१२,१८
। अथ श्रीमन्न्यासुधायां आत्मोपगमाधिकरणम् ।
। ओं आत्मेति तूपगच्छन्ति ग्राहयन्ति च ओं ।
एतत्सूत्रं व्याख्यातुमात्मशब्दार्थं तावदाहआत्मेति ।
आत्मेति तूपगच्छन्ति ग्राहयन्ति च । ब्ब्स्_४,१.३ ।
आत्मेति नाम कथितं साक्षान्नारायणस्य हि । (अनुव्याख्यानम्)४,१.९अब् ।
न्यायसुधा-
यस्मादात्मेति नाम साक्षात् मुख्यया वृत्त्या नारायणस्य कथितम् ।
मुख्ये च सम्भवत्यमुख्यं न युज्यते ।
तस्मादत्र सूत्रे ऽपि आत्मा जनार्दनः आत्मशब्दोदितो जनार्दन इति वक्ष्यमाणेनान्वयः ।
१२,२०
किं तदात्मशब्दस्य भगवन्नामत्वकथनमित्यत आहआत्मेति ।
आत्मा ब्रह्म महांस्तारः परमेशः शुचिश्रवाः । (अनुव्याख्यानम्)४,१.९च्द् ।
विष्णुर्नारायणो ऽनन्त इति श्रीपतिरीर्यते ।
इति पिङ्गश्रुतिश्चैव तथैव परमश्रुतिः । (अनुव्याख्यानम्)४,१.१० ।
न्यायसुधा-
इति नामभिः ।
पैङ्गिश्रुतिः आत्मशब्दं भगवन्नामत्वेनाह ।
चशब्दः श्रुत्यन्तरसमुच्चयार्थः ।
श्रुतिरेव न तु मानुषप्रणीतमभिधानमित्येवशब्दः ।
तेन’क्षेत्रज्ञ आत्मा पुरुषः’ इत्यादिविरोधो नाशङ्कनीयः ।
ओमात्मेति परमश्रुतिः ।
ओमात्मा भगवान् विष्णुरात्मानन्दो ऽक्षरः स्वराट् ।
विश्वत्राता नृसिंहो ऽजो नारायण उरुक्रमः । (अनुव्याख्यानम्)४,१.११ ।
अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्मषान् ।
दत्तं दुर्वाससं सोममात्मेशब्रह्मसम्भवान् । (अनुव्याख्यानम्)४,१.१२ ।
इति भागवते चैव तस्मादात्मा जनार्दनः । (अनुव्याख्यानम्)४,१.१३अब् ।
न्यायसुधा-
आत्मानन्देति समस्तमेकं नाम ।
अनसूयेति भागवते चात्मशब्दस्य भगवत्येव प्रयोगो ऽस्ति ।
तथैवेति तत्र प्रकृतेन समुच्चयार्थः ।
जज्ञे जनयामास ।
अन्तर्णीत(णिजर्थो ऽत्र)ण्यर्थो वात्र जनिः ।
आत्मेशब्रह्मसम्भवान् विष्णुशिवब्रह्मसम्भवान् ।
सह भवन्तीति सम्भवाः ।
अत्र दत्तदूर्वाससौ विष्णुशिवावेव ।
सोमो ब्रह्मणा सहभूतः ।
तद्धर्मो ऽन्ययोरप्युपचारादुच्यते ।
छत्रिण इति यथा ।
१२,२५
अस्त्वात्मशब्दो विष्णुपरस्तथापि कः सूत्रार्थ इत्यत आत्मेतीति प्रतिज्ञांशं व्याख्याति(चष्टे) तस्मादिति ।
तस्मादुपास्यो विष्णुरिति ज्ञातव्यः सज्जनैः सदा । (अनुव्याख्यानम्)४,१.१३च्द् ।
न्यायसुधा-
यस्मादात्मशब्दो विष्णुपरस्तस्मात् ।
अयं प्रतिज्ञार्थः ।
आत्मा विष्णुः आत्मेति सज्जनैः सदा ज्ञातव्यः उपास्यो ध्येयश्च ।
हेत्वंशं व्याचष्टेतथैवेति ।
तथैवोपासते सन्तस्तथैवोपदिशन्ति च । (अनुव्याख्यानम्)४,१.१४अब् ।
न्यायसुधा-
अनेनात्म(त्मेति)शब्दस्याऽवृत्तिस्तुशब्दश्चावधारणार्थ इत्युक्तं भवति ।
सतामेवोपासनोपदेशौ भाष्योदाहृताभ्यां श्रुतिभ्यां सिद्धौ ।
उपगच्छन्तीत्येतज्ज्ञानार्थमुपासनार्थं च ।
तत्र ज्ञानार्थत्वं स्पष्टमित्येक एवार्थो व्याख्यातः ।
अत एव प्राक् ज्ञातव्य उपास्यश्चेत्युक्तम् ।
१२,२७
नन्वनेन विष्णुर्विष्णुरित्युपास्य इत्युक्तं भवति ।
ततश्च किमनेन कृतं स्यात् ।
न ह्यविष्णुत्वेनोपास्तिरत्र प्रसक्तेत्यत आहआदानेति ।
आदानार्थत्वतश्चायमात्मशब्दः पतिं वदेत् । (अनुव्याख्यानम्)४,१.१४च्द् ।
न्यायसुधा-
अयं सूत्रगत आत्मशब्दः पतिं च वदेत् ।
कथम् ।
आदानाथर्त्वत आदानकर्तृत्वार्थत्वात् ।
आङ्पूर्वात् दाञः आतो मनिन्निति मनिन् प्रत्ययः आकारलोपो दस्य तश्च निर्वचनत्वात् ।
तथा चोक्तं’यच्चाप्नोति यदादत्तः’ इत्यादि ।
पतिर्हि स्वीयतया भृत्यानादत्ते ।
१२,२८
ततः किमित्यतः सूत्रार्थं विवृणोतिस्वामीति ।
स्वामी मे विष्णुरित्येव नित्यदोपास्यमञ्जसा । (अनुव्याख्यानम्)४,१.१४एफ़् ।
न्यायसुधा-
अत्र सूत्रे द्वावात्मशब्दौ ।
एकोनुवादार्थो द्वितीयो विध्यथर्ः ।
आत्मात्मेत्युपास्य इति द्वावपि विष्णुविषयौ ।
तत्राद्यो ऽविवक्षितावयवार्थः सञ्ज्ञात्वेन वर्तते ।
द्वितीयो विवक्षितावयवार्थः स्वामिनं वदति ।
तथा चात्मा विष्णुरात्मेति स्वामीत्युपास्य इति सूत्रार्थो भवतीत्यर्थः ।
अञ्जसा परमादरेण ।
नन्वेतदानन्दादयः प्रधानस्येत्यनेनैव गतम् ।
सत्यम् ।
सर्वथोपास्यत्वस्य ज्ञापनाय पुनर्वचनम् ।
तदिदमुक्तं नित्यदैवाञ्जसेति ।
१२,२९
अस्य सर्वथोपास्यत्वे किं प्रमाणमित्यत आहस्वामीति ।
स्वामी विष्णुरिति ध्यानं विशेषणविशेष्यतः ।
कर्तव्यं सर्वथैवैतन्न कथञ्चन विस्मरेत् । (अनुव्याख्यानम्)४,१.१५ ।
इति सत्तत्त्ववचनं षाड्गुण्यवचनं परम् ।
मम स्वामी हरिर्नित्यं सर्वस्य पतिरेव च ।
इति ध्येयः सर्वदैव भगवान् विष्णुरव्ययः । (अनुव्याख्यानम्)४,१.१६ ।
न्यायसुधा-
विशेषणविशेष्यत इति स्वामित्वं विशेषणं विष्णुर्विशेष्य इति विशेषणविशेष्यभावेनैव ।
नतु तटस्थं स्वामित्वं निर्गुणस्य विष्णोरुपलक्षणमित्येवमित्यर्थः ।
कथञ्चन आधिव्याधिसत्वे ऽपि ।
परम् उपरितनम् ।
मम स्वामीत्यनेन प्रसक्तमल्पत्वं निवारयतिसर्वस्येति ।
। इति श्रीमन्न्यासुधायां आत्मोपगमाधिकरणम् ।
_