+3

श्रीन्यायसुधा - अनुव्याख्यानटीका श्रीजयतीर्थमुनिविरचिता adhyaya 3
adhyaya 3, pada 1
९,१
। अथ श्रीमन्न्यायसुधायां तृतीयाध्यायस्य प्रथमः पादः ।
कृपिताहिफणच्छायासमीकृत्यापरं सुखम् ।
सेवन्ते यत्पदं धीरास्तं भजेवल्लभं श्रियः ।
साधनविचारो ऽयमध्यायः ।
वैराग्यार्थे गत्यादिनिरूपणा प्रथमपाद इत्यध्यायपादप्रतिपाद्यं भाष्य एव स्फुटम् ।
सङ्गतिं तु लाघवायैकीकृत्योपरि वक्ष्याम इत्याशयवांस्तृतीया(ध्याय)द्यपादाधिकरणपूवर्पक्षसिद्धान्तयुक्तीः सङ्ग्रहेणाहस्वाभाविकेति ।
स्वाभाविकान्यथानामसहाभावान्यथोक्तयः ।
अविशेषो विशेषौ च सहभावो विमिश्रता । (अनुव्याख्यानम्)३,१.१ ।
विरुद्धोक्तिः सहस्थानं वैयर्थ्यं चान्यथागतिः ।
युक्तयः पूर्वपक्षस्य गुणाधिक्यार्थतोभवौ । (अनुव्याख्यानम्)३,१.२ ।
उपपत्तिर्द्विरूपत्वमाधिक्यमनुरूपता ।
योग्यता प्रबलत्वं च विभागः कारणाभवः ।
क्ळ्प्तिरन्यागतिश्चैव सिद्धान्तस्यैव साधकाः । (अनुव्याख्यानम्)३,१.३ ।
न्यायसुधा-
साधका इति वक्ष्यमाणं पूर्वपक्षस्येत्यत्रापि सम्बद्धयते ।
पूर्वपक्षस्य सिद्धान्तस्येति जातावेकवचनम् ।
साधका इति छान्दसो निर्देशः ।
यद्वा युक्तयः पूर्वपक्षस्येत्यत्र साधका इति न्यकृष्टते ।
पूर्वपक्षसम्बन्धिनो युक्तय इत्येवार्थः ।
सिद्धान्तस्यैव साधका इत्यत्र तु न्याया इति शेषः ।
९,१०
अत्र सूत्रम् योनेः शरीरमिति ।
तद्वयाख्यातं भाष्ये ।
स्वर्गादवाग्गतो जीवो वृष्टिद्वारा व्रीह्यादिबीजेषु सङ्क्रान्तो रेतस्मि(चम्पु)क्पुरुषं प्रविश्य सह रेतसा मात्र्योनिद्वारेण जठरं प्रविष्यः
कललबृद्बुदादिक्रमेणोत्पन्नं शरीरमाप्नोतीति प्रसिद्धम् ।
तत्किं तथ्यमुतातथ्यमिति सन्देहः ।
न तथ्यमिति पूर्वः पक्षः ।
कुतः ।
‘देहं गर्भस्थितं क्वापि प्रविशेत्स्वर्गतो गतः’ इत्यादिवचनात् ।
मान्धातृद्रोणद्रुपदकृपाकादीनामितिहासपुराणेषु विनैव बीजादिसम्बन्धेन जननदर्शनाच्च ।
अन्यथासिद्धे चार्थे न बहुकल्पना युक्ता ।
अतस्ते वैराग्यजनका(यैवार्)थमेवाध्यात्मविदां वादाः’ इति ।
तथ्यमिति सिद्धान्तः ।
कस्मात् ।
‘मेमेघो भूत्वा वर्षति ।
त(द्य) इह व्रीहियवा ओष(धिवनस्पतय)धयस्तिलामाषा इति जायन्ते ।
यो यो ह्यन्नमत्ति ।
यो वा रेतः सिञ्चति तद्रूपाद्भूय एव भवति ।
तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्यन्ते’ इत्यादिश्रुतेः ।
न चादृष्टे ऽर्थेन्यथासिद्धिरवकाशवती ।
नच वचनान्तरलिङ्गदशर्नविरोधः ।
क्वचिद् बीजादिसम्बन्धाभावस्यापि विद्यामानत्वेन तद्विषयत्वात् ।
यथोक्तम् ।
‘दिवः स्थास्नून् गच्छति’ ।
‘स्थावराणि दिवः प्राप्तः’ इति श्रुतिस्मृतिभ्यामिति ।
तदिदमयुक्तं व्याख्यानम् ।
उत्सूत्रत्वात् ।
यद्यप्यत्र योनिशब्दो बीजाद्युपलक्षणः शक्यो व्याख्यातुं तथापि तत्सम्बन्धनियम एव सूत्रे प्रतीयते ।
नतु क्वाचित्कस्तदभावो ऽपि ।
यदि च क्वचिद् बीजादिसम्बन्धाभावः स्यात्तदाऽकस्मिकत्वं स्यादित्यत आहबीजेति ।
योनेः शरीरम् । ब्ब्स्_३,१.२७ ।
बीजापूरुषयोनीनां सङ्गातिनियमोज्खितिम् ।
अथशब्देन भगवानाह … । (अनुव्याख्यानम्)३,१.४अच् ।
९,११
न्यायसुधा-
बीजशब्देन व्रीह्यादिकं रेतश्चोच्यते ।
सङ्गतिनियमोज्खितिं सम्बन्धातिनियमाभावम् ।
अयमर्थः ।
रेतःसिण्योगो ऽथेति पूर्वसूत्रादथशब्दो ऽत्राप्यनुवर्तते ।
स च प्रकृतादर्थादर्थान्तरे वर्तते ।
तथाच योनेः शरीरमापद्यते ।
क्वचित्तदभावेनापीत्यथशब्देन भगवान्सूत्रकारो बीजादिसम्ब(न्धे नि)न्धनियमाभावं सूत्रितवानित्यतो नोत्सूत्रत्वपर्यनुयोगो युक्त इति ।
यदुक्तमेवं सत्याकस्मिकत्वप्रसङ्ग इति तत्परिहरतिकारणतश्चेति ।
… कारणतश्च ताम् । (अनुव्याख्यानम्)३,१.४द् ।
न्यायसुधा-
तां च बीजादिसम्बन्धनियमोज्खितिं कारणात् आह ।
एतदुक्तं भवति ।
जन्मकारणादृष्टाकृष्टो जन्तुर्बीजादिसम्बन्धेन शरीरमापद्यत इत्युत्सर्गः ।
स च क्वचिज्ज्ञानतपोयोगाद्यतिशयलक्षणेन कारणविशेषणापोद्यते ।
यथा क्षुद्रजन्तुयातनाशरीरोत्पत्तावपवाद इति ।
तथा चोक्तम् ।
‘विशेषकारणादेव विशेषाज्जनिरिष्यते ।
सामान्यजननं चैव नृणां सामान्यहेतुतः’ इति ।
अतो युक्तमेतद्वयाख्यानमिति ।
। इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।
कृतायां टीकायां विषमपदवाक्यार्थविवृतौ तृतीये ऽध्याये ऽयं प्रथमचरणः पर्यवसितः ।



अध्यय ३, पद २
९,१६
‘भक्तिरस्मिन्पाद उच्यते ।
भक्त्यर्थं हि भगवन्महिमोक्तिः’ इति पादाप्रतिपाद्यं भाष्य एव स्फुटम् ।
सङ्गतिं तूत्तरत्र वक्ष्याम इत्याशयवानेतत्पादाधिकरणे पूर्वपक्षसिद्धान्तयुक्तीः सङ्ग्रहेणाहपश्चादिति ।
पश्चाददृष्टयविज्ञानकालदुःखपृथग्भवाः ।
स्थानभेदो विरुद्धत्वं न्यायसाम्यं स्वतोभवः । (अनुव्याख्यानम्)३,२.१ ।
गुणसाम्यमयोगश्च तर्कबाधो विलोमता ।
नानाभावः प्रलोभश्च पूर्वपक्षगाः । (अनुव्याख्यानम्)३,२.२ ।
अशक्यकर्तृताशक्तिः स्वतो ऽबोधस्तदेव च ।
अमानक्ळ्प्तिसन्मानव्यवस्थात्यल्पताभवाः । (अनुव्याख्यानम्)३,२.३ ।
विशेषदृष्टिवाक्ये च पुंशक्तिः सुनिदर्शनम् ।
अलौकिकत्वमाधिक्यं स्वातन्त्र्यं निर्णयप्रमाः । (अनुव्याख्यानम्)३,२.४ ।
न्यायसुधा-
पूर्वपक्षगाः पूर्वपक्षसम्बन्धिन्यः ।
निर्णयप्रमाः सिद्धान्तनिर्णयार्थानि प्रमाणानि ।
९,१७