। अथ फलश्रुत्यधिकरणम् ।
। ओं स्वामिनः फलश्रुतेरित्यात्रेयः ओं ।
ज्ञानं महाफलकारणमिति पुरुषार्थाधिकरणे प्रतिपादितम् ।
ज्ञानोत्तरमनुष्ठितं वर्णाश्रमकर्म शमदमादिकं चानन्दातिशयकारणमिति स्तुत्यधिकरणे ।
तदेतज्ज्ञानकर्मादिफलं किं प्रेरकत्वाद्देवानां भवति उत कर्तृत्वाद्देवदत्तस्येति संशये प्रथमसूत्रेण देवानामेवेति पूर्वपक्षयित्वा ।
‘आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते’ इत्येकदेशिमतेन सिद्धान्तमभिधाय’सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो
विध्यादिवत्’ इति परमसिद्धान्तो ऽभिहितः ।
तत्र देवानां ज्ञानादिफलमिति पूर्वपक्षांशो ग्राह्य एव ।
अवधारणमात्रमेव त्याज्यम् ।
अतः पूर्वपक्षसूत्रार्थं विवृणोतिज्ञानेति ।
स्वामिनः फलश्रुतेर् इत्य् आत्रेयः । ब्ब्स्_३,४.४४ ।
… ज्ञानकर्मादिफलं चैषु क्रमोपगम् । (अनुव्याख्यानम्)३,४.२३६अब् ।
न्यायसुधा-
फलं च देवानां भवतीति शेषः ।
भवच्चैषु देवेषु क्रमोपगं क्रमेणैवोपगच्छति ।
११,३४९
देवदत्तेनानुष्ठितस्य ज्ञानादेः फलं देवानां भवतीत्येका प्रतिज्ञा ।
भवच्च तत्क्रमेणैव न तु साम्येन वैपरीत्येन वेति द्वितीया ।
तत्राद्यायां हेतुं सूचयन्द्वितीयमुपपादयतिस्वातन्त्र्येति ।
स्वातन्त्र्यतारतम्येन फलं हि फलिनां भवेत् । (अनुव्याख्यानम्)३,४.२३६च्द् ।
न्यायसुधा-
फलिनां फलभाजां, स्वातन्त्र्यतारतम्येन स्वाम्यतारतम्यानुसारेणैव हि फलेन भाव्यम् ।
नतु साम्येन वैपरीत्येन वेत्यर्थः ।
ब्रह्मादयस्तारतम्येनैव फलवन्तस्तत्र तारतम्येनैव स्वातन्त्र्यादित्युक्तं भवत ।
अनेन प्रथमप्रतिज्ञायां स्वातन्त्र्यहेतुः सूचितो भवति यः सूत्रे स्वामिपदेनोक्तः ।
यद्यपि फलप्राप्तौ तारतम्यं न सूत्रितम् ।
तथापि फलप्राप्तावुक्तस्य स्वामित्वहेतोः सामर्थ्येन प्राप्तमिति तदप्युपपादितम् ।
यदि स्वातन्त्र्याद्देवदत्तानुष्ठितज्ञानादिफलं देवानां स्यात्तर्हि तदनुष्ठितमिथ्याज्ञानादिफलमपि प्रसज्येताविशेषादित्यत आहअशुभं त्विति ।
११,३५०
अशुभं त्वशुभे ऽप्येषां स्वातन्त्र्यात् प्रीतितो हरेः ।
आज्ञया चान्यगं नैव भोगाय भवति क्वचित् । (अनुव्याख्यानम्)३,४.२३७ ।
न्यायसुधा-
अन्यगमशुभं त्वेषां देवानां क्वचिदपि भोगाय न भवति ।
कुतः ।
हरेः प्रीतितो ऽशुभे ऽप्येषां स्वातन्त्र्याद्भगवत्प्रसादेन मैतदस्मान्प्रापदिति निवारणे तेषां सामर्थ्यसद्भावात् ।
मैतदेतान्प्रापदिति हरेरेवाज्ञया च ।
अन्यगमिति वदता स्वगतं तु भवतीति सूचितम् ।
अनेनासति निवारणकारण इति स्वामित्वहेतुर्विशेषितो भवति ।
यदुक्तमविशेषादिति तदसिद्धम् ।
व्यवस्थापकश्रुतिसद्भावादित्याहपुण्यमेवेति ।
पुण्यमेवामुमापानोति न देवान् पापमाप्नुयात् ।
इत्यादिश्रुतयो मानमुक्ते ऽर्थे … । (अनुव्याख्यानम्)३,४.२३८अद् ।
न्यायसुधा-
अनेन’पुण्यमेवामुं गच्छति न ह वै देवान्पापं गच्छति’ इति श्रुतिमुपादत्ते ।
अमुं सप्तान्नविद्योपासनेन प्रेरकतया परपुरप्रवेशिनं परकृतं पुण्यमेवाप्नोति न पापम् ।
कुतः ।
देवो ह्यसौ जातो ।
नहि देवान्प्राप्नोतीत्यर्थः ।
उक्ते ऽर्थे शुभमेव भवति नाशुभमित्यर्थे ।
११,३५१
व्यवस्थापकान्तरमाहयुक्तय इति ।
… युक्तयो ऽपराः । (अनुव्याख्यानम्)३,४.२३८द् ।
न्यायसुधा-
अपराः पूर्वोक्ताभ्याम् ।
उक्ते ऽर्थे मानमिति सम्बन्धः ।
कास्ता युक्तय इत्यतस्ता दर्शयितुमागमवाक्यं पठतिउपसनेति ।
उपासनाधर्मफलं यतो देहान्तरे स्थितिः ।
वासुदेवाज्ञया चैव पूर्वकर्मानुसारतः । (अनुव्याख्यानम्)३,४.२३९ ।
प्रेरयन्ति हि ते जीवान् पुण्यपापेषु नित्यशः ।
अरागद्वेषतश्चैव कथं दोषानवाप्नुयुः । (अनुव्याख्यानम्)३,४.२४० ।
हर्याज्ञाकरणादेव पुण्यमेभिरवाप्यते ।
हरिपूजेति चोद्देशात् कथं न शुभमाप्नुयुः । (अनुव्याख्यानम्)३,४.२४१ ।
न्यायसुधा-
यतः कारणाद्देहान्तरे स्थितिः, परपुरं प्रविश्य तत्र पुण्यपापप्रेरणं, देवानां भगवदुपासनाजनितधर्मफलम् ।
अतः कथं पापादिकं प्रेरयन्तो ऽपि दोषानवाप्नुयुः ।
नहि सात्त्विको धर्मो दुःखपर्यवसायी ।
तत्त्वव्याघातादित्यर्थः ।
परपुरे देवानां पापादिप्रेरणं न दुःखहेतुः ।
सात्त्विकधर्मफलत्वात्तत्त्वज्ञानवदित्युक्तं भवति ।
किञ्च ते देवा वासुदेवाज्ञयैव न तु स्वेच्छया तत्तत्कृतपूर्वकर्मानुसारत एव ।
अत एवारागद्वेषतो रागद्वेषौ विनैव नित्यशो जीवान्पुण्यपापेषु प्रेरयन्ति हि यस्मात्तस्मात्कथं दोषानवाप्नुयुः ।
प्रभोराज्ञयापराधानुसारेण चोरशासकराजपुरुषवदिति भावः ।
पापादिप्रेरणेन देवानामशुभं न भवतीत्येव केवलं न, किन्तु हर्याज्ञानुष्ठानाज्ज्योतिष्योमाद्यनुष्ठातृभिरिवैभिर्देवैः पुण्यमेवाप्यते ।
किञ्च स्वविहितपरप्रेरणे हरिपूजेयमिति चोद्देशात्कथं देवा न शुभमापनुयुः ।
अत इत्युपसंहारः ।
११,३५२
अतो यथाक्रमं धर्मज्ञानयोः फलमञ्जसा ।
सर्वप्राणिगतं देवाः प्राप्नुवन्त्या विरिञ्चतः । (अनुव्याख्यानम्)३,४.२४२ ।
न्यायसुधा-
धर्मज्ञानयोरेवेति योज्यम् ।
प्राप्नुवन्तो ऽप्याविरिञ्चतो यथाक्रमं प्राप्नुवन्तीत्यपूर्वोक्तिर्नोपसंहारः ।
अन्यगतं ज्ञानादिफलं देवाः प्राप्नुवन्ति ।
देवगतं तु कथमित्यपेक्षायामुक्तम्देवा इति ।
देवा एव हि देवानां विशिष्टा विनियामकाः । (अनुव्याख्यानम्)३,४.२४३अब् ।
न्यायसुधा-
देवानामपकृष्टानाम् ।
अतस्तदीयज्ञानादिफलं तेषां भवतीति शेषः ।
ब्रह्मा त्विति आविरिञ्चत इत्युक्तस्य विवरणम् ।
ब्रह्मा त्वखिलदेवानां नराणां च नियामकः ।
अतः सर्वगुणानेष प्रापनोत्यधिकमन्यतः । (अनुव्याख्यानम्)३,४.२४३च्फ़् ।
न्यायसुधा-
देवादिग्रहणमुपलक्षणम् ।
अधिकमिति क्रियाविशेषणम् ।
भवत्वन्यगतज्ञानादिफलप्राप्तिर्देवानाम् ।
तत्रापि तारतम्ये को हेतुरित्यत उक्तम्द्रव्येति ।
द्रव्यस्वातन्त्र्यविज्ञानप्रयत्नैरधिकं फलम् ।
देवानामन्यगं चापि तेषु यद् ब्रह्मणो ऽधिकम् । (अनुव्याख्यानम्)३,४.२४४ ।
बृहत्तन्त्रोदितं वाक्यं हरिणा फलनिर्णये । (अनुव्याख्यानम्)३,४.२४५अब् ।
न्यायसुधा-
द्रव्याणीन्द्रियादीनि तेषु स्वातन्त्र्यं द्रव्यस्वातन्त्र्यं विज्ञानप्रयत्नौ धर्माद्युत्पाननिमित्ते ।
अधिकैरिति शेषः ।
चशब्दो ऽनुक्तसमुच्चयार्थः ।
मध्यमैर्द्रव्यस्वातन्त्र्यादिभिर्मध्यमम् ।
अल्पैरल्पमिति ।
तेष्वपि देवेषु निरवधिकद्रव्यस्वातन्त्र्यमत्त्वादिति हिशब्दार्थः ।
फलनिर्णय इति तत्रापि प्रकरणविशेषोक्तिः ।
द्रव्यस्वातन्त्र्याद्यतिशयात्फलातिशय इत्युक्तस्य व्याप्तिं दर्शयतिलोके ऽपीति ।
लोके ऽप्येतादृशगुणैः फलाधिक्यं हि दृश्यते । (अनुव्याख्यानम्)३,४.२४५च्द् ।
न्यायसुधा-
एतादृशगुणैरित्यधिकैर्द्रव्यस्वातन्त्र्यादिभिः समुदितायां कृषौ, यस्याधिकं क्षेत्रादिद्रव्यस्वातन्त्र्यं, यस्य चाऽवापादौ ज्ञानप्रयत्नाधिक्यं तस्य
फलाधिक्यं दृश्यत इत्यर्थः ।
एवं मध्यल्पयोरप्युदाहतर्व्यम् ।
अनेन स्वातन्त्र्यतारतम्येनेत्युक्तमुपपादितं भवति ।
११,३५४
प्रसङ्गात्पापादिफलं प्रेरकाणामसुराणां तारतम्येन भवतीत्याहएवञ्चेति ।
एवञ्च कलिपूर्वाणामसुराणां महत् फलम् ।
अशुभेषु सदैव स्यान्मिथ्याज्ञानादिकेषु हि । (अनुव्याख्यानम्)३,४.२४६ ।
न्यायसुधा-
महाप्रेरकाणां महदित्यादीत्यर्थः ।
अशुभेष्वशुभनिमित्तम् ।
हिशब्देन स्वातन्त्र्यं हेतुमाह ।
एवमिति देवदृष्टान्तम् ।
असुराणां चेति सम्बन्धः ।
११,३५५
प्रागुक्ते ऽर्थे ऽत्र च प्रमाणान्तरमाहशुभेति ।
शुभाशुभफलं देवा असुराश्च समाप्नुयुः ।
क्रमेणैव यथाशक्ति यथा ये ये प्रयोजकाः । (अनुव्याख्यानम्)३,४.२४७ ।
प्रेरका अपि पापानां न देवाः पापमाप्नुयुः ।
इति प्रकाशिकायां हि प्रोवाच हरिरञ्जसा । (अनुव्याख्यानम्)३,४.२४८ ।
न्यायसुधा-
यथासङ्खयेन शुभाशुभफलम् ।
यथाशक्तीति क्रमेणैवेत्यत्र युक्तिः ।
तस्य विवरणं ये ये यथा प्रयोजकास्तथा तथेति ।
प्रेरका इत्यस्य पूर्ववच्छङ्कापरिहारश्च ।
११,३५६
। ओं आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते ओं ।
ओं सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ओं ।
एवं प्रपञ्चेन पूर्वपक्षमुक्त्वा सिद्धान्तसूत्रतात्पर्यमागमवाक्येनाहयद्यपीति ।
आर्त्विज्यम् इत्य् औडुलोमिः तस्मै हि परिक्रीयते । ब्ब्स्_३,४.४५ ।
सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् । ब्ब्स्_३,४.४७ ।
यद्यप्येवं सुराणां च दैत्यानां च महत् फलम् ।
शुभाशुभेभ्य एवञ्च कर्तुश्च स्याद् यथोदितम् । (अनुव्याख्यानम्)३,४.२४९ ।
न्यायसुधा-
एवमुक्तप्रकारेण यद्यपि शुभाशुभेभ्यो ज्ञानादिभ्यो भवत्फलं सुराणां च दैत्यानां च भवतीत्युपपादितम् ।
एवञ्च तथापि कर्तुर्देवदत्तादेरपि फलं स्यादेव ।
आगमे ऽप्यस्यार्थस्य प्रकृतत्वाद्यद्यपीत्यादि युज्यते ।
एतदुक्तं भवति ।
देवासुराणां शुभाशुभफलमित्येतावदभ्युपगम्यते प्रमितत्वात् ।
तेषामेवेति तु न क्षम्यते ।
किन्तु कर्तुरपि भवतीति ।
कर्तुः फलाङ्गीकारे यदु किञ्चेमाः प्रजा इति सावधारणश्रुतिविरोध आत्रेयवचनविरोधश्च स्यादित्यत उक्तम्महदिति ।
देवादीनां महत्फलं कर्तुस्त्वल्पम् ।
अल्पस्य चसत्त्वविवक्षा बहुलमुपलब्धेति भावः ।
कुतः कर्तुः फलाङ्गीकार इत्यत आहयथोदितमित ।
श्रुतिस्मृतिसद्भावादित्यर्थः ।
ताश्च भाष्यादावुदाहृता द्रष्टव्याः ।
११,३५७
युक्तमप्याहतस्मादिति ।
तस्मान्निरयमानुष्यस्वर्गमुक्त्युपभोगिनः ।
मानुषोत्तममारभ्य … । (अनुव्याख्यानम्)३,४.२५०अच् ।
न्यायसुधा-
कर्तुः शुभाशुभफलसद्भावादेव मानुषोत्तममारभ्य देवपर्यन्ता दैत्यपर्यन्ताश्च निरयाद्युपभोगिन इति युज्यते नान्यथेत्यर्थः ।
उक्तस्यापवादमाहदेवास्त्विति ।
… देवास्तु निरयं विना । (अनुव्याख्यानम्)३,४.२५०द् ।
असुरास्तु विना मुक्तिं तमो ऽन्धमपि चाप्नुयुः ।
इति तत्त्वविवेकोक्तं स्वयं भगवता वचः । (अनुव्याख्यानम्)३,४.२५१ ।
न्यायसुधा-
अन्यफलोपभोगिनः ।
न केवलमसुराणां मुक्त्यभावः किन्त्वन्धन्तमो ऽपि चाप्नुयुः ।
एतदुक्तं भवति ।
मनुष्योत्तमास्तावन्निरयमानुष्यस्वर्गमुक्तीः प्राप्नुवन्ति ।
देवाश्च मानुष्यस्वर्गमुक्तीः ।
असुराश्च स्वर्गमानुष्यनिरयान्धतमसानि ।
नच निरयादीनि निर्निमित्तानि ।
नच स्वकृतपापादीनि विना निमित्तमस्ति ।
तस्मात्कर्तुरप्यस्ति शुभाशुभफलप्राप्तिरिसित ज्ञायते ।
अन्यथा निरयाद्यभावप्रसङ्गात् ।
नच वाच्यं सुरासुराणां कर्तृत्वप्रयुक्तफलाभावे ऽपि प्रेरणनिमित्तफलसद्भावान्मुक्त्याद्युपपत्तिरिति ।
देवानां मानुष्यप्राप्तेरयोगात् ।
दैत्यानां स्वर्गादिपाप्तेरनुपपत्तेः ।
सर्वथा मनुष्याणां निरयादिप्राप्तेरसम्भवादिति ।
तदिदमुक्तं मानुषोत्तममारभ्येति, मनुष्योत्तमानामादित्वोक्त्या निरयाद्यनेकफलोक्त्या च ।
वचो ऽस्तीति शेषः ।
। इति फलश्रुत्यधिकरणम् ।
__
११,३५९