। अथ ब्रह्मदृष्टयधिकरणान्यथाव्याख्याननिराकरणम् ।
इदनीं ब्रह्मदृष्टिरिति सूत्रस्यापव्याख्यामणकरोतिनात्मेति ।
… नात्मेत्युपासना ।
इति पक्षो यदा ब्रह्मदृष्टिश्चात्र विरुद्धयते । (अनुव्याख्यानम्)४,१.४७ब्द् ।
न्यायसुधा-
नात्मेत्युपासनेत्येकदेशोत्कीर्तनेन’न प्रतीके न हि सः’ इति समग्रसूत्रार्थमनुवदति ।
प्रतीकेष्वात्मेति जीव इत्युपासना न कार्या ।
नहि स उपासकः प्रतीकानि इति पक्षो यदा इत्येवं पूर्वसूत्रव्याख्यानं यदा तदात्र प्रतीकेषु ब्रह्मदृष्टिश्च विरुद्धयते ।
चशब्दो ऽपव्याख्याननिराससमुच्चये ।
१२,७६
एतद्विवृणोतिस इति ।
स नेति युक्तिस्तत्रापि समेत्युक्तविरुद्धता । (अनुव्याख्यानम्)४,१.४७एफ़् ।
न्यायसुधा-
प्रतीकानामात्मत्वेनोपासनस्याकर्तव्यत्वे त्वया या तादात्म्याभावलक्षणा स नेति युक्तिरभिहिता सा तत्रापि ब्रह्मप्रतीकयोरपि समेति हेतोः
प्रतीकेषु ब्रह्मदृष्टिः कर्तव्येति सूत्रे व्याख्यायमाने सति उक्तयुक्तिविरुद्धता भवतीति ।
एतदुक्तं भवति ।
प्रतीकेषु ब्रह्मदृष्टिः कर्तव्येति सूत्रव्याख्यानमसत् ।
प्रतीकं ब्रह्मतया नोपास्यम् ।
अब्रह्मत्वात् ।
यद्यन्न भवति न तत्तत्वेनोपास्यमिति युक्तिविरुद्धत्वात् ।
न चेयं युक्तिरप्रमा ।
प्रतीकानामात्मत्वेनोपासनस्य अकर्तव्यतायां पूर्वसूत्रे परेणैवोपन्यस्तत्वात् ।
अन्यथानैकान्त्येन साधिका न स्यात् ।
नच ब्रह्मप्रतीकयोरभेदः ब्रह्मणः सत्यत्वात् प्रतीकानां कल्पितत्वात् ।
पारमार्थिकभेदाभावः तावदस्तीति चेत् ।
तर्हि जीवप्रतीकयोरपि स नास्तीत्यसिद्धिः स्यादिति ।
१२,७७
स्यादेतत् ।
‘नहि सः’ इति न निर्विशेषणो हेतुः सूत्रकारस्याभि(प्रेतो)मतो येन ब्रह्मदृष्टिः प्रतीकेषूक्तयुक्तिविरुद्धा स्यात् ।
किं तूपास्यस्योत्कर्षप्राप्त्यभावे सतीत्यनेन विशिष्यः ।
प्रतीकानां ब्रह्मत्वेनोपासने तूत्कर्षप्राप्तिरस्ति ।
अतो ऽतद्भावे ऽप्युपासना (कार्या)युज्यत इत्यत आहयदीति ।
यद्यप्युत्कर्षमात्रेण ह्यतद्भवे ऽप्युपासना । (अनुव्याख्यानम्)४,१.४८अब् ।
न्यायसुधा-
आद्ये ऽपिशब्दो ऽतिप्रसङ्गसमुच्चयार्थः ।
हिशब्दस्योत्तरार्धेनान्वयः ।
यदि विशिष्यहेतुं व्याख्याय प्रतीकानामतद्भावे ऽब्रह्मत्वे ऽप्युत्कर्षप्राप्तिमात्रेण ब्रह्मत्वेनोपासनाङ्गीक्रियते ।
तदा आत्मत्वेनापि तदुपासनमङ्गीकार्यं नतु निराकार्यम् ।
कुत इत्यत आहउत्कर्ष इति ।
उत्कर्ष आत्मनो ऽपि स्याच्चेतनत्वादचेतनात् । (अनुव्याख्यानम्)४,१.४८च्द् ।
न्यायसुधा-
यस्माद्ब्रह्मवदात्मनो ऽपि प्रतीकादुत्कर्षो ऽस्ति ।
कथम् ।
आत्मनश्चेतनत्वात् ।
अचेतनं खलु प्रतीकम् ।
तस्यात्मत्वेनोपासनायामुत्कर्षप्रप्तिः स्यादिति ।
अतिप्रसङ्गस्य विपर्ययपयर्वसानमाहतस्मादिति ।
तसमादतत्त्वं नोपास्यमिति वेदविदो मतम् । (अनुव्याख्यानम्)४,१.४८एफ़् ।
न्यायसुधा-
यस्माद्विशिष्यहेतौ व्याख्यायमाने पूर्वसूत्रे ऽसिद्धिः स्यात् ।
तत एव प्रतीकेषु ब्रह्मोपासनवदात्मोपासनं च प्रसज्येत ।
तस्मात्, अतत्त्वं, यद्यन्न भवति तत्तत्वेन नोपास्यमिति सामान्यमेव सूत्रकारस्याभिमतम् ।
नतु विशेषणप्रक्षेपः ।
तथाच ब्रह्मदृष्टिरिति प्रतिज्ञा स्वोक्तयुक्तिविरुद्धैवेति ।
अत्र व्याप्तेर्निर्विशेषणत्वाभिधानस्य हेतोर्निर्विशेषणत्व एव तात्पर्यम् ।
स्पष्टत्वार्थं तु व्याप्त्यभिधानमिति वाच्यम् ।
१२,८०
प्रतिज्ञाव्याख्यानमपाकृत्य उत्कर्षादिति हेतुव्याख्यानमपाकरोतिउत्कर्षादिति ।
उत्कर्षाद् ब्रह्मताध्याने यदि स्यात् फलमञ्जसा ।
ब्रह्मणो नीचताध्यानादनर्थः किं न जायते । (अनुव्याख्यानम्)४,१.४९ ।
न्यायसुधा-
ब्रह्मताध्याने प्रतीकानामुत्कर्षादुत्कर्षस्य दृष्टत्वादञ्जसा फलं पुरुषार्थरूपं फलं यदि स्यात्तदा, तदेव ब्रह्मणो नीचताध्यानमिति, तस्मादनर्थः किं
न जायते, जायत एवेति समव्ययफलत्वादकार्यमेवेदमिति ।
अभ्युपगम्येदं समव्ययफलत्वमुक्तम् ।
वस्तुतस्तु न पुरुषार्थः किं त्वनर्थ एवेत्याहअचेतनस्येति ।
अचेतनस्य ब्रह्मत्वध्याने तुष्यिर्नहि क्वचित् ।
नीचस्य स्वात्मताध्याने कुप्यति ब्रह्म लोकवत् । (अनुव्याख्यानम्)४,१.५० ।
न्यायसुधा-
तुष्ट्ययभावाच्च न पुरुषार्थलाभस्ततः ।
क्वचिदित्यनेन यदचेतनं तदुपचिकीर्षालक्षणतुष्यिरहितमिति व्याप्तिं सूचयति ।
नीचस्य प्रतीकस्य स्वात्मताध्यानाद्ब्रह्म कुप्यति ।
ततश्चानर्थं प्रयच्छति ।
तत्र दृष्टान्तो लोकवदिति ।
यथा लोके शिलादिकं राजत्वादिना चिन्तितं न प्रसीदति नापि पुरुषार्थं प्रयच्छति ।
यथा च राजा चण्डालत्वेन ध्यातः कुप्यति अनर्थं च ददाति तथेत्यर्थः ।
अनेन प्रतीकानामचेतनत्वे ऽपि ब्रह्मैव सर्वाध्यक्षत्वात्फलं दास्यतीति च प्रत्युक्तम् ।
तस्यानेनोपासनेन कुपितत्वात् ।
१२,८२
न वयं ब्रह्मणि प्रतीकत्वोपासनं ब्रूमः ।
येन ब्रह्म कुपितमनर्थं प्रयच्छेत् किन्तु प्रतीके ब्रह्मत्वोपासनम् ।
ततः पुरुषार्थप्राप्तिरित्यत आहचण्डाल इति ।
चण्डालो नृप इत्युक्ते नृपश्चण्डाल इत्यपि ।
को विशेषः परिज्ञाते नृपेण स्यात् कथञ्चन । (अनुव्याख्यानम्)४,१.५१ ।
न्यायसुधा-
चण्डालमुद्दिश्य चण्डालो नृप इत्युक्ते तथा नृपमुद्दिश्य नृपश्चण्डाल इत्युक्ते नृपेण परिज्ञाते सत्यनर्थप्राप्तौ कथञ्चन को विशेषः स्यान्न
कथञ्चित्को ऽपि ।
अत्रोक्तशब्देन ध्यानमुपलक्ष्यते ।
अज्ञातोपासनो राजा नानर्थं करोतीति नृपेण परिज्ञात इत्युक्तम् ।
तथाच प्रतीकं ब्रह्मेत्युपासने ब्रह्म प्रतीकमित्युपासने च सम एवानर्थ इति वाक्यशेषः ।
१२,८२फ़्.
ननु क्षत्तरि राजदृष्टिः फलवती, राज्ञि क्षत्तृदृष्टिरनर्थहेतुर्दृष्टा ।
तत्कथमुभयस्य साम्यमुच्यत इति चेन्न ।
तत्र दृष्टेरभावात् ।
उक्तिमात्रं तूपचारेण ।
सिंहो देवदत्त इति यथा ।
दृष्टौ तु तत्राप्यनर्थसाम्यमेवेत्याशयेनाहपुरत इति ।
१२,८३
पुरतो नरदेवस्य चण्डालो यदि पूज्यते ।
राजवत् किं न कोपः स्याद् राज्ञो लोके हि पश्यति । (अनुव्याख्यानम्)४,१.५२ ।
न्यायसुधा-
राजा यथा पूज्यते तथा ।
तदा राज्ञः कोपो न स्यात्किम् ।
लोके ऽभिपश्यति सतीति कोपातिशयप्रदर्शनार्थम् ।
पूजया दर्शनमुन्नीयत इत्यतः पूज्यत इत्युक्तम् ।
न केवलं दृष्टेरुन्नायिकायां पूजायामेव राजकोपः किन्तु तादृश्यामुक्तावपीत्याहराज्ञस्त्विति ।
राज्ञस्तु पुरतः प्रोक्ते चण्डालं नृप इत्यपि ।
आत्मानं स इति प्रोक्तमितिवद्धयेव कुप्यति । (अनुव्याख्यानम्)४,१.५३ ।
न्यायसुधा-
नाज्ञाता प्रोक्तिः कोपजननीत्यतो राज्ञस्तु पुरत इत्युक्तम् ।
चण्डाले नृप इति प्रोक्ते ऽपि प्रकर्षेण न मयोपचारेणोच्यते अपि तु वस्तुत एवेत्युक्ते ऽपि राजा कुप्यत्येव हि ।
आत्मानं प्रति हि स चण्डाल इति प्रोक्तं प्रकर्षेणोक्तमितिवदित्यत्र यथा तथैवेत्यर्थः ।
पूजैव कोपकारणं न दशर्नमित्यशङ्कानिरासाय विवेकार्थमयं श्लोकः ।
१२,८५
एवमुद्देशविधानोक्तया द्वैरूप्यमङ्गीकृत्य फलतः साम्यमुक्तम् ।
इदनीं तदपि नास्तीत्याहअभेदेनेति ।
अभेदे नैतयोर्ध्याने को विशेषो वचस्यपि । (अनुव्याख्यानम्)४,१.५४अब् ।
न्यायसुधा-
एतयोर्ब्रह्मप्रतीकयोरभेदेन ध्याने ऽङ्गीकृते न केवलमनथर्साम्यं किन्तु वचस्यापि को विशेषः ।
वचनद्वयार्थो ऽप्यविशिष्य एवेत्यर्थः ।
अत्रैव दृष्टान्तमाहअयमिति ।
अयं राजा त्वमित्युक्ते चण्डाले ऽथ नृपे ऽपि च ।
चण्डाल इति तु प्रोक्ते सममेव हि दूषणम् । (अनुव्याख्यानम्)४,१.५४च्फ़् ।
न्यायसुधा-
व्यक्तिभेदेन दूषणपरिहारः स्यादित्यतो ऽयमित्युक्तम् ।
दूषणं नीचत्वलक्षणम् ।
द्वयोरभेदेन ध्याने दूषणं सम्भवत्येव ।
नचैवम् ।
प्रतीकस्य हि ब्रह्मत्वं भाव्यते ।
नतु ब्रह्मणः प्रतीकत्वमित्यत आहध्यात इति ।
ध्याते त्वेकस्य तद्भावे तद्भावो ऽन्यस्य किं न तत् । (अनुव्याख्यानम्)४,१.५५अब् ।
न्यायसुधा-
तत्तयोर्ब्रह्मप्रतीकयोरेकस्य प्रतीकस्य तद्भावे ब्रह्मभावे ध्याते सत्यन्यस्य ब्रह्मणस्तद्भावः प्रतीकभावः ध्यातो न किम् ।
१२,८६
एतदुक्तं भवति ।
भवेदयं परिहारो यदि प्रतीक(स्य) स्वरूपोपमर्देन तस्य ब्रह्मत्वमुपास्यमिति पक्षः स्यात् ।
न चैवम् ।
प्रतीकाभावप्रसङ्गस्य परेणैवोक्तत्वात् ।
भेदाभेदाभिप्रायेणायं परिहार इत्यपि नास्ति ।
नहि घटो मृदभिन्नो मृद्घटाद्भिन्नेति भेदाभेदौ किन्नाम परस्परम् ।
तस्मादनुपमर्दितस्वरूपस्य प्रतीकस्य ब्रह्मत्वे ध्याते ब्रह्मणो ऽपि प्रतीकत्वं ध्यातमेवेति युक्तमुक्तमिति ।
नन्वस्मिन्नुपासने ब्रह्मणा ज्ञाते ऽनर्थः स्यान्न त्वज्ञाते ।
अतस्तथोपासनं करिष्यत इत्यत आहन चैवेति ।
नचैव तदविज्ञातं सर्वज्ञब्रह्मणा क्वचित् । (अनुव्याख्यानम्)४,१.५५च्द् ।
न्यायसुधा-
तत् उपासनम् ।
ब्रह्मणो ऽज्ञाने सर्वाध्यक्षं ब्रह्मैव फलं दास्यतीति रिक्तं वचः स्यात् ।
१२,८८
ननु श्रुतिविहितमाचरता कथं ब्रह्मकोपेनानर्थप्राप्तिरित्याशङ्कां परिहरन्नपव्याख्याननिराकरणमुपसंहरतितस्मादिति ।
तस्मादपेशलं सर्वमन्यस्य ब्रह्मतावचः । (अनुव्याख्यानम्)४,१.५६अब् ।
न्यायसुधा-
सर्वमिति श्रुतिसूत्रव्याख्यानरूपम् ।
एतेन सालग्रामादौ विष्ण्वादिप्रतिपत्तिरपि परास्ता वेदितव्या ।
सूत्रव्याख्यानमुपक्रम्यापव्याख्यानदूषणमसङ्गतमित्यतः स्वोक्तदार्ढ्यार्थमिति भावेनाहतस्मादिति ।
तस्माद् यथोक्तमार्गेण ब्रह्मोपास्यं मुमुक्षुभिः । (अनुव्याख्यानम्)४,१.५६च्द् ।
१२,८९
न्यायसुधा-
परकीयव्याख्यानस्य दूषितत्वात् ।
यथोक्तमार्गेण अस्मदुक्तं सूत्रार्थमनतिक्रम्य वर्तमानेन मार्गेण ।
। इति श्रीमन्न्यायसुधायां ब्रह्मदृष्टयधिकरणान्यथाव्याख्याननिराकरणम् ।
_