। अथ श्रीमन्न्यासुधायां आत्मोपगमाधिकरणान्यथाव्याख्याननिराकरणम् ।
‘आत्मेति तूपगच्छन्ति ग्राहयन्ति चऽ,’न प्रतीके न हि सःऽ‘ब्रह्मदृष्टिरुत्कर्षात्’ इति त्रिसूत्रीमेके ऽन्यथा व्याचक्षते ।
तथाहि ।
परमात्मा किमहमिति ग्रहीतव्यः ।
किं वा मदन्य इति संशये नाहमिति ग्राह्य इति प्राप्तम् ।
कुतः ।
अपहतपाप्मत्वादिगुणो हि परमात्मा ।
तद्विपरीतगुणश्च शारीरः ।
अतः कथं तयोरभेदो भवेत् ।
ईश्वरस्य च संसार्यात्मत्वे ईश्वराभावस्ततः शास्त्रानर्थक्यम् ।
संसारिणो ऽपीश्वरत्वे ऽधिकार्यभावाच्छास्त्रानर्थक्यमेव ।
प्रत्यक्षादिविरोधश्च ।
एवं प्राप्ते ब्रूमः ।
आत्मेत्येव परमेश्वरः प्रतिपत्तव्यः ।
तथाहि ।
परमेश्वरप्रक्रियायां जाबाला आत्मत्वेनैवैनमुपगच्छन्ति ।
‘त्वं वाहमस्मि भगवो देवते अहं वै त्वमसि देवते’ इति ।
तथान्ये ऽपि’अहं ब्रह्मास्मि’ इत्येवमादय आत्मत्वोपगमा द्रष्टव्याः ।
ग्राहयन्ति चात्मत्वेनैवेश्वरं वेदवाक्यानि ।
‘एष त आत्मा सर्वान्तरःऽ,’तत्त्वमसि’ इत्यादीनि ।
‘अथ यो ऽन्यां देवतामुपास्ते’ इत्यादिका श्रुतिरपवदति च भेददर्शनम् ।
यत्तूक्तं विरुद्धगुणयोरन्योन्यात्मत्वं न सम्भवतीति तदसत् ।
विरुद्धगुणतया मिथ्यात्वात् ।
न चेश्वराभावप्रसङ्गः ।
नहीश्वरस्य संसारित्वं प्रतिपाद्यते किं तर्हि संसारित्वापोहेनेश्वरत्वम् ।
नचाधिकार्यभावः प्रत्यक्षादिविरोधश्च ।
प्राक् प्रबोधात्संसारित्वाभ्युपगमात् ।
तद्विषयत्वाच्च प्रत्यक्षादिव्यवहारस्य ।
प्रबोधे तु प्रत्यक्षाद्यभाव एव ।
तथा सत्यद्वैतश्रुतेरप्यभावप्रसङ्ग इति चेत् ।
इष्यमेवैतत् ।
तस्मादात्मेत्येवेश्वरे मनो दधीतेति प्रथमसूत्रार्थः ।
१२,४४फ़्.
मनो ब्रह्मेत्युपासीतेत्येवमादिषु प्रतीकोपासनेषु संशयः किं तेष्वप्यात्मग्रहः कर्तव्यो न वेति ।
किं तावत्प्राप्तम् ।
तेष्वप्यात्मग्रह एव युक्तः ।
कस्मात् ।
ब्रह्मण आत्मत्वात्, प्रतीकानामपि ब्रह्मविकारत्वात् ब्रह्मत्वे सत्यात्मत्वोपपत्तेरिति ।
ब्रूमः ।
न प्रतीकेष्वात्ममतिं बध्नीयात् ।
नहि स उपासकः प्रतीकानि यत्तान्यात्मत्वेनाकलयेत् ।
यत्पुनर्ब्रह्मविकारत्वात्प्रतीकानां ब्रह्मत्वं ततश्चात्मत्वमिति तदसत् ।
प्रतीकाभावप्रसङ्गात् ।
विकारस्वरूपोपमर्देन हि नामादिजातस्य ब्रह्मत्वमेवाश्रितं भवति ।
स्वरूपोपमर्दे च नामादीनां कुतः प्रतीकस्वरूपत्वमात्मग्रहो वा ।
किञ्च यथा रुचकस्वस्तिकयोर्नेतरात्मत्वम् ।
द्वयोरपि विकारत्वात् ।
तथा प्रतीकात्मनोरपि ।
सुवर्णात्मनेव ब्रह्मात्मनैकत्वे प्रतीकाभावप्रसङ्गमवोचाम ।
अतो न प्रतीकेष्वात्मदृष्टिः कर्तव्येति द्वितीयसूत्रार्थः ।
१२,४६
तेष्वेवोदाहरणेष्वन्यः संशयः ।
किमादित्यादिदृष्टयो ब्रह्मणि कार्याः किंवा ब्रह्मदृष्टिरादित्यादिष्विति ।
सामानाधिकरण्यस्योभयथोपपत्तेः ।
तत्रानियमो नियमकारिणः शास्त्रस्याभावात् ।
अथवादित्यादिदृष्टय एव ब्रह्मणि कर्तव्याः ।
एवं हि ब्रह्मोपासितं भवति ।
ब्रह्मोपासनं च फलवदिति प्राप्ते ब्रूमः ।
ब्रह्मदृष्टिरेवादित्यादिषु स्यात् ।
कस्मात् ।
उत्कर्षात् ।
एवमुत्कर्षेणादित्यादयो दृष्टा भवन्ति ।
तथा च लौकिको न्यायो ऽनुगतो भवति ।
क्षत्तरि खलु राजदृष्टिः क्रियते न तु राज्ञि क्षत्तृष्टिर्विपर्यये प्रत्यवायप्रसङ्गात् ।
यत्तु फलवत्त्वया ब्रहोपासनं युक्तमिति तदयुक्तम् ।
आदित्याद्युपासनस्यापि फलवत्त्वोपपत्तेः ।
ब्रह्मैव च सर्वाध्यक्षत्वात्फलं दास्यति ।
इदमेव च ब्रह्मोपासनं यदादित्यादिषु तद्दृष्टिः प्रतिमादिष्विव विष्ण्वादीनामिति तृतीयसूत्रा(स्या)र्थ इति ।
१२,४८
तत्र तावत्प्रथमसूत्रस्यापव्याख्यानं दूषयतिनेति ।
नात्मेति सूत्रमीशस्य जीवत्वप्रतिपादकम् । (अनुव्याख्यानम्)४,१.३४अब् ।
न्यायसुधा-
अत्र प्रतिपत्तिर्नाम प्रमितेरेव परस्याभिमता ।
प्रतीकदशर्नमित्याशङ्कय निराकरणात् ।
अतो जीवत्वेन प्रतिपत्तव्यत्वस्य प्रतिपादकमिति, जीवत्वस्य प्रतिपादकमिति चैक एवार्थः ।
१२,५०
कुतो नेत्यतः पदार्थज्ञानपूर्वकत्वाद्वाक्यार्थज्ञानस्य प्रथमं पदार्थं निराकरोतिआत्मशब्दमिति ।
आत्मशब्दं यतो हेतुं कृत्वा जीवं न्यवारयत् ।
स्वशब्दात् प्राणभृच्चैव नोक्त इत्येव वेदराट् । (अनुव्याख्यानम्)४,१.३४च्फ़् ।
न्यायसुधा-
स्वशब्दादेव प्राणभृच्च नोक्त इति वेदराडेवात्मशब्दं हेतुं कृत्वा जीवं न्यवारयद्यतस्तस्मादात्मशब्दोदितो विष्णुरेव न चापरो जीव इति योजना ।
१२,५०फ़्.
एतदुक्तं भवति ।
भवेदयं सूत्रार्थो यद्यात्मशब्दो जीववाची भवेत् ।
न चैवम् ।
सूत्रकारवचनसामर्थ्यादेव तस्य तद्वाचित्वाभावावगमात् ।
तथा हि ।
यस्मिन्द्यौरिति वाक्यमुदाहृत्य किमत्र द्युभ्वाद्यायतनत्वेन प्रधानमुच्यते उत जीवः किंवा परमात्मेति संशये प्रधानादौ प्राप्ते सिद्धान्तितम् ।
‘द्युभ्वाद्यायतनं स्वशब्दात्’ इति ।
स्वशब्दात्’तमेवैकं जानथ आत्मानम्’ इति द्युभ्वाद्यायतने आत्मशब्दश्रवणात् द्युभ्वाद्यायतनं परमात्मैवेति ।
ततो’नानुमानमतच्छब्दात्’ इति प्रधानं निराकृत्य जीवनिराकरणार्थं सूत्रितम् ।
प्राणभृच्चेति ।
तत्र चशब्दो नेत्यस्य स्वशब्दादिति हेतोश्चानुकर्षणार्थः ।
ततश्चात्मशब्दाज्जीवो ऽपि नेत्यर्थः ।
यदेवमात्मशब्दं हेतुं कृत्वा जीवं निवारितवान्सूत्रकारः, तदन्यथानुपपत्त्या जानीमः सूत्रकारस्यात्मशब्दो न जीववाचीत्यभिप्रेतमिति ।
तथाच कथं स्वाचरितविरुद्धमिदानीमाचरेदिति ।
१२,५१
एतदेव विशदयतियदीति ।
यद्यात्मशब्दो जीवे ऽपि कथं स विनिवारयेत् ।
आत्मशब्दोदितस्तस्माद् विष्णुरेव नचापरः । (अनुव्याख्यानम्)४,१.३५ ।
न्यायसुधा-
जीवे ऽपि वर्तत इति सूत्रकृतो ऽभिप्रेतमिति शेषः ।
तर्हि कथं सूत्रकारो जीवमात्मशब्देन विनिवारयेत् ।
नहि गन्धवत्त्वेन घटो निवारयितुं शक्यते ।
अथवा यद्यात्मशब्दो जीवे ऽपि वर्तेत तदा स आत्मशब्दः कथं जीवं निवारयेत् ।
प्रत्युत प्रतिपादयेदिति योजना ।
१२,५२
आगमवाक्यमप्यत्र पठतिआत्मेति ।
आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् ।
न वदन्ति यतो नाप्ता क्वापि तैर्गुणपूर्णता ।
नारायणाध्यात्मगतमिति यद् वैष्णवं वचः । (अनुव्याख्यानम्)४,१.३६ ।
न्यायसुधा-
अन्यान्न वदन्ति कुतो यत आत्मादिशब्दाः पूर्तिवाचिनस्तैरन्यैर्गुणपूर्णता क्वाप्यवस्थायां न प्राप्ता ।
यत्किञ्चित्पूर्णतार्थत्वे चामुख्यार्थतापात इति ।
आत्मशब्दो ऽप्याङ्पूर्वात्तनोतेर्मनिन् प्रत्यये टिलोपे च सति निष्पन्नः पूर्णतावचनः ।
यद्यस्मादेवं वचो ऽस्ति तस्मादपीति पूर्वेणैव अन्वयः ।
१२,५३
इदानीं वाक्यार्थं दूषयतियदीति ।
यदि जीवेशयोर्वेदपतिरैक्यं च मन्यते ।
आत्मशब्दं कथं तस्मान्निवारयति युक्तितः । (अनुव्याख्यानम्)४,१.३७ ।
न्यायसुधा-
मन्यते(अत्र) तत्र सूत्रे तदा तस्मात् जीवादात्मशब्दं कथं निवारयति ।
कुत्र निवारितवानित्यत उक्तम्युक्तित इति ।
जीवनिराकरणयुक्तित्वेनोक्तत्वादिति यावत् ।
इदमुक्तं भवति ।
आत्मशब्दश्रवणात् द्युभ्वाद्यायतनं न जीव इति आत्मशब्दं जीवनिवारणे हेतुं वदता सूत्रकारेणात्मशब्दो जीवान्निवारित इति गम्यते ।
नायं पुरुषो विषाणित्वादिति यथा ।
नहि तत्रस्थेन तन्निरासो युज्यते ।
नायं गौर्विषाणित्वादित्यपि प्रसङ्गात् ।
प्रथमसूत्रे च द्युभ्वाद्यायतनं परमेश्वरो न जीव आत्मशब्दादित्यात्मशब्दस्य परमेश्वरे प्रवृत्तिरभ्युपगता ।
अन्यथा तेन तत्साधनानुपपत्तेः ।
तत्र यदि जीवेश्वरावेकमेव तत्त्वमिति सूत्रकारस्य मतं स्यात् ।
तदा तेनात्मशब्दस्तत्रैव वर्तते, न वर्तते चेत्युक्तं भवति ।
नच व्याहतं सूत्रकारो भाषत इति युक्तम् ।
तस्मान्न जीवेश्वरैक्यं तस्य मतमिति गम्यत इति ।
उपलक्षणं चैतत् ।
द्युभ्वाद्यायतनं परमेश्वरो, न जीव इति, प्रतिज्ञाद्वयं च व्याहतमित्यपि द्रष्टव्यम् ।
१२,५४
सूत्रान्तरविरोधं चाहभेदस्येति ।
भेदस्य व्यपदेशं च स्थितिं चादनमेव च ।
भेददार्ढ्ये हेतुमाह सतात्पर्यं जगत्पतिः । (अनुव्याख्यानम्)४,१.३८ ।
न्यायसुधा-
यदि जगत्पतिः सूत्रकारो जीवेश्वरयोरैक्यं मन्यते तर्हि कथं स एव’भेदव्यपदेशात्’ इति भेदस्य व्यपदेशं च’स्थित्यदनाभ्यां च’ इति स्थितिं
चादनं च सतात्पर्यं जीवेशभेदं दृढयितुं हेतुमाह ।
भेदस्य प्रागपि प्रतिपादितत्वाद्दर्ढ्य इत्युक्तम् ।
अत्राप्यनेकप्रमाणोपन्यासात्सतात्पर्यमिति ।
१२,५५
न को ऽप्ययं विरोधो ऽस्ति ।
परमार्थतो जीवेशयोरेकत्वे ऽपि हि व्यावहारिकभेदो ऽस्ति तदपेक्षया तानि सूत्राणि ।
इदं तु परमार्थापेक्षयेति व्यवस्थोपपत्तेरित्याशयेन शङ्कतेव्यावहारिकेति ।
व्यावहारिकभेदश्चेत् … । (अनुव्याख्यानम्)४,१.३९अ ।
न्यायसुधा-
अत्र व्यावहारिकशब्देन भ्रान्तिसिद्धो ऽभिप्रेयते ।
प्राक् प्रबोधादित्युक्तानुवादत्वात् ।
जीवेश्वरभेदो भ्रान्तिसिद्ध इति वदन्प्रष्टव्यः ।
किमयमेव भेदो भ्रान्तिसिद्धः किं वा भेदमात्रमिति ।
नाद्यः ।
अपसिद्धान्तात् ।
द्वितीये दोषमाहक्वेति ।
… क्वासावव्यावहारिकः । (अनुव्याख्यानम्)४,१.३९ब् ।
न्यायसुधा-
भ्रान्तेरभ्रान्तिपूर्वकत्वात् ।
जीवेश्वरभेदस्य भ्रान्तिकल्पितत्वे क्वचित्सत्यो भेदो ऽङ्गीकर्तव्यः ।
क्वासौ न क्वापि ।
कुत्रापि भेदस्य सत्यत्वाङ्गीकारे जीवेशभेदारोपो ऽपि न सम्भवतीति भावः ।
१२,५७
स्यादेतत् ।
नास्त्येव को ऽपि भेदः सत्यः ।
तथापि जीवेशभेदभ्रान्तिरुपपद्यते ।
भ्रान्तिर्हि संस्कारमपेक्ष्यते ।
संस्कारश्च ज्ञानमात्रम् ।
अतः पूर्वपूर्वमसंस्कारादुत्तरोत्तरभ्रान्त्युत्पादः ।
अनादिश्चायं संसार इति ।
मैवम् ।
भेदमात्रस्य मिथ्यात्वे प्रमिते खलु तद्बलादेषा कल्पनोपपद्यते ।
न चैवम् ।
सर्वो ऽपि भेदो भ्रान्त इति हि प्रतिज्ञैव तावद्वयहता ।
दूरे प्रमाणोपन्यास इत्याशयवान्सोपपत्तिकं तावत्पृच्छतिव्यावहारिकमिति ।
व्यावहारिकमित्येव वचनं व्यावहारिकम् । (अनुव्याख्यानम्)४,१.३९च्द् ।
उत नेति विकल्पे तु … । (अनुव्याख्यानम्)४,१.४०अ ।
न्यायसुधा-
भेदमात्रमिति शेषः ।
तिष्ठतु तावदन्यदित्येवार्थः ।
इति विकल्पे तु पक्षद्वैते (द्वये)(द्वैधे) सम्भवति कं पक्षमवलम्ब्य इति शेषः ।
अत्र सर्वत्र वचनशब्देन तदर्थो लक्ष्यते ।
सर्वो ऽपि भेदो भ्रान्तिकल्पित इति वाक्यार्थो भ्रान्तिकल्पितो ऽथ परमार्थ इति प्रश्नार्थः ।
१२,५८
आद्यं शङ्कतेयदीति ।
… यदि स्याद् व्यावहारिकम् । (अनुव्याख्यानम्)४,१.४०ब् ।
१२,५९
न्यायसुधा-
एतद्वचनमिति वर्तते ।
अत्रापि पृच्छामो वाक्यार्थो ऽयं बाध्यो न वेति ।
नेति पक्षे भ्रान्तिकल्पितो ऽपि न भवेत् ।
कुत्रापि कदापि केनाप्यबाध्यस्य भ्रान्तिकल्पितत्वे ब्रह्मणो ऽपि तथात्वापत्तेः ।
प्रथमं शङ्कतेतस्येति ।
तस्यापि बाध्यता चेत् स्याद् … । (अनुव्याख्यानम्)४,१.४०च् ।
न्यायसुधा-
तस्य वचनस्य न केवलं भ्रान्तिकल्पितत्वं किन्तु बाध्यतापि स्याच्चेदित्यर्थः ।
दूषयतिभेद इति ।
… भेदः स्यात् पारमार्थिकः । (अनुव्याख्यानम्)४,१.४०द् ।
न्यायसुधा-
सर्वो ऽपि भेदो भ्रान्त इति वाक्यार्थस्य भ्रान्तत्वे बाध्यत्वे च सकल(लो)भेदः पारमार्थिकः स्यात् ।
१२,६०
द्वितीयमाशङ्कतेअव्यावहारिकत्वमिति ।
अव्यावहारिकत्वं चेद् … । (अनुव्याख्यानम्)४,१.४१अ ।
न्यायसुधा-
तस्य वचनस्येति वर्तते ।
निराकरोतिभेद इति ।
… भेदो ऽयं सत्यतां गतः । (अनुव्याख्यानम्)४,१.४१ब् ।
न्यायसुधा-
तिष्ठतु तावदन्यः ।
वाक्यार्थस्य सत्यत्वे तस्य ब्रह्मणश्च यो भेदो, यश्च पदार्थानामसत्यत्वे वाक्यार्थस्य सत्यत्वानुपपत्तेः पदार्थानां परस्परं वाक्यार्थाद्ब्रह्मणश्च भेदः, स
तावत् सत्यतां गतः ।
उभयथापि वाक्यार्थो व्याहत इत्यर्थः ।
१२,६१
सर्वो ऽपि भेदो भ्रान्त इति वाक्यार्थस्य भ्रान्तत्वे बाध्यत्वे च सर्वस्यापि भेदस्य सत्यता स्यादित्युक्तम् ।
तत्कुत इत्यतस्तदुपपादनाय व्याप्तिं तावदाहएकस्येति ।
एकस्यासत्यतायां हि द्वयोरेव विरुद्धयोः ।
अन्यस्य सत्यतैव स्यादिति केन निवार्यते । (अनुव्याख्यानम्)४,१.४१च्फ़् ।
न्यायसुधा-
यौ द्वावेव विरुद्धौ तयोर्मध्ये एकस्यासत्यतायां सत्यामन्यस्य सत्यता स्यादेवेति व्याप्तिः केन निवार्यते ।
उपाधिव्यभिचारयोरभावान्न केनापि ।
पुरोवर्तिनः पुरुषत्वे ऽसति स्थाणुत्वमेव भवतीति नियमो नास्ति ।
वल्मीकत्वस्यापि सम्भवात् ।
अतो द्वयोरेव विरुद्धयोरित्युक्तम् ।
द्वयोरिति विशेषणस्यासमर्थतापरिहाराय विरुद्धग्रहणम् ।
यः पदार्थो द्वयोरेव विरुद्धयोरेकस्य असत्यत्ववान् असावन्यस्य सत्यत्ववानित्युक्तं भवति ।
१२,६२
निदर्शनमाहअनित्यमिति ।
असत्यं नोक्तमित्युक्ते सत्यमुक्तमिति प्रजाः ।
जानन्त्युक्तं तु नो सत्यमित्युक्ते ऽसत्यतामपि । (अनुव्याख्यानम्)४,१.४२ ।
न्यायसुधा-
आप्तेनोक्तमसत्यं नेत्युक्ते सत्युक्तं सत्यमिति प्रजा जानन्ति ।
तथा विप्रलम्भकेनोक्तं सत्यं नो इत्युक्ते तु तस्यासत्यतामपि जानन्ति ।
सत्यत्वासत्यत्वयोर्द्वयोरेव विरुद्धता ।
तत्र आप्तोक्ते ऽर्थे ऽसत्यतायामसत्यां सत्यतायाः सत्वमनाप्तोक्ते च सत्यतायामसत्यामसत्यतायाः सत्वं च प्रसिद्धमित्यर्थः ।
इत्युक्त इति प्रमितत्वोपलक्षणम् ।
प्रजा जानन्तीत्यनेन
आविपालाङ्गनमेषा व्याप्तिः सिद्धा न केवलं परीक्षकाणामिति सूचयति ।
१२,६४
ननु स्वप्ने ऽत्र घट इति दृष्ट्वा नात्र घट इत्यपि पश्यति ।
तत्र घटः तदभावश्च द्वयमपि मिथ्या ।
अतो व्याप्तिभङ्ग इत्यत आहनेति ।
न स्वप्ने ऽपि द्वयं मिथ्या … । (अनुव्याख्यानम्)४,१.४३अ ।
न्यायसुधा-
तत्किं द्वयमपि सत्यमित्यत आहतत्रेति ।
… तत्रैकं सत्यमेव हि । (अनुव्याख्यानम्)४,१.४३ब् ।
न्यायसुधा-
तत्र घटतदभावयोर्मध्ये ।
यदाभावस्यासत्यता तदा घटः सत्य एव ।
यदा च घटस्य असत्यता तदाभावः सत्य एवेत्यथर्ः ।
तस्मान्न व्याप्तिभङ्ग इति हिशब्दार्थः ।
कुतो न द्वयमपि मिथ्येत्यत आहभावेति ।
१२,६५
भावाभावावुभौ तत्र कथं मिथ्या भविष्यतः । (अनुव्याख्यानम्)४,१.४३च्द् ।
न्यायसुधा-
यो यस्याभावो यश्च यस्याभावस्य प्रतियोगी तावुभावप्येकत्रैकदैव न मिथ्येति व्याप्तेः ।
स्वप्ने ऽपि घटतदभावौ कथं तथा भविष्यत इति भावः ।
व्याहतं च भावाभावयोरुभयोरसत्त्ववर्णनमित्याशयेनाहभावस्य हीति ।
भावस्य हि निषेधे तु नाभावस्य निषेधनम् । (अनुव्याख्यानम्)४,१.४४अब् ।
न्यायसुधा-
हिशब्दो हेतौ ।
भावस्य निषेधे कृते तु अभावस्यैव विहितत्वात् ।
पुनर्नाभावस्य निषेधनं कर्तुं शक्यते व्याघातात् ।
एवमभावस्य निषेधे कृते ऽभावाभावो भाव एव तद्वयप्तो वेति भावस्य विहितत्वात् पुनर्न भावस्य निषेधनं युक्तं व्याहतत्वादिति ।
अस्त्वेवं व्याप्तिस्ततः किमित्यत आहस्ववच इति ।
स्ववाचो ऽसत्यता चेत् स्यात् तस्माद् भेदस्य सत्यता । (अनुव्याख्यानम्)४,१.४४च्द् ।
न्यायसुधा-
स्वशब्देन प्रतिवाद्युच्यते ।
तद्वागर्थस्य सकलभेदमिथ्यात्वस्य ।
तस्मात् व्याप्तिसद्भावात् मिथ्यात्वं सत्यत्वं च द्वौ विरुद्धधर्मौ ।
भेदे तयोः, मिथ्यात्वे ऽसति सत्यत्वं सत्स्यादेवोक्तव्याप्तिबलादित्यर्थः ।
१२,७०
प्रकृतमुपसंहरतितस्मादिति ।
तस्माज्जीवेशयोर्भेद उक्तन्यायेन गम्यते । (अनुव्याख्यानम्)४,१.४५अब् ।
न्यायसुधा-
भेदमिथ्यात्वासम्भवाज्जीवेशयोः पारमार्थिकभेद एवोक्तन्यायेन द्युभ्वादिसूत्रैर्गम्यते ।
तथाच तद्विरोधान्नेदमभेदं प्रतिपादयति सूत्रमिति सिद्धम् ।
श्रुतयस्तु प्रागेव सम्यग्व्याख्याताः ।
विरुद्धगुणसत्यता चोपपादिता ।
प्रत्यक्षादीनामतत्त्वावेदकत्वमपि नि(रस्तं)राकृतम् ।
श्रुतिमिथ्यात्वस्यानिष्टत्वं च समर्थितमित्युक्त एव सूत्रार्थः ।
। इति श्रीमन्न्यायसुधायां आत्मोपगमाधिकरणान्यथाव्याख्याननिराकरणम् ।
_
१२,७१