०४ ब्रह्मदृष्ट्यधिकरणम्

। अथ श्रीमन्न्यासुधायां ब्रह्मदृष्टयधिकरणम् ।
। ओं ब्रह्मदृष्टिरुत्कर्षात् ओं ।
अत्र ब्रह्मदृष्टिः कर्तव्येत्युच्यते ।
कुत्रेत्याकाङ्क्षायां सन्निधानात्प्रतीक इति प्राप्नोति ।
तच्च योग्यताविरहान्निराकृतम् ।
अतः साकाङ्क्षं प्रतिज्ञावाक्यं व्याख्यातिब्रह्मेति चेति ।
ब्रह्मदृष्टिर् उत्कर्षात् । ब्ब्स्_४,१.५ ।
ब्रह्मेति च सदा ध्येयो भगवान् विष्णुरञ्जसा । (अनुव्याख्यानम्)४,१.३२अब् ।
न्यायसुधा-
अत्र चशब्दं प्रयुञ्जानेनात्मेत्यनेन व्यवहितेनाप्यस्य योग्यतयान्वयः ।
आत्मशब्दश्च प्रथमान्तः प्रकृतः, सप्तम्यन्तेन चेहार्थः ।
अर्थवशाद्विभक्तिविपरिणामः ।
अतः सप्तम्यन्तो ऽत्र अनुवर्तत इति सूचितम् ।
भगवान्विष्णुर्ब्रह्मेति ध्येय इति तात्पर्यकथनं, नाक्षरार्थः ।
नन्वेतत् भूम्नः क्रतुवज्ज्यायस्त्वमित्यनेनैव गतमित्यतः सदाञ्जसेत्युक्तम् ।
उत्कर्षादिति हेतुः ।
तत्र न ज्ञायते कस्योत्कर्ष इति ।
अतो व्याचष्टेउत्कृष्ट इति ।
उत्कृष्टो ब्रह्मशब्दार्थः … । (अनुव्याख्यानम्)४,१.३२च् ।
न्यायसुधा-
यत इति वक्ष्यमाणमिहापि सम्बद्धयते ।
उत्कर्षादुत्कर्षस्य ब्रह्मशब्दप्रवृत्तिनिमित्तत्वादिति सूत्रकृतोत्कर्षस्य ब्रह्मशब्दप्रवृत्तिनिमित्तत्वमुक्तम् ।
अनुव्याख्यानकृता तूत्कर्षवान् ब्रह्मशब्दाभिधेय इत्यभिहितम् ।
फलतस्त्वेक एवार्थः ।
कथमुत्कर्षो ब्रह्मशब्दप्रवृत्तिनिमित्तमित्यत आहपूर्णत्वमिति ।
१२,३८
… पूर्णत्वं ब्रह्मता यतः । (अनुव्याख्यानम्)४,१.३२द् ।
न्यायसुधा-
वृद्धयर्थात् बृहतेरन्येभ्यो ऽपि दृश्यन्त इति मनिन्प्रत्ययः दृशिग्रहणसामर्थ्याद्धातोरमागमश्च ।
वृद्धिः पूर्णत्वमित्येक एवार्थः ।
ब्रह्मता ब्रह्मशब्दप्रवृत्तिनिमित्तम् ।
पूर्णत्वमेव चोत्कर्षः ।
हेतुहेतुमद्भावश्च भाष्य एव समर्थितः ।
१२,४०
ब्रह्मत्वस्य सर्वथार ध्येयत्वे किं प्रमाणमित्यत आहआधिव्याधीति ।
आधिव्याधिनिमित्तेन विक्षिप्तमनसो ऽपि तु ।
ध्येयैव ब्रह्मता नित्यं विष्णोर्भक्तया निरन्तरम् ।
इति प्रकाशिकायां च वचनं विष्णुनेरितम् । (अनुव्याख्यानम्)४,१.३३ ।
न्यायसुधा-
आधिव्याधीति द्वन्द्वैकवद्भावः ।
तच्च तन्निमित्तं च, तेन ।
कृत्यानां कर्तरि वेति षष्ठी ।
चशब्देन भाष्योदाहृतानि वचनानि समुच्चिनोति ।
। इति श्रीमन्न्यायसुधायां ब्रह्मदृष्टयधिकरणम् ।


_
१२,४३