०१ आवृत्यधिकरणम्

१२,१
यदीयचरणाम्भोजच्छायामाश्रित्य निर्वृताः ।
नन्दन्ति सततं मुक्ताः संश्रये तं श्रियः पतिम् । १ ।
फलं निगद्यते ऽस्मिन्नध्याय इति भाष्यम् ।
फलनिरूपणस्येदानीं का सङ्गतिरित्यत आहसमन्वयेति ।
समन्वयाविरोधाभ्यां सिद्धे वस्तुनि साधने ।
विचारितेष्वशेषेषु साधनेषु विशेषतः । (अनुव्याख्यानम्)४,१.१ ।
नित्यशः कार्यमत्यन्तमवश्यं भावि साधनम् ।
चिन्त्यते प्रथमं तत्र … । (अनुव्याख्यानम्)४,१.२अच् ।
न्यायसुधा-
समन्वयाविरोधाभ्यां प्रथमद्वितीयाध्यायप्रतिपादिताभ्यां, परब्रह्मादिरूपे वस्तुनि सिद्धे सति, साधने साधनविषये तृतीयाध्याये, अशेषेषु
मोक्षसाधनेषु, विचारितेषु सत्सु, फलप्रतिपादनस्यावसरप्राप्तिः ।
जिज्ञासितेष्वर्थेष्वन्येषां विचारितत्वादस्यैवावशिष्टत्वात् ।
अतो मोक्षलक्षणं फलमात्राध्याये निगद्यते इति वाक्यशेषः ।
१२,१फ़्.
पादचतुष्ययप्रतिपाद्यं सङ्गतिं च लाघवायैकत्रैव वक्ष्यति ।
ततश्च फलविषये ऽस्मिन्नध्याये कर्मनाशाख्यं फलं प्रथमपादे निगद्यत इत्युक्तं भवति ।
तस्यापवादमाहविशेषत इति ।
तत्र(अत्र) चतुर्थस्य प्रथमपादे, प्रथमं कैश्चित्सूत्रैः साधनमेव चिन्त्यते ।
कथम् ।
विशेषतः परमादरेण, नित्यशो नैरन्तर्येण च कार्यमिति ।
कुतः ।
यतो मोक्षसिद्धावत्यन्तमवश्यम्भावि ।
१२,२
इदमुक्तं भवति ।
तृतीये अध्याये यानि साधनानि विचारितानि तेष्वेव केषाञ्चित्परमादरनैरन्तर्याभ्यामनुष्ठेयत्वमत्रादौ प्रतिपाद्यते ।
तथानुष्ठान एव मोक्षस्य भावादन्यथाभावात् ।
एतज्ज्ञापना(यैव)य तृतीये इदमनुक्तवात्रेदमुच्यते ।
तत्रानुक्तया हि ततो वैलक्षण्यं ज्ञायते ।
फललक्षणे चोक्त्या फलान्तरङ्गत्वम् ।
अध्यायादिव्यवस्था च प्रायिकत्वादुपपद्यत इति ।
१२,११
। ओं आवृत्तिरसकृदुपदेशात् ओं ।
अधिकरणोत्थानकारणं दर्शयतिश्रवणादीति ।
आवृत्तिर् असकृदुपदेशात् । ब्ब्स्_४,१.१ ।
… श्रवणादिसकृत्क्रिया । (अनुव्याख्यानम्)४,१.२द् ।
आवृत्तिर्वेति सन्देहे … । (अनुव्याख्यानम्)४,१.३अ ।
न्यायसुधा-
प्रथमं तत्रेति वर्तते ।
श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति दर्शनाथ श्रवणादिकं विधीयते ।
तस्य श्रवणादेर्ज्योतिष्योमादिवत्सकृत्क्रिया वा व्रीह्यावघातादिवदावृत्तिर्वेति सन्देहे सति ।
उपलक्षणमेतत् ।
सकृत्क्रियेति पूर्वपक्षे च सतीत्यपि ग्राह्यम् ।
इदमधिकरणमारभ्यत इति शेषः ।
पूर्वपक्षबीजं च न्यायविवरणे स्पष्टमवगन्तव्यम् ।
सूत्रं व्याख्यातिकर्तव्येति ।
… कर्तव्याऽवृत्तिरेव हि ।
उपदेशो ऽतत् त्वमसीत्यादिर्ह्यसकृदेव यत् । (अनुव्याख्यानम्)४,१.३ब्द् ।
१२,१२
न्यायसुधा-
श्रवणादीनामिति वर्तते ।
हिशब्दो तत्त्वमसीत्युपदेशस्य प्रसिद्धत्वं द्योतयति ।
यदि हि शिष्येणावृत्तिर्न कर्तव्या तदा गुरोरसकृदुपदेशो ऽनर्थकः स्यात् ।
तेन ज्ञायते कर्तव्या श्रवणावृत्तिरिति ।
१२,१३
अनेन श्रवणावृत्तेः कर्तव्यता सिद्धा ।
त्रयाणामप्यावृत्तिं साधयल्लिङ्गाच्चेति सूत्रं पठित्वा तदभिप्रेतानि लिङ्गान्यागमवाक्येनैव दर्शयतिलिङ्गादित्यादिना ।
लिङ्गाच् च । ब्ब्स्_४,१.२ ।
लिङ्गाल्लातव्यतः पूर्वमृजोबर्रह्मत्वतः शतात् ।
शुश्रावोग्रतपा नाम योग्यो रुद्रपदस्य यः । (अनुव्याख्यानम्)४,१.४ ।
सार्द्धं परार्द्धं विष्णोस्तु गुणान् भक्तया सदोद्यतः ।
तत्त्रिभागमुपासां च चक्रे सम्भृतमानसः । (अनुव्याख्यानम्)४,१.५ ।
न्यायसुधा-
लातव्य आदातव्यः शिष्यैरुपासितव्यः ।
तस्मात् ।
ब्रह्मत्वत इति षष्ठीबहुवचनान्तात्तसिः ।
ब्रह्मत्वानां शतात्पूर्वमिति ऋजोर्विशेषणम् ।
यस्यैतस्माद्ब्रह्मकल्पादारभ्य ब्रह्मकल्पानां शते गते ब्रह्मत्वं भविष्यति तस्मादिति यावत् ।
सार्धं परार्धमित्यत्यन्तसंयोगे द्वितीया ।
तत्त्रिभागं तस्य श्रवणकालस्य, तृतीयभागं कालम् ।
उपासां मनननिदिध्यासनरूपाम् ।
सम्भृतमानस इति उपासितव्य एवार्थे धृतचित्तः ।
१२,१४
दशमन्वन्तरं शक्रपदयोग्यो गरुत्मतः ।
पदयोग्यात् सुमनसः सुनन्दो नाम चाशृणोत् ।
उपासां चक्र उद्युक्तो मन्वन्तरचतुष्ययम् । (अनुव्याख्यानम्)४,१.६ ।
सूर्याचन्द्रमसोश्चैव पदयोग्यौ सुतेजसौ ।
सुरूपः शान्तरूपश्च मन्वन्तरचतुष्ययम् ।
अशृण्वतां सुमनसो मन्वन्तरमुपासताम् । (अनुव्याख्यानम्)४,१.७ ।
ततः प्रोक्तास्तु ते सर्वे भक्तयोग्रतपआदयः ।
अपश्यन् परमं विष्णुं तत्प्रसादेधिताः सदा ।
इत्युक्तं विष्णुना साक्षाद् ग्रन्थे सत्तत्वसञ्ज्ञिते । (अनुव्याख्यानम्)४,१.८ ।
न्यायसुधा-
दश मन्वन्तराणि यस्मिन्काले स तथोक्तः ।
गरुत्मतः पदयोग्यादित ।
गरुत्मतो यत्पदं तत्र योग्यादित्यर्थः ।
सुतेजसावेव सुप्रज्ञावेव न तु मन्दौ ।
अशृण्वतां अशृणुताम् ।
व्यत्ययो बहुलमिति द्विविकरणता ।
सुमनस एव ।
मन्वन्तरं मन्वन्तरावच्छिन्नं कालम् ।
उपासतामुपासाताम् ।
छान्दसो वणर्विकारः ।
नन्वत्र श्रवणादिकालबाहुल्यमेव प्रतीयते ।
न पुनरावृत्तिः ।
श्रुतस्यैव वाक्यस्य पुनः श्रवणमित्यादिरूपा हि सेति ।
मैवम् ।
एकेन वाक्येनावगतस्य तत्त्वस्य पुनः पुनस्तेनान्येन अवगतिः श्रवणावृत्तिः ।
एवमेकया युक्तयानुसंहितस्य भूयो भूयः तयान्यथा वानुसन्धानं मननावृत्तिरित्यभिप्रेतत्वात् ।
नन्वेवं चेत्सर्ववेदान्तप्रत्ययमित्यनेनैव गतमेतत् ।
सत्यम् ।
तस्यैवात्यन्तावश्यकत्वप्रदर्शनाय पुनरारम्भ इत्युक्तमेव ।
एवमुत्तरत्रापि द्रष्टव्यम् ।
। इति श्रीमन्न्यायसुधायां आवृत्त्यधिकरणम् ।


_