१२,३०
। अथ श्रीमन्न्यायसुधायां प्रतीकाधिकरणम् ।
। ओं न प्रतीके न हि सः ओं ।
मनो ब्रह्मेत्युपासीतेत्यादिश्रुतिप्राप्तं मनःप्रभृतिप्रतीकानां ब्रह्मत्वेनोपासनमत्र प्रतिषिध्यते ।
तत्र प्रतीक इत्यधिकरणसप्तमीति प्रतीतिः स्यात् ।
प्रतीकाधिकरणस्य चोपासनं ब्रह्मणो युक्तमेव ।
अतो ऽन्यथा प्रतिज्ञां व्याख्यातिप्रतीकेति ।
न प्रतीके न हि सः । ब्ब्स्_४,१.४ ।
प्रतीकविषयत्वेन न कार्या विष्णुभावना । (अनुव्याख्यानम्)४,१.१७अब् ।
न्यायसुधा-
इत्थम्भूतलक्षणे तृतीया ।
इदं मनआदिकं विष्णुरित्येवंरूपोपासना न कार्येत्यर्थः ।
न हि स इति हेतुं व्याचष्टेप्रतीकमिति ।
प्रतीकं नैव विष्णुर्यन् … । (अनुव्याख्यानम्)४,१.१७च् ।
न्यायसुधा-
यद्यस्मात्प्रतीकं, ब्रह्मणः प्रतिमात्मकं, मनःप्रभृति, स विष्णुर्नैव तस्मादिति पूर्वेणान्वयः ।
नन्वसङ्गतो ऽयं हेतुः ।
प्रतीकस्य विष्णोश्चाभेदाभावो ह्यभेदस्य तत्प्रमितेश्च निवारको न त्वभेदभावनामात्रस्येत्यत आहमिथ्येति ।
… मिथ्योपासा ह्यनथर्दा । (अनुव्याख्यानम्)४,१.१७द् ।
न्यायसुधा-
नहि स विष्णुः प्रतीकम् ।
अतस्तयोरभेदभावना मिथ्योपासना ।
सा चानर्थस्यैव हेतुः ।
अतो न कर्तव्येत्येवं हेतुहेतुमद्भावः
सूत्रकृतो ऽभिप्रेतो न पुनः साक्षात् ।
अतो नासङ्गतिः ।
१२,३१
मिथ्योपासनस्यानर्थहेतुत्वं कुत इत्यतस्तदुपपादनपूर्वकमिममेव सूत्राभिप्रायं स्पष्टमाचष्टेयो ऽन्यथेत्यादिना भगवन्प्रभुरित्यन्तेन ।
यो ऽन्यथा सन्तमात्मेशमन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चोरेणात्मापहारिणा । (अनुव्याख्यानम्)४,१.१८ ।
यो ऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चोरेणेशापहारिणा । (अनुव्याख्यानम्)४,१.१९ ।
१२,३२
न्यायसुधा-
यो ऽन्यथैव स्थितं विष्णुमन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चोरेण ब्रह्मचारिणा । (अनुव्याख्यानम्)४,१.२० ।
न्यायसुधा-
अन्यथासन्तं प्रतीकभिन्नत्वादिप्रकारं सन्तम् ।
आत्मनां जीवानाम् ईशम् ।
अन्यथा प्रतीकत्वादिना ।
प्रतिपद्यते जानाति ध्यायति च ।
चोरत्वस्यैव विवरणं आत्मापहारिणेति ।
अभेदे खल्वेकावशेषः स्यात् ।
तत्र प्रतीकावशेषे ध्याते स्फुटं परमात्मापहारित्वम् ।
प्रतीकप्रविलये ऽप्यैश्वर्यापलापात्परमात्मापहारित्वमेव ।
आत्मानं परमात्मानम् ।
एतानि त्रीणि वाक्यानि विष्णोः प्रतीकताध्याने बाधकानि ।
प्रतीकस्य विष्णुत्वध्याने तु न बाधकमित्यतः स्वात्मनमिति वाक्यं पठितम् ।
स्वात्मानं प्रतिमां वापि देवतान्तरमेव वा ।
चेतनाचेतनं वान्यद् ध्यायेद् यः केशवस्त्विति ।
किं तेन न कृतं पापं चारेणेशापहारिणा । (अनुव्याख्यानम्)४,१.२१ ।
न्यायसुधा-
यो ऽन्यदिति त्रीण्युभयार्थे ।
यो ऽन्यद् विष्णुरिति ध्यायेज्जानीयाद् वा हरिं तथा ।
अन्धे तमसि मज्जेत् स यत्र नैवोत्थितिः क्वचित् । (अनुव्याख्यानम्)४,१.२२ ।
यो ऽन्यद् विष्णुरिति ध्यायेद् विष्णुरन्यदिति स्म वा ।
अन्यथा ध्यानदोषेण महातमसि मज्जति । (अनुव्याख्यानम्)४,१.२३ ।
यो ऽन्यद् विष्णुरिति ध्यायेद् विष्णुरन्यदिति स्म वा ।
महातमसि मग्नस्य तस्य नैवोत्थितिः क्वचित् । (अनुव्याख्यानम्)४,१.२४ ।
न्यायसुधा-
यत्र पतितस्य ।
अन्यथाध्यानमेव दोषो ऽन्यथाध्यानदोषः ।
यत्किञ्चिदित्यादीनि प्रथमार्थ एव कैमुत्यार्थानि ।
यत्किञ्चिदन्यथा संस्थमन्यथा ध्यातमञ्जसा ।
ध्यातुर्महादोषकरं किमु सर्वेश्वरो हरिः । (अनुव्याख्यानम्)४,१.२५ ।
१२,३३
न्यायसुधा-
यत्किञ्चिदन्यथा संस्थमन्यथा ज्ञातमञ्जसा ।
महादोषकरं विष्णुः किमु सर्वेश्वरेश्वरः । (अनुव्याख्यानम्)४,१.२६ ।
यत्किञ्चिदन्यथा संस्थमन्यथा ज्ञातमञ्जसा ।
अनर्थकारणं लोके किमु सर्वेश्वरेश्वरः । (अनुव्याख्यानम्)४,१.२७ ।
न किञ्चिदन्यथा ज्ञेयं ध्येयं वा तेन कुत्रचित् ।
किमु सर्वोत्तमो विष्णुर्ज्ञेयो नीचतया क्वचित् । (अनुव्याख्यानम्)४,१.२८ ।
तस्माद् वस्तु यथारूपं ज्ञेयं ध्येयं च सर्वदा ।
कारणं पुरुषार्थस्य नान्यथा भवति क्वचित् । (अनुव्याख्यानम्)४,१.२९ ।
न्यायसुधा-
यत्किञ्चिद्गङ्गोदकादिकमन्यथासंस्थं पवित्रं सत् अन्यथापवित्रं ध्यातं ध्यातुरञ्जसा महादोषकरं किमु सर्वेश्वरो हरिरप्रकृष्टतया ध्यातः ।
तेन अनर्थप्रसङ्गेन ।
इति श्रुतिपुराणोक्तिबलतो न प्रतीकता ।
ध्येया विष्णोः क्वचिद् यस्मान्मिथ्याज्ञानमनर्थदम् । (अनुव्याख्यानम्)४,१.३० ।
इत्यभिप्रेत्य न हि स इत्याह भगवान् प्रभुः । (अनुव्याख्यानम्)४,१.३१अब् ।
न्यायसुधा-
इति श्रुतिपुराणोक्तिबलतो मिथ्याज्ञानमनर्थपदं प्रतीयते यस्मात्तस्माद्विष्णोः प्रतीकता न ध्येयेति परम्परया हेतुहेतुमद्भावमभिप्रेत्य
भगवान्सूत्रकारो न हि स इति हेतुमाह ।
अतो नासङ्गतिरित्यर्थः ।
वक्ष्यमाणप्रकारेण द्विरूपस्यापि ध्यानस्य साम्यात् बलत इत्युक्तम् ।
ध्यानस्यापि ज्ञानविशेषत्वात्सङ्कीर्णोक्तिः ।
१२,३६
एवं तर्हि मनो ब्रह्मेत्यादिश्रुतीनां को ऽर्थ इत्यत आहप्रतीकेति ।
प्रतीकसंस्थितत्वेन ध्येयो विष्णुर्नचान्यथा । (अनुव्याख्यानम्)४,१.३१च्द् ।
न्यायसुधा-
व्यत्ययो बहुलं, सप्तसु प्रथमा, षट्सु द्वितीया, इत्यादिस्मरणाद्विभक्तिव्यत्ययेनाधिकरणार्थतया श्रुतयो व्याख्येया इति भावः ।
। इति श्रीमन्न्यासुधायां प्रतीकाधिकरणम् ।
_