऽयं कस्माच्छङ्कित इति चे(त्)न्न ।
लक्षणसम्पत्तौ तदुपाधित्वस्योक्तत्वात् ।
निराकरोतिखगस्येति ।
१२,१४६
… खगस्य च ।
दूरोर्ध्वगमने दुःखमिति साध्यानुगो न सः । (अनुव्याख्यानम्)४,२.२५ब्द् ।
न्यायसुधा-
तदा वदाम इत्यादावुपस्कर्तव्यम् ।
खगस्य पारावतादेर्दूरोध्वर्गमने च दुःखमस्तीति हेतोः स उपाधिः साध्यानुगः साध्यव्यापको न भवतीत्यतो ऽनुपाधिः ।
इदमुक्तं भवति ।
किमयं केवलसाध्यव्यापको ऽभिमतः किं वा साधनावच्छिन्नसाध्यव्यापकः ।
न प्रथमः ।
अधर्मे साध्यसद्भावे ऽप्यनूर्ध्वताविशिष्यगतित्वस्याभावेन साध्याव्यापकत्वात् ।
न द्वितीयः ।
खगस्य दूरोर्ध्वगतौ गतित्वावच्छिन्ने दुःखेतत्वे सत्यप्यनूध्वर्गतित्वस्याभावात् ।
अनेनोर्ध्वगतित्वाभावो ऽनूर्ध्वगतित्वं केवलसाध्ये उपाधिरित्यपि प्रयुक्तमिति ।
दूरग्रहणं खगस्य दुःखं व्यञ्जयितुम् ।
तदा हि तस्मिन्दुःखकार्याणि दृश्यन्ते ।
प्रत्यागमनसमयवर्तिदुःखकार्याणि तानीति चेन्न ।
ऊर्ध्वं गच्छत्येव तद्दर्शनात् ।
१२,१४७
मा भूदयमुपाधिः शरीरवृत्तित्वं तु भविष्यति ।
देवदत्तगतौ यद्दुःखेतत्त्वं तत्र न गतित्वं प्रयोजकं किं नाम शरीरवृत्तित्वम् ।
न चेदं साध्याव्यापकम् ।
यद्दुःखेतं तच्छरीरिवृत्तीत्यस्य व्यभिचारादर्शनादित्यतः सर्वोपाधिसाधारणं दूषणमाहप्रतिसाधनेति ।
प्रतिसाधनरूपस्य नानुमानस्य दूषणम् ।
उपाधिः … । (अनुव्याख्यानम्)४,२.२६अच् ।
न्यायसुधा-
जिनोक्तानुमानानां प्रतिसाधनं खल्वस्माभिरुपन्यस्तम् ।
प्रतिसाधनरूपस्यानुमानस्य चोपाधिर्न दूषणम् ।
अतो ऽत्रोपाध्युद्भावनमेवासङ्गतं किं तद्दूषणगवेषणेन ।
पूर्वोपाधेस्त्वङ्गीकारेण दूषणमभिहितमिति ।
कुतो नेत्यत आहप्रतिरूपं हीति ।
… प्रतिरूपं हि साधनं तन्नचापरम् । (अनुव्याख्यानम्)४,२.२६च्द् ।
न्यायसुधा-
यदुपाधिर्नाम दूषणं तत्प्रतिरूपं साधनं न त्वनैकान्त्यादिकम् ।
हिशब्दो यस्मादित्यर्थे ।
१२,१४८
एतदुक्तं भवति ।
उपाधिस्तावत्प्रतिपक्षोन्नायकः नेतरस्था दूषणम् ।
ततः प्रतिपक्षस्योपाधिमुद्भावयता प्रतिपक्ष एवोद्भावितो भवति ।
प्रतिपक्षश्च साधनाय प्रवृत्तं प्रतिबध्नाति न पुनः किञ्चित्साधयति ।
प्रथमेनैव प्रतिबद्धत्वात् ।
अतः प्रतिपक्षस्य प्रतिपक्षो ऽकिञ्चित्करत्वान्न दूषणम् ।
अत एवोपाधिरपीति ।
१२,१५०
ननु पक्षादिप्रविभागोत्तरकालमुपाधिः प्रतिपक्षस्योन्नायको भवत्येव ।
प्राक्तु ततो ऽव्याप्तेरुन्नायकः ।
अतस्तदपेक्षया शरीर(रि)वृत्तित्वमुपाधिर्भवत्वित्यतो ऽभ्युपगम्य दूषयतिअथापीति ।
अथापि सशरीरत्वं चात्रोपाधिर्न वै भवेत् । (अनुव्याख्यानम्)४,२.२७अब् ।
न्यायसुधा-
यदि कयाचिद्विवक्षया प्रतिपक्षस्याप्युपाधिरुच्यते तथापि सशरीरत्वं शरीरेण सह वर्तमानत्वं शरीरसमानाश्रयत्वं शरीर(रि)वृत्तित्वमिति यावत् ।
न केवलमनूर्ध्वगतित्वमिति चशब्दः ।
अत्रास्मदुक्तानुमाने ।
वैशब्दो ऽवधारणे ।
कुतो न भवेदित्यत आहगतित्वमिति ।
गतित्वं यत्र देहित्वमिति यत् साधनानुगम् । (अनुव्याख्यानम्)४,२.२७च्द् ।
१२,१५१
न्यायसुधा-
यत्र गतित्वं विशिष्यं तत्र देहित्वं देहेन सम्बन्धः पूर्वोक्तः देहिवृत्तित्वमिति यावत् ।
इति प्रकारेण शरीर(रि)वृत्तित्वं साधनानुगं साधनस्य विशिष्यगतित्वस्य व्यापकं यद्यस्मादित्यर्थः ।
१२,१५२
स्यादेतत् ।
यत्किञ्चिद्गतिपक्षीकारे बाधादिप्रसङ्गात् मुक्तानां गतिः पक्षीकरणीया ।
तस्या दुःखेतत्वसाधने भवतामपसिद्धान्तः स्यात् ।
भवद्भिरपि मुक्तानां निर्दुःखत्वस्याभ्युपगतत्वात् ।
तथा या गतिः सा दुःखेतेति व्याप्तिं वदता ईश्वरस्यापि दुःखमङ्गीकरणीयम् ।
अन्यथा तत्र व्यभिचारापत्तेः ।
ततो ऽप्यपसिद्धान्त एव ।
शरीर(रि)वृत्तित्वस्य साधनव्यापकताङ्गीकारे गतिमत्त्वादीश्वरस्यापि शरीरित्वमङ्गीकार्यम् ।
ततश्चापसिद्धान्त एवेत्यत आहआगमेति ।
आगमाननुसारित्वे प्रसङ्गो ऽयं यतस्ततः ।
नापसिद्धान्तता दोषः … । (अनुव्याख्यानम्)४,२.२८अच् ।
न्यायसुधा-
यतो वेदादिकमागममनुसृत्य मोक्षस्वरूपानुमाने ऽतिप्रसङ्गो ऽयमस्माभिरुक्तः यदि वेदादिनिरपेक्षस्त्वमेवमनुमिमीषे तदैवमपि
कस्मान्नानुमिनुया इति ।
ततः कारणादपसिद्धान्ततादोषो न भवति ।
प्रसङ्गे ऽप्यपसिद्धान्तमुद्भावयन्तं बोधयितुमाहप्रसङ्ग इति ।
… प्रसङ्गे यदि सा भवेत् ।
तदैवातिप्रसङ्गः स्यान् … । (अनुव्याख्यानम्)४,२.२८दे ।
न्यायसुधा-
सा अपसिद्धान्तता ।
भवेद्दोष इति शेषः ।
कथमतिप्रसङ्ग इत्यत आहनेति ।
… न पसङ्गः क्वचिद् भवेत् । (अनुव्याख्यानम्)४,२.२८फ़् ।
न्यायसुधा-
इतिशब्दो ऽत्रान्ते ऽध्याहार्यः ।
सर्वेष्वपि प्रसङ्गेष्वपसिद्धान्तस्य कथञ्चिदुद्भावयितुं शक्यत्वादिति भावः ।
एतेन मुक्तानां सततोर्ध्वगतिः सिद्धा चेद्बाधो ऽन्यथाऽश्रयासिद्धिरित्यपि परास्तम् ।
परसिद्धाश्रये प्रतिपक्षस्य प्रसञ्जनात् ।
१२,१५३
उपाध्यन्तरमाशङ्कतेलोकेति ।
लोकाकाशगतित्वं चेदुपाधिः … । (अनुव्याख्यानम्)४,२.२९अब् ।
१२,१५४
न्यायसुधा-
अत्र लोकाकाशसम्बन्धित्वमेवोपाधिः ।
साध्यव्यापकत्वात् ।
गतित्वं तु स्वरूपकथनम् ।
दूषयतिसाधनेति ।
… साधनानुगः ।
सो ऽपीत्युक्ते वदेत् किं स … । (अनुव्याख्यानम्)४,२.२९ब्च् ।
न्यायसुधा-
या गतिः सा लोकाकाशसम्बन्धिनीति सो ऽप्युपाधिः साधनमनुगच्छति व्याप्नोति ।
मुक्तगतावुपाधेरभावान्नेति चेन्न ।
तत्रापि गतित्वेन तत्साधनम् ।
एतेन शरीरिवृत्तित्वस्यापि साधनव्यापकत्वं समर्थितं वेदितव्यम् ।
तदिदमुक्तं इत्युक्ते वदेत्किं स इति ।
स्वाभिमते मोक्षे प्रमाणमुपदशर्यन्नुपसंहरतितस्मादिति ।
… तस्माद् वेदोदितो भवेत् । (अनुव्याख्यानम्)४,२.२९द् ।
मोक्ष … । (अनुव्याख्यानम्)४,२.३०अ ।
न्यायसुधा-
जिनोक्ते मोक्षस्वरूपे प्रमाणाभावात् ।
उक्तदोषातिदेशेन बौद्धेक्तमपि मोक्षं दूषयतिएवमिति ।
… एवं स्वयं विष्णुर्यद्यपीशो ह्यशेषवित् । (अनुव्याख्यानम्)४,२.३०अब् ।
१२,१५५
न्यायसुधा-
चकार सौगतमतं मोहायैव चकार यत् । (अनुव्याख्यानम्)४,२.३०च्द् ।
असुराणामयोग्यानां वेदमार्गे प्रवर्तताम् ।
अतो ऽसुराधिकारत्वान्न ग्राह्यं तन्मतं क्वचित् । (अनुव्याख्यानम्)४,२.३१ ।
न्यायसुधा-
यथाप्रामाणिकत्वाज्जैनमतं न ग्राह्यमेवं तन्मतं सौगतमतमपि क्वचिद् ग्राह्यं न भवति ।
ननु परमाप्तेन बुद्धरूपेण(पिणा) विष्णुना कृतमिदं कथं न ग्राह्यमित्यत उक्तम्स्वयमिति ।
यद्यपि सौगतमतं स्वयं विष्णुश्चकार तथापि न ग्राह्यमिति सम्बन्धः ।
ईश इति करणपाटवमभ्युपैति ।
अशेषविदिति तत्त्वज्ञानम् ।
अभ्युपगमे कारणं प्रमाणप्रसिद्धिं हिशब्देनाह ।
तर्हि कुतो न ग्राह्यमित्यत उक्तम्मोहायैवेति ।
यद्यस्मादसुराणां मोहायैव तच्चकार ।
अतो ऽसुराधिकारत्वान्न ग्राह्यम् ।
अधिक्रियन्ते ऽस्मिन्नित्यधिकारः ।
असुराणामधिकारो ऽसुराधिकारस्तस्य भावस्तत्त्वं तस्मात् ।
असुराः कुतो मोहनीया इत्यत उक्तम्अयोग्यानामिति ।
वेदमार्ग इति पूर्वेणोत्तरेण च सम्बद्धयते ।
एतदुक्तं भवति ।
यद्यपि भगवान्बुद्धः पटुकरणस्तत्त्वज्ञानवांश्च श्रुत्यादिसिद्धः ।
ग्रन्थकरणादेव विवक्षुश्च ।
नैतावताप्याप्तः ।
विप्रलम्भकत्वात् ।
यथोक्तम्’ततः कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम् ।
बुद्धो नाम्ना जिनसुतः कीकटेषु भविष्यति’ इति ।
अतस्तदुक्तं मोक्षस्वरूपं हेयमेवेति ।
१२,१५६
एवं सामान्यतो दूषितं बौद्धमतं विशेषतो निराकर्तुं तद्भेदानाहचतुरिति ।
चतुष्प्रकारं तच्चोक्तं … । (अनुव्याख्यानम्)४,२.३२अ ।
न्यायसुधा-
व्याख्यातृमतिभेदादिति भावः ।
कथमित्यत आहशून्यमिति ।
… शून्यं विज्ञानमेकलम् ।
अनुमेयबहिस्तत्त्वं तथा प्रत्यक्षबाह्यगम् । (अनुव्याख्यानम्)४,२.३२ब्द् ।
इति … । (अनुव्याख्यानम्)४,२.३३अ ।
१२,१५६फ़्.
न्यायसुधा-
एकलमद्वितीयं शून्यमेव तत्त्वमित्येकं मतम् ।
एकं विज्ञानमेव तत्त्वमित्यपरम् ।
अनुमेयं बहिस्तत्त्वं ज्ञनाव्यतिरिक्तं यस्मिंस्तत्तथोक्तम् ।
अस्त्येव ज्ञानव्यतिरिक्तमपि तत्त्वं किं तु तदनुमेयमिति सौत्रान्तिकमतमन्यदित्यर्थः ।
तथाशब्दः समुच्चयार्थः ।
प्रत्यक्षं बाह्यगं यस्मिंस्तद्वैभाषिकमतं चैकमित्येवं चतुष्प्रकारमिति ।
एतेषु शून्यवादिनो ऽतितामसाः ।
प्रमितसकलवस्त्वपलापात् ।
ततो ज्यायांसो विज्ञानवादिनः ।
रूपाद्यपलापे ऽपि विज्ञानमात्राङ्गीकारात् ।
ततः सौत्रान्तिका बाह्यार्थाभ्युपगमात् ।
तस्य चानुमेयत्वाभ्युपगमेन वैभाषिकेभ्यः कष्टाः ।
ततो वैभाषिकाः ।
बाह्यार्थमभ्युपगम्य तस्य यथायथं प्रत्यक्षादिगम्यताभ्युपगमादित्येतज्ज्ञापयितुमनेन क्रमेणोद्देशः कृतः ।
१२,१५९
तत्र शून्यवाद्युक्तं मोक्षमनुवदतितत्रेति ।
… तत्र तु ये शून्यं वदन्त्यज्ञानमोहितः ।
ते मोक्षं तादृशं ब्रूयुर्निश्शङ्कं मायिनो यथा । (अनुव्याख्यानम्)४,२.३३अद् ।
न्यायसुधा-
तेषु चतुर्षु ।
ये शून्यमेव तत्त्वं वदन्ति ते मायिना यथाभूतं मोक्षमाचक्षते तादृशमेव ब्रूयुः ।
इयांस्तु विशेषः ।
मायिनो वेदः प्रमाणमित्यभिमानात्’परमं साम्यमुपैतिऽ‘सो ऽश्नुते सर्वान्कामान्’ इत्यादेर्वेदाच्छङ्कमानास्तस्यान्यथाव्याख्यानं विधाय
स्वाभिमतं मोक्षं प्रतिपादयन्ति ।
तमोगुणो लक्ष्यते ।
अज्ञानकारणत्वात् ।
‘प्रमादमोहौ तमसो भवतो ऽज्ञानमेव च’ इति वचनात् ।
तेन मोहिताः ।
१२,१६१
एवं सामान्येनोक्तं स्पष्टमाचष्टेन किञ्चिदिति ।
न किञ्चिनमुक्तयवस्थायामात्मात्मीयमथापि वा । (अनुव्याख्यानम्)४,२.३४अब् ।
न्यायसुधा-
किञ्चिदित्यस्यैव विवरणम् ।
आत्माप्यथवाऽत्मीयमिति ।
आत्मेति (वि)ज्ञानमुच्यते ।
आत्मीयमिति ज्ञेयम् ।
तदुभयमपि मोक्षे नास्ति ।
१२,१६२
शून्यवादो ऽपि द्विविधः ।
एकात्मवादो ऽनेकात्मवादश्चेति ।
तत्र प्रथम एव मुख्यसिद्धान्तः ।
मन्दानां तु बुद्धावारोहाय तु द्वितीयो ऽवतारितः ।
तदुभयसाधारणमुक्तवा विशेषं विवक्षुरादावाद्यमाहएकस्मिन्निति ।
एकस्मिन् संसृतेर्मुक्ते न किञ्चिदवशिष्यते । (अनुव्याख्यानम्)४,२.३४च्द् ।
न्यायसुधा-
किञ्चित् चेतनमचेतनं च ।
एकमुक्तौ कुत एतदित्यत आहतदिति ।
तत्संवृत्यैव भेदो ऽयं चेतनाचेतनात्मकः ।
दृश्यते संवृतेर्ध्वंसे निर्विशेषैव शून्यता । (अनुव्याख्यानम्)४,२.३५ ।
न्यायसुधा-
तस्यैकस्यैवात्मनः संवृत्याज्ञानेनैवायं परिदृश्यमानश्चेतनाचेतनात्मको, भिद्यत इति भेदः पदार्थसमूहो, दृश्यते ।
नतु परमार्थो नाप्यनेकाज्ञानकल्पितः ।
अतस्तस्यैकस्यैवात्मनः संवृतेर्ध्वंसे जाते सति शून्यतैव पारमार्थिकी (अव)विशिष्यत इति युक्तमेवेति ।
निर्विशेषेति शून्यस्य स्वरूपसङ्कीर्तनम् ।
संवृतेर्ध्वंस एव मोक्ष इति वक्ष्यति ।
निर्विशेषत्वमेव विवृणोतिन सत्त्वमिति ।
न सत्त्वं नैव चासत्त्वं शून्यतत्त्वस्य विद्यते ।
न सुखत्वं न दुःखत्वं न विशेषो ऽपि कश्चन । (अनुव्याख्यानम्)४,२.३६ ।
न्यायसुधा-
सत्त्वं परसामान्यादिरूपम् ।
असत्त्वमभावप्रतियोगित्वम् ।
किम्बहुना कश्चनापि विशेषो न विद्यते ।
१२,१६४
ननु मोक्षस्तावदसन्न भवति ।
सदा संसारापत्तेः ।
अतः सता मोक्षेण सविशेषं शून्यमित्यत आहनिर्विशेषमिति ।
निर्विशेषं स्ययम्भातं निर्लेपमजरामरम् ।
शून्यं तत्त्वमसम्बाधं नानासंवृतिवर्जितम् । (अनुव्याख्यानम्)४,२.३७ ।
अशेषदोषरहितं मनोवाचामगोचरम् ।
मोक्ष इत्युच्यते ऽसद्भिर् … । (अनुव्याख्यानम्)४,२.३८अच् ।
१२,१६४फ़्.
न्यायसुधा-
शून्यं तत्त्वमेवासद्भिर्मोक्ष इत्युच्यते ।
नतु शून्यातिरिक्तो मोक्षो ऽस्ति ।
अतो न तेन सविशेषत्वम् ।
तर्हि सर्वदा मोक्षभावाच्छून्यभावनादेर्वैयर्थ्यमित्यतो निर्विशेषमित्याद्युक्तम् ।
स्वयम्भातमित्यस्यैव विवरणं मनोवाचामगोचरमिति ।
निर्लेपं धर्माधर्मरहितं अजरं च तदमरं च अजरामरम् ।
सम्बाधो वस्त्वन्तरोपमर्दः ।
असम्बाधमद्वितीयमिति यावत् ।
दोषाः कामादयः ।
न, केवलं शून्यं, मोक्षः किन्तु नानासंवृतिवर्जितत्वाद्युपलक्षितम् ।
उपलक्षणनिष्पत्तये च भावनाद्युपयोग इति ।
१२,१६५
अज्ञाननिवृत्त्याद्युपलक्षितं शून्यमेव मोक्ष इत्येतत्कुत इत्यत आहनानेति ।
… नानासंवृतिदूषितम् । (अनुव्याख्यानम्)४,२.३८ ।
संसृत्यवस्थं विज्ञेया … । (अनुव्याख्यानम्)४,२.३९अ ।
न्यायसुधा-
नानासंवृतिभिर्दूषितं शून्यमेव संसारावस्था विज्ञेया यतो ऽतस्तद्विपरीतं शून्यमेव मोक्ष इति युक्तम् ।
१२,१६५फ़्.
एतदुक्तं भवति ।
शून्यं तत्त्वं स्वतो निर्विशेषमेकमेव ।
तस्य परमसूक्ष्मस्य वाङ्मनसातीतस्य स्वप्रकाशस्यावरणविक्षेपाद्यनेकशक्तिमत्या मूलसंवृत्या
कर्तृत्वभोक्तृत्वशक्तिमदहङ्कारोपाधिवशात्किञ्चित्स्थूलता जायते, ततः सद्द्वितीयत्वेन सविशेषतायां स्थूलता सम्पद्यते ।
ततो मनोवचनगोचरत्वे जाते विधिनिषेधगोचरत्वेन सलेपत्वम् ।
रागादिदोषसंसर्गश्च ।
ततो देहेन्द्रियान्तःकरणविषयसम्बन्धे स्थूलतरता भवति ।
ततो ममकारवतो दुःखादिमत्त्वे स्थूलतमत्त्वमित्येवं संवृत्या तत्कार्यत्वात्संवृतिसञ्ज्ञकैरहङ्कारादिभिश्च संवलितं शून्यमेव संसारः ।
भावनाप्रकर्षादिना मूलसंवृतौ ध्वस्तायां तत्कार्यप्रवाहे च विलीने तदुपलक्षितं शून्यमेव मोक्ष इति ।
१२,१६६
शून्यमेव चेन्मोक्षः संसारश्च ।
तदा मोक्षसंसारशब्दयोः पर्यायत्वमित्यादिकमापद्यते इत्येतदपि चोद्यमनेनैव परिहृतमित्याशयवानाहसंवृत्यैवेति ।
… संवृत्यैव विशेष्यते ।
स्थितया ध्वस्तया चैव संसृतिर्मोक्ष इत्यपि । (अनुव्याख्यानम्)४,२.३९ब्द् ।
न्यायसुधा-
यद्यपि शून्यमेव संसारो मोक्षश्च ।
तथापि संसृतिरिति मोक्ष इत्यपि विशिष्यत एव ।
कथम् ।
स्थितया च ध्वस्तया च संवृत्यैव ।
उपलक्षणभेदादर्थभेदे सति न शब्दपर्यायत्वादिकमिति भावः ।
१२,१६७
एवमेकात्मवादमुपन्यस्यानेकात्मवादं दर्शयतिकेचिदिति ।
केचित् तेष्वन्यथा प्राहुः … । (अनुव्याख्यानम्)४,२.४०अ ।
न्यायसुधा-
तेषु शून्यवादिषु ।
अन्यथा एकात्मवादिमतात् ।
कथमित्यत आहसंवृत्यैवेति ।
१२,१६८
… संवृत्यैव त्वनेकधा ।
अवच्छिन्नं महाशून्यं नानानपुद्गलशब्दितम् । (अनुव्याख्यानम्)४,२.४०ब्द् ।
न्यायसुधा-
तुशब्देनैकात्मवादं स्वाभाविकानेकात्मवादमुपाधिकृतानेकात्मवादं च व्यावर्तयति ।
संवृत्या नानाभूतया संवृत्यावच्छिन्नमेव नतु स्वभावतः ।
संवृतेस्तत्कृतावच्छेदानां च मिथ्यात्वान्नानापुद्गलशब्दितमित्युक्तं भवतीति शेषः ।
ततः किमित्यत आहयस्येति ।
यस्य शून्यैकरसता ज्ञानात् सा त्वपगच्छति ।
स पुद्गलत्वनिर्मुक्तो महाशून्यत्वमेष्यति । (अनुव्याख्यानम्)४,२.४१ ।
संवृत्यान्यस्त्ववच्छिन्नो दुःखान्यनुभवत्यलम् ।
इत्य् … । (अनुव्याख्यानम्)४,२.४२अच् ।
न्यायसुधा-
तत्रानेकेष्वात्मसु यस्यात्मनस्तु शून्यैकरसताज्ञानाच्छून्याद्वितीयताज्ञानात्सा संवृतिरपगच्छति मूलसंवृतिर्व्यावृत्ता भवति ।
अन्या नश्यति ।
स पुद्गलत्वात्कर्तृत्वादिरूपान्निर्मुक्तो महाशून्यत्वमेष्यतीव ।
यस्तु संवृत्यावच्छिन्न आत्मा स पुद्गलभावेन दुःखान्यलं परमार्थबुद्धयैवानुभवति ।
इति प्राहुरिति सम्बन्धः ।
१२,१६९
… एवं मायिनश्चाहुरेकजीवत्ववादिनः । (अनुव्याख्यानम्)४,२.४२ ।
बहुजीवमताश्चेति … । (अनुव्याख्यानम्)४,२.४३अ ।
न्यायसुधा-
शून्यवाद्यभिमतमोक्षनिरासेन मायावाद्यभिमतो ऽपि निरस्तो भविष्यतीत्याशयेन यदुक्तं मायिनो यथेति सिद्धान्तसाम्यं
तदुपपादयति(इत्ये)एवमिति ।
एकजीवत्ववादिनो बहुजीवमताश्चेति द्विविधमायिनश्चैवं द्विविधशून्यवादिवदेव मोक्षस्वरूपमाहुः ।
एको जीवो यस्मिंल्लोके स तथोक्तस्तस्य भावस्तत्त्वं तद्वदन्तीत्येकजीवत्ववादिनः ।
बहवो जीवा यस्मिंस्तत्तथोक्तं बहुजीवमतं येषां ते बहुजीवमताः ।
१२,१७०
ननु शून्यवादिनः संवृतिनिबन्धनः संसारस्तन्निवृत्तिश्च मोक्ष इत्याचक्षते ।
मायावादिनस्तु मायाहेतुको ऽयं संसारस्तन्निवृत्तिश्च मोक्ष इति ।
अतो वैषम्यमित्यत आहमायेति ।
… माया तेषां तु संवृतिः । (अनुव्याख्यानम्)४,२.४३ब् ।
न्यायसुधा-
या शून्यवाद्यभ्युपगता संवृतिः सैव तेषां मायिनां माया ।
अनाद्यनिर्वाच्यत्वलक्षणस्य आवरणविक्षेपादेः कार्यस्य चैकत्वादिति भावः ।
शून्यवादिनः शून्यं तत्त्वमाहुर्मायावादिनस्तु ब्रह्म ।
अतो ऽस्ति वैषम्यमित्यत आहनिर्विशेषत्वेति ।
निर्विशेषत्ववाचैव शून्यं ब्रह्मैव नो भिदा । (अनुव्याख्यानम्)४,२.४३च्द् ।
न्यायसुधा-
शून्यं ब्रह्मेति चैतयोर्भिदा नो विद्यते ।
कुतः निर्विशेषत्वस्य वाचैव द्वाभ्यां द्वयोर्निर्विशेषत्वेनोक्तत्वात् ।
वैधर्म्यं खलु वस्तुनो भेदकम् ।
तच्चात्र नास्तीति द्वयोरपि सम्मतम् ।
अतः शब्दभेदमात्रं न वस्तुभेद इति ।
१२,१७१
अथ मतम् ।
सत्यं ज्ञानमनन्तं ब्रह्म विज्ञानमानन्दं ब्रह्मैवेति श्रुत्यैव सत्यादिलक्षणं ब्रह्म सर्वतो व्यावर्तितं तत्कथं शून्यं ब्रह्मेति नो भिदेत्युच्यते इति ।
सत्यम् ।
सदादिलक्षणैर्ब्रह्म श्रुत्या सर्वतो व्यावर्तितमिति ।
तत्तु मायावादिमते नोपपद्यत इत्याशयवानाहसदिति ।
सच्चित्सुखादिकं चैव किं कुतो ऽखण्डवादिनः । (अनुव्याख्यानम्)४,२.४४अब् ।
न्यायसुधा-
सदादिकं च किमेव न किमपीत्यर्थः ।
तथाहि ।
सदादिकं किं ब्रह्मस्वरूपमुतान्यत् ।
आद्ये न लक्ष्यलक्षणभावः ।
अनेकपदवैयर्थ्यं च ।
न द्वितीयः ।
अखण्डवादित्वात् ।
यथा भवतां सत्यत्वादिकं ब्रह्मस्वरूपमपि तल्लक्षणं तथा ममापि किं न स्यादिति चेन्न ।
अस्माभिः विशेषशक्तया तन्निर्वाहाङ्गीकारात् ।
परेण तु कुतो निर्वाह्यमेतत् ।
मयापि विशेषो ऽङ्गीक्रियत इति चेत् ।
न ।
अखण्डवादित्वात् ।
१२,१७२
यद्यपि सत्यादिपदप्रतिपाद्यवस्तुनि न भेदः ।
तथापि व्यावर्त्यानामसत्त्वादीनामस्त्येव अतस्तद्वयावृत्तिप्रयोजनानि तद्वाचीनि वानेकानि पदानि ब्रह्मणि वर्तन्त इत्यभ्युपगमात्कथमस्मन्मते
श्रुत्यर्थानिर्वाह इत्यत आहव्यावर्त्येति ।
व्यावर्त्यमात्रभेदस्तु विद्यते शून्यवादिनः । (अनुव्याख्यानम्)४,२.४४च्द् ।
न्यायसुधा-
व्यावर्त्यमात्रभेदस्त्वित्येकदेशोत्कीर्तनेन सकलमप्युक्तमुपलक्षयति ।
एषा प्रक्रिया समस्ता शून्यवादिनो ऽपि मते ऽस्त्येवातो नैतयापि ब्रह्मशून्ययोर्भेदो वक्तुं शक्यते ।
शून्यवादिनो ऽपि विद्यत इति किमापादनेनोच्यते ।
नेत्याहअनृतादेरिति ।
अनृतादेरपोहं तु स्वयमेव हि मन्यते । (अनुव्याख्यानम्)४,२.४५अब् ।
न्यायसुधा-
सत्यादिपदार्थत्वेन शून्यविशेषणत्वेन चेति शेषः ।
मन्यते शून्यवादी ।
अपोहपदार्थवादिनो बौद्धा इति प्रसिद्धमेवेति हिशब्देनाह ।
‘जाड्यसंवृविदुःखान्तपूर्वदोषविरोधि यद्’ इति प्रसिद्धं च ।
आस्तां तावद्ब्रह्मशून्ययोर्विशेषप्रतिपादनं निर्विशेषयोः ।
विशेषो ऽस्तीति प्रतिज्ञैव तावदेषा नाङ्गं धत्ते ।
व्याहतत्वादिति भावेनाहनिर्विशेषत्वत इति ।
निर्विशेषत्वतो नैव विशेषो ब्रह्मशून्ययोः । (अनुव्याख्यानम्)४,२.४५च्द् ।
न्यायसुधा-
नैव प्रतिज्ञातुं शक्यत इति शेषः ।
१२,१७३
ननु मायावादिना वेदस्य प्रामाण्यं स्वतः प्रामाण्यं नित्यत्वं चाङ्गीकृत्य वेदवाक्यनिर्वाहो ऽयं कृतः ।
शून्यवादी तु वेदप्रामाण्यमेव नाङ्गीकुरुते ।
तत्कथमुक्तं व्यावर्त्यमात्रेति ।
तत्राहप्रामाण्यादीति ।
प्रामाण्यादि च वेदस्य फलतः सममेव हि । (अनुव्याख्यानम्)४,२.४६अब् ।
न्यायसुधा-
शब्दमात्रेण विषमम् ।
अर्थस्तु द्वयोरपि सम एव ।
तस्माद्वाक्यार्थनिर्वाहो ऽपि सम इत्युक्तमुपपन्नम् ।
वेदवाक्यपुरस्कारस्तु मायावादिनां छद्ममात्रं प्रमेयं तु समानमेवेति भावः ।
कथं फलतः समानमित्यत आहअतत्त्वावेदकमिति ।
अतत्त्वावेदकं यस्मात् प्रमाणं तेन कथ्यते । (अनुव्याख्यानम्)४,२.४६च्द् ।
न्यायसुधा-
वेद इति वर्तते ।
सर्वमपि प्रमाणमिति वा ।
तेन मायावादिना ।
कथ्यते अविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चेत्यादाविति शेषः ।
अतत्त्वावेदकत्वे ऽङ्गीकृते ऽपि कुतः सममित्यत आहअतत्त्वावेदकत्वमिति ।
१२,१७४
अतत्त्वावेदकत्वं यदप्रामाण्यं सतां मतम् । (अनुव्याख्यानम्)४,२.४६एफ़् ।
न्यायसुधा-
यत् यस्मात् सतां विदुषाम् ।
नानाविधानि लक्षणानि प्रणयन्तो ऽपि परीक्षका अतत्त्वावेदकव्यावृत्तये प्रयतन्त एव ।
अनुभूतिः प्रमाणमिति वदताप्यतत्त्वावेदकाभावाभिमानेनैव न प्रयत्नः कृतः ।
न पुनरतत्त्वावेदकस्यापि प्रामाण्याभिप्रायेण ।
अतो मायावादिनाभ्युपगतं वेदप्रामाण्यं नामाप्रामाण्यमेव ।
प्रामाण्याभावे च तत्स्वतस्त्वं दूरोत्सारितम् ।
नित्यत्वव्युत्पादनं च व्यर्थमेवेति ।
१२,१७६
नन्वतत्त्वावेदकत्वे ऽपि यस्य विषयो ब्रह्मज्ञानात्प्रागेव बाध्यते तदप्रमाणम् ।
यस्य तु विषयो ब्रह्मज्ञानेनैव बाध्यस्तदतत्त्वावेदकं प्रमाणमिति विभागः ।
वेदविषयस्तु ब्रह्मज्ञानेनैव बाध्यते ।
अतस्तस्य प्रामाण्यमित्याशयेनाशङ्कतेदीर्घेति ।
दीर्घभ्रान्तिकरी चेत् स्यादतत्त्वावेदकप्रमा । (अनुव्याख्यानम्)४,२.४७अब् ।
१२,१७७
न्यायसुधा-
या दीर्घभ्रान्तिकरी सातत्त्वावेदकप्रमेति यदि मतं स्यादित्यर्थः ।
किमिदं लोकवृत्तमनुसृत्योच्यते ।
किं वा स्वसङ्केतमात्रेण ।
आद्ये दोषमाहरज्ज्विति ।
रज्जुसर्पादिविज्ञानादप्याधिक्यादमानता ।
स्यादागमस्यानिवर्त्यमहामोहप्रदत्वतः । (अनुव्याख्यानम्)४,२.४७च्फ़् ।
न्यायसुधा-
आगमस्य वेदस्य ।
कुतः ।
अल्पेन कालेनानिवर्त्यत्वाद्यो महान्मोहस्तत्प्रदत्वतः ।
अप्रामाण्ये विशेषाभावे ऽपि तद्धेतुकानर्थातिशयाभिप्रायेणाधिक्यादित्युक्तमिति भावः ।
द्वितीये अतिप्रसङ्गमाहतलेति ।
तलनैल्यादिविज्ञानमाकाशे मानतांव्रजेत् । (अनुव्याख्यानम्)४,२.४८अब् ।
न्यायसुधा-
तलमिन्द्रनीलं तस्य नैल्यमिव नैल्यं तलनैल्यम् ।
आदिपदार्थं स्वयमेव भाष्यकृद्विवृणोतिछत्रेति ।
छत्राकारत्वविज्ञानञ्चन्द्रप्रादेशतामतिः । (अनुव्याख्यानम्)४,२.४८च्द् ।
न्यायसुधा-
आकाश इति वर्तते ।
मानतां व्रजेदिति सर्वत्र सम्बद्धयते ।
अल्पकालानिवर्त्यभ्रान्तिहेतोः प्रामाण्यसङ्केतं कुर्वता एतेषामपि प्रामाण्यसङ्केतः करणीयो ऽविशेषात् ।
ब्रह्मज्ञाननिवर्त्यविषयत्वमाश्रित्यायं सङ्केतः क्रियते न त्वल्पकालानिवर्त्यभ्रान्तिहेतुत्वमिति चेत् ।
(न) ब्रह्मज्ञाननिवर्त्यविषत्वोक्तयाप्यस्यैवार्थस्य मायावादिना विवक्षितत्वात् ।
अन्यथा’न खलु नाग इति नग इति वा पदात्कुञ्जरं गिरिं वा प्रतिपद्यमाना भवन्ति भ्रान्ता’ इति वर्णदैर्घ्यादिज्ञानं कथमुदाहरेत् ।
१२,१७९
किं चैवंविधं वेदप्रामाण्यं शून्यवादिनाप्यङ्गीकृतमेवेति कुतो ऽयं विशेषः ।
न सर्वस्यापि वेदस्य मायावादिनातत्त्वावेदकत्वमुच्यते ।
किं नाम विधिप्रतिषेधविषयस्य ।
अद्वितीयं तत्त्वं प्रतिपादयतस्तत्त्वमसीत्यादेर्महावाक्यस्य निर्विशेषं सच्चिदानन्दात्मकं तत्पदार्थं प्रतिपादयतो’यत्तदद्रेश्यमग्राह्यम्ऽ‘सत्यं
ज्ञानम्’ इत्यादेरवान्तरवाक्यस्य च तत्त्वावेदकत्वमङ्गीक्रियत एव, न चैवं शून्यवादिना, इत्यतः कथं साम्यमित्यतः
शून्यवादिनाप्येवमेवाङ्गीक्रियते ।
तत्त्वावेदकत्वं हि न विषयविसंवादाभावातिरिक्तं किञ्चिदस्ति ।
वाक्यद्वयार्थस्य चाविसंवादः शून्यवादिनाप्यङ्गी(कृत)क्रियत एवेत्याशयवान्महावाक्यार्थाङ्गीकारं तावद्दर्शयतिनिर्भेदत्वं त्विति ।
निर्भेदत्वं तु शून्यस्य तेनाप्यङ्गीकृतं सदा । (अनुव्याख्यानम्)४,२.४९अब् ।
न्यायसुधा-
तेन शून्यवादिना अपि, सदेत्यनेन स्वयमेव नास्मदापादनेनेति सूचयति ।
१२,१८०
अवान्तरवाक्यार्थाङ्गीकारो ऽपि द्वयोः समान इति दर्शयन्निर्विशेषत्वं तावदुभयसम्मतमित्याहसत्त्वेति ।
सत्त्वासत्त्वादिधर्माणामभाव उभयोर्मतः । (अनुव्याख्यानम्)४,२.४९च्द् ।
न्यायसुधा-
तत्त्वस्येति शेषः ।
उभयोर्मायावादिशून्यवादिनोर्मतः सम्मतः ।
सत्यत्वमपि
शून्यवादिनाङ्गीक्रियत इत्याशयेन शून्यं नामासत्तस्य सत्त्वं कथमित्यत आहनहीति ।
न हि सत्प्रतियोगित्वं शून्यत्वं तेन चेष्यते । (अनुव्याख्यानम्)४,२.५०अब् ।
न्यायसुधा-
सत्प्रतियोगित्वं सद्विरोधित्वमसत्त्वम् ।
तेन च शून्यवादिनापि ।
निर्विशेषत्वाभिप्रायेण शून्यमित्युच्यते नासत्त्वाभिप्रायेण ।
तत्त्वमित्यङ्गीकारादिति भावः ।
आनन्दतापि शून्यवादिना अभ्युपगम्यत इति वक्तुं मायावाद्यभ्युपगतानन्दतां तावदनुवदतिनचेति ।
न च दुःखविरोधित्वादन्या ह्यानन्दतेष्यते । (अनुव्याख्यानम्)४,२.५०च्द् ।
मायिना … । (अनुव्याख्यानम्)४,२.५१अ ।
न्यायसुधा-
दुःखविरोधित्वमेवानन्दत्वं नतु धर्मरूपं किमपीत्यर्थः ।
हिशब्देनानृतजडविरोधीत्यादितत्प्रसिद्धिं सूचयति ।
ततः किमित्यत आहशून्येति ।
… शून्यपक्षे ऽपि … । (अनुव्याख्यानम्)४,२.५१अ ।
१२,१८१
न्यायसुधा-
तत्समानमिति शेषः ।
‘जाड्यसंवृतिदुःखान्तपूर्वदोषविरोधि यद्’ इत्यादितद्वचनात् ।
ज्ञानत्वाङ्गीकारं दर्शयतिज्ञानमिति ।
… ज्ञानं जाड्यविरोधि च । (अनुव्याख्यानम्)४,२.५१ब् ।
न्यायसुधा-
ज्ञानं च जाड्यविरोधिस्वरूपमेवोच्यते मायिना ।
तच्छून्यवादिनो ऽपि समानमित्यर्थः ।
स्यादेतत् ।
मायावादिना ब्रह्मणो निर्विशेषत्वादिकमङ्गीक्रियते शून्यवादिना तु शून्यस्य ।
तत्कथं साम्यमित्यतो मैवम् ।
ब्रह्मशून्ययोर्भेदाभावस्योक्तत्वादित्याहधर्मा इति ।
धर्माः के ऽपि न सन्त्येव को विशेषस्ततस्तयोः । (अनुव्याख्यानम्)४,२.५१च्द् ।
न्यायसुधा-
ततो व्यावर्तकाभावात्तयोर्ब्रह्मशून्ययोः को विशेषः किङ्कृतो भेदः स्यात् ।
ननूक्तविधमद्वैततत्त्वं सूत्रकारस्य सिद्धान्त एव ।
तत्कथं दूषणाय तदनुवादः क्रियत इत्यत आहएतादृशानामिति ।
एतादृशानां पक्षाणां दूषणं प्रभुरा कृतम् ।
स्वपक्षसादनेनैव … । (अनुव्याख्यानम्)४,२.५२अच् ।
१२,१८२
न्यायसुधा-
शून्यपक्षसदृशपक्षाणाम् ।
कथम् ।
तद्विरुद्धस्य स्वपक्षस्य साधनेनैवार्थात् ।
एतदुक्तं भवति ।
नाद्वैतं सूत्रकारस्य सिद्धान्तः ।
तेन तस्य दूषितत्वात् ।
पृथगुपदेशादित्यादिना तद्विरुद्धाथर्स्य साधितत्वात् ।
नहि तस्य दुष्यतामननुसन्दधत्तद्विरुद्धं साधयतीति सम्भवतीति ।
न केवलमर्थाद्दूषणं कृतं किन्तु’नाभाव उपलब्धेः’ इत्याद्युक्तितो ऽपीत्याहनाभाव इति ।
… नाभाव इति चोक्तितः । (अनुव्याख्यानम्)४,२.५२द् ।
न्यायसुधा-
एवं सप्रभेदं शून्यवाद्यभिमतं मोक्षमनूद्य साधारणदोषेण तावद्दूषयन् यः शून्यवादिना’प्रदीपस्येव निर्वाणं विमोक्षस्तस्य तायिन (भाविनः)’
इत्यात्मविनाशो मोक्ष उक्तस्तं दूषयतिआत्मेति ।
आत्माभावे पुमर्थः क … । (अनुव्याख्यानम्)४,२.५३अ ।
न्यायसुधा-
मोक्ष इति वक्ष्यमाणं सिंहावलोकनन्यायेनेहा(नेनेहा)पि सम्बद्धयते ।
आत्मनो ऽभावे विनाशे सति मोक्षः कः किंसम्बन्धी पुमर्थः ।
एतदुक्तं भवति ।
आत्मविनाशलक्षणो मोक्षः किमात्मनः फलमुतानात्मनः ।
नाद्यः ।
तस्याभावात् ।
नहि फलिनो ऽभावे फलमुपपद्यते ।
धर्मादिषु तथा दर्शनात् ।
न द्वितीयः ।
आत्मनाशे ऽनात्मनो ऽप्यभावात् ।
भावे ऽप्यपुरुषार्थत्वप्रसङ्गात् ।
अनात्मनस्तेनोपकाराभावाच्चेति ।
नन्वात्मन एवायम् ।
धर्मादिवदभ्युदयत्वाभावादसमानकालताप्युपपद्यत इत्यत आहआत्मेति ।
मोक्षः कः पुमर्थः पुमर्थो न भवेदित्यर्थः ।
तत्र हेतुमाहइष्यस्येति ।
१२,१८३
… इष्टस्यात्मावधिर्यतः । (अनुव्याख्यानम्)४,२.५३ब् ।
न्यायसुधा-
इष्योत्कर्षपरम्परायाः पर्यन्तो यतः सर्वमात्मार्थतयेष्यम् ।
आत्मा त्वनन्यार्थतया ।
इष्यमात्रस्य वित्तादेर्विनाशं पुरुषो नार्थयते, किमतेष्यतमस्यात्मनः ।
१२,१८५
यद्वाऽत्माभावे सति मोक्षः कः पुमर्थः किमिष्यावाप्तिरूपो ऽथानिष्यनिवृत्तिरूप इत्यर्थः ।
नाद्यः ।
तत्र हेतुःइष्यस्येति ।
सर्वस्याप्यात्मेतरस्येष्यस्यात्मावधिराश्रयो यतः ।
आत्मार्थं हि सर्वमिष्यम् ।
स चेन्न स्यात्तदा कस्यायं पुरुषार्थः स्यादित्यर्थः ।
न द्वितीयः ।
तत्र हेतुःइष्यस्येति ।
अनिष्यनिवृत्तिरपि पुरुषार्थो भवन्ती तदा स्याद्यदीष्यं न विहन्यात् ।
तद्विधाते ऽपि वा यदि महतो ऽनिष्यस्य विघातिनी स्यात् ।
तथा लोके दर्शनात् ।
नहि कश्चिन्महदिष्यं विनाश्य अल्पानिष्यनिवृत्तिं कुर्वाणः प्रेक्षावानुपलभ्यते ।
आत्मा च सर्वतो ऽपीष्यतमः ।
तद्विघातेन भवन्त्यनिष्यनिवृत्तिः कथं पुरुषार्थो भवेत् ।
रोगादिपीडिता उद्बन्धादिनाऽत्मविनाशं कुर्वन्तो दृश्यन्त इति चेन्न ।
रोगाद्यायतनदेहपरित्यागेनात्मानं निर्दुःखीकर्तुमेव तेषां प्रवृत्तेः ।
निर्दुःखो भूयासमिति हि सर्वस्याशीः ।
नतु न भूयासमिति ।
देहात्मविवेकज्ञानविधुरास्त्वात्मनाशायैव प्रयतन्त इति चेन्न ।
तेषामप्रेक्षावत्त्वेनात्रानुदाहार्यत्वात् ।
उपपादितं चैतत् ।
यत्पशवो ऽपि देहात्मविवेकज्ञानवन्त इति ।
१२,१८६फ़्.
ननु दुःखात्यन्तनिवृत्तिस्तावदवश्यमेष्यव्या ।
सा च कारणनिवृत्त्यैव भवति नान्यथा ।
कारणं च दुःखस्यात्मैव ।
अधर्मार्जनादाधारत्वाच्च ।
तत्कथमात्मनाशेन शून्यभावापत्तिर्नेष्यत इति चेत् ।
मैवम् ।
न ह्यात्मैव दुःखकारणम् ।
किन्तु जागर एव भावात्सुप्तावभावादन्वयव्यतिरेकाभ्यां शरीरेन्द्रियविषयवेदनादिकमपि ।
ततो ज्ञानभोगाभ्यां कर्मणि क्षीणे निर्बीजस्य देहादेरनुत्पादे सामग्रीवैकल्येन दुःखानुत्पादस्य सम्भवात्किमात्मनाशकल्पनया ।
कुतो विनिगमनमिति चेत् ।
सर्वस्याप्यात्मार्थत्वात् ।
आत्मनश्चात्यन्ताभ्यर्हितत्वादिति ब्रूमः ।
विप्रकृष्टव्ययेन हि साध्यासिद्धौ सन्निकृष्टव्ययं प्रेक्षावन्तः कुर्वन्ति ।
तस्मात्’आत्मार्थे पृथिवीं त्यजेत्’ इति न्यायेन दुःखं जिहासताऽत्मावधिकस्यैव कारणस्य मोक्ष एष्यव्यो न त्वात्मनो ऽपीति युक्तमुत्पश्यामः ।
तदेतत्सूचयन्विपक्षे बाधकमाहयदीति ।
१२,१८७
यदि नात्मावधिर्मोक्षो मोक्षः स्याद् घटशून्यता । (अनुव्याख्यानम्)४,२.५३च्द् ।
न्यायसुधा-
यद्यस्मादभिमतप्रकारेणात्मावधिर्मोक्षो न भवेत् ।
आत्मव्यतिरिक्तानां दुःखकारणानां देहादीनामेव निवृत्तिरात्मनस्तु स्वरूपेणावस्थानमिति पक्षो यदि न स्यादित्यर्थः ।
आत्मनो ऽपि शून्यतापत्तिर्यदि स्यादिति यावत् ।
तदा घटशून्यतापि देवदत्तस्य मोक्षः स्यात् ।
तथाच साधनानुष्ठानवैयर्थ्यम् ।
घटशून्यतायाः पारिव्राज्यादिकारणानपेक्षत्वात् ।
१२,१८८
ननु कुतो ऽयं प्रसङ्गो ऽविशेषादिति चेन्न ।
आत्मशून्यता घटशून्यतेति भवद्भिरेव विशेषस्योक्तत्वादित्यत आहकल्पितत्वादिति ।
कल्पितत्वाद् विशेषाणां … । (अनुव्याख्यानम्)४,२.५३ए ।
न्यायसुधा-
न खल्वत्र शून्यताशब्देनाभावो ऽभिधीयते ।
‘भावार्थप्रतियोगित्वं भावत्वं वा न तत्त्वतः ।
यस्य’इत्यभिधानात् किन्तु (वि) नष्ट आत्मा घटश्च ।
तौ चाप्रामाणिकौ ।
नच तथाविधयोर्विशेषाः प्रामाणिकाः सम्भवन्ति ।
नहि तुरगृङ्गं शशृङ्गं च व्यावर्तकधर्मवती इति सम्भवतः ।
तस्मादात्मशून्यता घटशून्यतेति व्यवहर्तृभिः केवलं व्यवहारार्थं विशेषाः कल्पिता इत्यङ्गीकार्यम् ।
तथाच नाविशेषो ऽसिद्ध इति ।
दूषणातिदेशार्थं प्राङ्मतसाम्यमुपपादितम् ।
अतः शून्यवादिनां दूषणं मायावादिनामतिदिशतिमायिनो ऽपीति ।
… मायिनो ऽपि समं हि तत् । (अनुव्याख्यानम्)४,२.५३फ़् ।
न्यायसुधा-
तदित्यात्मभाव इत्यादिनोक्तं समस्तं परामृशति ।
१२,१९०
स्यादेतत् ।
नात्मनाशो मायावादिनोच्यते ।
येनेष्यनाशादपुरुषार्थत्वं मोक्षस्य स्यात् ।
नापि शून्यताऽपत्तिः ।
यतो घटशून्यतापि मुक्तिर्भवेत् ।
किं नाम जीवभावापगमेन ब्रह्मभावाविर्भावः ।
ब्रह्म च परमानन्दात्मकमिति भवत्येव तद्भावः पुरुषार्थ इति ।
मैवम् ।
को ऽयं जीवभावो नाम कश्च ब्रह्मभावः ।
यद्यविद्याकामकर्मादिबद्धत्वं जीवत्वं परमानन्दभोक्तृत्वं च
ब्रह्मत्वमित्यभिधीयते तदानुज्ञया वर्तामहे ।
न चैवं परस्य पन्थाः ।
यदेतत्कर्तृत्वभोक्तृत्वशक्तयुपेतं साकारं देहादिव्यतिरिक्तं रूपमहमिति साक्षिसिद्धं तदपगमस्य परेणेष्टत्वात् ।
इदमेव च रूपं परमेष्यमनुभूयत इति कथं नोक्तदोषः ।
आनन्दरूपतोपपादनाय परेणाप्यस्यैवरूपस्य परमप्रेमास्पदताया उपपादितत्वात् ।
न ह्येतस्माद्रूपाद्विविक्तं किमपि निराकारं रूपमनुसन्धाय मा न भूवं भूयासमिति लोक आशास्ते ।
चक्षुषी निमील्य तथेति वदतस्तु कः प्रतिमल्लः ।
संवलितरूपे तदप्यस्तीत्यत इयमाशीरिति चासत् ।
तस्य सर्वथाप्यबुद्धिस्थत्वात् ।
आशासनं च साकारमेव ।
निराकारस्य तदनुपपत्तेः ।
नचान्यस्यान्यस्मिन्निरुपाधिकः प्रेमा सम्भवतीतीदमेवेष्यतमम् ।
एवं तर्हि देहादिसहितत्वस्यापीष्टत्वात्तन्नाशेन भवतामपि मोक्षस्यापुरुषार्थत्वं स्यादिति चेन्न ।
परमेष्यलाभहेतोरल्पेष्टनाशस्यापि पुरुषार्थत्वेन लोके दृष्टत्वात् ।
ब्रह्मभावश्च न शून्यभावाद्भिद्यत इत्युपपादितम् ।
आनन्दरूपता च वाङ्मात्रमित्युक्तमेव ।
किं चानन्दत्वमपि न पुरुषार्थः ।
नहि कश्चिदानन्दो भूयासमित्याशास्ते ।
किन्तु तमनुभूयासमिति ।
नचानुभाव्यत्वं परेणेष्यते ।
अनुभवितुरन्यस्याभावात् ।
स्वस्मिन्कर्मकर्तृभावानभ्युपगमात् ।
१२,१९१
अपि चानन्दत्वं प्राक् सिद्धमिति न पुरुषेणार्थनीयम् ।
प्रागविद्यावृतं न प्रकाशते पश्चादविद्यावरणापगमे प्रकाशते ऽतो नैवमिति चेन्न ।
प्रागपि स्वरूपस्य स्वयम्प्रकाशमानताभ्युपगमात् ।
तन्मात्रस्य चानन्दस्याप्रकाशानुपपत्तेः ।
प्रकाशमानो ऽप्यानन्दो न विशदः प्रकाशत इति चेन्न ।
निर्विशेषत्वात् ।
वैशद्यावैशद्ययोश्च विशेषनिबन्धनत्वात् ।
यद्धि सह विशेषैः प्रकाशते तद्विशदमुच्यते ।
यत्तु साधारणधर्मैः सह तदविशदमिति ।
अविद्यावरणापगमे प्रकाशत इति च को ऽर्थः ।
किं प्रतीयत इति उत प्रत्येतीति ।
नोभावपि ।
अनङ्गीकारात् ।
प्रदीपः प्रकाशत इति को ऽथर् इति चेत् ।
भास्वररूपवान्वर्तत इति न किञ्चिदेतत् ।
तदिदं सूचितं हिशब्देन ।
१२,१९५
ननु निर्विशेषां शून्यतां मोक्षमाचक्ष्महे ।
तल्प्रत्ययो ऽपि हि व्यवहारार्थमेव उपादीयते नतु कमपि धर्मं प्रतिपादयति ।
घटशून्यता तु सविशेषा घटेन विशेषितत्वात् ।
तत्कथमतिप्रसङ्ग इति चेन्न ।
विवक्षिताया अपि शून्यताया एवमेवात्मशून्यतेत्यात्ना विशेषितत्वेन सविशेषत्वदर्शनादमोक्षत्वप्रसङ्गात् ।
अथैवमात्मशून्यताया विशेषे दृश्यमाने ऽपि केनचिदभिसन्धिना निर्विशेषतोच्यते तत्राहदृश्यमान इति ।
दृश्यमाने विशेषे ऽपि यदि चेदविशेषता ।
घटाभावो ऽविशेषः स्यात् पाश्चात्यश्चेदनागतः । (अनुव्याख्यानम्)४,२.५४ ।
१२,१९५फ़्.
न्यायसुधा-
मोक्षत्वेनाभिमतस्य शून्यभावस्येति शेषः ।
चेच्छब्दः स्यादित्यर्थे ।
भावशब्दः कर्तृसाधनः ।
एवं तर्हि घटशून्यतापि तेनैवाभिसन्धिना निर्विशेषा स्यादित्यतिप्रसङ्गतादवस्थ्यमिति ।
पूर्वपक्षिणो ऽभिसन्धिमुद्घाटयतिपाश्चात्यश्चेदिति ।
आत्मशून्यभावः ।
पाश्चात्यो विशेषरहित इति चेदित्यर्थः ।
पाश्चात्यत्वं चात्र व्यवहारापेक्षया ।
१२,१९६
ततश्चैतदुक्तं भवति ।
इदानीं निरूपणसमये व्यवहारार्थं कल्पितेनैव विशेषेणात्मशून्यभावः सविशेष इवाभाति ।
अक्रियमाणे तु निरूपणे स्वरूपेण निर्विशेष एवेति ।
सिद्धान्तिनो ऽभिसन्धिमुद्घाटतिआत्मगत इति ।
एवं तर्हि घटशून्यभावो ऽपि निरूपण एव सविशेषो दृश्यते ।
निरूपणमनागतो ऽप्राप्तस्तु निर्विशेष एवेत्यस्माभिरपि शक्यते वक्तुमित्यर्थः ।
१२,१९७फ़्.
किञ्चोक्तरूपे शून्यवादिमयावादिभ्यामुत्प्रेक्षिते मोक्षे न किञ्चित्प्रमाणमस्ति ।
तथाहि ।
न तावदत्र प्रत्यक्षं प्रमाणम् ।
प्रत्यक्षाविषयत्वादस्याथर्स्य ।
नाप्यागमः ।
वेदाद्यागमस्य शून्यवादिना प्रमाणत्वेनानभ्युपगमात् ।
तदीयागमस्यास्माभिरनङ्गीकृतत्वात् ।
मायावादिनं प्रति तु वक्ष्यामः ।
तस्मादात्मशून्यता पुरुषार्थो दुःखनिवृत्त्युपयोगित्वाच्छरीरादिशून्यतावदित्यनुमानमेव वक्तव्यम् ।
यथोक्तम् ।
‘न तैर्विना दुःखहेतुरात्मा चेत्ते ऽपि तादृशाः ।
निर्देषं द्वयमप्येवं वैराग्यं च द्वयोस्ततः’ इति ।
तदिदं सत्प्रतिपक्षतया नानुमानमित्याहन मोक्ष इति ।
१२,१९८
न मोक्षो विमतो यस्माददेहो घटशून्यता ।
यथेत्युक्ते वदेत् किं स यो ऽनुमामात्रमानकः । (अनुव्याख्यानम्)४,२.५५ ।
न्यायसुधा-
विमतः शून्यभावो ब्रह्मभावो वा न मोक्ष इति प्रतिज्ञा ।
यस्माददेह इति हेतुः अदेहत्वादिति ।
घटशून्यता यथेति दृष्टान्तः ।
यो ऽनुमामात्रमानकः स इत्युक्ते किं वदेदित्यनेनोक्तविधया प्रमाणान्तराभावं तत एव स्वानुमानस्याबाधितविषयत्वं च सूचयति ।
न च मायी वदेत् तत्र … । (अनुव्याख्यानम्)४,२.५६अ ।
१२,२००
न्यायसुधा-
अत्रानुमानविषये श्रुतिमालम्ब्य दूषणं न वदेत् ।
तथात्र स्वाभिमते मोक्षे श्रुतिं प्रमाणं नैव वदेदित्यर्थः ।
कुत इत्यत आहपूर्वेति ।
… पूर्वोक्तेनैव वर्त्मना ।
अमानत्वाच्छ्रुतेस्तस्य … । (अनुव्याख्यानम्)४,२.५६ब्च् ।
न्यायसुधा-
तस्य मायावादिनो मते श्रुतेरमानत्वात् ।
कथम् ।
‘प्रामाण्यादि च वेदस्य’ इत्यादिना पूर्वोक्तेनैव वर्त्मना ।
ननु न सर्वो वेदो ऽतत्त्वावेदकः किन्तु विधिनिषेधात्मक एव ।
अतथाभूतास्तु वेदान्तास्तत्त्वावेदका इति चेन्न ।
सर्वधर्मोज्झितस्यास्य किं शास्त्रेणाधिगम्यत इत्यादिना पूर्वोक्तेनैव वर्त्मनात्र तत्त्वे श्रुतेरमानत्वात् ।
अस्तु वा कथञ्चित् श्रुतिः प्रमाणम् ।
तथापि नास्मदनुमानस्य तद्बाध इत्याहन चेति ।
… नचादेहत्ववादिनी । (अनुव्याख्यानम्)४,२.५६द् ।
श्रुतिः काचिद् … । (अनुव्याख्यानम्)४,२.५७अ ।
न्यायसुधा-
मुक्ताविति शेषः ।
तथा तदभिमतमोक्षवादिनीत्यपि ग्राह्यम् ।
‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’ इत्यादिश्रुतिसद्भावात्कथमदेहत्ववादिनी श्रुतिर्नास्तीत्युच्यत इत्यत आहअदेहत्वमिति ।
… अदेहत्वमप्राकृतशरीरगा । (अनुव्याख्यानम्)४,२.५७अब् ।
न्यायसुधा-
यदस्यां श्रुतावदेहत्वमुच्यते तत्प्राकृतशरीरराहित्यमेव ।
नतु सर्वथाप्यदेहत्वम् ।
प्राकृतशब्देन जडमुपलक्ष्यते ।
तद्राहित्यं च चतुर्थपादोदितप्रकारेण ज्ञातव्यम् ।
एवं’ब्रह्म वेद ब्रह्मैव भवति’ इत्यादिश्रुतिराशङ्कय
व्याख्यातव्या च ।
अशरीरत्वश्रुतेः कुतो ऽर्थसङ्कोचः क्रियत इत्यत आहमोक्ष इति ।
मोक्षे भोगं यतो ब्रूते जक्षन् क्रीडन्निति श्रुतिः । (अनुव्याख्यानम्)४,२.५७च्द् ।
न्यायसुधा-
‘स तत्र पर्येति जक्षन्क्रीडन्रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वाज्ञातिभिर्वा’ इति श्रुतिर्मोक्षे स्त्र्यादिभोगं ब्रूते ।
न चाशरीरस्यासौ सम्भवतीत्यतः सङ्कोच इत्यर्थः ।
१२,२०३
परकीयानुमानस्य प्रतिपक्षान्तरमाह निर्दुःखत्वादिति
१२,२०४
निर्दुःखत्वान्न तन्मोक्षः प्रतिपन्नं यथेति च ।
अनुमादूषणं किं स्याद् वादिनोः शून्यमायिनोः । (अनुव्याख्यानम्)४,२.५८ ।
न्यायसुधा-
तच्छून्यत्वं ब्रह्मत्वं वा मोक्षो न भवति निर्दुःखत्वात् प्रतिपन्नं घटशून्यत्वं यथेति चानुमायाः किं दूषणं स्यान्न किमपि ।
शून्यशब्देन तदङ्गीकारवान् लक्ष्यते ।
शू(न्यं च मा)न्यश्च मायी चेति द्वन्द्वः ।
यद्वा शून्यं च माया चेति द्वन्द्वः ।
ते विद्येते ययोरिति व्रीह्यादिलक्षण इनिः ।
तत्र च तदन्तविधिरिष्यते ।
१२,२०५
प्रतिपक्षान्तरमाहदुःखमिति ।
दुःखं दुःखादभिन्नत्वान्मोक्षो ऽपि स्यादसंशयम् । (अनुव्याख्यानम्)४,२.५९अब् ।
१२,२०५फ़्.
न्यायसुधा-
मोक्ष इति शून्यं ब्रह्म चोच्यते ।
प्रतिवादिभ्यां तथाभ्युपगतत्वात् ।
स मोक्षो दुःखात्मा स्यात् दुःखादभिन्नत्वात् ।
दुःखप्रतियोगिकभेद(रहितत्वा)शून्यत्वात्प्रसिद्धदुःखवत् इत्यर्थः ।
शून्यब्रह्मणोर्दुःखत्वे तद्भावापत्तिर्न पुरुषार्थ इति सिद्धयति ।
अपिशब्दः प्रतिपक्षान्तरसमुच्चयार्थः ।
असंशयमिति व्याप्तेर्निश्चितत्वमाचष्टे ।
दुःखप्रतियोगिकभेदाभावः कुत इत्यत आहभेद इति ।
भेदे सद्वैततैव स्याद् … । (अनुव्याख्यानम्)४,२.५९च् ।
न्यायसुधा-
दुःखात् शून्यब्रह्मणोरिति शेषः ।
तथा चापसिद्धान्त इति भावः ।
किञ्च दुःखापायस्यात्मनाशेन विना देहादिनाशेनापि सम्भवादन्यथासिद्धिश्च अनुमानस्य ।
शरीरादिशून्यतापि न दुःखध्वंसोपयोगित्वात्पुरुषार्थः ।
किं नामात्मनो निर्दुःखतां प्रति हेतुत्वात् ।
नहि दुःखं नश्यत्विति कश्चिदाशास्ते ।
अपि तर्हि निर्दुःखः स्यामिति ।
ननु शून्यभावो ब्रह्मभावो वा भवतां सिद्धश्चेदपसिद्धान्तः, न चेदाश्रयासिद्धिरिति चेन्न ।
परानुमाने ऽप्यात्मशून्यताया असिद्धत्वेनाश्रयासिद्धेः ।
इयांस्तु विशेषः ।
यत्परप्रसिद्धिमात्रेण प्रतिपक्षः सम्भवतीति ।
ननु भोगश्रुतिः सगुणमुक्तिविषयास्त्विति चेन्न ।
‘परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते’ इत्युक्तविरोधात् ।
निर्दुःखत्वान्मोक्षो न भवतीति विरुद्धमिति चेत् ।
परमेष्यस्य आत्मनो नाशः पुरुषार्थ इति कथं न विरुद्धम् ।
अथ सतो दुःखाद्भेदे सद्द्वैतता स्यात् ।
दुःखं तु मिथ्येति चेन्न ।
अनुभवविरोधादेरुक्तत्वात् ।
बहुजीववादिनं प्रति नान्तिमानुमानमिति न कुचोद्यावकाशः ।
१२,२०७
तदेतत्सर्वमभिसङ्घायोपसंहरतिइत्यादीति ।
… इत्याद्यमितदोषतः ।
हेयं मायामतेनैव सह शून्यमतं बुधैः । (अनुव्याख्यानम्)४,२.५९द्फ़् ।
न्यायसुधा-
सहैवेति सम्बन्धः ।
१२,२११
विज्ञानवाद्यभिमतं मोक्षस्वरूपमप्युक्तदोषेणातिदिशतिएवमिति ।
एवं विज्ञानवादो ऽपि … । (अनुव्याख्यानम्)४,२.६०अ ।
न्यायसुधा-
शून्यवादिमायावाद्यभिमतमोक्षवद्विज्ञानवाद्यभिप्रेतो ऽपि मोक्षो हेय इत्यर्थः ।
ननु विज्ञानवादिनो विज्ञानं तत्त्वमाहुः तस्यापि क्षणिकत्वं स्वकर्मकप्रकाशकत्वलक्षणं स्वप्रकाशत्वं च ।
नचैवं पूर्वकावित्यतो वैषम्यात्कथमतिदेश इत्यत आहज्ञानेति ।
… ज्ञानमात्रविशेषतः ।
तस्यापि भङ्गुरत्वादिविशेषमपहाय हि ।
अद्वैततामतं साक्षादुक्तदोषस्ततो भवेत् । (अनुव्याख्यानम्)४,२.६०ब्फ़् ।
१२,२११फ़्.
न्यायसुधा-
ज्ञानमात्रं चासौ विशेषश्च ज्ञानमात्रविशेषः ।
तमिति द्वितीयार्थे तसिः ।
यस्मात्ज्ञानमात्रविशेषं तस्य ज्ञानस्य भङ्गुरत्वादिविशेषमप्यपहाय विज्ञानवादो ऽप्यद्वैततामतं ज्ञातव्यम् ।
न विद्यते द्वैतं यस्य तत्त्वस्य तदद्वैतं तस्य भावो ऽद्वैतता ।
तस्या मतमद्वैततामतम् ।
ततः कारणादुक्तदोषो ऽपि समो भवेत् ।
१२,२१२
इदमुक्तं भवति ।
अस्तु विज्ञानवादस्य पूर्वस्मात्कश्चिद्विशेषः ।
तथापि स प्रकृतानुपयोगित्वान्नादरणीयः ।
मोक्षस्वरूपं तु प्रकृतं समानम् ।
प्रतिपन्नं जीवभावं विहायाद्वितीयविज्ञानत्वापत्तिर्मुक्तिरिति विज्ञानवादिनाप्यङ्गीकृतत्वात् ।
अतो युक्त एवातिदेश इति ।
यद्वा ज्ञानमात्रविशेषं तस्य भङ्गुरत्वादिविशेषं चापहाय विज्ञानवादो ऽपि साक्षादद्वैततामतं ज्ञातव्य इत्यनेनेदमभिप्रैति ।
न कश्चिद्विज्ञानवादस्य पूर्वाभ्यां विशेषः ।
ज्ञानमिति विशेषस्य शब्दमात्रत्वेन हेयत्वात् ।
न हि ज्ञानत्वं नाम धर्मो ऽभ्युपगम्यते परेण ।
भङ्गुरत्वादिकं तु तेनैव कल्पितमित्युक्तत्वाद्धेयमेव ।
नतु वस्तुतो मतभेदहेतुः ।
यथोक्तं’तत्र सन्ततिभेदश्च’ इत्यादि ।
अतो युक्तो ऽतिदेश इति ।
अतिदेशप्रकारस्तु स्पष्ट एव ।
१२,२१३
अनुमानान्तरमपि तन्निरासार्थमाहकाल इति ।
कालो न केवलज्ञानी कालत्वात् प्रतिपन्नवत् ।
एतयानुमया रोधान्न तादृङ्मोक्षरूपता । (अनुव्याख्यानम्)४,२.६१ ।
१२,२१३फ़्.
न्यायसुधा-
मोक्षकालो ऽद्वितीयज्ञानवान्न भवतीत्यर्थः ।
प्रतिपन्नवद्वर्तमानकालवत् ।
रोधाद्विरोधात् ।
तादृक् मोक्षरूपं यस्यात्मनो ऽसौ तादृङ्मोक्षरूपस्तस्य भावस्तत्ता ।
ज्ञानातिरिक्तस्य कल्पितत्वाद्वर्तमानकालो ऽपि केवलज्ञानीति चेन्न ।
मुक्तिसंसारयोरविशेषापत्तेः ।
यस्तु विशेषो ऽङ्गीक्रियते तदभाव एवानेन साध्यते ।
१२,२१४
ज्ञानव्यतिरिक्तं किमपि नास्तीति मते कालो ऽपि नास्त्येव ।
अतः किमाश्रयानुमानप्रवृत्तिरित्यत आहयदीति ।
यदि कालो ऽपि नेत्याह कदेति प्रश्न उत्तरम् ।
किं वक्ष्यति … । (अनुव्याख्यानम्)४,२.६२अच् ।
न्यायसुधा-
आह विज्ञानवादी ।
तदा कदा कालो नेति प्रश्ने परेण कृते सति किमुतरमसौ वक्ष्यति ।
निरधिकरणस्याभावस्य निरूपयितुमशक्यत्वात्कालो नेत्येतदपि दुर्निरूपमापद्येतेत्यर्थः ।
मोक्षावस्थायां कालो नेत्युत्तरं वक्ष्यामीत्याशङ्क्याहयदेति ।
… यदावस्थां वदेत् सा पक्षतां व्रजेत् । (अनुव्याख्यानम्)४,२.६२च् ।
१२,२१५
न्यायसुधा-
वदेत्कालाभावाधिकरणत्वेनेति शेषः ।
तर्हि सा मोक्षावस्था पूर्वानुमाने पक्षतां व्रजेत् ।
पक्षशब्देन तदेकदेशो धर्मी लक्ष्यते ।
मोक्षावस्था न केवलज्ञानवतीति प्रतिज्ञास्यत इत्यर्थः ।
एवं तर्हि कालत्वादिति हेतुः स्वरूपासिद्धः स्यादित्यत आहअवस्थात्वादिति ।
अवस्थात्वादिति ह्येव हेतुः … । (अनुव्याख्यानम्)४,२.६३अब् ।
न्यायसुधा-
यदावस्था पक्षीक्रियते तदावस्थात्वादित्येव हि हेतुरुच्यते न कालत्वादित्यतो नोक्तदोषः ।
एवं संसारावस्थैव दृष्टान्तीक्रियत इति न दृष्टान्तदोषो ऽपीति वाच्यम् ।
प्रथमोक्तपक्षहेतुदृष्टान्तानां त्यागे प्रतिज्ञाहानिः स्यादिति चेत् ।
मैवम् ।
कालाभावस्यावस्थामधिकरणं वदता न किञ्चिदात्महितमाचरितम् ।
अनुमानान्तरविरोधस्यापरिहार्यत्वात् ।
नहि प्रतिवादिनिग्रहमात्रेण विरुद्धं तत्त्वं व्यवतिष्ठते ।
मा हि भूत्कस्मिंश्चिदनुमाने सद्दूषणद्वयेन दूषिते ऽधिकत्वेन च प्रतिवादिनि निगृहीते तस्य सदनुमानत्वमिति
प्रदर्शनार्थमेवानुमानान्तरमुपन्यस्तम् ।
वस्तुतस्तु कालाभावमेव निराकुर्म इत्याशयवानाहसापीति ।
… सापि कदेति च ।
पृष्टे कालश्च वक्तव्यो नाकालत्वं ततो भवेत् । (अनुव्याख्यानम्)४,२.६३ब्द् ।
१२,२१६
न्यायसुधा-
मोक्षावस्थां कालाभावस्याधिकरणत्वेन वदता सा मोक्षावस्थात्रप कदेति केनचित्पृष्टे भावनापरिपाकोत्तरकाल इत्यवस्थाधिकरणत्वेन काल
एव वक्तव्यः ।
नह्येवं कदापि न प्रष्टव्यमिति नियामकमस्ति ।
ततः कालस्य सर्वथापरिहार्यत्वादकालत्वं कालाभावो न भवेत् ।
तथाच तदाश्रयेण प्रथमानुमानमपि प्रवर्त्स्यतीति ।
१२,२१७
ननु कालाभावादाश्रयासिद्धिमाद्यानुमानम् ।
यदत्रोक्तं कदेति तदसत् ।
प्रतियोग्यधिकरणमेव ह्यभावस्याधिकरणम् ।
नच कालस्य कालो ऽधिकरणम् ।
येन तदभावः कालाधिकरणः स्यात् ।
अतः कदेति प्रश्न एवानुपपन्नः ।
किमुत्तरेणेति चेत् ।
एवं तर्हि कालविशेषमधिकरणत्वेनानुपादाय कालं निषेधता सामान्यनिषेध एव कृतः स्यात् ।
ततः किमित्यत आहनेति ।
न काल इति सामान्यनिषेधे कालगप्रमा ।
निरुणद्धि … । (अनुव्याख्यानम्)४,२.६४अच् ।
न्यायसुधा-
कालो नेति सामान्यतो निषेधे क्रियमाणे हि कालस्य स्वरूपमेव निषिद्धं स्यात् ।
तथा च कालं गच्छति विषयीकरोतीति कालगा प्रमा साक्षी (निरु)विरुणद्धि ।
स हि पूर्वोत्तरकोटिरहिततया कालसद्भावं गृह्णातीति ।
न केवलमयं साक्षिविरोधो विज्ञानवादिनः किं नाम पूर्वाभ्यां सह त्रयाणां चेत्याहसमश्चेति ।
… वक्तव्यो नाकालत्वं ततो भवेत् । (अनुव्याख्यानम्)४,२.६४च्द् ।
न्यायसुधा-
उक्ताः प्रत्युक्ताः ।
१२,२१८फ़्.
ननु कथं शून्यवादिमायावादिनोरयं साक्षिविरोधः ।
ताभ्यां कालाभावस्यानभ्युपगतत्वात् ।
यथा हि लोके ऽनेकेषु मायामयान् गजतुरगादीन्पश्यत्सु यस्य कारणविशेषेण मायापगच्छति स एव तान्न पश्यति अन्ये तु पश्यन्त्येव ।
तथा द्वैतदर्शनकारणमज्ञानं यस्यापगतं स एव तन्न पश्यति ।
अन्येषां तु कालादिप्रपञ्चदर्शनमनुवतर्त एवेति खलु ताभ्यामभ्युपेतमित्यत आहएकेति ।
१२,२१९
एकजीवत्वपक्षे तु कालाभावादियं प्रमा ।
कुपिता … । (अनुव्याख्यानम्)४,२.६५अच् ।
न्यायसुधा-
सत्यमेवं बहुजीववादिनः शून्यवादिनो मायावादिनश्च मतम् ।
नच तयोरस्माभिः साक्षिविरोधो ऽभिहितः ।
किं तर्ह्येकमुक्तिरेव सर्वमुक्तिः एकस्मिन्मुक्ते न किञ्चिदवशिष्यत इत्येकजीववादपक्षे तु मुक्तौ कालाभावाभ्युपगमादियं प्रमा साक्षिरूपा
कुपिता विरोधिनी भवत्येव ।
शून्यवादिमायावादिनौ प्रति साक्षिविरोधाभिधानमसङ्गतम् ।
कालाभावाभ्युपगमे ऽपीदानीं तस्याप्रस्तुतत्वादित्यत आहकालमिति ।
… कालमादाय द्वैतमेवोपपादयेत् । (अनुव्याख्यानम्)४,२.६५च्द् ।
न्यायसुधा-
इयं प्रमेति वर्तते ।
आधाय उपपाद्य ।
अयमभिसन्धिः ।
अद्वितीयस्य शून्यस्य ब्रह्मणो वात्तस्थानं मुक्तिरिति तावदेकजीववादिभ्यां ताभ्यामभिधीयते ।
तत्र वयं ब्रूमः ।
कालसद्भावान्नाद्वैतत्वमुपपद्यत इति ।
तत्र परः कालो ऽपि नास्तीति वदति तदा साक्षिविरोधो ऽभिधीयत इत्येतां सङ्गतिमाश्रित्यातिदेशः कृतो न त्वाश्रयासिद्धिप्रसङ्गेनेति ।
१२,२२०
वादित्रयसाधारणमनुमानान्तरमाहविमत इति ।
विमतः प्रपञ्चवान् कालः कालत्वात् प्रतिपन्नवत् ।
इति चान्यानुमैकत्वं जीवस्य विनिवारयेत् । (अनुव्याख्यानम्)४,२.६६ ।
न्यायसुधा-
कालः प्रपञ्चवानित्युक्ते सिद्धसाधनता स्यात् ।
अतो विमत इत्युक्तम् ।
मोक्षकाल इत्यर्थः ।
तस्य स्पष्टीकरणाय काल इत्युक्तम् ।
कालाभावस्यानुपदमेव निरस्तत्वान्नाश्रयासिद्धिः ।
प्रपञ्चो वियदादिः प्रतिपन्नो वर्तमानकालः ।
पूर्वोक्तमेवेदं कुतः पुनरुच्यत इत्याशङ्कानिरासायोक्तमन्यानुमा चेति ।
यद्यपि द्वयोर्धर्म्यादिकं प्रयोजनं च समानम् ।
तथापि पूर्वमद्वैतनिषेधमुखेन प्रवृत्तम् ।
इदं तु प्रपञ्चविधिमुखेनेति भेदः ।
जीवस्य मुक्तस्य ।
१२,२२१
उक्तातिदेशेनाद्वैतमतान्तराणि दूषयतिकालेति ।
कालशब्देश्वरैकत्वमतान्यप्येवमेव हि ।
निराकृतानि … । (अनुव्याख्यानम्)४,२.६७अच् ।
न्यायसुधा-
यद्यदनुविद्धं प्रतीयते तत्तत्रारोपितम् ।
यथेदमाकारे रजतम् ।
कालानुविद्धं च समस्तं प्रतिभाति ।
तस्मात्तत्रैवारोपितम् ।
स एव तु परमार्थः ।
अतस्तन्मात्रावस्थानं मुक्तिरिति कालैकत्ववादिनः ।
एवमेव शब्दैकत्ववादिनो वैयाकरणाः प्राहुः ।
यथा’न सो ऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्वं शब्देन गम्यते’ इति ।
शैवैकदेशिनः स्वागममाश्रित्येश्वरैकत्वमाहुः ।
कथं निराकृतानीत्यत आहतेषां चेति ।
… तेषां च समत्वात् पक्षदोषयोः । (अनुव्याख्यानम्)४,२.६७च्द् ।
१२,२२१फ़्.
न्यायसुधा-
तेषां शून्यवादिप्रभृतीनां एतेषां च पक्षस्तावत्समान एव ।
शून्यादिशब्दभेदस्याप्रयोजकत्वात् ।
प्रतिपन्नस्वरूपजीवविनाशादेः सर्वैरभ्युपगतत्वात् ।
अतः परमेष्यनाशेनापुरुषार्थत्वमित्यादिदोषो ऽपि समान एवेति ।
अनुमानं तु प्रत्यक्षविरोधादिना दुष्यमेव ।
तथाऽगमो ऽपीति स्फुटत्वान्नोक्तम् ।
१२,२२३
वैभाषिकसौत्रान्तिकाभिमतं मोक्षं निरूपयतिज्ञानमिति ।
ज्ञानं स्वरसभङ्गयेव नित्यसन्तामिष्यते ।
बौद्धाभ्यामपराभ्यां तु … । (अनुव्याख्यानम्)४,२.६८अच् ।
न्यायसुधा-
एवशब्देन विषयसम्बन्धं व्यावर्तयति ।
इष्यते मुक्तौ ।
अयमर्थः ।
ज्ञानमेवात्मा ।
तच्च ज्ञानं स्वभावेनैव भङ्गुरम् ।
अत एव क्षणिकम् ।
तत्सन्तानस्तु नित्यः ।
तस्यानादिवासनावशाद्यो विषयोपरक्तस्योत्पादः स संसारः भावनाप्रकर्षवशेन वसानायामुत्सन्नायां यो विषयोपप्लवं विना शुद्धस्यैवादयः स
मोक्षः इत्युभयसमानम् ।
सौत्रान्तिकास्तु संसारे साकारत्वं मुक्तौ निराकारत्वं च विशेषमाहुरिति ।
१२,२२४
निराकरोतितत्रापीति ।
… तत्राप्युक्तानुमा रिपुः । (अनुव्याख्यानम्)४,२.६८द् ।
न्यायसुधा-
विमतः कालो न निर्विषयैतज्ज्ञानसन्ततिमान् कालत्वादिदानीन्तकालवदित्यादिरुक्ता उक्तसरूपा अनुमा रिपुर्विरोधिनीत्यथर्ः ।
१२,२२५
अनुमानान्तरमाहमोक्ष इति ।
मोक्षो न शुद्धविज्ञानसन्तानी कालगत्वतः ।
प्रतिपन्नो यथेत्येतदनुमानं तदुत्तरम् । (अनुव्याख्यानम्)४,२.६९ ।
न्यायसुधा-
शुद्धविज्ञानसन्तानी(ति) निर्विषयचित्सन्तानसम्बन्धी ।
कालगत्वतः कालसम्बन्धित्वात् ।
प्रतिपन्नः संसारः ।
तदुत्तरं तत्पक्षस्य दूषणम् ।
अप्रामाणिकश्चायं मोक्षः ।
पूर्ववत्प्रत्यक्षागमयोरभावात्केवलानुमानानि वाच्यानि ।
तत्राहअनुमानानीति ।
अनुमानानि सर्वाणि प्रतिसाधनयोगतः ।
निषिद्धान्युक्तभङ्गयैव … । (अनुव्याख्यानम्)४,२.७०अच् ।
न्यायसुधा-
उक्तभङ्गयैव प्रतिसाधनसम्बन्धेन ।
श्रुतिविरुद्धत्वेन कालात्ययापदिष्यानि चेति भावेनाहश्रुतयश्चेति ।
… श्रुतयश्चास्मदुक्तिगाः । (अनुव्याख्यानम्)४,२.७०द् ।
न्यायसुधा-
उच्यत इत्युक्तिः अस्मदुक्तिं गच्छन्ति प्रतिपादयन्तीत्यस्मदुक्तिगाः ।
अस्मदभिमतमेव मोक्षस्वरूपं प्रतिपादयन्तीत्यर्थः ।
श्रुतिप्रामाण्यं तु प्रागेव समर्थितमिति ।
१२,२२६
साङ्खयाद्यभिमतं मोक्षमनुवदतिसाङ्खयेति ।
साङ्खयनैयायिकाद्याश्च प्राहुर्मोक्षं तु निस्सुखम् । (अनुव्याख्यानम्)४,२.७१अब् ।
न्यायसुधा-
आद्यग्रहणेन वैशेषिका उच्यन्ते ।
यथा पूर्वे ऽनुपपन्नभाषिणस्तथैते ऽपीति ज्ञापनार्थश्चशब्दः ।
कुत एवं प्राहुरित्यत आहइच्छेति ।
इच्छाद्वेषप्रयत्नादेरपि सर्वात्मना लयम् । (अनुव्याख्यानम्)४,२.७१च्द् ।
तत्राहुर् … । (अनुव्याख्यानम्)४,२.७२अ ।
न्यायसुधा-
तत्र मुक्ताविच्छाद्वेषप्रयत्नादेरपि लयमाहुः ।
सुप्तिप्रलयवैलक्षण्यं दर्शयितुं सर्वात्मनेत्युक्तम् ।
निवृत्तजातीयस्य तस्मिन्नेवात्मनि पुनरनुत्पादः सर्वात्मना लयः ।
आदिपदेन बुद्धिदुःखधर्माधर्माणां शरीरेन्द्रियाणां च ग्रहणम् ।
१२,२२९
ततश्चायमाशयः ।
न तावन्मुक्तस्य सुखमनादीत्युपपद्यते ।
संसारे ऽपि तत्प्रतिभासप्रसङ्गात् प्रतिभासत एवेति चेन्न ।
प्रतिभासमानस्यानादितायां साधनोपादानवैयर्थ्यापत्तेः ।
अव्यक्तत्वात्संसारे न प्रतिभासते व्यक्तत्वात्तु मुक्तौ प्रतिभासत इति चेन्न ।
अव्यक्तिर्हि प्रतिभासाभावो व्यक्तिश्च प्रतिभासः ।
ततश्चाप्रतिभासान्न प्रतिभासते प्रतिभासनाच्च प्रतिभासत इत्युक्तं स्यात् ।
किञ्च प्रतीतिकारणान्तःकरणसद्भावे संसारे न प्रतीयते ।
मुक्तौ तु तदपगमे प्रतीयत इति सुभाषितम् ।
आवृतत्वान्न प्रतीयत इति चेन्न ।
मूर्तत्वाभावेनावरणानुपपत्तेः ।
तदनिरूपणाच्च ।
सुखमिव तत्प्रतीतिरप्यनादिश्चेत्किमावरणकृत्यम् ।
विषयविषयिभावः प्रतिबध्यत इति चेन्न ।
निर्विषयायाः प्रतीतेरनुपपत्तेः ।
सुखतत्प्रतीत्योरनादितायां प्रमितायामेव चैषा कल्पना युक्ता ।
नच तत्र प्रमाणं पश्यामः ।
ततः सुखस्य तत्प्रतीतेश्च मुक्तावुत्पत्तिरेव वक्तव्या ।
सापि न सम्भवति ।
कारणाभावात् ।
शरीरे सति तदाश्रयेन्द्रियसद्भावः, तैरर्थालोचनं, ततः पूर्वानुभूतसारूप्येणेष्यानिष्यसाधनत्वानुमानं, तस्मादिच्छाद्वेषौ, ताभ्यां प्रयत्नः,
ततश्चेष्यसाधनोपादानं, अनिष्यसाधनहानं च, ततः सुखोत्पादः, तदनन्तरं तत्प्रतीतिरित्येव दृष्टकारणक्रमः ।
अदृष्टं च सर्वत्र विजयते ।
न चैष कारणप्रवाहो मुक्तावस्ति ।
तत्सद्भावे दुःखस्यापि प्रसङ्गेन मुक्तत्वव्याघातात् ।
तस्मात्सुखरहित एव मोक्षः ।
१२,२३२
कथमयं पुरुषार्थ इति चेत् शरीरं षडिन्द्रियाणि षड्विषयाः षड्बुद्धयः सुखं दुःखं चेत्येकविंशतिभेददुःखात्यन्तनिवृत्तित्वादिति ब्रूमः ।
दुःखनिवृत्तिः पुरुषार्थ एव न भवति ।
तदीयपुरुषार्थत्वस्य सोपाधिकत्वात् ।
सुखं दुःखाभावे सत्येव भवतीति सुखार्थं दुःखाभावो मृग्यते न तु स एव पुरुषस्य समीहित इति चेत् (न) ।
विपर्ययस्यापि सद्भावात् ।
भोजनादिसुखे सत्येव बुभुक्षादिदुःखं निवर्तत इति दुःखनिवृत्त्यर्थमेव भोजनादिसुखं मृग्यते न पुनस्तदेव पुरुषस्य समीहितमिति कल्प्यते ।
क्वचिद्दुःखनिवृत्त्यभावे ऽपि सुखस्येष्यमाणत्वादिति चेन्न ।
दुःखनिवृत्तिरपि क्वचित्सुखाभावे ऽपीष्यमाणत्वात् ।
दुःखनिवृत्तौ सत्यां सुखमेव भविष्यतीत्यभिसन्धिस्तावदस्तीति चेत् ।
सुखावस्थायां नियतो दुःखविरहो भवतीत्यभिसन्धेस्तत्रापि सद्भावात् ।
तस्माद्यद्यपि दुःखाभावे सुखं सुखे च दुःखाभावो नियतः ।
तथापि परस्परं निरपेक्षमेव पुरुषार्थत्वमनयोः ।
इच्छाया असङ्कीणर्विषयत्वादिति ।
१२,२३६फ़्.
भवति दुःखहानिः पुरुषार्थः किं त्वनुभूयमानतया ।
नहि विषादिजन्यमोहावस्थायां दुःखनिवृत्तिरिति तत्र प्रेक्षावन्तः प्रवर्तन्ते ।
तस्मान्मोक्षे दुःखहानेरननुभूयमानत्वान्न पुरुषार्थत्वमिति चेन्न ।
पुत्रादिवियोगजन्यदुःखहानिमिच्छतां केषाञ्चिद्विषशस्त्रोद्बन्धनादावपि प्रवृत्तिदर्शनात् ।
प्रेक्षावन्तो नैवं कुर्वन्तीति चेन्न ।
पुरुषार्थत्वाविरोधात् ।
नहि परदारेषु शास्त्रनिषेधाङ्कुशवारितः प्रेक्षावन्तो नाभिवर्तन्त इति न तत्र कामः पुरुषार्थः ।
अपि त्वल्पीयः सुखं महीयाननर्थ इति निवृत्तिः ।
तथा विषादावपि प्रवृत्तस्य शास्त्रे गर्हितत्वादल्पीयाननर्थो निवर्तते महीयान्प्रवर्तत इति न ते प्रवर्तन्ते ।
इयमेव हि प्रेक्षा यत्पुरुषार्थे ऽपि शास्त्रलोकविरोधपरामर्शः ।
स्वरूपेणेष्यमाणतामात्रनिबन्धनत्वात्पुरुषार्थतायाः ।
अत एव यत्र लोकशास्त्राविरोधस्तत्र व्याध्यादिपरिपीडिताः प्रयगवारिपातानशनादिनापि देहं त्यजन्तः प्रेक्षावन्तो ऽपि दृश्यन्ते ।
१२,२३७
न क्वचिद्दुःखनिवृत्तिमनुभविष्यामीति तत्साधने प्रवर्तन्ते ।
अपि तु दुःखं हास्यामीति ।
अपि च दुःखनिवृत्तेरनुभूयमानतामात्रं विवक्षितं, दुःखनिवृत्तिसत्तापि वा ।
आद्येश्चेत्तुष्यतु दुर्जनः चरमे जन्मन्यनुभूयत एव ।
समाधिभावा(वधिव)दात्यन्तिकी दुःखनिवृत्तिरप्यनागतावर्तमानाप्यचिरमनुभूयत एव ।
द्वितीये तु प्रसक्तकण्टकादिहेतुकदुःखनिवृत्तेरपुरुषार्थत्वप्रसङ्गः ।
सर्वदाननुभूयमानत्वात् ।
तथात्वे वा विषयान्तरसञ्चाराभावप्रसङ्गः ।
निवृत्तेः सर्वदा तादवस्थ्यात् ।
तस्मात्सुखरहितो मोक्षः पुरुषार्थ इति ।
१२,२६४
निराकरोतिनैतदिति ।
… नैतदप्यत्र शोभनं … । (अनुव्याख्यानम्)४,२.७२अब् ।
न्यायसुधा-
अत्र मुक्तौ ।
एतत् सुखराहित्यमतमपि न शोभनम् ।
कुत इत्यत आहश्रूयत इति ।
… श्रुतयो यतः ।
महानन्दं च भोगं च नियमेन वदन्ति हि । (अनुव्याख्यानम्)४,२.७२ब्द् ।
न्यायसुधा-
अत्रेति वर्तते ।
भोगम् तदनुभवम् ।
नियमेन अविगानेन ।
इति श्रुतीनां प्रसिद्धतामाचष्टे ।
ताश्चोदाहरिष्यन्ते ।
१२,२६५
ननु’अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशते’ इति मुक्तस्य दुःखवत्सुखस्यापि हानिः श्रूयते ।
तथा’न प्रेत्य सञ्ज्ञास्ति’ इति ज्ञानाभावाच्च ।
तत्कथमेतदित्यतः सुखास्पृष्टिश्रुतिं तावद्वयाचष्टेप्राकृतेति ।
प्राकृतप्रियहानिस्तु प्रियास्पृष्टिरितीर्यते । (अनुव्याख्यानम्)४,२.७३अब् ।
न्यायसुधा-
अस्यां श्रुतौ प्राकृतं यदन्तःकरणपरिणतिरूपं प्रियं तद्धानिरेव प्रियास्पृष्टिरितिशब्देन प्रतिपाद्यते ।
नतु सर्वथा सुखाभावः ।
१२,२६६
एवं तर्ह्यप्रियास्पृष्टिरप्येवं विभागेन व्याख्यातव्या ।
विशेषाभावात् ।
तथाच मोक्षे दुःखसद्भाव(प्राप्तिरि)प्रसक्तिरित्यत आहअप्रियमिति ।
अप्रियं प्रतिकूलं तदविशेषेण शब्दितम् । (अनुव्याख्यानम्)४,२.७३च्द् ।
न्यायसुधा-
यस्मात्सकलमप्यप्रियं (दुःखं) प्रतिकूलं मुमुक्षोरनपेक्षितम् ।
तत्तस्मादप्रियमत्राविशेषेण शब्दितम् ।
एतदुक्तं भवति ।
सर्वात्मनानिष्यनिवृत्तिर्मोक्ष इति तावदविवादं सर्ववादिनाम् ।
दुःखं तु यादृशतादृशमप्यनिष्यमेव ।
अतो न तद्विभागेन व्याख्यातुं युक्तमिति ।
यद्वा ।
येन न्यायेन प्रिये विभागः क्रियते तदविशेषश्चेदप्रिये स्यात्तदा तदपि विभागेन व्याख्यातव्यं भवेत् ।
नचैवम् ।
सामस्त्येन प्रियहानिरनिष्या ।
अनिष्यप्राप्तौ च मोक्षस्यापुरुषाथर्त्वं स्यादित्यतो हि प्रिये विभागः कल्प्यते ।
तथाच वक्ष्यामः ।
नच सामस्त्येन दुःखहानिरनिष्या ।
सर्वस्यापि दुःखस्यानिष्टत्वेन तद्धानेरिष्टत्वात् ।
तर्हि सर्वस्यापि सुखस्येष्टत्वात् प्राकृतसुखहानिरपि नाङ्गीकरणीयेति चेन्न ।
तस्य दुःखानुषक्तत्वेन विषसम्पृक्तमधुवदनिष्यपक्षनिक्षेपादिति भावः ।
१२,२६७
इतश्च नाप्रियं प्राकृतत्वेन विशेषणीयमित्याहनास्तीति ।
नास्ति ह्यप्राकृतं दुःखं सतो जीवस्य कुत्रचित् । (अनुव्याख्यानम्)४,२.७४अब् ।
न्यायसुधा-
अप्राकृते दुःखे सति तद्वयावृत्तये प्राकृतमिति विशेषणीयं स्यात् ।
सतो मुक्तियोग्यस्य ।
जीवस्याप्राकृतं दुःखं नास्ति प्रमाणाभावात् ।
अतो व्यर्थं विशेषणमिति ।
कुत्रचित् श्रुतौ स्मृतौ चोक्तमिति शेषः ।
१२,२६८
एवं तर्ह्यप्राकृतस्य सुखस्याप्यप्रमितत्वात्तत्रापि विशेषणप्रक्षेपेण व्याख्यानमयुक्तमित्यत आहप्रियमिति ।
प्रियं स्वरूपमेवास्य बलानन्दादिवाक्यतः । (अनुव्याख्यानम्)४,२.७४च्द् ।
न्यायसुधा-
‘बलमानन्द ओजश्च सहो ज्ञानमनाकुलम् ।
स्वरूपाण्येव जीवस्य व्यज्यन्ते परमाद्विभोः’ इति श्रुतिवाक्यादस्य सतो जीवस्य प्रियं स्वरूपमेवेत्यवगम्यते ।
स्वरूपं चाप्रकृतम् ।
अतस्तद्वयवच्छेदाय विशेषप्रक्षेपेण व्याख्यानं युज्यते ।
(एतेन) अनेन सुखस्योत्पत्तिमत्त्वे यो दोषो ऽभिहितः सो ऽनङ्गीकारपरास्तो वेदितव्यः ।
स्वरूपत्वेनानादित्वस्योक्तत्वात् ।
यदत्रोक्तं तदप्यसत् । आवृताः सन्तो व्यज्यन्त इति श्रुतत्वात् ।
आवरणं च मायाविद्यादिसमाख्याता प्रकृतिरेव ।
नच विशदश्रुतिसिद्धे ऽर्थे काचिदनुपपत्तिः ।
ज्ञानस्य स्वरूपत्वेनानादित्वे ऽप्यविद्यया विषयविषयिभावः प्रतिबध्यते ।
नचोक्तदोषः ।
आत्मस्वरूपादौ तस्याप्रतिबद्धत्वात् ।
१२,२६९
उक्तमर्थं सङ्क्षिप्याहहेयत्वादिति ।
हेयत्वादपप्रियस्यैव प्रियहानेरनिष्ठतः ।
न समस्तप्रियाभावो मोक्षे प्रोक्ते तु युज्यते । (अनुव्याख्यानम्)४,२.७५ ।
न्यायसुधा-
अप्रियस्य दुःखस्य हेयत्वादेवेत्येवशब्देन सर्वथेति सूचयति ।
‘अशरीरं वाव सन्तम्’ इत्यस्यां श्रुतौ प्रोक्ते मोक्षे समस्तप्रियाभावो न व्याख्यातुं युज्यते ।
कुतः प्रियहानेरनिष्टत्वतः ।
किन्तु प्राकृतत्वविशेषणप्रक्षेपेणेति तुशब्दः ।
अप्रियहानं त्वविशेषेण व्याख्येयमित्युपस्कर्तव्यम् ।
तत्र हेतुरप्रियस्य सर्वथा हेयत्वादिति ।
उपलक्षणं चैतत् ।
सतो जीवस्याप्राकृतदुःखाभावाच्चेत्यपि द्रष्टव्यम् ।
१२,२७०
ननु सज्जीवस्याप्यप्रियं स्वरूपभूतमप्राकृतमस्ति ।
तत्कथमेतदित्यत आहअप्रियस्येति ।
अप्रियस्य स्वरूपत्वमसुरेष्वेव हि श्रुतम् । (अनुव्याख्यानम्)४,२.७६अब् ।
न्यायसुधा-
असुराश्च न मोक्षयोग्या इति भावः ।
तां श्रुतिमर्थतः पठतिअसुरा इति ।
असुरा नैवमेवं च नैवं चाखिलमानुषाः ।
इत्य् … । (अनुव्याख्यानम्)४,२.७६च्ए ।
न्यायसुधा-
अनेन’नित्यानन्दो नित्यज्ञानो नित्यबलः परमात्मा ।
नैवमसुरा एवमनेवं च मनुष्या इति श्रुतिमुपादत्ते ।
नित्यत्वोक्त्या स्वरूपत्वं सिद्धम् ।
वृत्तीनामनित्यत्वात् ।
परमात्मा परमेश्वरः ।
सज्जीव इति वा ।
नैवमिति ।
एतद्विरुद्धस्वभावा इत्यर्थः ।
एवमनेवं चेति ।
उभयस्वभावः’ इत्यर्थः ।
असुरा नैवं, अखिलमानुषा एवं च नैवं चेति योजना ।
इति श्रुतमिति सम्बन्धः ।
१२,२७१
अप्रियहानावपि सङ्कोचः क्रियतामित्यतिप्रसङ्गं निवारयतैव सामान्यतः श्रुता प्रियास्पृष्टिः कुतो विशेषे ऽवस्थाप्यत इत्याशङ्कापि परिहृता ।
नियामकस्य सूचितत्वात् ।
तदेव नियामकं विस्पष्टमाचष्टेआत्मेति ।
… आत्मप्रियहानाय को यतेत च बुद्धिमान् । (अनुव्याख्यानम्)४,२.७६एफ़् ।
न्यायसुधा-
आत्मा च तत्प्रियं चेति आत्मप्रियम् ।
आत्मनः प्रियमिति वा ।
तदिच्छति चेति चशब्दः ।
१२,२७२
यदि प्रियास्पृष्टिरविशिष्या स्यात्तदा न कश्चित्प्रेक्षावान्मोक्षमिच्छेत् ।
नापि तदर्थं प्रयतेत ।
यद्यपि द्वेषवशात्परकीयसुखहानादाविच्छादिकं सम्भवति ।
तथापि न कश्चिद् बुद्धिमानात्मनः सुखहानमिच्छति ।
तदर्थं प्रयतते वा ।
वृत्तिरूपसुखस्यानिष्यभूयिष्ठत्वात्तत्त्या(गेच्छा)गायेच्छादिकं युज्यते ।
स्वरूपसुखं तु निष्कण्टकं कस्मात्त्याज्यम् ।
नच तन्नास्ति, श्रुतिसिद्धत्वात् ।
कारणैक्यनिमित्तो हि सुखस्य दुःखानुषङ्गः ।
नचात्मसुखस्य कारणमस्ति ।
अशक्यं चात्मसुखहानम् ।
नचाशक्यविषयेच्छाप्रयत्नौ बुद्धिमतः सम्भवतः ।
आत्महानं खलु विनाशलक्षणमनुत्पादलक्षणं च न सम्भवति, नित्यत्वात् ।
नापि वियोगलक्षणं, परेषां मते विभुत्वात् ।
अस्माकं स्वात्मनि क्रियाविरोधात् ।
नाप्यज्ञानलक्षणं स्वप्रकाशत्वात् ।
तदेवं बाधकसद्भावात्प्रियास्पृष्टिर्विशेषनिष्ठैव व्याख्येया ।
तथाच’अशरीरं वाव सन्तम्’ इति श्रुत्युक्तोपपत्तिः श्लिष्यत इति ।
१२,२७५
एवं सुखास्पृष्टिश्रुतिं व्याख्याय ज्ञानाभावश्रुतिं च व्याख्यातिसञ्ज्ञेति ।
सञ्ज्ञा नास्तीत्यपि ह्यस्य नामुक्तज्ञेयतेति हि । (अनुव्याख्यानम्)४,२.७७अब् ।
न्यायसुधा-
श्रुतिर्वक्तीति वक्ष्यमाणमत्रापि सम्बद्धयते ।
‘न प्रेत्य सञ्ज्ञास्ति’ इत्यपि श्रुतिरस्य मुक्तस्यामुक्तज्ञेयता नास्तीत्येव वक्ति ।
नतु मुक्तो न जानातीति ।
एको हिशब्द एवार्थः ।
द्वितीयस्तु स्वोक्तार्थस्य शब्दशक्त्यनतिक्रमं सूचयति ।
तथाहि ।
प्रेत्य मरणानन्तरं सञ्ज्ञां ज्ञानं नास्तीति तावच्छ्रौतो ऽथर्ः ।
तत्र प्रकरणवशात्प्रेत्येत्येतन्मरणविशेषमोक्षानन्तरमिति व्याख्येयम् ।
ज्ञानं तु मुक्तसम्बन्धि प्रतिषिध्यमानं तत्कर्तृकमेवेति कल्पने न नियामकं पश्यामः ।
अतस्तत्कमर्कस्यैव ज्ञानस्यायं प्रतिषेधो विज्ञायते ।
सर्वथाज्ञे(यतायां वा) यानां चासत्त्वं प्रसज्यत इत्यमुक्तज्ञेयतानिषेध इति कल्प्यते ।
अमुक्तानामप्यस्मदादीनामपरोक्षज्ञानस्यायं प्रतिषेधः ।
नारदादिभिरापरोक्ष्येणास्मदादिभिश्च शास्त्रेण तज्ज्ञानात् ।
अत एव संशब्दप्रयोग इति ।
१२,२७६
ननु साधारणे वाक्ये मुक्तविषयस्य ज्ञानस्यायं प्रतिषेधो नतु तत्कर्तृकस्येति कुतः कल्प्यत इत्यत आहधर्मेति ।
धर्मानुच्छित्तिमेवास्य यतो वक्तयुत्तरश्रुतिः । (अनुव्याख्यानम्)४,२.७७च्द् ।
न्यायसुधा-
यतः कारणात्’अयमात्मानुच्छित्तिधर्मः’ इत्युत्तरश्रुतिरस्य मुक्तात्मनो धर्मानुच्छित्तिमेव वक्ति ।
न विद्यते उच्छित्तिर्येषां ते तथोक्ताः ।
अनुच्छित्तयो धर्मा यस्यासावनुच्छित्तिधर्मेति ।
तस्मादेवं व्याख्यात इति ।
१२,२७८
स्यादेतत् ।
अनुच्छित्तिधर्मेत्येतत्सङ्खयादिधर्माणामनुच्छित्तिं वक्तीत्यपि शक्यते वक्तुम् ।
यद्वा उच्छित्तेरभावो ऽनुच्छित्तिः सा धर्मो यस्यासावनुच्छित्तिधर्मेति ।
तत्कथमेतन्नियामकमित्याशङ्कानिरासायादित एव वाक्यं व्याचष्टेआशङ्कयेति ।
आशङ्कयास्य ज्ञानहानिं मैत्रेय्या मोहमाह माम् ।
भवानित्युक्तवत्या हि नाहं मोहं वदामि ते ।
इत्युक्तवा याज्ञवल्क्यो हि स्वरूपानाशमूचिवान् । (अनुव्याख्यानम्)४,२.७८ ।
न्यायसुधा-
‘विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य सञ्ज्ञास्ति’ विज्ञानमूर्तिरयमात्मानादिरपि चरमे जन्मन्येतेभ्यो भूतेभ्यः
समुत्थाय भूतात्मकशरीरोत्पत्तिनिमित्तमेवोत्पन्नव्यवहारविषये भूत्वा पुनस्तानि भूतान्यन्वेव तन्नाशनिमित्तमेव नित्यो ऽपि विनश्यति ।
१२,२७९
विनष्टव्यवहार(गोचरो भ)विषयो भवति ।
अपव्रज्यत इति यावत् ।
ततः प्रेत्य मोक्षानन्तरमस्य मुक्तस्य सञ्ज्ञा ज्ञानं नास्तीत्यविशदं याज्ञवल्क्यवाक्यं श्रुत्वा अस्य मुक्तस्य ज्ञानहानिमाशङ्कयानेन वाक्येन मुक्तो न
जानातीत्युच्यत इति मत्वा मैत्रेय्या’अत्रैव मा भवान्मोहान्तमापिपत्’ इति वाक्ये भवान्मां प्रति यदाह मुक्तो न जानातीति
तन्मोहकमेवेत्यर्थमुक्तवत्या चोदित इति शेषः ।
याज्ञवल्क्यो न वा अरे ऽहं मोहं ब्रवीमीत्यनेन ज्ञानोपदेशाय प्रवृत्तो ऽहं परमप्रियायै ते मोहं न वदामीति प्रतिज्ञामुक्त्वा कथमित्याशङ्कायामविनाशी
वा अरे ऽयमात्मेत्यात्मस्वरूपस्यानाशमूचिवान् ।
यद्वा आशङ्कयेति णिजन्ताल्लयप् ।
याज्ञवल्क्यः सम्मुग्धेन वचसास्यामैत्रेय्या ज्ञानहानिमाशङ्कयोचिवानिति योजना ।
तस्यास्तथा शङ्का जातेत्यत्र किं मानमित्यत्रोक्तं मोहमाह मां भवानित्युक्तवत्या हीति वचनलिङ्गेनाशङ्का(व)गम्यत इत्यर्थः ।
अयमर्थः स्पष्ट एव श्रुताविति द्वितीयो हिशब्दः ।
१२,२८०
ज्ञानविनाशवचनं मोहकमित्याक्षेपे स्वरूपानाशो ऽसङ्गतः कथमुक्त इत्यत आहज्ञानस्वरूपस्येति ।
ज्ञानरूपस्य विज्ञानानाशस्तन्नाश एव यत् ।
इति … । (अनुव्याख्यानम्)४,२.७९अच् ।
न्यायसुधा-
यत् यस्माज्ज्ञानरूपस्तावदात्मा तस्य च विज्ञाननाशो नाम तन्नाश एव ।
नचात्मनाशो ऽस्ति ।
तथा सति मुक्तेरपुरुषार्थत्वप्रसङ्गात् ।
अतो न ज्ञाननाशो ऽस्ति ।
अत एव न मद्वचनं तदर्थम्, किं त्वमुक्तानां मुक्तविषये सञ्ज्ञा नास्ति, मुक्तानामेव वा वृत्तिरूपा सञ्ज्ञा नास्तीत्यादिरेव मद्वचनार्थ
इत्यभिप्रायवान्स्वरूपानाशमूचिवानिति सम्बन्धः ।
१२,२८१
अस्त्वेवं सङ्गतिस्तथापि ज्ञानं न नश्यतीति साक्षादनुक्त्वैवं वचनं किमर्थमित्यत आहशून्येति ।
… शून्यमतोच्छित्त्यै … । (अनुव्याख्यानम्)४,२.७९च् ।
न्यायसुधा-
न केवलमत्र प्रमेयनिरूपणमात्रार्थं प्रवृत्तो याज्ञवल्क्यः किन्तु परी(क्षायां)क्षया ।
अत एव न प्रेत्य ज्ञायत इति विशदमनुक्त्वा शङ्कोत्पादनाय न प्रेत्य सञ्ज्ञास्तीति साधारणं वाक्यमाह ।
परीक्षा च स्वानभिमतनिरासरूपा ।
अत एवमुत्तरे दत्ते शून्यमतस्यात्मनाशलक्षणस्य निरसो ऽपि कृतो भवतीति तदर्थं स्वरूपानाशमूचिवान् ।
यदर्थमादितो वाक्यं व्याख्यातं तदिदानीमनुच्छित्तिधर्मेत्येतद्वयाचष्टेपुनरिति ।
… पुनरानन्दपूर्वकान् ।
धर्मानाहाप्यनुच्छिन्नांस् … । (अनुव्याख्यानम्)४,२.७९दे ।
१२,२८१फ़्.
न्यायसुधा-
स्वरूपानाशमुक्त्वा पुनरपि मुक्तस्यानन्दपूवर्कान्धर्माननुच्छिन्नानाह याज्ञवल्क्यः ।
स्वरूपानाशोक्त्यैव धर्मानुच्छित्तिसिद्धौ पुनरुक्तिरियमित्यत उक्तमानन्दपूर्वकानिति ।
वाक्योपक्रमे विज्ञानघन एवेति विज्ञानस्यात्मस्वरूपत्वमुक्तं न पुनरानन्दपूर्वकानिति ।
वाक्योपक्रमे विज्ञानघन एवेति विज्ञानस्यात्मस्वरूपत्वमुक्तं न पुनरानन्दपूर्वकाणाम् ।
अतः स्वरूपानाशोक्त्या विज्ञानाविनाश एव सुज्ञानो नानन्दाद्यविनाशः ।
अतस्ते ऽपि विज्ञानवत् आत्मस्वरूपभूता एव नोच्छिद्यन्ते इत्यर्थप्रतिपत्त्यर्थमिदं वाक्यमिति ।
१२,२८२
तात्पर्यान्तरं सूचयतितार्किकैरिति ।
… तार्किकैर्विनिवारितान् । (अनुव्याख्यानम्)४,२.७९फ़् ।
न्यायसुधा-
उक्तमेतत्परीक्षायां प्रवृत्तो याज्ञवल्क्य इति ।
अतः स्वरूपाविनाशमङ्गीकृत्य ये तार्किका बुद्धिसुखादीन्धर्मान्मुक्तस्य विनिवारयन्ति ते ऽप्यसमीचीनवादिन इति ज्ञापनायेदं वाक्यमिति न
पौनरुक्त्यदोषः ।
ननु स्वरूपाविनाशोक्त्या धर्माविनाशो ऽपि सिद्ध एव ।
सत्यम् ।
स्वमतरीत्या तत् ।
तार्किकास्तु न ज्ञानसुखादीनामात्मस्वरूपत्वं मन्यन्ते ।
अतः किमिदानीं मोक्षप्रसङ्गे तेषामात्मस्वरूपत्वोपपादनेन ।
आत्मस्वरूपप्रक्रियायां तदपि वक्तव्यमित्याशयेनानुच्छित्तिरेवोक्तेति ।
इदमत्राकूतम् ।
अनुच्छित्तिधर्मेति यदि सङ्खयादिधर्माणामनुच्छित्तिरुक्ता स्यात् तदा असङ्गतमिदं वाक्यमापद्येत ।
ज्ञानविनाशवचनं मोह इत्याक्षेपे सङ्खयाद्यविनाशकथनस्य सङ्गत्यदर्शनात् ।
यदि च स्वरूपाविनाशो ऽनेनोक्त इति स्यात्तदा तस्य पूर्ववाक्येनैवोक्तत्वात् पुनरुक्तिदोषः स्यात् ।
अस्मत्पक्षे त्वस्ति सर्वेषां वाक्यानामुक्तरीत्या साफल्यम् ।
तस्माज्ज्ञानानन्दादिगुणानामेवानुच्छित्तिमाहेदं वाक्यमिति गम्यते ।
तद्बलाच्च न प्रेत्य सञ्ज्ञास्तीत्येतदपि उक्तार्थमेवेति ।
१२,२८३
इतश्चैतदुक्ताथर्मेवेत्याहमात्रेति ।
मात्रासंसर्गमप्याह तथा … । (अनुव्याख्यानम्)४,२.७९ग् ।
न्यायसुधा-
यथा धर्मानुच्छित्तिमाह तथा मीयन्त इति मात्रा रूपादयो विषयास्तेषां संसर्गमुपभोगलक्षणमप्यस्याह’मात्रासंसर्गस्त्वस्य भवति’ इति वाक्येन ।
ततो न ज्ञानविलोपो व्याख्यातुं शक्यते ।
नेदं वाक्यं श्रुतावुपलभ्यत इत्यत उक्तम्माध्यन्दिनश्रुतिरिति ।
… माध्यन्दिनश्रुतिः । (अनुव्याख्यानम्)४,२.७९ह् ।
न्यायसुधा-
मैत्रेयीयाज्ञवल्क्यसंवादरूपमिदं प्रकरणं काण्वमाध्यन्दिनश्रुत्योः समानम् ।
इदं तु वाक्यं यद्यपि काण्वश्रुतौ नास्ति तथापि माध्यन्दिनश्रुतावस्त्येवेति ।
१२,२८४
इतो ऽपि सञ्ज्ञा नास्तीति वाक्यमुक्तार्थमेवेत्याहआचिक्षेपेति ।
आचिक्षेप मतं तच्च यस्मिन् न विषयादनम् । (अनुव्याख्यानम्)४,२.८०अब् ।
न्यायसुधा-
श्रुतिरिति वक्ष्यति ।
यत्र हि’द्वैतमिव भवति’ इत्यादिरुत्तरा श्रुतिर्यस्मिन्मते मुक्तस्य न विषयादनं रूपादिविषयभोगो नास्तीत्यभ्युपगमस्तन्मतमाचिक्षेप
निन्दितवतीति ।
ततश्च न तद्वाक्यं मुक्तस्य ज्ञानाभावं प्रतिपादयति ।
नहि ज्ञानरहितस्य घटकल्पस्य विषयसंसर्गो वा तदभावनिन्दा वोपपद्यते ।
कथमाचिक्षेपेति चेत् ।
उच्यते ।
यत्र यदि, द्वैतं भवति तत् तर्ह्येव, इतर इतरं पश्यतीत्यादिना व्याप्तिमभिधाय हिशब्देन तस्याः प्रमितत्वं चोक्त्वा यत्र यदि, तु , अस्यात्मनो
ऽपेक्षितं सर्वमात्मैवाभूत् स्वव्यतिरिक्तं न स्यात् ।
तत् तर्हि केन साधनेन कम् अर्थं पश्येत ।
न केनापि किञ्चिदित्यनिष्यप्रसङ्गो ऽभिधीयते ।
१२,२८५
एवं तर्हि यदि मुक्तौ द्वैतं न स्यात्तदा रूपदर्शनादिकं न भवेदिति तर्कितं भवति ।
तथाच द्वैताभावमतमनयाक्षिप्तं, न विषयभोगाभावमतमित्यत आहघ्राणादीति ।
घ्राणादिभोगाभावस्य त्वनिष्टत्वहृदा श्रुतिः । (अनुव्याख्यानम्)४,२.८०च्द् ।
न्यायसुधा-
घ्राणादिना गन्धादेर्भोगो घ्राणादिभोगः ।
केन कमिति करणस्य कर्मणश्चोक्तत्वात् ।
तुशब्दो विशेषार्थः ।
हृदाभिप्रायेण ।
पूर्वेणैव सम्बन्धः ।
सत्यमेतत् शून्यमतं तार्किकमतं च निराकृत्याद्वैतमनया श्रुत्या निराक्रियत इति ।
तच्च विषयभोगाभावप्रसञ्जनेन ।
प्रसञ्जनीयं च तद्भवति यदनिष्यम् ।
अतो ऽद्वैतमते घ्राणादिभोगाभावं प्रसञ्जयन्ती श्रुतिस्तस्यानिष्टत्वमभिप्रैतीति गम्यते ।
अनिष्यं च तदुच्यते यदप्रामाणिकं प्रमाणविरुद्धं च ।
अतो विषयभोगाभावनिन्दा श्रुत्यभिप्रायव्याप्ता भवत्येवेति ।
१२,२८६
भवेदेवमर्थापत्त्या विषयभोगाभावनिन्दावगमो यद्यत्राद्वैतमते विषयभोगाभावः प्रसञ्जनीयः स्यात् ।
न चैवम् ।
अपि तर्हि वस्तुस्थितिकथनमेतत् ।
तथाहि ।
अयमात्मा अविनाशी अत एवानुच्छित्तिस्तस्य धर्मः ।
मुक्तौ मात्राभिरसंसर्गस्तस्य भवति ।
कुतः ।
यत्र हि संसारे द्वैतमिव भवति तत्तत्रेतर इतरं पश्यतीत्यादि ।
यत्र तु मुक्तावस्य सर्वमात्मैवाभूत्स्वव्यतिरिक्तं किमपि नास्ति तत्र केन कं पश्येन्न केनापि न किमपीत्यद्वैतिनः ।
तत्राहयेनेति ।
येनेदमखिलं वेद विज्ञातारं स्वमेव च ।
केन तं च विजानीयादित्यनिष्टं हि सर्वथा । (अनुव्याख्यानम्)४,२.८१ ।
न्यायसुधा-
येनेदमखिलं वेद तं च केन विजानीयात् विज्ञातारं च केन विजानीयादित्यनेन येनेदं सर्वं विजानाति तं च केन विजानीयात् विज्ञातारमरे केन
विजानीयादिति वाक्यद्वयमुपादत्ते ।
विज्ञातारमित्येतत्स्वमेवेति व्याचष्टे ।
प्रथमवाक्यविषयं सूत्रस्य वक्ष्यति ।
इति वाक्यद्वयोक्तं विष्णुज्ञानराहित्यं स्वज्ञानराहित्यं च ।
एतदुक्तं भवति ।
अत्रान्ते येनेदमिति वाक्यद्वयं श्रूयते ।
तदर्थः परमेश्वरज्ञानाभावः स्वज्ञानाभावश्च तावदनिष्यो न वास्तवः ।
ततस्तत्प्रसङ्गकथनमेवेति ज्ञायते ।
तत्साहचर्यात्केन कं पश्येदित्यादिकमपि प्रसञ्जनमेव न वस्तुस्थितिकथनमिति ज्ञातव्यमिति ।
१२,२८७
नन्वीश्वरस्तावत्सर्वथाप्यविशेष एव ।
यतो वाच इत्यादिश्रुतेः ।
जीवात्मा च न स्वविज्ञानी ।
एकस्यां क्रियायामेकस्यैव कर्तृकर्मभावस्य विरुद्धत्वात् ।
अतः परमेश्वरज्ञानाभावः स्वज्ञानाभावश्च कथमनिष्य इत्यतः परमेश्वरस्य सवर्थाप्यविज्ञेयत्वं तावन्निराकरोतिनेति ।
नाखिलज्ञापको विष्णुरज्ञेयो नियमेन हि । (अनुव्याख्यानम्)४,२.८२अब् ।
१२,२८७फ़्.
न्यायसुधा-
अत्राखिलज्ञापक इत्यनेन येनेदमिति वाक्यार्थमनूद्य विष्णुरिति तस्य विषयो दर्शितः ।
प्रागव्याख्यातत्वात् ।
विष्णुं विनैतद्वाक्याथर्स्यासम्भवात् ।
हिशब्दस्तावदर्थे ।
विष्णुर्नियमेन सर्वथाप्यज्ञेय इति तावन्न भवति ।
कुत इत्यत आहतदिति ।
१२,२८८
तज्ज्ञानार्थं हि वेदानामखिलानां प्रवर्तनम् । (अनुव्याख्यानम्)४,२.८२च्द् ।
न्यायसुधा-
सर्वे वेदा इत्यादेरिति शेषः ।
विष्णोः सर्वथाप्यज्ञेयत्वे ऽखिलवेदवैयर्थ्यप्रसङ्गाद्यतो वाच इत्यादिकमन्यथा व्याख्येयमिति भावः ।
एवं परमात्मनो ज्ञेयत्वमुपपाद्य जीवात्मनः स्वज्ञानमुपपादयतिप्रत्यक्षमिति ।
प्रत्यक्षागमात्मविज्ञानाविरोधानुभवादपि ।
न स्वविज्ञानितायां च विरोधः कश्चनेयते । (अनुव्याख्यानम्)४,२.८३ ।
१२,२८८फ़्.
न्यायसुधा-
क्रियाविशेषणमेतत् ।
आत्मविज्ञानं चाविरोधश्चेति द्वन्द्वः ।
अविरोधश्च प्रसङ्गादात्मा विज्ञान एव ।
तयोरनुभवः ।
स च प्रत्यक्षरूपः तस्मात् ।
अपिपदेन श्रुत्यादिग्रहणम् ।
स्वविज्ञानितायां जीवस्य कश्चन विरोधो नेयते ।
न काप्यनुपपत्तिः प्रतीयते ।
आत्मविज्ञानानुभवस्तावत् मामहं जानामीति साक्षिरूपः प्रसिद्ध एव ।
यथा घटमहं जानामीत्यत्र न काचिदनुपपत्तिः प्रतीयते ।
किं त्वनुपलम्भसनाथेन साक्षिणानुपपत्त्यभाव एव साक्षात्क्रियते ।
तथा तदविशिष्ये मामहं जानामीति ज्ञाने ऽपि ।
श्रुतयो ऽपि’अहमित्येव यो वेद्यः’ इत्याद्याः ।
यदि चात्मा न स्वात्मानं जानीयात्तदा ममेदमिष्यसाधनमित्यादिज्ञानाभावात्तथाविधेच्छाप्रयत्नयोरप्यभावात्सर्वप्रवृत्तिनिवृत्तिविलोपप्रसङ्गः ।
स्वप्रकाशत्वं ज्ञानाश्रयतया प्रकाशमानत्वं च न स्वज्ञानातिरेकेणोपपद्यत इति ।
१२,२९०
छिदादिषु कर्तृकर्मणोर्भेददशर्नात्तदेकत्वाभ्युपगमो विरुद्ध इति यदुक्तं तन्निराकरोतिकर्तृकर्मेति ।
कर्तृकर्मविरोधश्च नित्यानुभवविरोधतः ।
कथमेव पदं गच्छेद् विरोधो दृष्टबाधनम् । (अनुव्याख्यानम्)४,२.८४ ।
न्यायसुधा-
एकस्यां क्रियायां कर्तृकर्मत्वयोर्विरोधः कर्तृकर्मविरोधः ।
नित्यानुभवः उक्तसाक्ष्यनुभवः ।
पदम् आस्पदम् प्रकृत इति शेषः ।
अयमाशयः ।
उक्तमेतल्लिङ्गपादे ।
यत्कर्तृकर्मणोर्भेद इत्यौत्सर्गिको ऽयं न्यायः ।
अपवादे सत्यभेदो ऽपि भवतीति ।
अत्र च मामहं जानामीति साक्ष्यनुभवविरोधान्नायमस्य न्यायस्य विषयः ।
किन्तु यत्रादृष्टबाधनं प्रमाणविरोधाभावस्तत्रैवायं विरोधः प्रवर्तते ।
यथाङ्गुल्यग्रेणाङ्गुल्यग्रस्पर्शने ।
यथा वासिधारयासिधाराछेदन इति ।
१२,२९१
अस्त्वेवमीश्वरस्य ज्ञेयत्वं, जीवस्य च स्वज्ञानित्वम् ।
तथापि मुक्तौ तज्ज्ञानाभावः कथमनिष्य इति चेत् ।
उच्यते ।
‘नात्मानं न परांश्चैव न सत्यं नापि चानृतम् ।
प्राज्ञः किञ्चन संवेत्ति तुर्यं तत्सर्वदृक् सदा’ इति श्रुतौ स्वज्ञानमीश्वरज्ञानं च नास्तीत्यभिधाय मुक्तस्य तु तदस्तीत्युच्यते ।
अतस्तदभावः प्रमाणविरुद्ध इति कथं नानिष्यः ।
न केवलमेवमनिष्यप्रकरणाद्विषयभोगाभावस्यानिष्टत्वं गम्यते किन्तु विषयभोगस्यापि श्रुतिसिद्धत्वाच्चेत्याहस इति ।
सो ऽश्नुते सर्वकामंश्च कामान्नी कामरूप्यथ ।
इत्यादिश्रुतयश्चोक्तमर्थमेव वदन्ति हि । (अनुव्याख्यानम्)४,२.८५ ।
न्यायसुधा-
अथ मुक्तेरनन्तरमिति श्रुतिद्वयस्योपक्रमे सम्बद्धयते ।
उक्तमेवार्थं मुक्तस्य विषयभोगसद्भावम् ।
अत एव मात्राभिरसंसर्ग इति व्याख्यानमसदेवेति ।
१२,२९२
स्यादेतत् ।
यत्र हि द्वैतमिव भवतीति इवशब्देन द्वैताभावः प्रतिपाद्यते तत्कथं द्वैताभावे ऽनिष्यप्रसङ्गाभिधानमेतदित्यत आहअस्वातन्त्र्यादिति ।
१२,२९३
अस्वातन्त्र्यादिवेत्युक्तं न द्वैताभावतः क्वचित् । (अनुव्याख्यानम्)४,२.८६अब् ।
न्यायसुधा-
द्वैतस्यास्वातन्त्र्यमभिप्रेत्य द्वैतमिवेत्युक्तम् ।
नतु द्वैताभावमभिप्रेत्य ।
कुतः ।
क्वचिदभिधानादाविवशब्दस्याभाववाचितानुक्तेरित्यर्थः ।
अस्वातन्त्र्यं चात्र स्वरूपमात्रमुक्तम् ।
इवशब्दस्याभावार्थत्वे बाधकं चाहआत्मैवेति ।
आत्मैवाभूदिति ह्यस्मादविशेषप्रसङ्गतः । (अनुव्याख्यानम्)४,२.८६च्द् ।
न्यायसुधा-
इवशब्दस्याभावार्थत्वे द्वैतमिव भवतीत्यस्य द्वैतं नास्तीत्यर्थः स्यात् ।
यत्र त्वस्य सर्वमात्मैवाभूदित्यस्य तावद् द्वैताभावो ऽर्थः स्फुट एव ।
ततस्तस्मादस्य विशेषो न भवेत् ।
तथा च द्वैताभावे इतर इतरं पश्येत् ।
द्वैताभावे केन कं पश्येदिति वाक्यद्वयार्थः प्रसज्येत ।
ततश्च उन्मत्तवाक्यता श्रुतेरापद्यत इति ।
नन्विवशब्दस्यास्वातन्त्र्यवाचित्वं कुत इत्यत आहअस्वातन्त्र्येति ।
अस्वातन्त्र्योपमाभेदभेदेष्विव उदीरितः ।
शब्दतत्त्व इति प्रोक्तं … । (अनुव्याख्यानम्)४,२.८७अच् ।
न्यायसुधा-
अभेदभेदेति प्रतीयोगिद्वयोपलक्षणम् ।
इवान्त एकस्मिन्नुक्ते तत्प्रतियोगी द्वितीयो ऽपि लभ्यत इत्यर्थः ।
नन्वस्माकमुपमायामेवेवशब्दः ।
द्वैताभावस्त्वर्थसिद्धः ।
यथा गौरिव गवय इत्युक्ते गवयस्य गोत्वाभावो ऽवगम्यत इति चेत् ।
तर्हि द्वैतसदृशं किं तदिति वाच्यम् ।
कल्पितं द्वैतमिति चेन्न ।
तस्य सत्ताभावेन भवतीत्यनुपपत्तेः ।
भवनमपि तस्य काल्पनिकमिति चेत् ।
एवं तर्हि यदि द्वैतदर्शनं स्यादिति स्यात् ।
तथा चेतर इतरं पश्यतीत्येतदपि तदेवेति न हेतुहेतुमद्भावो ऽवकल्प्यत इति ।
१२,२९५
न प्रेत्य सञ्ज्ञास्तीति वाक्यस्य मुक्तो न जानातीत्येवार्थमङ्गीकृत्याविनाशीत्यादिवाक्यान्य(प्य)न्यथा व्याकुर्वतो बाधकमाहमैत्रेयीति ।
… मैत्रेय्युक्तोत्तरं च किम् । (अनुव्याख्यानम्)४,२.८७द् ।
न्यायसुधा-
न प्रेत्य सञ्ज्ञास्तीति वाक्यं श्रुत्वा मैत्रेय्योक्तमत्रैव मा भवानित्यादि ।
तत्तावन्नाहृदयं निर्दलाक्षेपकरणे ऽसुज्ञत्वप्रसङ्गात् ।
ततः प्रज्ञानघन इत्यात्मनो ज्ञानस्वरूपत्वमभिधायेदानीं ज्ञानाभावं वदतस्तव वाक्यं मोहकमित्यभिप्रायः कल्प्यः ।
अपुरुषार्थत्वप्रसङ्गो वा ।
यथोक्तं’सञ्ज्ञानाशो यदि भवेत्किं मुक्त्या नः प्रयोजनम् ।
मोहं मां प्राणयामास भवानत्रेति चोदितः’ इति ।
अन्यथाव्याख्याने मैत्रेय्युक्तं निरुत्तरं प्रसज्येत ।
न ह्येतैर्वाक्यैः स्ववचनव्याघातः परिहृतो नापि पुरुषार्थता समर्थितेति ।
१२,२९७
एवं साङ्खयनैयायिकाद्यभिमतस्य मोक्षस्याप्रामाणिकत्वमभिधाय, यदुक्तं मोक्षस्यापुरुषार्थत्वप्रसङ्ग इति तत्प्रपञ्चयतिसुखादीति ।
सुखादिधर्महानौ तु मुक्तेः किञ्च प्रयोजनम् । (अनुव्याख्यानम्)४,२.८८अब् ।
न्यायसुधा-
सुखादिधर्महानौ मुक्तित्वेनाङ्गीकृतायामिति शेषः ।
तुशब्दः स्वपक्षाद्विशिनष्टि ।
परस्यापाद्यमानो दोषः स्वमते नास्तीत्याशयः ।
मुक्तेरिति सम्बन्धमात्रे षष्ठी ।
किमाक्षेपे ।
चशब्दो ऽप्रामाणिकत्वेन समुच्चयार्थः ।
प्रयुज्यते प्रवर्त्यते पुरुषो ऽनेनेति प्रयोजनम् ।
मुक्तेः प्रयोजनं किमिति ।
मुक्त्यर्थे पुरुषं प्रवर्तयत्किमपि नास्तीत्यर्थः ।
१२,२९८
द्विविधं प्रयोजनम् ।
इष्यावाप्तिरनिष्यनिवृत्तिश्च ।
तत्र यद्यपि मुक्तिरिष्यप्राप्तिरूपा न भवति तथाप्यनिष्यनिवृत्तिरूपा भवत्येव ।
अतः पुरुषेणार्थ्यत इत्याशङ्कतेयदीति ।
यद्यर्थो दुःखहानिः स्याद् … । (अनुव्याख्यानम्)४,२.८८च् ।
न्यायसुधा-
दुःखहानिरूपा मुक्तिः पुरुषस्यार्थो ऽर्थनीयः स्यादिति यदि ब्रूषे ।
अत्रोच्यते ।
भवत्यनिष्यनिवृत्तिः पुरुषार्थः ।
मुक्तिश्च समस्तदुःखहानिस्तथापि न पुरुषार्थः कथमित्यत आहअनर्थ इति ।
… अनर्थः सुखनाशनम् । (अनुव्याख्यानम्)४,२.८८द् ।
न्यायसुधा-
सुखनाशरूपो ऽनर्थो ऽप्यस्ति यतः ।
इदमुक्तं भवति ।
केवलस्य दुःखस्यात्यन्तिकी निवृत्तिर्भवति पुरुषार्थः, इयं तु दुःखवत् सुखस्याप्यात्यन्तिकी निवृत्तिरिति कथं पुरुषाथर्ः ।
अनिष्यनिवृत्त्याशया प्रवृत्तौ इष्यनिवृत्तिभिया निवृत्त्यापत्तेः ।
दुःखशबलसुखहानौ सुखशबलदुःखोपादानप्राप्तेश्च ।
१२,२९९
यदत्रोक्तं’यस्य दुःखमुपादेयं तस्य हेयं किमुच्यताम् ।
हेयहीनस्य का मुक्तिः केन चाप्युपदिश्यते’ इति, तदिदमसङ्गतम् ।
नहि वयं दुःखस्योपादेयत्वमुपपादयामः ।
किन्तु समव्ययफलत्वेन विनिगमने कारणाभावान्न प्रवृत्त्युपपत्तिरिति ब्रूमः ।
यथोक्तम्’असत्यानि दुरन्तानि समव्यवफलानि च ।
अशक्यानि च वस्तूनि नारभेत विचक्षणः’ इति ।
अङ्गीकृत्यैव समव्ययफलत्वमुक्तम् ।
वस्तुतस्तु आयादपि व्ययो गरीयानित्याहतयोश्चेति ।
तयोश्च दुःखहानाद्धि सुखनाशो ऽधिको भवेत् । (अनुव्याख्यानम्)४,२.८९अब् ।
न्यायसुधा-
सुखदुःखहानयोर्मध्ये ।
नहि राजादयो राज्याद्यपगमे दुःखहानेन सुखहानव्यथां समादधति ।
ततो निवृत्तिरेव मुक्तेरिति भावः ।
१२,३०१
यत्र निवर्तमानं दुःखमल्पीयः ।
सुखं तु महत्तत्रैवमेतत् ।
इह तु महद्दुःखं निवर्तते सुखं त्वल्पीयस्तत्कथं न पुरुषार्थत्वम् ।
‘यस्तु घनतरदुःख(तिमिर)निरन्तरात्संसारकान्तारात्सुखखद्योतिकासु द्योतमानास्वपि बिभेति, तं प्रत्ययं निरस्ततस्करतया सुगमो मार्ग
उप(दिश्यत)दर्शितः’ इति ।
तत्राहप्राप्यापीति ।
प्राप्यापि दुःखं सुमहत् सुखलेशाप्तये जनः ।
यतते सुखहानौ हि को मोक्षाय यतेत् पुमान् । (अनुव्याख्यानम्)४,२.८९च्फ़् ।
न्यायसुधा-
यतो जान्धिकादिर्जनः सुमहद्दुःखं प्राप्यापि सुखलेशाप्तये यतते ।
तस्मादल्पस्यापि सुखस्य हानौ महतो ऽपि दुःखस्य मोक्षाय कः पुमान्यतेत न को ऽपि ।
अभ्युपगमवादश्चायम् ।
नहि सांसारिकसुखस्य दुःखापेक्षयाल्पत्वं प्रमितम् ।
कस्मिंश्चन जन्मन्ययं (दरिद्रो)(दुर्भगो) दुःखितो भवति कस्मिंश्चित्सार्वभौमः कदाचिन्नरकमनुभवति कदाचित्स्वर्गम् ।
या च मोक्षशास्त्रेषु सांसारिकसुखनिन्दा सा निरस्तसमस्तदुःखं मोक्षगतं परमानन्दमपेक्ष्याल्पत्वाभिप्रायेणेति ।
१२,३०३
महादुःखहानादल्पं सुखं गरीय इत्येतत्प्रकारान्तरेणोपपादयतिअल्पाच्चेति ।
अल्पाच्च सुखानाशाद्धि बिभेत्यतितरां जनः ।
महच्च दुःखमाप्नोति सुखनाशनिवृत्तये । (अनुव्याख्यानम्)४,२.९० ।
न्यायसुधा-
(हानस्या)नाशस्याल्पत्वं प्रतियोग्यल्पत्वनिमित्तम् ।
अल्पस्यापि सुखस्य (हानादि)नाशादिति यावत् ।
सुखनाशनिवृत्तय इति ।
प्रसक्तस्य सुखनाशहेतोर्निवृत्तय इत्यर्थः ।
उदाहरणानि तु लोके स्पष्टान्येव कथं तर्हि मधुविषसम्पृक्तान्न(भोजन)परित्याग इति चेत् ।
बहुतरसुखहानिप्राप्तेरिति ब्रूमः ।
अन्यथा परेणापि व्यवस्थायाः कतर्व्यत्वात् ।
१२,३०४
स्यादेतत् ।
द्विविधाः पुरुषाः रागिणो वीतरागाश्च ।
तत्र रागिणः सुखार्थं दुःखमप्यनुभवन्ति ।
ते हि मधुविषसम्पृक्तमप्यन्नं मधुतयाऽपातरमणीयं विष(विषङ्गा)संयोगात्तु मारयतु मा वा मीमरदुप(भुञ्ज्महे)युङ्क्ष्महे तावदापातसुखं को हि
हस्तगतं पादगतं करोतीति विचिन्त्योपभुञ्जते ।
वीतरागास्त्वा(यति)पत्तिमालोचयन्तः स्वगर्मपि कुपितभोगिफणमण्डलच्छायाप्रतिममित्यपजहतीत्यत आहनचेति ।
न च रागनिमित्तं तद् … । (अनुव्याख्यानम्)४,२.९१अ ।
न्यायसुधा-
यदेतदुक्तं, प्राप्यापीत्यादि तद्रागनिमित्तम् ।
मुमुक्षवस्तु वीतरागाः तस्मात्सुखमनादृत्य दुःखध्वंसायैव यतन्त इति, तच्च नेत्यर्थः ।
कुत इत्यत आहवीतेति ।
… वीतरागा अपि स्फुटम् ।
नारदाद्याः सुखार्थाय सहन्ते दुःखमञ्जसा । (अनुव्याख्यानम्)४,२.९१ब्द् ।
न्यायसुधा-
स्फुटमिति नारदादीनां वीतरागत्वं श्रुत्यादिप्रसिद्धमित्यर्थः ।
अञ्जसेति श्रवणादल्पाय सुखरूपार्थायेति योज्यम् ।
यस्मादिति वक्ष्यमाणमिहापि सम्बद्धयते ।
एतत्कुत इत्यत आहयुद्धादीति ।
१२,३०५
युद्धादिदर्शनं यस्मात् सुदुःखेनापि कुवर्ते । (अनुव्याख्यानम्)४,२.९१एफ़् ।
न्यायसुधा-
सुखार्थायेति वर्तते ।
नारदाद्या इति च ।
आदिपदेन दूरगमनादिसाध्यं स्वयंवरदर्शनं च गृह्यते ।
एतदपि कुत इत्यत आहयदेति ।
यदेन्द्रवैरोचनयोर्ब्रह्मास्त्राभ्यां सुतापिताः ।
अपि नैवाजहुर्युद्धरसात् ते नारदादयः ।
इति स्कान्दवचस् … । (अनुव्याख्यानम्)४,२.९२अए ।
न्यायसुधा-
नैवाजर्हुर्युद्धदर्शनं युद्धरसाद्युद्धदर्शननिमित्तात्सुखात्कारणात् ।
यदाशब्दस्य पूर्वत्रोत्तरत्र वा सम्बन्धः ।
यस्मादिति अत्रापि सम्बद्धयते ।
१२,३०६
इदमत्राकूतम् ।
अत्र रागशब्देन किं सुखेच्छाभिप्रेता ।
उत लक्षणया अविवेकः ।
आद्ये सत्यमेतत् ।
किन्तु मुमुक्षवो ऽपि रागिण एव ।
रागिणां कथं मुक्तिरिति चेत् द्वेषिणामपि कथम् ।
दुःखद्वेषाद्धि ते दुःखं जहति ।
अस्थाने द्वेषो बन्धक इत्रत चेत् ।
रागो ऽपि तथेति समानम् ।
किञ्च दुःखोच्छेदे रागः परेणापि स्वीकार्यः ।
न दुःखद्वेषो ऽसौ किन्तु निर्वेद एवेति चेत् ।
तर्हि न सुखरागो ऽसौ अपि तु श्रद्धैवेति वदामः ।
द्वितीये तु नारदादयो निदर्शनम् ।
ते ऽपि तदाविवेकिन इति चेत् ।
कथमेतद्विज्ञातं लौकिकवैदि(कलो)कोत्तरप्रज्ञेनेति ।
१२,३०७
नच रागेत्यादिनोक्तमुपसंहरतितस्मादिति ।
… तस्मात् सुखाभावस्य को यतेत् । (अनुव्याख्यानम्)४,२.९२एफ़् ।
न्यायसुधा-
वीतरागो ऽपीति शेषः ।
१२,३०८
एवं परनिरूपिते मोक्षे दुःखाभावमभ्युपेत्य तत्र प्रवृत्त्यभावप्रसङ्गो ऽभिहितः ।
इदानीं तु दुःखाभावो ऽपि नोपपद्यत इत्याहविमत इति ।
विमतो दुःखयुग् यस्माच्चेतनः सन् सुखोज्खितः ।
प्रतिपन्नो यथेत्येव चानुमा केन वार्यते । (अनुव्याख्यानम्)४,२.९३ ।
न्यायसुधा-
मुक्तत्वेन पराभ्युपगतो ऽत्र पक्षः ।
दुःखयुगित्यापाद्यम् ।
यस्माच्चेतनः सन्त्सुखोज्खित इत्यापादकम् ।
घटादौ व्यभिचारनिरासाय चेतनः सन्नित्युक्तम् ।
अत्र चेतन इत्यात्मत्वोपलक्षणमिति नापादकसिद्धिः ।
स्वर्गवासिष्वनैकान्त्यपरिहाराय सुखोज्खित इति ।
ईश्वरस्यापि सुखसाधनान्न तत्र व्यभिचारः ।
प्रतिपन्नो नारकी यथा ।
एवशब्दः प्रतिज्ञया सम्बद्धयते ।
न चेयं साधनानुमा येन बाधादिकस्यावसरः किन्तु प्रसङ्गानुमैव ।
तदिदमाह इत्यनुमा केन वार्यत इति ।
यदि मुक्तः सुखी न स्यात्तदानात्मा वा दुःखी वा स्यात् सम्मतवदित्यादयो ऽपि अतिप्रसङ्गा द्रष्टव्याः ।
१२,३११
यदुक्तं प्राक् श्रुतयो यत इति तदिदानीं प्रपञ्चयतिसर्वेति ।
सर्वश्रुतिपुराणेषु सुखभावोक्तितस्तथा ।
मुक्तौ न ग्राह्यमेवैतत् सुखाभावमतं बुधैः । (अनुव्याख्यानम्)४,२.९४ ।
न्यायसुधा-
तथाशब्दः समुच्चये ।
तानि श्रुत्यादीन्युदाहरतिस इति ।
सो ऽनानन्दाद् विमुक्तः सन्नानन्दी भवति स्फुटम् ।
निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः ।
परमानन्दमाप्नोति यत्र कामो ऽवसीयते । (अनुव्याख्यानम्)४,२.९५ ।
न विष्णुसदृशं दैवं न मोक्षसदृशं सुखम् ।
न वेदसदृशं वाक्यं न वर्णो ऽकारसम्मितः । (अनुव्याख्यानम्)४,२.९६ ।
यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते ।
कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि । (अनुव्याख्यानम्)४,२.९७ ।
न्यायसुधा-
अनेन’सो ऽनानन्दाद्विमुक्तः आनन्दीभवति’ इति श्रुतिमुपादत्ते ।
आनन्दस्य स्वभावसिद्धत्वाद्भवतीति कथमित्यतः स्फुटमित्युक्तम् ।
अनानन्दात् दुःखात् ।
निर्गुण इति भागवते भगवद्वाक्यम् ।
यत्र परमानन्दे प्राप्ते का(मस्तृष्णाव)मः स्पृहावसीयते ।
अवसानं गच्छति ।
न विष्णुसदृशमित्येतदपि पुराणवाक्यम् ।
यत्र लोके ।
आनन्दादिशब्दाः सुखविशेषाणां वाचकाः ।
कामस्य कामाः इच्छाया विषयाः ।
आप्ताः पर्याप्ताः ।
कृधि कुर्विति वायुं प्रति प्रार्थनम् ।
श्रुशृणुपृकृवृभ्यः छन्दसि ।
श्रुत्योर्मध्ये पुराणपठनं तस्य श्रुतिकल्पत्वप्रदर्शनार्थम् ।
उदाहृतानां श्रुत्यादीनां फलमुपसंहरतिइति श्रुतीति ।
इति श्रुतिपुराणानि तत्रतत्र वदन्ति हि ।
अतो मोक्षे सुखाभाव इति यत्किञ्चिदेव हि । (अनुव्याख्यानम्)४,२.९८ ।
न्यायसुधा-
तत्रतत्र प्रदेशे वदन्ति मुक्तस्य सुखम् ।
आद्यो हिशब्दो यस्मादित्यर्थे ।
द्वितीयः प्रसिद्धौ ।
यत्किञ्चिदेव फल्ग्वित्यर्थः ।
१२,३१३
यच्च साङ्खयादिभिरुक्तं सुखाभावोपपादनाय शरीराहितराहित्यं मुक्तस्य, तत्स्वरूपसुखस्योक्तत्वाद्वैयर्थ्येनापास्तम् ।
असिद्धं च तदित्याशयेनाहशिर इति ।
शिरःकराद्यभावश्च न मुक्तस्य भवेत् क्वचित् । (अनुव्याख्यानम्)४,२.९९अब् ।
न्यायसुधा-
न केवलं सुखाद्यभाव इति चशब्दः ।
जीवन्मुक्तौ शिरःकरादिभावो न परममुक्तावित्यतः क्वचिदित्युक्तम् ।
कुत इत्यत आहश्रुतयश्चेति ।
श्रुतयश्च पुराणानि मानमत्र बहूनि च । (अनुव्याख्यानम्)४,२.९९च्द् ।
न्यायसुधा-
शिरःकराद्यभावो नेत्युपस्थापितं शिरआदिभावं अत्रेति परामृशति ।
अन्त्यश्चो यस्मादित्यर्थे ।
सन्तीति शेषः ।
अशरीरत्वादेर्गतिश्चोक्तेति च चार्थः ।
१२,३१५
तत्र तावत्स्फुटार्थत्वात्पुराणमादावुदाहरति न वर्तत इति ।
न वर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमः ।
न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः । (अनुव्याख्यानम्)४,२.१०० ।
श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः ।
सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेकनिष्काभरणाः सुवर्चसः । (अनुव्याख्यानम्)४,२.१०१ ।
प्रवाळवैडूर्यमृणाळवर्चसां परिस्फुरत्कुण्डलमौलिमालिनाम् ।
भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम् । (अनुव्याख्यानम्)४,२.१०२ ।
विद्योतमानप्रमदोत्तमाभिः सविद्युदभ्रावलिभिर्यथा नभः ।
श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः । (अनुव्याख्यानम्)४,२.१०३ ।
ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु ।
ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रं विमिभीत उ त्वः । (अनुव्याख्यानम्)४,२.१०४ ।
न्यायसुधा-
यत्र लोके ।
सत्त्वशब्दो ऽनेकार्थः ।
क्वचित्प्रकृतिपरिणामविशेषस्य वाचकः ।
क्वचित् साधुत्वस्य ।
तत्र सत्त्वं च न विद्यत इत्युक्ते न ज्ञायते कस्य प्रतिषेध इति ।
अतस्तयो रजस्तमसोर्भिश्रं सहचरितमित्युक्तम् ।
रज आदिप्रकरणाज्ज्ञास्यत इति चेत् ।
श्रुत्यभावे प्रकरणाद्यन्वेषणात् ।
१२,३१६
रजःप्रभृतीनामवृत्तिर्नाम बन्धकतया व्यापाराभावः ।
कालविक्रमः कालसामर्थ्यकृ(ता भावाविकारा)तो भावविकारः ।
माया प्रकृतिः ।
अपरे महदादयो न वर्तन्त इति किमुत वक्तव्यम् ।
हरेरनुव्रता यत्र वर्तन्ते ।
असुराः साधवः सन्ति ।
अवदाता निमर्लाः ।
सुपेशसः सुरूपाः ।
उन्मिषन्मणिप्रवेकनिष्काभरणाः रश्मिमद्रत्नप्रवरहाराभरणाः ।
रुक् प्रभा ।
वर्चो बलम् ।
हरेरनुव्रता इत्यनेन सम्बन्धः ।
यो लोक एवंविधानां महात्मनां लसद्विमानावलिभिः परितो विराजते ।
केचित्प्रवालवर्चस इत्यादि ।
परिस्फुरत्कुण्डलमौलयश्च ते मालिनश्चेति विग्रहः ।
यद्वा परिस्फुरन्त्यश्च ताः कुण्डलमौलिमालाश्चेति कर्मधारयं विधाय पश्चादिनिरुत्पाद्यः ।
विद्योतमानाः प्रमदोत्तमाः यासु विमानावलिषु तास्तथोक्तस्ताभिः ।
यद्वा विद्योतमानाभिः प्रमदोत्तमाभिर्भ्राजिष्णुभिरिति व्यधिकरणत्वेन योजना ।
प्रमदोत्तमाः विद्युतः ।
विमानावलयः अभ्रावलयः रूपिणी प्रत्यक्षा ।
मानं पूजा ।
बहुधा स्थिताभिः विभूतिभिः स्वमूर्तिभिः ।
एवम्भूतं लोकं सन्दर्शयामासेति पूर्वेणान्वयः ।
कामान्नरूपी चरति … । (अनुव्याख्यानम्)४,२.१०५अ ।
न्यायसुधा-
कामान्नरूपी चरतीत्यनेन’कामरूप्यनुसञ्चरन्’ इति श्रुतिमुपादत्ते ।
उदाहृतवाक्यानां फलमाहइतिपूर्वेति ।
… इतिपूर्वश्रुत्या पुराणोक्तिभिरप्यदोषः ।
देहः स्वरूपात्मक एव तेषां मुक्तिं गतानामपि चेयते हि । (अनुव्याख्यानम्)४,२.१०५अद् ।
न्यायसुधा-
इत्येषा पूर्वा यस्याः सा तथोक्ता ।
देहित्वे दुःखादिप्रसक्त्या मुक्तत्वव्याघात इत्यत उक्तम्अदोष इति ।
दोषहेतुः कथमित्यत उक्तम्स्वरूपात्मक एवेति ।
जीवस्वरूपमेवात्मा स्वरूपं यस्यासौ तथोक्तः ।
किं जीवन्मुक्तानामित्यत उक्तं तेषामपि च मुक्तिं गतानामिति ।
पुराणवाक्ये हि श्यामावदाता इत्यादिना देहः प्रतीयते ।
न वर्तत इत्यत्र च प्रकृत्याद्यभावोक्त्या परममुक्तित्वं, देहस्य च स्वरूपत्वं, तत एवादोषत्वम् ।
श्रुतावृगुच्चारणादिना देहित्वम् ।
१२,३२२
अत्र अनुमानमप्याहशिर इति ।
शिरःकराद्यैरपि मुक्तिभाजो युक्ता यतस्ते पुरुषा इदानीम् ।
यथेतिपूर्वा अनुमाश्च जीवस्वरूपमङ्गादियुगापयन्ति । (अनुव्याख्यानम्)४,२.१०६ ।
न्यायसुधा-
यतस्ते पुरुषा इत्यात्मत्वादित्यर्थः ।
इदानीं यथेति ।
अस्मादादिवदित्यर्थः ।
ईश्वरादीनां पक्षतुल्यत्वान्न दोषः ।
पूर्वग्रहणेन, मुक्तिर्देहिनिष्ठा जीवावस्थात्वात् संसारवदित्यस्य ग्रहणम् ।
जीवस्वरूपं मुक्तजीवस्वरूपम् ।
अङ्गं शरीरम् ।
आदिपदेनेन्द्रियाणि ।
आवयन्तीति करणे कर्तृत्वोपचारः ।
आपयन्तीति क्वचित्पाठः ।
१२,३२३
एवं साङ्खयादिमतमपाकृत्येदानीं ये प्राग् भिन्नस्य भिन्नाभिन्नस्य वा जीवस्य मुक्तौ परब्रह्मणात्यन्तैक्यं भवतीति मन्यन्ते तेषां
मतमपाकरोतिनेति ।
न ब्रह्मरूपत्वममुष्य देहिनो मुक्तावपि स्यात् प्रमया कथञ्चित् । (अनुव्याख्यानम्)४,२.१०७अब् ।
न्यायसुधा-
कथञ्चित्प्रमयेति केनापि प्रमाणेनेत्यर्थः ।
श्रुतीनां प्रागन्यथा व्याख्यातत्वात् ।
यद्वा कथञ्चित् केनापि साधनेन न स्यात् कुतः ।
प्रमया मुक्तावपि भेदे प्रमाणसद्भावादित्यर्थः ।
तत्प्रमाणं पठतिस इति ।
स ब्रह्मणा सहितो ऽशेषभोगान् भुङ्क्ते तथोपेत्य सुखार्णवं तम् । (अनुव्याख्यानम्)४,२.१०७च्द् ।
यत्तत् परं ज्योतिरुपेत्य जीवो निजस्वरपूत्वमवाप्य कामान् ।
भुङ्क्ते स दैवं पुरुषोत्तमो ऽज आत्मेति चोक्तो गुणपूर्तिहेतोः । (अनुव्याख्यानम्)४,२.१०८ ।
सेतुः स देवो ऽखिलमुक्तिभागामुतामृतस्येष्य इहेशिता यत् । (अनुव्याख्यानम्)४,२.१०९अब् ।
१२,३२३फ़्.
न्यायसुधा-
अनेन’सो ऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता’ इति श्रुतिमुपादत्ते ।
तथाशब्दः श्रुतिसमुच्चये ।
उपेत्येत्यनेन
‘एतमानन्दमयमात्मानमुपसङ्क्रम्य’ इति ।
उपेत्य तथाशेषभोगान्भुङ्क्त इति वा ।
यत्तदित्यनेन’परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः स तत्र पर्येति जक्षन्क्रीडन्रममाणः, परं ज्योतिरुपसम्पद्य स्वेन
रूपेणाभिनिष्पद्यत एष आत्मा’ इति श्रुतिद्वयम् ।
यः परं ज्योतिरुपसम्पद्यते स एवोत्तमपुरुष आत्मेति चान्यथाप्रतीतिरर्थतः श्रुती पठतैव निराकृता ।
पराक्रान्तं चात्र सूत्रकृतैव’अन्यार्थश्च परामर्शः’ इति ।
गुणपूर्तिहेतोः इति आत्मशब्दव्याख्यानं पुरुषोत्तमत्वस्य चोपपादकम् ।
सेतुरित्यनेन’अमृतस्यैष सेतुः’ इति ।
उतेत्यनेन’उतामृतत्वस्येशानो यदन्नेनातिरोहति’ इति ।
उतेत्यनेन’उतामृतत्वस्येशानो यदन्नेनातिरोहति’ इति ।
१२,३२४
उदाहृतवाक्यफलं दर्शयतिइत्यादीति ।
इत्यादिवाक्यैर्भगवद्वशः सन् भुङ्क्तेऽखिलान् मुक्तिगतो ऽपि भोगान् । (अनुव्याख्यानम्)४,२.१०९च्द् ।
न्यायसुधा-
इति ज्ञायत इति शेषः ।
भगवद्वश इत्युपलक्षणम् ।
तत्समीपं प्राप्त इत्यपि ग्राह्यम् ।
अद्वैतिनो भोगं न मन्यन्त इत्यतः सो ऽप्यत्र वर्णितः ।
१२,३२७
अत्रानुमानमप्याहकालो ऽपीति ।
कालो ऽप्यसौ नैक्ययुतः परेण जीवस्य कालो यत एष यद्वत् ।
इत्यादिका अप्यनुमाः प्रमाणं मुक्तौ च जीवस्य परत्वरोधे । (अनुव्याख्यानम्)४,२.११० ।
न्यायसुधा-
असौ मोक्षसम्बन्ध्यपि, जीवस्य परेण यदैक्यं तद्युतो न भवतीत्यर्थः ।
कालो यतः कालत्वात् ।
एष यद्वत्संसारकालवत् ।
अनुमा अपि ।
मुक्तावपि जीवस्य परब्रह्मत्वनिवारणे प्रमाणमस्ति, किं तत् अनुमा इति योजना ।
ये प्रागत्यन्तभिन्नस्य मुक्तावैक्यं वदन्ति ।
तेषामैक्यमिति परत्वमिति च यथाश्रुतं व्याख्येयम् ।
ये तु प्राग्भेदाभेदावुपेत्य मुक्तावत्यन्ताभेदमाहुस्तान्प्रत्यैक्यादिशब्दो ऽत्यन्ताभेदपरो व्याख्येयः ।
तथाच न दृष्टान्तदोषः ।
जीवशब्दश्च निष्कृष्टव्यक्तिविषयो वर्णनीयः ।
अन्यथा पुनर्दृष्टान्तदोषापत्तेरिति ।
स्वकीयमादिपदं व्याकुर्वन्ननुमानान्तरमाहकथं चेति ।
कथं च यः पूर्वमसौ न पश्चाद् भवेत् स एवेत्यपि युक्तिमेति । (अनुव्याख्यानम्)४,२.१११अब् ।
न्यायसुधा-
यो जीवः पूर्वं संसारे ऽसौ परमात्मा न भवति, असौ पश्चान्मुक्तौ स परमात्मैव भवेदित्येतत्कथं युक्तिमेति ।
अनुपपन्नमित्यर्थः ।
अत्रापि पूर्ववन्मतभेदेन व्याख्यानं कर्तव्यम् ।
अत एव स एवेत्यवधारणम् ।
प्रयोगस्तु प्रागेव दर्शितः ।
अपिशब्दो ऽनुमानसमुच्चये ।
अस्य व्यप्तिमुपपादयतियत इति ।
यतो न दृष्टं यदभून्न पूर्वं पश्चात् तदासेति कुतश्च किञ्चित् । (अनुव्याख्यानम्)४,२.१११च्द् ।
न्यायसुधा-
यतः कारणात् यत्किञ्चिद्घटादिकं वस्तु पूर्वं यद्घटादिकं नाभूत् ।
येन सता वस्त्वन्तरेणैकीभूतं न भवतीति यावत् ।
तत् पश्चात्कुतश्चित्कारणात्तदास तेनैक्यमापन्नमित्येतन्न दृष्टम् ।
नच दृश्यते नापि द्रक्ष्यते ।
तस्मादिति पूर्वेण सम्बन्धः ।
एतेनादधिभूतस्य क्षीरस्य पश्चाद्दधिभावदर्शनाद्वयभिचार इत्यसङ्गतम् ।
१२,३३२
एवं भास्करादिमतमपाकृत्य ये यादवप्रकाशादयः स्वभावत एव परमात्मना भिन्नाभिन्नो जीवस्तस्य संसारे भेद एव व्यक्तो
ऽभेदस्त्वविद्यासिदनाऽवृतो वर्तते, मुक्तौ तु द्वावपि व्यक्तौ भवतः, इत्याचक्षते तेषां मतमधुना निराकरोतिनचेति ।
नचैव मुक्तौ तु हरेः पृथक्तवमैक्यं तथा स्यादिति युक्तिमेति । (अनुव्याख्यानम्)४,२.११२अब् ।
न्यायसुधा-
तथाशब्दः समुच्चये ।
इति च मतं युक्तिं नैवैतीति सम्बन्धः ।
कुतः ।
उदाहृतवचनानां
भेदज्ञापकत्वेनास्मन्मताविरोधित्वात् ।
अनुमानस्य चाद्यस्यास्मान्प्रत्यसिद्धव्याप्तिकत्वात् द्वितीयस्य चातद्भूतस्य तद्भावनिरासहेतोः सिद्धसाधनत्वादित्यतो ऽनुमानान्तरमाहयत इति ।
१२,३३३
यतो न कुत्रापि भिदाभिदा च दृष्टा चितश्चेतनया कुतश्चित् । (अनुव्याख्यानम्)४,२.११२च्द् ।
न्यायसुधा-
यतः कारणाच्चितश्चेतनया चेतनस्य चेतनेन भिदाभिदा च कुत्रापि देशे कुतश्चित्प्रमाणान्न दृष्टेत्यनेन जीवेश्वरौ न भिन्नाभिन्नौ चेतनत्वात्
देवदत्तयज्ञदत्तवत् ।
ईश्वरो जीवेन भिन्नाभिन्नो न भवति चेतनत्वाद्यज्ञदत्तवदित्याद्यनुमानं सूचितम् ।
१२,३३४
मोक्षवादार्थमुपसंहरतिइत्थमिति ।
१२,३३५
इत्थं मतानि भ्रमजानि … । (अनुव्याख्यानम्)४,२.११३अ ।
न्यायसुधा-
इत्थमुक्तप्रकारेण जैनादिमतानि भ्रमजानि ।
उपलक्षणमेतत् ।
कानिचिद्विप्रलम्भजानि इत्यपि ज्ञेयम् ।
तस्माद्धेयानीति शेषः ।
ननु वक्तॄणां क्वचिद्भ्रमः सम्भवत्येव ।
को दोष इत्यत आहयस्मादिति ।
… यस्मान्मोक्षं समुद्देश्यमपि भ्रमेण ।
विदुर्न सम्यग् … । (अनुव्याख्यानम्)४,२.११३अच् ।
न्यायसुधा-
मतानां प्रणेतार इति शेषः ।
अप्राकरणिकं प्रसक्तानुप्रसक्त्यागतमर्थं कथञ्चिदन्यथा जानन्तो ऽपि नातीव निन्द्या भवन्ति ।
एते तु प्रधानोद्देश्यमपि मोक्षं सम्यङ् न विदुः ।
किन्तु भ्रमेन वैपरीत्येन विदुः ।
तस्मात्तत्प्रणीतानि मतानि भ्रमजानीति सम्बन्धः ।
नचातिसूक्ष्मप्रमेये अज्ञानविपर्ययावेतेषां, किन्तु गोपालाविपालप्रमुखैः पामरैरपि सुविदित इत्याशयेनाहयदपीति ।
… यदपीह लौकिकाः सुखं मम स्याच्च सदेति जानते । (अनुव्याख्यानम्)४,२.११३च्द् ।
न्यायसुधा-
यद्यस्मादिह प्राणिषु लौकिका वैदिकबुद्धिरहिता अपि, मे सदा सुखं स्यादिति स्वोद्देश्यं जानते हि ।
नतु वयमेव न मूयास्मेत्यादि ।
अतस्तेभ्यो ऽप्येते मन्दा इति ।
तदनेन प्रबन्धेन पादप्रतिपाद्यं सङ्गतिकथनं च समर्थितम् ।
। इति श्रीमन्न्यायसुधायां अन्यथामोक्षस्वरूपनिराकरणम् ।
_
१२,३३६