। अथ श्रीमन्न्यायसुधायां प्रतीकाधिकरणान्यथाव्याख्यानिराकरणम् ।
एवं प्रथमसूत्रस्यापव्याख्यां प्रत्याख्याय द्वितीयस्यापि प्रत्याख्यातिएतस्मादिति ।
एतस्मादात्मशब्दो ऽयं परमात्माभिधा भवेत् । (अनुव्याख्यानम्)४,१.४५च्द् ।
न्यायसुधा-
एतस्मादुक्तन्यायादात्मेति सूत्रगतो ऽयमात्मशब्दः परमात्माभिधा परमात्मन एवाभिधायकस्तावद्भवेत् ।
ततः किमित्यत आहप्रतीकेति ।
प्रतीकविषयत्वेन विष्णुदृष्टिर्न तद् भवेत् । (अनुव्याख्यानम्)४,१.४६अब् ।
न्यायसुधा-
तत् तस्मात्पूर्वसूत्रगतस्यात्मशब्दस्य परमात्मवाचित्वान्न प्रतीक इति प्रतिज्ञावाक्यस्य प्रतीकविषयत्वेन विष्णुदृष्टिः कर्तव्या न भवेदित्येवार्थः ।
इदमुक्तं भवति ।
न प्रतीक इत्यत्र तावदात्मेतीत्यनुवर्तनीयं पूर्वसूत्रात् ।
अन्यथा प्रतिज्ञावाक्यस्यापरिपूर्णत्वात् ।
पूर्वसूत्रे चात्मशब्दो विष्णुविषय इति समर्थितम् ।
तथाच प्रतीकविषयाया विष्णुदृष्टेरेवायं प्रतिषेधो व्याख्येयः ।
न प्रतीकेषु जीवमतिं बध्नीयादिति तु प्रतिज्ञाव्याख्याने प्रकृतपरित्यागो ऽप्रकृतस्वीकारश्च प्रसज्येयातामिति ।
१२,७२
मनो ब्रह्मेत्यादिश्रुत्यर्थत्वेन यत्प्रतीकसंस्थितत्वेनेत्युक्तम् ।
तदपि नोत्सूत्र(त्रित)म् ।
किन्तु प्रतीक इति सप्तम्यन्तं पदमावर्तते ।
तत्राद्यं विषयसप्तम्यन्तं नेत्यनेन सम्बद्धयते ।
द्वितीयमधिकरणसप्तम्यन्तं श्रुतिव्याख्यानम् ।
उभयत्रात्मेतीति पदद्वयं पूवर्सूत्रादनुवर्तत इत्याशयवान्प्रसङ्गाद् द्वितीयं व्याख्यातिप्रतीक इति ।
प्रतीके विष्णुरित्येव तस्मात् कार्या ह्युपासना । (अनुव्याख्यानम्)४,१.४६च्द् ।
१२,७३
न्यायसुधा-
यस्मात्प्रतीकविषयत्वेन विष्णुदृष्टिः कर्तव्या न भवेत्तस्मादिति श्रुत्यर्थ इति शेषः ।
हिशब्देन प्रथमादिविभक्तेः सप्तम्यर्थवाचित्वं शाब्दिकानां प्रसिद्धमिति द्योतयति ।
१२,७४
इतश्च नायं प्रतिज्ञार्थ इत्याहनचेति ।
न च विष्णुः प्रतीकं यत् तस्मान् … । (अनुव्याख्यानम्)४,१.४७अब् ।
न्यायसुधा-
यस्माद्विष्णुः प्रतीकं, चशब्दाज्जीवस्य न भवति, तस्मात्प्रतीकेष्वात्मेति जीव इत्युपासना न प्रसक्तेति शेषः ।
अयमर्थः ।
प्राप्तौ सत्यां हि प्रतिषेधो वक्तव्यः ।
नच प्रतीकेषूपासकस्य आत्मदृष्टिः प्रसक्ता प्रसञ्जकाभावात् ।
यत्तु प्रसञ्जकमुक्तं ब्रह्मण आत्मत्वं प्रतीकानां च ब्रह्मविकारत्वं तदुभयमप्रामाणिकं प्रमाणविरुद्धं च ।
न ह्यत्यन्ताभासेन प्रसक्तिर्भवति ।
अतिप्रसङ्गात् ।
ततः प्रसक्तयभावात्प्रतिषेधो ऽनर्थक इति ।
नहि स इति हेतुव्याख्यानं दूषयतिनच विष्णुः प्रतीकं यत्तस्मादिति ।
तच्छब्दो हि प्रकृतपरामर्शे वर्तते प्रकृतश्चात्मा ।
आत्मशब्दश्च विष्णुवाच्येवेति समर्थितम् ।
तथाच हि यस्मात्स विष्णुः प्रतीकं नैव तस्मादित्येवार्थः सम्पद्यते ।
नहि स उपासकः प्रतीकानीति व्याख्याने तु प्रकृतपरित्यागेनाप्रकृतपरामर्शः प्रसज्यत इति ।
। इति प्रतीकाधिकरणान्यथाव्याख्याननिराकरणम् ।
_
१२,७५