। अथ अनाविष्काराधिकरणम् ।
। ओं अनाविष्कुर्वन्नन्वयात् ओं ।
ज्ञानदानं किमाविष्कारेण कार्यमुतानाविष्कारेणेति संशये पूर्ववदत्रापि पूर्वपक्षमत्यन्तहेयत्वाभावात्प्रपञ्चेनांहज्ञानदा अपीति ।
अनाविष्कुर्वन्न् अन्वयात् । ब्ब्स्_३,४.५० ।
ज्ञानदा अपिचाचार्या विशेषात् फलमाप्नुयुः । (अनुव्याख्यानम्)३,४.२५२अब् ।
न्यायसुधा-
न केवलं शिष्याः किन्तु ज्ञानदा आचार्या अपि ज्ञानफलमाप्नुयुः ।
तच्च विशेषाच्छिष्यादप्यतिशयेन ।
आचार्या इत्येनेनैव सिद्धे ज्ञानदा इति वचनं ज्ञानदानेनेति ज्ञापनार्थम् ।
चशब्दः परमाचार्यादिसङ्ग्रहः ।
कुत एतदित्यत आह०मुक्ताविति ।
मुक्तावष्टगुणं शिष्याद् गुरुरापनोति शोभनम् । (अनुव्याख्यानम्)३,४.२५२च्द् ।
तद्गुरुर्द्विगुणं तस्मात् सार्धं तावत् ततो ऽपरे ।
देवाः सहस्रगुणितं क्रमात् तस्माद् यथोत्तरम् । (अनुव्याख्यानम्)३,४.२५३ ।
ब्रह्मा महौघगुणितमेवं फलविनिर्णयः ।
इत्याह भगवाञ्छास्त्रे गुरुवृत्ताभिधे स्वयम् । (अनुव्याख्यानम्)३,४.२५४अद् ।
न्यायसुधा-
शिष्यात् शिष्यस्य यच्छ्रवणफलं ततो ऽष्यगुणं गुरुर्ज्ञानदानेनाप्नोति ।
तद्गुरुर्गुरोर्गुरुस्माद्गुरुफलाद्द्विगुणठ फलमाप्नोति ।
सन्तानकारणत्वात् ।
ततः परमगुरोरपरे गुरवः स्वशिष्यफलापेक्षया सार्धं तावत् अध्यर्धं फलमापनुवन्ति ।
यथोत्तरं तस्मात्क्रमादित्यध्यर्धप्राप्तिक्रमाद्देवाज्ञानप्रवर्तकत्वात्सहस्रगुणितम् ।
यथोत्तरं तस्मात्क्रमादिति ब्रह्मा महौघगुणितमित्यनेनापि सम्बद्धयते ।
सहस्रमहौघशब्दावुपलक्षणार्थौ ।
परम्पराया अनियतत्वात् ।
आगमसिद्धे ऽत्रार्थे युक्तिरप्यस्तीत्याहयुक्तं च तदिति ।
युक्तं च तन् … । (अनुव्याख्यानम्)३,४.२५४च् ।
न्यायसुधा-
प्रतिग्रहीतुः शिष्यस्य ज्ञानफलादप्याचार्यस्य ज्ञानदानफलमधिकमित्येतद्युक्तिसिद्धं च ।
तां युक्तिं सूचयतिनेति ।
११,३६०
… न गोदाता गोमात्रफलमाप्नुयात् । (अनुव्याख्यानम्)३,४.२५४च्द् ।
न्यायसुधा-
प्रतिग्रहीतुर्हि गोमात्रफलम् ।
गोदाता न गोमात्रफलवान्भवति ।
किन्तु महाफलं स्वर्गादिकं च प्राप्नोति ।
यथैतत्तथा प्रकृते ऽपीत्यर्थः ।
अयमत्र प्रयोगः ।
ज्ञानदाता दत्तवस्तुफलादप्यधिकदानफलवान्पुरुषार्थहेतुवस्तुदातृत्वाद्गोदातृवदिति ।
ज्ञानफलादप्याचार्यस्य ज्ञानदानफलमधिकामित्यत्र भगवद्गीतासंवादमाहय इममिति ।
य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः । (अनुव्याख्यानम्)३,४.२५५ ।
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।
भविता न च मे तस्मादन्यः प्रियतरो भुवि ।
इत्याह भगवान् … । (अनुव्याख्यानम्)३,४.२५६अए ।
न्यायसुधा-
अध्येष्यत इत्युत्तरवाक्यमत्र पठनीयम् ।
यत एवं ज्ञानदानं तत्सम्प्रदायप्रवर्तनं च महाफलम् ।
अतो बहूनां ग्रहणायाविष्कारेण ज्ञानदानं कार्यमिति प्राप्ते सिद्धान्तमाहएवमपीति ।
… एवमपि … । (अनुव्याख्यानम्)३,४.२५६एफ़् ।
न्यायसुधा-
सत्यं ज्ञानदानमुक्तप्रकारेण महाफलम् ।
तथापि नाविष्कारेण कार्यं कुत इत्यत आहपात्रमिति ।
… पात्रमपेक्ष्यते । (अनुव्याख्यानम्)३,४.२५६फ़् ।
न्यायसुधा-
दानफलेनेति शेषः ।
पात्रे क्रियमाणं खलु दानं फलायालम् ।
नापात्रे ।
प्रत्युत प्रत्यवायस्यैव हेतुः ।
आविष्कारेण ज्ञानदाने चायोग्यानामपि तत्प्राप्तिर्भवति ।
सा च प्रतिषिद्धेति भावः ।
। इति अनाविष्काराधिकरणम् ।
__
११,३६५