३० ऐहिकाधिकरणमुक्तिफलाधिकरण

। अथ ऐहिकाधिकरणमुक्तिफलाधिकरणे ।
। ओं ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ओं ।
ओं एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ओं ।
अधिकरणद्वयस्य तात्पर्यं सङ्क्षेपेणाहएवमेवेति ।
ऐहिकम् अप्य् अप्रस्तुतप्रतिबन्धे तद्दर्शनात् । ब्ब्स्_३,४.५१ ।
एवं मुक्तिफलानियमस् तदवस्थावधृतेस् तदवस्थावधृतेः । ब्ब्स्_३,४.५२ ।
एवमेवाविरोधेन प्रारब्धस्यैव कर्मणः ।
ज्ञानं दृष्टफलं प्रोक्तं मुक्तिश्चेहैव लभ्यते । (अनुव्याख्यानम्)३,४.२५७ ।
न्यायसुधा-
प्रारब्धस्य कर्मणो ऽविरोधेनैव ज्ञानं दृष्टफलं प्रोक्तमिति प्रथमाधिकरणतात्पर्यम् ।
दृष्टं च तत्फलं चेति दृष्टफलम् श्रवणादिसम्पूर्त्यनन्तरमेव ज्ञानमुत्पद्यते ।
यदि प्रारब्धकमर्प्रतिबन्धकं नास्ति ।
तस्मिंस्तु सति तदवसान इति ।
एवमेव मुक्तिश्चैवेह लभ्यत इति द्वितीयस्य ।
यस्मिन्देहे ज्ञानमुत्पन्नं तत्पातानन्तरमेव मुक्तिर्लभ्यते प्रारब्धकर्मप्रतिब(न्धाभावे)न्धकाभावे तद्भावे तु तदवसान इति ।
। इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।
कृतायां टीकायां विषमपदवाक्यार्थविवृतौ तृतीयाध्याये ऽस्मिंश्चरमचरणः पर्यवसितः ।
। इति श्रीमन्न्यायसुधायां तृतीयाध्यायस्य चतुर्थः पादः ।
_