। अथ उभयलिङ्गाधिकारिकाधिकरणे ।
। ओं सर्वथापि तु त एवोभयलिङ्गात् ओं ।
ओं न चाधिकारिकमपि पतनानुमानात्तदयोगात् ओं ।
अत्र प्रथमाधिकरणे ऽनादिज्ञानयोग्यतावतामेवज्ञानप्राप्तिर्नान्येषामित्युक्तम् ।
द्वितीये च देवतादिपदप्राप्तिरनादितद्योग्यतोपेतानामेव नेतरेषामित्यभिहितम् ।
सेयं जीवानां नानाविधानादियोग्यता प्रसिद्धैस्तैस्तैः कारणैरुत्कर्षापर्कप्राप्तिर्भवतीति वदद्भिर्वादिभिर्नाभ्युपगम्यते ऽतस्तां
साधयितुमाहअनादीति ।
सर्वथापि त एवोभयलिङ्गात् । ब्ब्स्_३,४.३४ ।
न चाधिकारिकम् अपि पतनानुमानात् तदयोगात् । ब्ब्स्_३,४.४१ ।
अनादियोग्यतां चैव कलिवाणीश्वरावधिम् ।
को निवारयितुं शक्तो युक्तयागमबलोद्धताम् । (अनुव्याख्यानम्)३,४.१०३ ।
११,१५६
न्यायसुधा-
न केवलं मुक्तानां तारतम्यमिति चार्थः ।
अनेन मुक्ततारतम्यस्यापीदं साधकमित्युक्तं भवति ।
अनादेर्नित्यत्वात् ।
एवशब्दस्य क एवेति सम्बन्धः ।
कलिवाणीश्वरावधी यस्याः सा तथोक्ता ।
योग्यतापकर्षपरम्परायाः कलिरवधिस्तदुत्कर्षपरम्पराया वाणीश्वरः ।
उद्धतां अप्रतिहताम् ।
कथं युक्त्यागमसिद्धेत्यत आगमानां सावकाशत्वाभिमानेन युक्तावेव बहुमानवन्तं प्रत्यादौ तामाहब्रह्मण इति ।
ब्रह्मणो ऽन्यत्र आधिक्ययुक्तः कालो विवादवान् ।
कालो ह्ययं यथेत्यादि मानुमामानिनो भवेत् । (अनुव्याख्यानम्)३,४.१०४ ।
न्यायसुधा-
वर्तमानकाले ब्रह्मा सर्वाधिक इति सम्प्रतिपन्नम् ।
अतो विवादवान्विवादविषयः काल इत्युक्तम् ।
वर्तमानमहाकल्पव्यतिरिक्तो ऽतीतो ऽनागतश्च काल एतस्य ब्रह्मणो यदन्यत आधिक्यं तेन युक्तः ।
कालो हीति कालत्वादित्यर्थः ।
अयं वर्तमानः कालो यथा ।
आदिपदेनायं ब्रह्मातीतादिकाले ऽप्यन्यतो ऽधिको ब्रह्मत्वात्तत्कालवर्तिब्रह्मवदित्यादेः सङ्ग्रहः ।
अनुमामानिनो ऽनुमायां बहुमानवतो बोधाय प्रयोक्तव्या भवेत् ।
अनुमामानिनः प्रतीतिं वा ।
ब्रह्मगतेनाधिक्येन कालस्य सम्बन्धाभावात्कथमनुमानमिति चेन्न ।
परम्परासम्बन्धेनानुमानप्रामाण्यवादिभिरयं कालो वेदव्यतिरिक्तेदानीन्तनत्वरहितपौरुषेयवानित्याद्यनुमानाप्रवृत्तेः अङ्गीकृतत्वात् ।
तदिदमुक्तमनुमामानिन इति ।
ब्रह्मण पदाद्यभावकाले ऽपि सर्वोत्कर्षसिद्धौ योग्यतैव सर्वोत्कृष्टानादिनित्या सिद्धा भवति ।
११,१५९
स्यादेतत् ।
प्रमाणबाधितेयं प्रतिज्ञा ।
दृष्टान्तश्च साध्यविकलः ।
अन्यशब्दो ह्ययं प्रकरणाद्ब्रह्मव्यतिरिक्तं सर्वमाह ।
तत्र हरेर्महालक्ष्म्या ऋजुभ्यश्चाधिक्यं ब्रह्मणः कालत्रये ऽपि नास्ति ।
हरेःश्रियश्चाधिकत्वेन ऋजूनां समत्वेन प्रमितत्वादित्यत आहअन्यशब्द इति ।
अन्यशब्दो हरिश्रीस्वसमेभ्यो ऽन्यविवक्षया ।
प्रयुक्तो नैव दोषाय … । (अनुव्याख्यानम्)३,४.१०५ ।
न्यायसुधा-
स्वशब्देन ब्रह्मोच्यते ।
स चावर्तनीयः ।
स्वश्च स्वसमाश्चेति ।
यदा वक्ता स्वविवक्षां स्वयमेव व्याख्याति कात्र प्रकरणाद्यपेक्षा ।
तदभावे तस्योपयोगात् ।
कथायां तु व्यक्तमेव वक्तव्यम् ।
अन्यथा प्रतिज्ञान्तरादीनामप्येवं परिहारप्रसङ्गात् ।
नैव दोषाय बाधादिहेतुर्नैव भवति ।
११,१६१
उक्तन्यायमन्यत्राप्यतिदिशतिरुद्रादिषु चेति ।
… रुद्रादिषु च युक्तितः । (अनुव्याख्यानम्)३,४.१०५ ।
न्यायसुधा-
अनयैव रीत्या रुद्रादिष्वपि सानादियोग्यता युक्त्या साधनीयेत्यर्थः ।
विमतः कालो ऽस्य रुद्रस्येश्वरादिव्यतिरिक्ताद्यदाधिक्यं तेन युक्तः कालत्वादेतत्कालवदित्यादि ।
(ननु) मुक्तास्तावत्सर्वे ऽपि ब्रह्मणो ऽधिकास्तेषां मुक्तत्वादस्य संसारित्वात् ।
अतो ऽन्यशब्दव्याख्याने ते ऽपि कुतो न गृह्यन्त इत्यत आहउत्तमत्वं त्विति ।
उत्तमत्वं तु मुक्तानामपि न ब्रह्मणो भवेत् । (अनुव्याख्यानम्)३,४.१०६अब् ।
न्यायसुधा-
अतस्तदग्रहे न दोष इति शेषः ।
तत्कथमित्यत आहव्यक्तिरिति ।
व्यक्तिः सुखस्य तु भवेन्नत्वाधिक्यं सुखस्य च । (अनुव्याख्यानम्)३,४.१०६च्द् ।
न्यायसुधा-
आद्यस्तुशब्दो ऽवधारणाथर्ः ।
व्यक्तिरेवेति सम्बद्धयते ।
चशब्दो गुणान्तरसमुच्चयाथर् उभयत्रान्वेति ।
प्राग्विद्यमानस्यैव स्वरूपसुखादेर्मुक्तावविद्याद्यावरणापायेन व्यक्तिरनुभवलक्षणा भवेन्न तु किमप्यधिकमुत्पद्यते ।
तथा सत्यनित्यत्वप्रसङ्गात् ।
नच ब्रह्मणः स्वरूपादितरेषां स्वरूपमधिकम् ।
नच निर्णिक्तं कांस्यमनिर्णिक्तात्सुवर्णादधिकं भवति ।
एतेन मुक्तत्वहेतुरपि प्रत्युक्तः ।
११,१६२
न केवलं मुक्तानां ब्रह्मणो ऽधिकत्वं नास्ति किं तर्हीत्यत आहबलेति ।
बलज्ञानाधिकत्वं च तेभ्यो हि ब्रह्मणः सदा । (अनुव्याख्यानम्)३,४.१०७अब् ।
न्यायसुधा-
गुणान्तरोपलक्षणमेतत् ।
सदा संसारे मुक्तौ च ।
एतेन समशब्देनापि तत्परिग्रहो निरस्तः ।
११,१६३
नन्वेवमनुमाने विमतः कालो ऽस्य राज्ञः सम्प्रतिपन्नाधिक्येन युक्तः कालत्वात्सम्प्रतिपन्नकालवदित्यप्यनुमानप्रसङ्ग इत्यत आहआधिक्यस्येति ।
आधिक्यस्य त्वनित्यत्वे न किञ्चिन्मानमीयते । (अनुव्याख्यानम्)३,४.१०७च्द् ।
न्यायसुधा-
ब्रह्मण इति शेषः ।
अनित्यत्व इति सादित्वस्याप्युपलक्षणम् ।
तुशब्दो राजाद्याधिक्यस्य व्यावर्तकः ।
बाधकभावाभावाभ्यां विशेषान्नातिप्रसङ्ग इति भावः ।
११,१६४
एवं ब्रह्मादिजीवेष्वनादिनित्यं नानाविधां योग्यतां प्रसाध्येदानीमागमेनापि साधयन्नादौ तावत् श्रुतीः पठतिशृण्वे वीर इति ।
शृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः ।
एधमानद्विळुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान् । (अनुव्याख्यानम्)३,४.१०८ ।
न्यायसुधा-
वीरो ऽध्यवसितान्तगामी ।
इन्द्रः परमेश्वरः ।
उग्रमुग्रं सर्वान्दुष्यप्रकृतीन्दमयन्नित्यनरकं प्रापयन्नन्यमन्यं सर्वान्सत्स्वभावानतिनेनीयमानः संसारं भृशमतिक्रामयन् स्वयोग्यतातिरेकेणैधमानं
द्वेष्यीत्येधमानद्विट् ।
शृण्वे श्रूयते ।
कुत उभयस्य देवतासुरवर्गस्य राजा यतः ।
किञ्च मनुष्यान्विशः प्रजाश्चोष्कूयते नित्यं परिवर्तयति ।
परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिरेति ।
अनानुभूतीरवधून्वानः पूर्वीतिन्द्रः शरदस्तर्तरीति । (अनुव्याख्यानम्)३,४.१०९ ।
न्यायसुधा-
परा पूर्वेषाम् ।
अतीतमन्त्रे पूर्वेषां पूर्वनिर्दिष्यानामुग्राणां सख्या सख्यानि परावृणक्ति परित्यजति ।
अपरेभिरपरैः साधुभिः सह सख्यानि वितर्तुराणो ऽतिशयेन त्वरमाण एत्यानानुभूतीः सम्यगनुभवरहितानवधून्वानो ऽवमे संसारे वर्तयन्निन्द्रः
पूर्वीः शरदो ऽतीतान्संवत्सरांस्तीर्णो वर्तमानांश्च तर्तरीति ।
आगामिनश्च तरिष्यतीति ।
अत्र मन्त्रद्वये ऽसुराणामनादितो भगवद्भजनाभावो नित्यनरकावाप्तिश्च श्रूयते ।
देवानां सदा भगवद्भजनं मोक्षावाप्तिश्च ।
मनुष्याणां सर्वदा संसार इति ।
दिवेदिवे सदृशीरन्यमर्धं कृष्णा असेधदप सद्मनो जाः ।
अहन् दासा वृषभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च । (अनुव्याख्यानम्)३,४.११० ।
न्यायसुधा-
दिवे दिवे वर्षणाद्वृषभः परमेश्वरो दिवे दिवे सर्वदा सदृशीश्चेतनत्वमात्रेण कृष्णास्तमोमयीर्जाः प्रजाः कास्ता देवेभ्यो ऽन्यमर्धं
स्वीयात्सद्मनोपासेधत् ।
निवर्तयति ।
किञ्च दासौ दस्यू वस्नयन्ता जगच्छायदन्तौ वर्चिनं शम्बरं चोदव्रजे जलराशौ समुद्रतीरे ऽहन्हिंसितवानिति ।
अत्र दैत्यानां कदापि न मोक्ष इति प्रतीयते ।
११,१६४फ़्.
तं भूतिरिति देवा उपासाञ्चक्रिरे ते बभूवुस्तस्माद्धाप्येतर्हि सुप्तो भूभ्रूरित्येव प्रश्वसित्यभूतिरित्यसुरास्ते ह पराबभूवुः । (अनुव्याख्यानम्)३,४.१११ ।
तद् यथा पेशस्करी पेशसो मात्रामपादायान्यन्नवतरं कल्याणतरं रूपं तनुत एवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयितवान्यन्नवतरं
कल्याणतरं रूपं कुरुते पितृयं पितृयं वा गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वान्येषां वा भूतानाम् । (अनुव्याख्यानम्)३,४.११२ ।
११,१६५
न्यायसुधा-
तं भूतिरिति ।
तं परमेश्वरम् ।
भूतिरैश्वर्यरूपः ।
बभूवुर्मुक्ता इति शेषः ।
एतर्हीदानीं सुप्तः सुप्तस्थो वायुः ।
पराबभूवुर्नित्यनिरयं प्राप्ताः ।
अत्र देवासुराणां सम्यग्विपरीतोपासनाभ्यां मोक्षतमसोः प्राप्तिः श्रूयते ।
तेन देवत्वमसुरत्वं च सहजमिति ज्ञायते ।
तद्यथा तद्वक्ष्यमाणं निदर्शनं यथा ।
पेशस्कारी सुवर्णकारः पेशसः सुवर्णस्य मात्रामंशम् ।
अन्यदिव नवतरं प्रागननुभवात् ।
कल्याणतरं मलापकर्षात् ।
रूपं रुचकादिकम् ।
आत्मा परमात्मा ।
अन्येषां भूतानां मनुष्योत्तमानाम् ।
अत्र सुवर्णस्यैव यथा रुचिकादिभावः सुवर्णकारेण क्रियते न यस्य कस्यचिद्द्रव्यस्य तथा मुक्तियोग्यानामेवेश्वरेण मुक्तत्वं क्रियते नान्येषामिति
प्रतीयते ।
११,१७०
अधुनात्रैव स्मृतीः पठतिप्रयान्तीति ।
प्रयान्ति परमां सिद्धिमैहिकामुष्मिकीं द्रुतम् ।
या न प्राप्यासुरैः सर्वैरक्षया क्लेशवर्जिता ।
न तां गतिं प्रपद्यन्ते विना भागवतान् नरान् । (अनुव्याख्यानम्)३,४.११३ ।
न्यायसुधा-
पुरा सत्ये युग इति प्रकृतानां देवतास्वभावानां प्रयान्तीत्यनेन मोक्षादिफलप्राप्तिमुक्त्वा या न प्राप्येत्यसुराणां न तां गतिमिति मनुष्याणां च
कदाचित्तत्प्राप्तिर्नास्तीत्युच्यते ।
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् । (अनुव्याख्यानम्)३,४.११४ ।
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहनीं श्रिताः । (अनुव्याख्यानम्)३,४.११५ ।
११,१७१
न्यायसुधा-
अवजानन्तीत्यनेन भगवदवज्ञादिलक्षणराक्षसादिस्वभाववतां कदापि पुरुषार्थावाप्तिर्नास्तीवति कथ्यते ।
प्रकृतिः स्वभावः ।
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् । (अनुव्याख्यानम्)३,४.११६ ।
न्यायसुधा-
महात्मन इत्यत्र भगवद्भजनादिलक्षणदेवत्वं स्वभाव इति प्रतीयते ।
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् । (अनुव्याख्यानम्)३,४.११७ ।
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।
दया भूतेष्वलोलुत्वं मार्दवं ह्रीरचापलम् । (अनुव्याख्यानम्)३,४.११८ ।
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।
भवन्ति सम्पदं दैवीमभिजातस्य भारत । (अनुव्याख्यानम्)३,४.११९ ।
डम्भो दर्पो ऽतिमाश्च क्रोधः पारुष्यमेव च ।
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् । (अनुव्याख्यानम्)३,४.१२० ।
न्यायसुधा-
अभयमित्यनेनाभयादिलक्षणं देवत्वं दम्भादिलक्षणं चासुरत्वं स्वभाव एवेति ज्ञायते ।
मामात्मपरदेहेषु प्रद्विषन्तो ऽभ्यसूयकाः ।
तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु । (अनुव्याख्यानम्)३,४.१२१ ।
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् । (अनुव्याख्यानम्)३,४.१२२ ।
न्यायसुधा-
मामात्मेत्यनेनासुरस्वभावानामन्धतमसावाप्तिपर्यवसानमभिधीयते ।
द्विविधो भूतसर्गो ऽत्र दैव आसुर एव च ।
विष्णुभक्तिपरो दैवो विपरीतस्तथाऽसुरः । (अनुव्याख्यानम्)३,४.१२३ ।
११,१७२
न्यायसुधा-
देवानां परमो धर्मः सदा यज्ञादिकाः क्रियाः ।
स्वाध्यायस्तत्त्ववेदित्वं विष्णुपूजारतिः स्मृतिः । (अनुव्याख्यानम्)३,४.१२४ ।
दैत्यानां बाहुषाळित्वं मात्सर्यं युद्धसत्क्रिया ।
नीतिशास्त्रप्रवेदित्वं शिवपूजारतिः स्मृतिः । (अनुव्याख्यानम्)३,४.१२५ ।
वर्णाश्रमाचारवत्त्वं स्वाध्यायो भक्तिरच्युते ।
शिवे सूर्ये तथा देव्यां स्वभावो मानुषः स्मृतः । (अनुव्याख्यानम्)३,४.१२६ ।
अनादिवैष्णवा एव देवतास्तु स्वभावतः ।
विपरीतास्ततो दैत्याः सदैवानादिकालतः । (अनुव्याख्यानम्)३,४.१२७ ।
मानुषा मिश्रमतयो विमिश्रगतयो ऽपि च । (अनुव्याख्यानम्)३,४.१२८अब् ।
न्यायसुधा-
द्विविध इति स्पष्टं देवासुरत्वयोः स्वभावत्वमाख्यायते ।
सर्गशब्दस्य स्वभाववाचित्वात् ।
द्विविध एवेति सम्बन्धः ।
सर्गाणां सुबहुत्वे ऽपि’शुभाशुभफलाधिकौ ।
देवासुराख्यौ द्वावेव गन्धवद्यास्तदन्तरा इति वचनादवधारणोपपत्तिः ।
स्वभाव इत्येतद्देवानां दैत्यानामित्यत्रापि सम्बद्धयते ।
परमो धर्म इति यज्ञादिकानां क्रियाणां विशेषणम् ।
भगवदर्पणादिना परमधर्मरूपयज्ञादिकाः क्रिया इति ।
रतिः स्मृतिश्च विष्णोः शिवस्य चेति शेषः ।
बहुशालित्वमित्यस्थाने बाहुबलप्रयोगो ऽभिप्रेयते ।
युद्धसत्क्रिया युद्धकौशलम् ।
वर्णाश्रमेति तदनुष्ठानमात्रपर्यवसायित्वमाचष्टे ।
अच्युतादौ साम्येन भक्तिरित्यर्थः ।
अनादीति स्पष्टम् ।
अनादित्वादेव स्वभावतो ऽनादिकालत इत्येतन्मानुषा इत्यनेन सम्बद्धयते ।
मिश्रमतयः सम्यगसम्यग्ज्ञानाः ।
विमिश्रगतयः सुखदुःखात्मकसंसारफलाः ।
देवादीनामप्येवं फलं ज्ञातव्यम् ।
श्रुतिस्मृत्युदाहरणफलं दर्शयतिइत्यादीति ।
इत्यादिवाक्यसन्दर्भे ज्ञायते ऽनादियोग्यता । (अनुव्याख्यानम्)३,४.१२८च्द् ।
न्यायसुधा-
सन्दर्भैरित्यतिबहूनि वाक्यान्यत्रार्थे ऽन्यत्रोदाहृतानि द्रष्टव्यानीति सूचयति ।
११,१७६
उक्तानामनुमानानां व्याप्त्यवधारणाद्यर्थमागमानां चान्यार्थव्याख्याननिरासार्थमनुग्राहकं तर्कमाहयदीति ।
यद्यनादिर्विशेषो न साम्प्रतं कथमेव सः । (अनुव्याख्यानम्)३,४.१२९अब् ।
न्यायसुधा-
विशेषः स्वरूपगतो योग्यतालक्षणो ऽतिशयः ।
स विशेषः परिदृश्यमानो ऽतिशयः ।
एतदुक्तं भवति ।
यदि हिरण्यगर्भस्यानादिः सर्वोत्कृष्टो योग्यतालक्षणो विशेषो न स्यात्तदा साम्प्रतं दृश्यमानं सर्वोत्कृष्टत्वं न स्यात् ।
तस्यैतद्बीजत्वात् ।
कारणाभावे च कार्याभावस्य नियमत्वात् ।
अन्यथा सर्वेषामपि सर्वोत्कृष्टत्वापत्तेः ।
एवमन्यत्रापि वक्तव्यमिति ।
११,१७७
ननु ब्रह्मादीनां योग्यतालक्षणानादिविशेषाभावे ऽपि सादिनो विशिष्यादृष्टादेव सर्वोत्कृष्टत्वादिकं भविष्यति ।
तथाच स्मृतिः’स्वधर्मनिष्ठः शतजन्मभिः पुमान्विरिञ्चतामेति’ इत्यादिकेति चेत् ।
अत्र वक्तव्यम् ।
किं तद्विरिञ्चस्य सर्वोत्कर्षबीजं विशिष्यमदृष्टं ततः प्राक्तनतथाविधमदृष्टमनपेक्ष्यैव जायते ।
उतापेक्ष्येति ।
आद्यं दूषयतिअदृष्टादेव चेति ।
अदृष्टादेव चादृष्टं स्वीकृतं सवर्वादिभिः । (अनुव्याख्यानम्)३,४.१२९च्द् ।
न्यायसुधा-
तानि तानि द्रव्यादीनि खल्वदृष्टोत्पत्तौनिमित्तानि श्रुतिस्मृतिभ्यामुपलभ्यन्ते ।
तत्सम्पत्तिश्चादृष्टनिमित्तैव ।
तस्मान्न केवलं फलं किन्नामोत्तरोत्तरमदृष्टं च पूर्वपूर्वादृष्टाद्भवतीति चार्वाकव्यतिरिक्तसर्ववादिभिः स्वीकृतम् ।
अतः सर्वोत्कर्षहेतोर्विशिष्यादृष्टस्य तथाविधप्राक्तनादृष्टानपेक्षोत्पत्तिकत्वाभ्युपगमे ऽपसिद्धान्तः स्यात् ।
भवत्वन्येषां वादिनामित्थं सिद्धान्तो मम तु सर्वोत्कर्षादिफलोत्पत्तावेव विशिष्यादृष्टापेक्षा नतु तदुत्पत्तावपीति ।
यद्वा यद्विरिञ्चस्य सर्वोत्कर्षनिमित्तं विशिष्यमदृष्टं तस्य तथाविधादृष्टकार्यत्वे ऽपि तस्य नादृष्टकार्यत्वमिति ।
११,१७८
सर्वस्यापि प्रवाहस्य तथात्वे हि भवतामिष्यसिद्धिरिति वदन्तं प्रत्यतिप्रसङ्गमाहआकस्मिक इति ।
आकस्मिको विशेषश्चेददृष्टे क्वचिदिष्यते ।
सर्वत्राकस्मिकत्वं स्यान्नादृष्टापेक्षता भवेत् । (अनुव्याख्यानम्)३,४.१३०अद् ।
न्यायसुधा-
क्वचिद्विरिञ्चोत्कर्षहेतौ तद्धेतौ वादृष्टे विशेषो ऽतिशयो यद्याकस्मिको ऽदृष्टनिरपेक्ष एवेष्यते, यदि किमपि विशिष्यमदृष्टं
तथाविधादृष्टनिरपेक्षमेवोत्पद्यते इत्यङ्गीक्रियत इति यावत् ।
तर्हि सर्वत्र फलादावप्याकस्मिकत्वमङ्गीकार्यं स्यादविशेषात् ।
आपाद्यं विवृणोतिनेति ।
सर्वत्रेत्यनुवर्तते ।
यद्येवं न विव्रीयेत तर्हि परेणादृष्टस्य निष्कारणताया अनङ्गीकृतत्वादसङ्गतो ऽयं प्रसङ्गः स्यात् ।
एवमेवापदाकमपि व्याख्येयमिति भावः ।
११,१७८फ़्.
अस्तु विरिञ्चोत्कर्षस्याप्यदृष्टानपेक्षतेति चेन्न ।
प्राग्भवीयस्य दृष्टकारणकलापस्य नष्टत्वेन निष्कारणतापातात् ।
किञ्च विशिष्यो दृष्टकारणकलापो ऽपि तस्य कुत इति वाच्यम् ।
निर्निमित्तश्चेदतिप्रसङ्गः ।
स्वभावनिमित्तश्चेत्सिद्धं नः समीहितम् ।
एतेन दृष्टव्यापारपरितुष्यादीश्वराद्विरिञ्चस्य सर्वोत्कर्षसम्पत्तिरित्यपि निरस्तम् ।
अनादियोग्यतापरिहारादिति ।
११,१८१
अस्तु तर्हि द्वितीयः पक्ष इति तत्राहअदृष्टाच्चेदिति ।
अदृष्टाश्चेद् विशेषो ऽयमनादित्वं कुतो न तत् । (अनुव्याख्यानम्)३,४.१३०एफ़् ।
न्यायसुधा-
भवतीति शेषः ।
विशिष्यत इति विशेषो विशिष्यमदृष्टमित्यर्थः ।
अयमिति विरिञ्चस्य सर्वोत्कषर्हेतुः ।
अनादित्वं तथाविधादृष्टपरम्परायाः ।
अनादियोग्यतावत्त्वमिति च ।
तत्तर्हि ।
इदमुक्तं भवति ।
यथा विरिञ्चस्य सर्वोत्कर्षे कारणं विशिष्यमदृष्टं तथा(विधादृष्टपूर्वकं)विधपूर्वादृष्टहेतुकम् ।
तथा तदपि तदपीति स्वीकार्यम् ।
समानन्यायत्वात् ।
तथा चानादिविशिष्यादृष्टप्रवाहाश्रयत्वं तस्यैव कुत इत्यनुयोगस्य नान्यदुत्तरमनादेर्विशिष्यस्वभावात् ।
तत्तत्फलप्राप्त्युपाययोः प्रयत्नादृष्टयोरागन्तुकयोर्बीजभूतो ऽनागन्तुकस्वभावविशेष एवानादियोग्यतोच्यते ।
यथोक्तम् ।
११,१८२
‘स्वभावाख्या योग्यता या हठाख्या’ इत्यादि ।
अतः सिद्धा ब्रह्मादिकलिपर्यन्तेषु जीवेष्वनादियोग्यतेति ।
११,१८२फ़्.
भगवान्निर्देष इति यत्प्रागुक्तं तत्समर्थनार्थमुत्तरो ग्रन्थः ।
ननु’न स्थानतो ऽपि’ इत्यादिनैव समर्थितमेतत् ।
सत्यम् ।
युक्त्यादिना प्राप्तं सदोषत्वं तत्रापाकृतम् ।
अत्र तु प्रत्यक्षप्राप्तमिति भेदात् ।
एतदपि तत्रैव कुतो न दूषितमिति चेत् ।
विश्वादिषु प्रत्यक्षस्याप्रवृत्तेः ।
प्रासङ्गिकं तु निराकरणं तत्र वात्र वा न कश्चिद्विशेषः ।
प्रागुक्तार्थप्रपञ्चश्चात्रानुभाष्यकृता क्रियते ।
मुक्ततारतम्यादेः प्रपञ्चनादेः ।
अतो ऽत्रैव निर्देषताप्रपञ्चनं युक्तम् ।
किञ्चात्र ज्ञानस्वरूपनिरूपणं भविष्यति तत्प्रसङ्गश्च ज्ञानपादे समुचितः ।
अपि च न भगवत्साक्षात्कारमात्रेणाशेषपुरुषार्थप्राप्तिः किन्तु निर्देषाद्भगवद्दर्शनादित्युक्तम् ।
तच्चानेन निर्देषभगवद्दर्शनमुपदर्शितं भवति ।
तर्हि तत्रैवायं ग्रन्थसन्दर्भः कुतो न निवेशित इति चेत् ।
देवदानवमानवस्वभावप्रपञ्चनस्यात्रोपयुक्तत्वेन तदानन्तर्योपपत्तेः ।
तथाच वक्ष्यामः ।
११,१८४
इदमत्र शङ्कयते ।
रामकृष्णादयो भगवदवतारा भगवतात्यन्ताभिन्ना इति तावत्समर्थितम् ।
तेषां च परस्परं भेदस्तकालवर्तिनां पुरुषाणां प्रत्यक्षेण दृश्यते ।
नच ते देहवन्त इति चोक्तम् ।
ततो देहगत एव भेद इत्यनवकाशात् ।
ततश्च सर्वेषां स्वातन्त्र्यानुपपत्तेः ।
केषाञ्चित्पारतन्त्र्यम् ।
एवमन्ये ऽपि भेदानुषङ्गिणो दोषा द्रष्टव्याः ।
समानन्यायत्वात् ।
वेदाधिदोषाश्च प्रत्यक्षेणेक्ष्यन्त इति न भगवतो निर्देषत्वमिति ।
तत्र तावद्भेदस्य प्रत्यक्षसिद्धतां निराकर्तुमागमवाक्यं पठतिनचेति ।
नचान्यभेदवद् विष्णौ भेदस्तद्दर्शिनामपि ।
दृश्यते … । (अनुव्याख्यानम्)३,४.१३०अच् ।
११,१८५
न्यायसुधा-
चो ऽवधारणे ।
अन्यभेदवदिति व्यतिरेकदृष्टान्तः ।
अन्येषां घटादीनां यथानेकत्वातिरिक्तो ऽन्योन्याभावलक्षणो भेदो दृश्यते न तथेति ।
विष्णौ भेदो न दृश्यत इत्येवोक्ते ऽनेकत्वस्याप्यदर्शनं प्रतीयेत तदर्थमिदं वचनम् ।
यद्वा यथा विष्णावन्यप्रतियोगिको भेदो दृश्यते न तथा स्वप्रतियोगिक इति योजना ।
अन्यथा घटादिप्रतियोगिको ऽपि भेदो न दृश्यत इत्यपि प्रतीयेत ।
अथवान्यप्रतियागिकभेदवति विष्णावित्यैकपद्येन व्याख्येयम् ।
प्रयोजनं तूक्तमेव ।
विष्णौ रामकृष्णादिरूपे ।
अधुनातनैर्भेदो न दृश्यत इति परस्यापि सम्मतम् ।
अतस्तद्दर्शिनामपीत्युक्तम् ।
तृतीयार्थे षष्ठी ।
अवतारदर्शिभिरपीत्यर्थः ।
तद्दर्शिनां प्रत्यक्षेणापीति वा ।
स्वभावत एव जीवास्त्रिविधाः ।
देवदानवमानवभेदात् ।
तत्र दैवं प्रत्यक्षं तावदवताराणां परस्परं न भेदं गोचरयतीति भावः ।
११,१८६
न केवलमेतावत्किं तर्हीत्यत आहप्रत्यभिज्ञैवेति ।
… प्रत्यभिज्ञैव बहुरूपेषु दृश्यते । (अनुव्याख्यानम्)३,४.१३०च्द् ।
न्यायसुधा-
उत्तमानां पुरुषाणां भगवतो बहुरूपेषु तदेवेदमित्यभेदविषया प्रत्यभिज्ञैव पुराणादौ दृश्यते ।
यथा जाम्बवतः स राम एवायं कृष्ण इति प्रत्यभिज्ञा ।
तथाच कुतो भेदज्ञानस्यावकाश इति भावः ।
ननु बहुत्वं भेदेन विनाऽनुपपद्यमानं तमाक्षिपति ।
तथा च बहुरूपेषु प्रत्यभिज्ञा न सम्भवत्येव ।
सम्भवन्ती वा भ्रान्तिः स्यादित्यत आहबहुत्वं चेति ।
बहुत्वं च विशेषेण … । (अनुव्याख्यानम्)३,४.१३२अब् ।
न्यायसुधा-
भगवद्रूपाणामिति शेषः ।
अन्यथोपपत्तिकुण्ठितार्थापत्तिर्न भेदं प्रमापयतीत्यर्थः ।
अन्यथाप्युपपत्तिपक्षे भेदसन्देहः स्यात्सो ऽप्यनिष्य इत्यन्यथैवोपपत्तिं सूचयतिन भेदेनेति ।
… न भेदेन कथञ्चन । (अनुव्याख्यानम्)३,४.१३२ब् ।
न्यायसुधा-
उपपद्यत इत्युभयत्र शेषः ।
कुतः ।
भगवद्रूपाणां भेदे निरवकाशप्रमाणाभावात्तद्विरोधाच्च ।
तदिदमाहकथञ्चनेति ।
११,१८७
एवमुत्तमानां पुंसां भगवदेकरूपदर्शनसमये रूपान्तरप्रतीतावसत्यां ततो भेदज्ञानमसम्भावितम् ।
प्रतियोगिज्ञानाभावे भेदज्ञानाभावस्य नियतत्वात् ।
सत्यामपि तथा विरोधिन्याः प्रत्यभिज्ञाया भावादित्युक्तम् ।
तथापि मध्यमादिजनानां प्रत्यक्षं भगवद्रूपभेदे प्रमाणं भविष्यति ।
एकरूपदर्शनसमये रूपान्तरप्रतीत्यभावे भेददर्शनानुपपत्तावपि तद्भावे सम्भवत्येव ।
नच तेषामपि प्रत्यभिज्ञा भवद्भिरभ्युपेतुं शक्यते ।
उत्तमत्वप्रसङ्गादित्यतो मध्यमानपेक्ष्य तावदाहप्रत्यभिज्ञा चेति ।
प्रत्यभिज्ञा च येषां न ते ऽपि तन्मुष्यदृष्टयः । (अनुव्याख्यानम्)३,४.१३२च्द् ।
न्यायसुधा-
चस्त्वर्थः ।
येषां तु मध्यमानां जनानां प्रत्यभिज्ञा भगवद्रूपेषु नास्ति ते ऽपि तत्र भेदं नैव पश्यन्तीति योजना ।
प्रत्यभिज्ञाभावे कारणं तेन भगवता मुष्यापहता दृष्टिरेषामिति ।
तेन बहुत्वेनेति वा ।
भगवदिच्छाया तेषां योग्यतया चोपोद्बलितं बहुत्वमुपलभ्यमानं प्रतीयमाने(ऽपि) वस्तुनि विद्यमानस्याप्यभेदस्य ज्ञानं प्रतिबध्नाति ।
अत्र तन्मुष्यदृष्टयस्ते ऽपीत्यनुवादात्तन्मुष्यदृष्टित्वात्प्रत्यभिज्ञैषां नास्तीति लभ्यते ।
११,१८८
भगवद्रूपे भेदं नैव पश्यन्तीत्युक्ते घटादिभ्यो ऽपि भेदं न पश्यन्तीति मन्दस्य प्रतीतिः स्यात्तां निवारयितुमाहभेदमिति ।
भेदं नैव प्रपश्यन्ति भेदमन्येभ्य एव च ।
पश्यन्त्येवं हरिस्तेषां सन्दर्शयति नान्यथा । (अनुव्याख्यानम्)३,४.१३३ ।
न्यायसुधा-
अन्येभ्यो भेदं पश्यन्त्येव चेति योजना ।
ननु प्रतीयमानं वस्तुद्वयं भेदेन वा प्रतीयते ऽभेदेन वा ।
भेदाभेदोदासीनतया तु प्रतीतिः कथमित्यत आहएवमिति ।
एवं बृहत्संहितायां वचनं … । (अनुव्याख्यानम्)३,४.१३४अब् ।
११,१८८फ़्.
न्यायसुधा-
तेषां योग्यतेति शेषः ।
अन्यथा गतिबुद्धीत्यादिना कर्मसञ्ज्ञायां द्वितीया स्यात् ।
विभक्तिव्यत्ययो वा छान्दसः ।
अन्यथा भेदेनाभेदेन च दर्शयति ।
यथा खल्वख्यातवादिनां सहकारिसामर्थ्याद्भेदाभेदौदासीन्येन वस्तुप्रतीतिः ।
यथा वान्येषां शुक्तिकाशकलदर्शनानन्तरं व्यासक्तौ ।
तथा परमेश्वरशक्त्यात्रापि तथा प्रतीतौ को विरोधः ।
अधमजीवप्रत्यक्षस्य त्वन्या गतिर्भविष्यति ।
एवमीश्वररूपभेदे प्रत्यक्षं निराकुर्वतानुमानमपि निराकृतम् ।
बहुत्वस्यान्यथासिद्धेरुक्तत्वात् ।
तन्न्यायेन चाकारविशेषादीनामन्यथासिद्धत्वादिति ।
वचनम् अस्तीति शेषः ।
११,१९१
मा भूद्भगवद्रूपभेदः प्रत्यक्षानुमानसिद्धः ।
आगमसिद्धस्तु भविष्यति ।
पुराणेषु तत्र तत्रान्यादिशब्दश्रवणादिति चेन्न ।
नेह नानास्ति किञ्चनेत्यादिवेदवाक्यविरोधात् ।
पुराणमेव वेदस्य किन्न बाधकं भवतीत्यत आहनेति ।
… न पुराणगम् ।
लोकदर्शनवाद्येव वेदरोधाय शक्नुयात् । (अनुव्याख्यानम्)३,४.१३४ब्द् ।
न्यायसुधा-
वचनमिति वर्तते ।
पुराणवचनं खलु लोकानां यद्भगवद्रूपेषु भेददर्शनं तदनुवादपरमेव ।
न वस्तुनिष्ठम् ।
उपक्रमादिना तथावगमात् ।
वेदस्तु वस्तुतथात्वे तात्पर्यवान् ।
लिङ्गैः तथाध्यवसायात् ।
अतो न तत् तद्बाधनाय शक्नोति ।
नन्वेतद्वयाहतम् ।
यत्प्राग्भगवद्रूपभेदविषयं प्रत्यक्षं नास्तीत्युक्तम् ।
इदानीन्तु तदस्तीति ।
तस्यैवाभावे पुराणवचनस्य तदनुवादित्वानुपपत्तेः ।
मैवम् ।
बहुत्वाद्यनुमानाभासजनितभेददशर्नानुवादित्वोपपत्तेः ।
किञ्चोत्तममध्यमानां भेदविषयं प्रत्यक्षं नास्तीत्यभिहितम् ।
अधमानां तु तदस्तीत्यधुना अङ्गीक्रियते ।
तर्हि तदेव भगवद्रूपभेदे प्रमाणं भविष्यतीत्यपि न वाच्यम् ।
उत्तमानामभेदविषयेण प्रत्यक्षेण बाधितत्वात् ।
नच तदेव नास्ति ।
प्रत्यभिज्ञैव बहुरूपेषु दृश्यत इत्यागमोक्तत्वात् ।
तथाच भीष्मवाक्यम् ।
‘तमिममहमजं शरीरभाजां हृदि हृदि विष्ठितमात्मकल्पितानाम् ।
प्रतिदृशमिव नैकधार्कमेकं समधिगतो ऽस्मि विधूतभेदमोहः ।
’ इति ।
११,१९३
अथ भेददर्शनमेवाभेददर्शनस्य बाधकं कुतो न भवतीत्यत आहअपरीक्षितेति ।
अपरीक्षितदृष्टिश्च परीक्षापूर्वदर्शनम् ।
निषेद्धुं शक्नुवात्क्वापि … । (अनुव्याख्यानम्)३,४.१३५अच् ।
न्यायसुधा-
अपरीक्षिता परीक्षया प्रमाणत्वेनानिश्चिता ।
नेत्यस्यानुकर्षणार्थश्चशब्दः ।
परीक्षापूर्वः प्रामाण्यनिश्चयो यस्य दर्शनस्य तत्परीक्षापूर्वदर्शनम् ।
परीक्षापूर्वं दर्शनं प्रामाण्यनिश्चयो यस्य प्रत्यक्षस्येति वा ।
क्वापीत्यनेन नियममाह ।
तदनेन यत्परीक्षया न निश्चितप्रामाण्यं ज्ञानं न तन्निमित्तप्रामाण्यं ज्ञानान्तरं बाधत इति व्याप्तिरुक्ता ।
परीक्षाग्रहणं प्रामाण्यनिश्चयोपलक्षणमेव, नतु नियमार्थमित्युत्तरत्र स्फुटीभविष्यति ।
११,१९४
अत्र दृष्टान्तमाहदेवदत्तेति ।
… वेददत्तादिदृष्टिवत् । (अनुव्याख्यानम्)३,४.१३५च्द् ।
न्यायसुधा-
यथा यज्ञदत्तादावनिश्चिप्रामाण्या देवदत्तादिदृष्टिर्न निश्चितप्रामाण्यां यज्ञदत्तादिदृष्टिं बाधते तथेत्यर्थः ।
ततः किं यद्येवं व्याप्तिरिति चेत् ।
भेददर्शनमनिश्चितप्रामाण्यमभेददशर्नं तु निश्चितप्रामाण्यम् ।
अतो न तत्तस्य बाधकं किन्तु वैपरीत्यमेवेति वदामः ।
कुतो भेददर्शनमनिश्चितप्रामाण्यमित्यत आहन चेति ।
न च निश्चितभेदस्य दर्शने ऽस्ति पुराणगम् ।
वाक्यं क्वचिद्धि … । (अनुव्याख्यानम्)३,४.१३६अच् ।
न्यायसुधा-
चो ऽवधारणे ।
क्वचित्प्रदेशे ।
हिशब्दो हेतौ ।
परमेश्वररूपभेदविषयं प्रत्यक्षं तावदस्माकं पुराणवाक्यादेव सिद्धम् ।
पुराणवाक्यं च केचिद्भेदं पश्यन्तीति वा प्रतिपादयतु ।
अनुवादकतया लिङ्गत्वेन वा ।
अतस्तत्प्रामाण्यनिश्चयस्तत एवान्वेष्यव्यः ।
नच भेददर्शनस्य प्रामाण्यं निश्चाययत्पुराणवाक्यमस्ति ।
अतः प्रमाणाभावान्न भेददशर्नस्य प्रामाण्यनिश्चय इति भावः ।
११,१९५
प्रामाण्यनिश्चयो द्वाभ्यां प्रकाराभ्यां भवति ।
अर्थतथात्वनिश्चयेन वा ज्ञानपरीक्षया वा ।
आद्याभिप्रायेणोक्तं सत्यतया निश्चितभेदस्येति ।
द्वितीयाभिप्रायेण तु भेदस्य दर्शन इति समासः ।
षष्ठया आक्रोश इत्यलुक् ।
निश्चितं परीक्षितं च तद्भेदस्यदर्शनं चेति तथोक्तम् ।
तत्र स्वाभिप्रायेणाक्रोशः पराभिप्रायेण निश्चितत्वमित्यविरोधः ।
११,१९६
यदि पुराणवाक्या(देव)न्निश्चितप्रामाण्यं भेददर्शनं न प्रतीयेत तर्हि कीदृशं तत्प्रतीयत इत्यत आहसम्मुग्धमिति ।
… सम्मुग्धदर्शनं तत्र गम्यते । (अनुव्याख्यानम्)३,४.१३६च्द् ।
न्यायसुधा-
प्रमाणत्वाप्रमाणत्वाभ्यां सन्दिग्धम् ।
दशर्नं भेदस्य ।
तत्र पुराणवाक्ये ।
एतदुक्तं भवति ।
पुराणवाक्यं भेददर्शनमात्रं गमयति ।
न तु तस्य प्रामाण्यमप्रामाण्यं वा ।
ततः प्रागभेददर्शनावगमात्तत्र प्रामाण्याप्रामाण्यसन्देह एव युक्तः ।
अवगते त्वभेददर्शने तस्याप्रामाण्यमेव निश्चीयते ।
पुराणवाक्यादेव तत्प्रामाण्यस्य निश्चितत्वात् ।
समधिगतोस्मीति संशब्दश्रवणात् ।
हृदि हृदि नैकधा स्थितमपीत्यनुमानानामाभासत्वस्योक्तत्वात् ।
विधूतभेदमोह इति भेदज्ञानस्य मोहत्वाभिधानाच्चेति ।
एवं भगवद्रूपेषु भेदाभावः सिद्धः ।
तथा वेधादिदोषाभावश्च ।
प्रमाणाभावात् ।
११,१९७
नन्वस्ति तद्दर्शिता प्रत्यक्षमत्र प्रमाणम् ।
मैवम् ।
महतां प्रत्यक्षेण वेधाद्यभावग्राहिणा बाधितत्वात् ।
इदमेव तस्य बाधकं किन्न स्यादित्यत आहअपरीक्षितमेवेति ।
अपरीक्षितमेवात्र वेधादिकमधीशितुः ।
परीक्षादर्शने नैव दृश्यते केनचित् क्वचित् । (अनुव्याख्यानम्)३,४.१३७ ।
न्यायसुधा-
अत्र वेधादि(दोष)तदभावयोर्मध्ये ।
अधीशितुरत्रावतारेष्विति वा ।
दृश्यत इति सम्बन्धः ।
यद्वा वेधादिकमिति तद्दर्शनमुपलक्ष्यते ।
परीक्षया युक्तं दर्शनं परीक्षादर्शनम् ।
यद्वा परीक्ष्यत इति परीक्षा ।
गुरोश्च हल इत्यकारप्रत्ययः ।
परीक्षा च तद्दशर्नं च तस्मिन् ।
दृश्यते वेधादिकं क्वचित् ।
दोषदर्शनमपरीक्षितं निर्देषत्वदर्शनं तु परीक्षितमिति भावः ।
११,१९८
ननु दोषाभावविषयं महतां प्रत्यक्षं तावत्कुतः सिद्धमित्यत आहनिर्देषमेवेति ।
निर्दोषमेव तं ब्रह्मा ददर्शाशेषरूपिणम् ।
निर्दोषमेव रुद्रो ऽद्राङ् निर्दोषं तं पुरन्दरः । (अनुव्याख्यानम्)३,४.१३८ ।
निर्दोषाण्यस्य रूपाणि दृष्टान्येवं सुरोत्तमैः ।
अन्ये सदोषाः सर्वे ऽपि निर्दोषो हरिरेकलः ।
इति बर्कुश्रुतेश्चैव सदोषं नास्य दर्शनम् । (अनुव्याख्यानम्)३,४.१३९ ।
न्यायसुधा-
अद्राक् अद्राक्षीत् ।
अनित्यमागमशासनमिति वचनात् ।
पुरन्दरो ऽद्राक्षीत् ।
अन्यैरपि सुरोत्तमैः ।
सदोषा दृष्टाः ।
तस्मान्निर्देषो हरिरेक एव ।
चशब्दः श्रुत्यन्तरसमुच्चयार्थः ।
अस्य परमेश्वरस्य विषये महतां दर्शनं सदोषं दोषग्राहि नैव, किन्तु निर्देषमेव गृह्णातीति ।
११,२००
दोषदशर्नमपरीक्षितं तदभावदर्शनं तु परीक्षितमेतत्कुत इत्यत आहअविद्ध इति ।
अविद्धो विद्धवद् विष्णुरजातो जातवन्मृषा ।
अबद्धो बद्धवच्चैव दर्शयत्यमितद्युतिः ।
इति पैङ्गिश्रुतिश्चैव प्राह निर्दोषतां हरेः । (अनुव्याख्यानम्)३,४.१४० ।
११,२०१
न्यायसुधा-
अविद्धमिव विद्धवत् ।
छान्दसो द्वितीयान्ताद्वतिः ।
एवशब्दस्याविद्ध इत्यादिना सम्बन्धः ।
दर्शयत्यात्मानम् ।
पूर्वश्रुत्याप्ययमर्थो ऽर्थात्सिद्धयतीति पैङ्गिश्रुतिश्चेत्युक्तम् ।
निर्देषतामिति फलोक्त्या विवक्षितमर्थमुपलक्षयति ।
अत्रैव स्पष्टां श्रुतिमुदाहरतिअपरीक्षितेति ।
अपरीक्षितदृष्टयैव सदोषो दृश्यते हरिः ।
परीक्षादर्शने नैव दृश्यो दोषो हरेः क्वचित् ।
इति पैङ्गिश्रुतिश्चाह … । (अनुव्याख्यानम्)३,४.१४१अए ।
न्यायसुधा-
आह दोषदर्शनस्यापरीक्षितत्वं निर्देषतादर्शनस्य परीक्षितत्वं च ।
ततः किमित्यत आहप्रमाणं हीति ।
… प्रमाणं हि परीक्षितम् । (अनुव्याख्यानम्)३,४.१४१द् ।
न्यायसुधा-
यत्परीक्षितं परीक्षया प्रमाणत्वेनावधृतं तदेव प्रमाणम् ।
अपरीक्षितं त्वापाततः सन्दिग्धम् ।
निश्चितविरोध्युपनिपाते त्वप्रमाणमेव ।
अतः परीक्षितेन निर्देषतादर्शनेनापरीक्षितं दोषदर्शनमेव बाध्यते ।
नतु विपर्ययः ।
प्रामाण्यनिश्चये परीक्षोपयोगः प्रमाणसिद्ध इति हिशब्दः ।
तथाच वक्ष्यते ।
११,२०५
अत्र केचिदाहुः ।
स्वत एव ज्ञानानां प्रामाण्यं (गृह्यते) नतु परीक्षाधीनम् ।
सकलमपि ज्ञानं स्वप्रकाशं यथार्थं च ।
अतः स्वेनैव स्वयं स्वप्रामाण्यं च सिद्धयति का तत्र परीक्षापेक्षेति ।
अन्ये तु ब्रुवते ।
ज्ञानं तत्प्रामाण्यं चानुमानेनैव गृह्यत इति ।
अपरे तु वदन्ति ।
ज्ञानं तत्प्रामाण्यं च साक्षिणैव ज्ञायत इति ।
यदि च स्वतःप्रामाण्यग्रहो न स्यात्तर्हि न स्यादेव ।
तस्य परीक्षाधीनत्वे ऽनवस्थाप्रसङ्गात् ।
अनुमानविशेषः खलु परीक्षा नाम ।
तत्प्रामाण्यावधारणं च परीक्षान्तरेणेति कथं नानवस्था स्यादिति ।
तत्र पामाण्यग्रहस्य परीक्षाधीनत्वे ऽनवस्थाप्रसङ्गं तावत्परिहरतिनेति ।
न परीक्षानवस्था स्यात् … । (अनुव्याख्यानम्)३,४.१४२अ ।
न्यायसुधा-
प्रामाण्यग्रहणस्य परीक्षाधीनत्वाङ्गीकारे ऽपीति शेषः ।
तत्र हेतुमाहसाक्षीति ।
… साक्षिसिद्धे त्वसंशयात् । (अनुव्याख्यानम्)३,४.१४२अ ।
न्यायसुधा-
द्विविधं खलु ज्ञानमन्तःकरणपरिणामरूपं साक्षिरूपं चेति ।
तत्राद्याद्विशेष्युं तुशब्दः ।
एतदुक्तं भवति ।
स्यादियमनवस्था यदि सवर्त्र परीक्षापेक्षा स्यात् ।
न चैवम् ।
सन्दिग्धे खल्वर्थे परीक्षापेक्ष्यते न त्वसन्दिग्धे ।
संशयश्च मनोवृत्तिविषये पानीयादौ भवति न पुनः साक्षिसिद्धे सुखादौ ।
अतस्तावदेव परीक्षा यावत्साक्षिगृहीतेषु सुखादिष्ववतार इति कुतो ऽनवस्थेति ।
प्रपञ्चितश्चायमर्थो ऽस्माभिः प्रकृत्यधिकरणे ।
११,२०७
मनोवृत्तिविषय एव संशयो न साक्षिसिद्ध इत्यत्र किं कारणमित्यत आहमानस इति ।
मानसे दर्शने दोषाः स्युर्नवै साक्षिदर्शने । (अनुव्याख्यानम्)३,४.१४२च्द् ।
११,२०७फ़्.
न्यायसुधा-
मनःपरिणतिरूपे दोषाः कारणतया सम्भाविताः स्युः ।
वैशब्दस्तुशब्दार्थे ।
अयमर्थः ।
द्विविधो हि संशयो भवति ।
एकस्तावदादित एव ।
यथा स्थाणुर्वाऽयं पुरुषो वेति ।
अपरस्तु निश्चयपृष्ठभावी ।
यथा स्थाणुतया(वदयं) प्रतीयते स्थाणुर्भवति न वेति ।
तत्राद्यो विशेषादर्शनादिदोषमूलः ।
द्वितीयो ऽपि प्रथमज्ञानस्य दोषजन्यत्वशङ्कामूलः ।
दोषाश्च मानस एव दर्शने सम्भवन्ति ।
अतस्तत्संशयात्मकं वा जायते निश्चयतया जातस्य विषये वा आहायर्ः संशयो भवति ।
नतु साक्षि(सिद्धे)दर्शने दोषसम्भवः ।
अतो न तत्संशयात्मकं नापि (साक्षिसिद्धे)तत्सिद्धे ऽर्थे संशय इति ।
११,२०८
मानसे दर्शने दोषाः सम्भवन्तीति स्फुटम् ।
साक्षिदर्शने न सम्भवन्तीत्येतत्कुत इत्यत आहसुदृढ इति ।
सुदृढो निर्णयो यत्र ज्ञेयं तत् साक्षिदर्शनम् । (अनुव्याख्यानम्)३,४.१४२एफ़् ।
न्यायसुधा-
सुदृढः कदापि बाधरहितः ।
निर्णयो ऽवधारणात्मकः प्रत्ययः ।
यत्रेति निपातो य इत्यर्थे ।
इदमुक्तं भवति ।
दोषास्तावज्ज्ञानस्य डोलायमानतादर्शनेन बलवद्बाधकोपनिपातेन वा कल्प्याः ।
यथोक्तम् ।
‘बलवत्प्रमाणतश्चऽ(श्चैव ज्ञेया दोषा न चान्यताऽ) इति ।
साक्षिदर्शनं च निर्णयात्मकमेव भवति न च बाध्यत इत्युपपादितं पृथगधिकरणे ।
अतः प्रमाणाभावान्न तत्र दोषः सम्भवति ।
११,२०९
साक्षिसिद्धे ऽर्थे संशयो नास्तीत्युक्तं तदनुभवारूढं कर्तुं साक्षिसिद्धमर्थं तावदाहइच्छेति ।
इच्छा ज्ञानं सुखं दुःखभयाभयकृपादयः ।
साक्षिसिद्धा … । (अनुव्याख्यानम्)३,४.१४३अच् ।
न्यायसुधा-
आदिपदेन प्रयत्नद्वेषावेतदभावाश्च गृह्यन्ते ।
ततः किमित्यत आहनेति ।
… न कश्चिद्धि तत्र संशयवान् क्वचित् । (अनुव्याख्यानम्)३,४.१४३च्द् ।
न्यायसुधा-
तत्र क्वचिदिति सम्बन्धः ।
न जातु मम सुखमस्ति न वेति संशयो नापि प्रतीयमानमिदं सुखं सदसद्वेति संशय इति हिशब्देनाह ।
साक्षिदर्शनमबाधितमेवेति न युज्यते शुक्तिरजतादौ बाधदर्शनात् ।
नहि प्रतीतिसमयमात्रवर्तिनि तत्रान्यज्ञानं सम्भवतीत्यत आहयदीति ।
११,२१०
यत् क्वचिद् व्यभिचारी स्याद् दर्शनं मानसं हि तत् । (अनुव्याख्यानम्)३,४.१४३एफ़् ।
न्यायसुधा-
यद्दर्शनं क्वचिच्छुक्तिरजतादौ विषये व्यभिचारि बाधितं स्यात्तच्चक्षुरादिकरणकं मनःपरिणतिरूपमेव न साक्षिरूपम् ।
कुत एतत् ।
मानसदर्शनस्य बाध्यत्वाङ्गीकारे ऽनिष्याभावात् ।
साक्षिणस्तु तथात्वे सर्वव्यवहारविलोपप्रसङ्गस्योक्तत्वात् ।
तदिदमुक्तं हिशब्देन ।
सम्भवति चास्य मानसत्वमन्यथाख्यातिसमर्थनादिति ।
११,२११
मानसस्य दर्शनस्य दोषबाधसम्भवो ऽभिहितः ।
कीदृशस्य तर्हि प्रामाण्यमित्यत आहमन इति ।
मनश्चक्षुर्दर्शनादेरपि यत्रैव साक्षिणा ।
प्रामाण्यं सुगृहीतं स्यात् तत् परीक्षितदर्शनम् । (अनुव्याख्यानम्)३,४.१४४ ।
न्यायसुधा-
मनश्चक्षुश्शब्दौ श्रोत्रादेरुपलक्षकौ ।
दर्शनं साक्षात्कारः ।
आदिपदेन लैङ्गिकशब्दज्ञानसङ्ग्रहः ।
इन्द्रियलिङ्गशब्दकरणकस्य मनोवृत्तेर्ज्ञानस्येत्यथर्ः ।
निर्धारणे षष्ठी ।
सम्भावितदोषबाधस्यापीत्यपेरर्थः ।
यत्र ज्ञाने सुगृहीतं परीक्षया निश्चितं तत्परीक्षितदर्शनं प्रमाणमिति शेषः ।
प्रत्यक्षागमज्ञानप्रामाण्यग्रहण एव परीक्षोपयोगः, धर्मिज्ञानानुमानोपमानानुव्यवसायानां तु प्रामाण्यग्रहणं न परीक्षापेक्षमिति केचिन्मन्यन्ते ।
तन्निरासाय सर्वमानससङ्ग्रहार्थं मनश्चक्षुर्दर्शनादेर्मध्य इत्युक्तम् ।
अन्यथा यत्र ज्ञान इत्यादिकमेवावक्ष्यत् ।
तदेवे प्रमाणमित्येतावता पूर्णे परीक्षितदर्शनमित्यनुवादेन सुगृहीतमित्येतद्विवृणोति ।
११,२१२
एवं मानसप्रत्यक्षादिज्ञानप्रामाण्यग्रहस्य परीक्षाधीनत्वे ऽपि साक्षिप्रामाण्यग्रहस्य तदनपेक्षत्वान्न परीक्षानवस्थेत्युक्तम् ।
तत्र किमनया द्विविधकल्पनया ।
साक्षिवत्प्रत्यक्षादिज्ञानस्यापि प्रामाण्यग्रहः परीक्षानपेक्ष एवोक्तविधया स्वतः किन्न स्यादित्याशङ्कां परिहरतिनेति ।
न ज्ञानदृष्टिमात्रेण प्रामाण्यं तस्य दृश्यते । (अनुव्याख्यानम्)३,४.१४५अब् ।
न्यायसुधा-
ज्ञानस्य दृष्टिर्ज्ञानदृष्टिः ।
तस्य ज्ञानस्य ।
११,२१३
एतदुक्तं भवति ।
वृत्तिज्ञानानां स्वप्रकाशत्वमेव तावदसत् ।
प्रमाणाभावात् ।
ज्ञानव्यवहारस्य साक्षिवेद्यत्वेनैवोपपत्तेः ।
इदमहं जानामीत्यनुभवस्य साक्षिरूपत्वात् ।
विमतं ज्ञानं न स्वप्रकाशमनात्मत्वात्कार्यत्वादनित्यत्वान्मनोरूपत्वात्सुखादिवदित्यादिप्रमाणविरोधाच्च ।
भवतु वा ज्ञानं स्वप्रकाशं तथापि स्वरूपमात्र एव न तु स्वधर्मे प्रामाण्ये ऽपि ।
तथा हि ।
वेदवाक्यश्रवणे सति बाह्यस्य वाक्यार्थज्ञानमुत्पद्यते न वा ।
न द्वितीयः ।
सत्यां सामग्षां कार्यानुदयानुपपत्तेः ।
अन्यथा मीमांसकस्यापि तदनुदयप्रसङ्गात् ।
आद्ये ऽपि तत्प्रकाशते न वा ।
नेति पक्षे ऽपसिद्धान्तः ।
प्रथमे तत्प्रामाण्यं प्रकाशते न वा ।
नाद्यः ।
तन्निरा(सस्यानु)सानुपपत्तेः ।
ततो ज्ञानदृष्टिमात्रेण न ज्ञानप्रामाण्यं दृश्यत इति द्वितीय एवाङ्गीकार्यः ।
तथाच स्वप्रकाशज्ञानेनैव प्रामाण्यग्रह इति कथं स्यात् ।
अपौरुषेयत्वादियुक्तिभिः प्रबोधितो बाह्यः प्रतिपद्यते च तत्प्रामाण्यमिति कथं न परीक्षापेक्षत्वम् ।
अन्यथा वैदिकज्ञानप्रामाण्ये विप्रतिपत्तिरेव न स्यात् ज्ञानस्वरूपवत् ।
किञ्चैवंवादिनो मते शुक्तिरजतादिविभ्रमो न स्यात् ।
इदमनुभवस्य रजतस्मरणस्य च भेदाग्रहो हि विभ्रमः ।
तत्र प्रामाण्यवद्भेदस्यानुभवत्वस्मरणत्वयोश्च प्रकाशो ऽवश्यम्भावीति कथं विभ्रमावकाशः ।
नहि प्रामाण्यस्य भेदादेश्च कश्चिद्विशेषो ऽस्तीति ।
जोस्हि३०
११,२१५
ज्ञानप्रामाण्ये सहैवानुमेये इत्यप्यसत् ।
ज्ञानस्या(प्य)नुमेयत्वे प्रमाणाभावात् ।
तद्वयवहारस्यान्यथैवोपपत्तेः ।
आशुतरविनाशिनो ज्ञानस्य जानामीति वर्तमानतया प्रतिभा(सा)ऽनुपपत्तेश्च ।
अपरोक्षावभासविरोधाच्च ।
अनुमेयत्वे ऽपि ज्ञानस्य न ज्ञानानुमितिमात्रेण प्रामाण्यं तस्य दृश्यते ।
तद्धि ज्ञाततया व्यवहारेण कार्येण वानुमातव्यम् ।
नच तावता प्रामाण्यमनुमातुं शक्यते ।
व्यभिचारात् ।
ततो ज्ञाततादिमात्रेण प्रतीते ज्ञाने बाधाभावादिना प्रामाण्यमनुमेयम् ।
अन्यथा बाह्यानामपि वैदिकज्ञानप्रामाण्यानुमानप्रसक्तेः ।
प्रसक्तमप्यपोद्यत इति चेत् ।
तर्ह्यपवादनिरासाय परीक्षापेक्षावश्यम्भाविनीत्यागतम् ।
इदमेव चास्माभिरभिधास्यते, सर्वथा परीक्षानपेक्षेति तु न क्षम्यते ।
११,२१६
एतेन साक्षिवेद्यतापक्षो ऽपि प्रतिक्षिप्तः ।
औपनिषदज्ञानदृष्टिमात्रेण बाह्यैस्तत्प्रामाण्यस्यादर्शनात् ।
११,२१७
चतुर्थपक्षस्त्वतिमन्दः ।
अनुमानादिज्ञानदृष्टिमात्रेण तत्प्रामाण्यस्य चार्वाकादिभिरदृष्टत्वात् ।
विभागे मानाभावाच्च ।
धर्मिज्ञानादिप्रामाण्ये विगानाभावादिति चे(त्)न्न ।
निरालम्बनादिमतदर्शनात् ।
उपपत्तिबाधितं तदिति चेत् ।
तर्हि स्वीकृताऽप्युष्मतैव परीक्षापेक्षेत्यलं पल्लवेनेति ।
११,२१८
एवं तर्हि प्रत्यक्षादिवत्साक्षिणो ऽपि प्रामाण्यं परीक्षापेक्षग्रहणमेवाङ्गीक्रियताम् ।
द्विधा कल्पनस्यान्याय्यत्वादित्यत आहनियमेनेति ।
नियमेन सुखाद्येषु प्रामाण्यं साक्षिगोचरम् । (अनुव्याख्यानम्)३,४.१४५च्द् ।
११,२१९
न्यायसुधा-
दृश्यत इति वर्तते ।
साक्षी गोचरो यस्य तत्तथोक्तम् ।
गोचरत्वं चाश्रयतया विवक्षितम् ।
सुखादिविषये यत्साक्षिगतं प्रामाण्यं तन्नियमेन दृश्यते ।
एतदुक्तं भवति ।
यदि वृत्तिज्ञानानामिव साक्षिज्ञानस्यापि प्रामाण्यं तद्दर्शनमात्रेण न दृश्यते तदाधिकमपि कारणं कल्पयामः ।
नचैवम् ।
सुखज्ञाने दृष्टे तत्प्रामाण्याज्ञानसंशयविपर्ययाणां कदाप्यदर्शनाद् ।
कल्पकसद्भावे द्विधा कल्पनस्यादूषणत्वादिति ।
११,२२०
किञ्च साक्षिप्रामाण्यस्यापि परीक्षापेक्षग्रहणत्वे ऽनवस्था च स्यात् ।
ननु प्रामाण्यग्रहणमभिलषता नानवस्थातो भेत्तुं युक्तम् ।
परीक्षानवस्थाभावे ऽपि ग्राहकानवस्थाया दुष्परिहरत्वादित्यत आहस्वप्रामाण्यमिति ।
स्वप्रामाण्यं सदा साक्षी पश्यत्येव सुनिश्चयात् । (अनुव्याख्यानम्)३,४.१४६अब् ।
न्यायसुधा-
साक्ष्येवेति सम्बन्धः ।
सदा सुनिश्चयादिति ।
परीक्षानपेक्षमेवेति यावत् ।
एतच्चानुभवान्यथानुपपत्तिभ्यां कल्प्यते ।
११,२२१
नन्वेवं सति वृत्तिज्ञानानां परतःप्रामाण्यमुक्तं स्यात् ।
ज्ञानस्वरूपस्य साक्षिवेद्यत्वात् ।
प्रामाण्यस्य परीक्षागम्यत्वात् ।
तथाच न विलक्षणत्वादिति यत्स्वतः प्रामाण्यमिष्यं तत्त्यक्तं स्यादित्यत आहज्ञानस्येति ।
ज्ञानस्य ग्राहकेणैव साक्षिणा मानतामितेः । (अनुव्याख्यानम्)३,४.१४६च्द् ।
न्यायसुधा-
ज्ञानस्य ग्राहकेण साक्षिणैव ज्ञानस्य मानताया मितेः कारणात्स्वतःप्रामाण्यमिष्यत एवेति सम्बन्धः ।
भवेत्स्वतःप्रामाण्यत्यागो यदि ज्ञानमेव साक्षिवेद्यं न प्रामाण्यमिति ब्रूमः ।
न चैवम् ।
ज्ञानवत्तत्प्रामाण्यस्यापि साक्षिवेद्यत्वाभ्युपगमादिति ।
किमर्थं तर्हि परीक्षावश्यम्भावो ऽभ्युपगम्यत इत्यत आहदोषेति ।
दोषाभावे प्रमाणत्वं … । (अनुव्याख्यानम्)३,४.१४७अ ।
न्यायसुधा-
साक्षिणा निश्चितत्वमिति वक्ष्यमाणमिहापि योज्यम् ।
इति प्रामाण्यस्येति पदद्वयमध्याहार्यम् ।
ज्ञानं गृह्णन्साक्षी करणदोषाभावे ऽस्य प्रामाण्यमित्येव प्रामाण्यं निश्चिनोति ।
नतु प्रमाणमेवेदमिति ।
ततः किमित्यत आहदोषाभावस्येति ।
… दोषाभावस्य साक्षिणा ।
निश्चितत्वं क्वचिच्चैव स्वतः प्रामाण्यमिष्यते । (अनुव्याख्यानम्)३,४.१४७ब्द् ।
न्यायसुधा-
परीक्षयेति शेषः ।
चो ऽवधारणे ।
क्वचिदेव प्रयोजनवशाज्जिज्ञासायां जातायां परीक्षालाभे चेत्यर्थः ।
दोषाभावनिश्चयार्था परीक्षा न तु प्रामाण्यग्रहणार्था ।
तत्पुनर्ज्ञानमिव साक्षिवेद्यमेव ।
अतो न स्वतःप्रामाण्यपरित्याग इति भावः ।
११,२२२
स्यादेतद्यदीयं प्रक्रिया प्रमाणवती स्यान्न च तदस्तीत्यत आहअत इति ।
अतो न सर्वमानानां प्रामाण्यं निश्चितं भवेत् ।
साक्षिणा निश्चितं यत्र तत् प्रामाण्यस्वलक्षणम् । (अनुव्याख्यानम्)३,४.१४८ ।
११,२२३
न्यायसुधा-
अत एव हि सर्वेषां ज्ञानानां प्रामाण्यं प्रथमतो न निश्चितं भवेत् ।
किन्नाम यत्र यदा परीक्षासहकृतेन साक्षिणा प्रामाण्यं निश्चितं भवति तत्तदैव प्रामाण्यं स्वलक्षणं प्रामाण्यस्वरूपमप्रामाण्यविविक्तं प्रामाण्यं
सिद्धयति ।
इदमुक्तं भवति ।
यदि साक्षी दोषाभावे प्रमाणमेतदिति प्रथमं सम्मुग्धं प्रामाण्यं गृहीत्वा पश्चाज्जिज्ञासायां सत्यां परीक्षया प्रमाणमेवेत्यवधारयतीत्येषा प्रक्रिया
नाङ्गीक्रियेत तदानभ्यस्तविषयाणां शब्दादिना जातानां सर्वेषामपि ज्ञानानां प्रथममेव प्रामाण्यमवधार्येत ।
नचैतदस्ति ।
तेन जानीमो ऽस्तीयं प्रक्रियेति ।
उक्तमर्थं बुद्धयारोहाय सङ्क्षिप्याहनहीति ।
न हि कश्चित् सुखाद्येषु संशयं कुरुते जनः ।
नचैवाखिलमानानि निश्चिनोत्यखिलो जनः । (अनुव्याख्यानम्)३,४.१४९ ।
तस्मादनुभवारूढं किमर्थमुपलप्यते । (अनुव्याख्यानम्)३,४.१५०अब् ।
न्यायसुधा-
यस्मात्सुखाद्येषु कश्चित्संशयं न करोति यस्माच्चाखिलानि वृत्तिज्ञानानि दर्शन एव प्रमाणतयाखिलो जनो न निश्चिनोति तस्मात्साक्षिप्रामाण्यं
परीक्षानपेक्षेण साक्षिणैव गृह्यते ।
वृत्तिज्ञानानां तु तत्सापेक्षेणेत्यनुभवारूढं प्रमेयं किमर्थमपलप्यते ।
निर्निमित्तमपलपितुं न शक्यत इति ।
११,२२४
‘न परीक्षानवस्था स्यात्’ इत्युक्तमुपसंहरतिदोषाभावादिकं चेति ।
दोषाभावादिकं चैव साक्षी सम्यक् प्रपश्यति । (अनुव्याख्यानम्)३,४.१५०च्द् ।
न्यायसुधा-
साक्ष्येवेति सम्बन्धः ।
स्वस्य परीक्षायाश्च दोषाभावं प्रामाण्यं च परीक्षानिरपेक्षः साक्ष्येव सम्यक् प्रपश्यति ।
तस्मान्न काप्यनवस्थेति ।
‘अपरीक्षितमेव’ इत्यादिनोक्तमुपसंहरतितदिति ।
तत् परीक्षितमानेन न दोषो विष्णवि क्वचित् । (अनुव्याख्यानम्)३,४.१५१अब् ।
न्यायसुधा-
तत्तस्मात्परीक्षितमेव मानम् ।
तेन च भगवति क्वचिदपि दोषो नास्तीति सिद्धम् ।
तद्विरोधादपरीक्षितं दोषदर्शनमप्रमाणमेवेत्यर्थः ।
एवमपरीक्षितं दोषदर्शनं परीक्षितेन निर्देषतादर्शनेन बाधितं न भगवतो दोषित्वं साधयितुं शक्तमित्युक्तम् ।
इदानीं तादृशस्यापि साधकत्वे ऽतिप्रसङ्गं सूचयतिअपरीक्षितेति ।
अपरीक्षितदृष्टिस्तु कस्मिन्नर्थे न विद्यते । (अनुव्याख्यानम्)३,४.१५१च्द् ।
न्यायसुधा-
शुक्त्यादीनां रजतत्वादावपि विद्यत एव ।
ततश्च तथा तदपि सिद्धयेदविशेषादिति भावः ।
११,२२५
तदेवं दोषदर्शनं परीक्षितप्रत्यक्षविरोधादप्रमाणमित्यभिहितम् ।
निरनिष्यो निरवद्य इत्याद्यागमविरोधाच्च ।
स्यादेतत् ।
प्राक् तत्त्वमस्याद्यागमस्य प्रत्यक्षविरुद्धत्वात्प्रतीतार्थे न प्रामाण्यमित्युक्तम् ।
तत्कथं तद्विपरीतं प्रत्यक्षस्यागमविरोधेनाप्रामाण्यमिदानीमुच्यत इत्याशङ्कां परिहर्तुमाहतदिति ।
तत् प्रत्यक्षविरुद्धार्थे नागमस्यापि मानता ।
उपजीव्यमक्षजं यत्र तदन्यत्र विपर्ययः । (अनुव्याख्यानम्)३,४.१५२ ।
न्यायसुधा-
यत्र यदाक्षजमागमस्योपजीव्यं तत् तदा प्रत्यक्षविरुद्धार्थे जात्या प्रबलस्याप्यागमस्य मानता नास्ति ।
तस्मादु(क्तादु)पजीव्योपजीवकभावादन्यत्र विपरीतोपजीव्योपजीवकभावे बाध्यबाधकभावस्यापि विपर्ययः ।
यदाऽगमः प्रत्यक्षस्योपजीव्यस्तदाऽगमविरुद्धार्थे प्रत्यक्षस्य न मानतेत्यर्थः ।
११,२२६
ततः किमित्यत आहलौकिक इति ।
लौकिके व्यवहारे ऽत्र प्रत्यक्षस्योपजीव्यता ।
अवतारादिदष्टौ स्यादागमस्योपजीव्यता । (अनुव्याख्यानम्)३,४.१५३ ।
न्यायसुधा-
लौकिके प्रत्यक्षसिद्धजीवादिविषये ब्रह्मात्मकत्वादिबोधनरूपे व्यवहारे तत्त्वमस्याद्यागमेन क्रियमाणे अत्र आगमे आगमं प्रति
प्रत्यक्षस्योपजीव्यता ।
अवताराणां विश्वादीनां च दोषदृष्टौ प्रत्यक्षादिकं प्रत्यागमस्योपजीव्यता स्यात् ।
एतदुक्तं भवति ।
प्राक् प्रत्यक्षविरोधेनागमस्याप्रामाण्यमभिधायेदानीमागमविरोधेन प्रत्यक्षस्याप्रामाण्याभिधानं न विरुद्धम् ।
नहि निर्विशेषणयोः प्रत्यक्षागमयोः परस्परं बाध्यबाधकभावो ऽभिहितः ।
किन्तूपजीवकत्वेन बाध्यत्वमुपजीव्यत्वेन बाधकत्वम् ।
तच्च तत्रान्यथात्रान्यथेति कथं विरोध इति ।
अनेन दोषविषयप्रत्यक्षविरोधादागमस्यैवाप्रामाण्यं किन्न स्यादिति चोद्यं गर्भस्रावेणैव गतम् ।
आगमस्योजीव्यतया प्रत्यक्षतः प्राबल्यस्योक्तत्वात् ।
११,२२७
कथं प्रत्यक्षं प्रत्यागमस्योपजीव्यत्वमित्यत आहआगमेनेति ।
आगमेन हि विष्णुत्वं ज्ञात्वा दोषो ऽत्र कल्प्यते । (अनुव्याख्यानम्)३,४.१५४अब् ।
न्यायसुधा-
अत्र विष्णौ ।
वस्तुतः कल्पनैवैषा न प्रमितिरितिभावेन कल्प्यत इत्युक्तम् ।
भवेदागमस्योपजीव्यत्वं यदि
विष्णुत्वं ज्ञातव्यं भवेत् ।
तदेव न ज्ञातव्यमित्यत आहन चेदिति ।
न चेत् स्यात् दोषवानन्यः … । (अनुव्याख्यानम्)३,४.१५४च् ।
न्यायसुधा-
यदि विष्णुत्वं रामकृष्णादौ न ज्ञातं तदा दोषग्राहिणा प्रत्यक्षेण विष्णोरन्यो दोषवानिति गृहीतं स्यात् ।
नतु विष्णुर्देषवानिति ।
नहि देवदत्ते देवदत्तत्वाज्ञाने देवदत्तो ऽयमागत इत्याकारं ज्ञानमुत्पत्तुमर्हतीति ।
तथापि नागमस्योपजीव्यत्वम् ।
यतः श्रीवत्सकौस्तुभादिलक्षणेन विष्णुत्वमनुमाय विष्णुर्देषवानिति प्रत्यक्षेण ज्ञास्यत इत्यत आहशास्त्रेति ।
… शास्त्रसिद्धं हि लक्षणम् । (अनुव्याख्यानम्)३,४.१५४द् ।
न्यायसुधा-
श्रीवत्सादिकं लक्षणं विष्णुत्वेन व्याप्तमित्येतच्छास्त्रेणैव सिद्धम् ।
यद्यप्यस्मिन्पक्षे साक्षादागमो नोपजीव्यः ।
तथाप्यनुमानमूलव्याप्तिग्रहणाय तदुपजीवनमपरिहार्यमेवेति भावः ।
ननु विष्णुत्वाज्ञाने विष्णोरन्यो दोषवानिति ज्ञानेन कुतो भाव्यम् ।
विष्णुत्ववत्तदन्यत्वस्याप्यज्ञातत्वादिति चेत् ।
एवं तर्ह्यज्ञातं प्रसज्यत इत्याहकस्यचिदिति ।
कस्यचिद् दोषवत्त्वं स्यादितिमात्रे ऽक्षजं भवेत् । (अनुव्याख्यानम्)३,४.१५५अब् ।
न्यायसुधा-
इतिमात्रे एतावत्येव विषये ।
विष्णुर्देषवानिति ज्ञाना(स्या)नुत्पादनप्रसङ्ग एव तात्पर्यमिति भावः ।
ननु यथा पटो ऽयं छिन्नो दग्धो मलिन इति परानुपजीविना प्रत्यक्षेणैव गृह्यते ।
तथाऽगमादिकमनुपजीव्य प्रत्यक्षेणैव विष्णुर्देषवानिति ज्ञास्यत इत्यत आहनेति ।
न विष्णोर्देषवत्त्वे हि प्रत्यक्षं वर्तते स्वतः । (अनुव्याख्यानम्)३,४.१५५च्द् ।
न्यायसुधा-
स्वतः परानुपजीवनेन ।
अयमभिसन्धिः ।
पटत्वमवयवसन्निवेशव्यङ्घयं प्रत्यक्षमेवेति युज्यते तथा ज्ञानम् ।
विष्णुत्वं तु समस्तगुणपरिपूर्णत्वनिर्देषत्वजगज्जन्मादिकारणत्वलक्षणं न प्रत्यक्षम् ।
अतो न तथाविधं ज्ञानमुपपद्यते ।
यथा पञ्चपलपरिमितो ऽयं पटो मलिन इति ज्ञानमिति ।
११,२२८
अयं समुदायार्थः ।
रामकृष्णादिदोषग्राहिणा प्रत्यक्षेण त्रेधोत्पत्तव्यम् ।
विष्णुरयं दोषवानिति वा विष्णोरन्यो ऽयं दोषवानिति वा कश्चिदयं दोषवानिति वा ।
प्रकारान्तराभावात् ।
तत्र द्वितीयतृतीययोर्न विष्णोर्देषवत्त्वे तदुद्भावयितुं (शक्यते) शक्यम् ।
विष्णुर्देषवानिति तेनानवगाहनात् ।
वस्तुवृत्त्यासौ विष्णुरेवेति चेत् ।
किं ततः ।
नहि वस्तुवृत्तिसहितं यत्किञ्चिज्ज्ञानं विवक्षितविशे(षणं सा)षं साधयति ।
अतिप्रसङ्गात् ।
आद्ये विष्णुत्वं सर्वथा ज्ञातव्यम् ।
नचैतत्प्रत्यक्षवेद्यं नाप्यनुमेयमित्युक्तं शास्त्रयोनिसूत्रे ।
तस्माद्’देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः ।
आविरासीद्’ इत्यागमेन वाऽगमावगतव्याप्तिकानुमानेन वावगन्तव्यम् ।
ततः सर्वथा प्रत्यक्षस्यागमोपजीव्यत्वमङ्गीकार्यम् ।
सर्वो ऽप्यागमस्तावदेकमेव वाक्यम् ।
स च सर्वरूपोपेतस्य विष्णोर्निर्देषत्वं प्रतिपादयतीति तद्विरोधादप्रमाणमेव दोषविषयं प्रत्यक्षमिति ।
११,२२९
इतश्च तदप्रमाणमिति दर्शयितुमाहकेचिदिति ।
केचित् पश्यन्ति दोषानित्यत्रापि स्यान्नचाक्षजम् । (अनुव्याख्यानम्)३,४.१५६अब् ।
११,२३०
न्यायसुधा-
न केवलं दोषेष्वित्यपिशब्दः ।
चशब्दो ऽनुमानादिसमुच्चयार्थः ।
प्रत्यक्षं भगवद्रूपाणां दोषित्वे प्रमाणमिति वदन्प्रष्टव्यः ।
केचित्तत्कालवर्तिनः पुरुषा भगवद्रूपेषु दोषान्पश्यन्तीत्यत्रार्थे ऽस्माकं किं प्रमाणम् ।
प्रत्यक्षमनुमानमागमो वेति ।
न तावत्प्रत्यक्षम् ।
परपुरुषवर्तिनि प्रत्यक्षे परेषां प्रत्यक्षायोगात् ।
दूरे कालभेदे ।
नाप्यनुमानं लिङ्गाभावात् ।
आगमो ऽपि वेदः पुराणादिर्वा ।
नाद्यः ।
तस्यादर्शनात् ।
तस्माद्द्वितीय एवाङ्गीकार्य इत्याहपौराणमिति ।
पौराणं वाक्यमेवात्र … । (अनुव्याख्यानम्)३,४.१५६च् ।
न्यायसुधा-
अत्र भगवद्रूपदोषग्राहिप्रत्यक्षसद्भावे ।
वक्तव्यमिति शेषः ।
ततः किमिति चेत् ।
तत्पुराणवाक्यं तद्दोषदर्शनं किं प्रत्यक्षलक्षणं प्रमाणतया मन्यते, उतापरीक्षितप्रमाणाप्रमाणाभावप्रतीतिमात्रतया, अथाप्रमाणतया ।
११,२३१
आद्ये दोषमाहतदिति ।
… तच्छ्रुत्यैव विरुद्धयते । (अनुव्याख्यानम्)३,४.१५६द् ।
न्यायसुधा-
भगवद्रूपेषु दोषग्राहिणीं प्रतीतिं प्रमाणतया प्रतिपादयत्पुराणवाक्यं दोषसद्भावं मन्यत एव ।
न हि सम्भवति तद्ग्राहिणः प्रामाण्यमङ्गीकरोति नाङ्गीकरोति च तदिति ।
दोषसद्भावं मन्यमानं च तत्प्रागुदाहृतया श्रुत्यैव विरुद्धयत इति ।
पुराणवाक्यस्य श्रुतिविरुद्धत्वे को दोष इत्यत आहपुराणस्येति ।
पुराणस्योपजीव्यश्च वेद … । (अनुव्याख्यानम्)३,४.१५७अब् ।
न्यायसुधा-
पौरुषेयेण खलु वाक्येन समूलेन भाव्यम् ।
यतः केनचित्कारणेन कञ्चिदर्थं बुद्धिस्थीकृत्य वाक्यं प्रयुञ्ज्महे ।
अन्यथोत्पत्तेरेवासम्भवः ।
पुराणवाक्यस्य च वेद एव मूलं कुत इत्यत आहनचेति ।
… एव नचापरः । (अनुव्याख्यानम्)३,४.१५७ब् ।
न्यायसुधा-
अपरः पौरुषेयो ग्रन्थः ।
चशब्दः प्रत्यक्षा(गमा)दिसमुच्चयार्थः ।
पौरुषेयस्तावदागमो न पुराणस्य मूलम् ।
तस्यापि मूला(न्तरा)पेक्षायामन्धपरम्परापातात् ।
न(च) प्रत्यक्षानुमाने ।
तदर्थस्य तदगोचरत्वात् ।
नाप्युत्प्रेक्षा ।
प्रतारकवाक्यवदप्रामाण्यप्रसङ्गात् ।
अतः परिशेषाद्वेद एव पुराणस्योपजीव्य इति सिद्धम् ।
ततः किमित्यत आहतद्विरोध इति ।
तद्विरोधे कथं मानं तत् तत्र च भविष्यति । (अनुव्याख्यानम्)३,४.१५७च्द् ।
न्यायसुधा-
उपजीव्यवेदविरोधे ।
तत् पुराणवाक्यम् ।
तत्र भगवतः सदोषत्वे ।
उपजीव्यविरुद्धस्योपजीवकस्याप्रामाण्यावश्यम्भावादिति चार्थः ।
११,२३१फ़्.
नन्वीश्वरप्रणीतानां पुराणानां तदीयं निजं ज्ञानमेव मूलं न वेदः ।
अनीश्वरप्रणीतानामपि योगिप्रत्यक्षमेव ।
अतो वेदविरोधे ऽपि को दोषः ।
उच्यते ।
वेदस्तावत्प्रमाणमेवेति निष्यङ्कितम् ।
नच प्रमाणयोर्विरोधो ऽस्ति ।
वस्तुविकल्पप्रसङ्गात् ।
ततो वेदविरोधे निजज्ञानादिमूलत्वमेवापनीयते ।
तथापि वेद एव पुराणस्योपजीव्य इति कथम् ।
अमीश्वरप्रणीतपुराणाभिप्रायेणेति न दोषः ।
अनीश्वरा हि स्वयम्प्रतिभाते ऽप्यर्थे (समाश्वा) आश्वासार्थं वेदमुपजीवन्ति ।
यथोक्तम्’यत्स्वयम्प्रतिभातस्य संशयार्तं गुरोर्वचः’ इति ।
यद्वेश्वरप्रणीतपुराणानामपि प्रामाण्यावधारणाय वेदसंवादो ऽपेक्षितः ।
अन्यथोत्प्रेक्षामूलत्वशङ्कनात् ।
तदभिप्रायेण’पुराणस्योपजीव्यश्च वेद एव’ इत्युक्तम् ।
११,२३४
द्वितीयं निराकरोतिअपरीक्षितेति ।
अपरीक्षितदृष्टिश्च कथमेवाक्षजं भवेत् । (अनुव्याख्यानम्)३,४.१५८अब् ।
न्यायसुधा-
अक्षजं कथमेव भवेदिति प्रत्यक्षं प्रमाणतयाभिलषितार्थे नोद्भावयितुं शक्यते ।
नहि प्रमाणत्वेनानवधारितं प्रमाणत्वेनोद्भावयन्परीक्षकः स्यादिति भावः ।
विपक्षे बाधकमाहयद्येवमिति ।
यद्येवं देवदत्तादिभ्रमः किं नाक्षजं भवेत् । (अनुव्याख्यानम्)३,४.१५८च्द् ।
न्यायसुधा-
प्रमाणत्वेनापरीक्षितमपि यदि प्रत्यक्षतयोद्भाव्यत इत्यर्थः ।
देवदत्तादिभ्रम इति ।
यज्ञदत्तशुक्त्यादौ देवदत्तरजतादिभ्रम इत्यर्थः ।
बाधितत्वात्तन्नाक्षजं प्रमाणमिति चेत् ।
तत्किं बाधाभावमात्रं वस्तुव्यवस्थाहेतुः ।
तथात्वे निश्चायकप्रमाणवैयर्थ्यापत्तेः ।
अस्ति च प्रकृते वेदबाध इति ।
११,२३६
उपजीव्यवेदविरोधादुपजीवकयोः प्रत्यक्षपुराणवाक्ययोरप्रामाण्यमित्युक्तम् ।
तदसत् ।
उपजीवकमुपजीव्यविरोधेन बाध्यत इति नियमाभावात् ।
दृश्यते ह्युपजीव्यस्यापीदं रजतमिति ज्ञानस्योपजीवकेन नेदं रजतमिति ज्ञानेन बाध इति चेत् ।
कथमत्रोपजीव्योपजीवकभाव इति वक्तव्यम् ।
अप्राप्तस्य प्रतिषेधायोगात्प्राप्तिरूपमिदं रजतमिति ज्ञानमाद्यमुपजीव्यं, प्रतिषेधात्मकं तु नेदं रजतमिति ज्ञानमुपजीवकमिति वा, असिद्धे
धर्मिणि प्रतिषेधासम्भवाद्धर्मिज्ञानमाद्यमुपजीव्यं द्वितीयं तूपजीवकमिति वा ।
आद्ये समाधिमाहयावच्छक्तीति ।
यावच्छक्ति परीक्षायामुपजीव्यस्य बाधने ।
दोषो नाशोधिते दोष उपजीव्यत्वमस्वलम् । (अनुव्याख्यानम्)३,४.१५९ ।
न्यायसुधा-
परीक्षायां सत्यां प्रमाणतया प्रतीतस्येति शेषः ।
बाधने उपजीवकेन कुत इति शेषः ।
दोषो ऽस्मदभिमत(तो)नियमभङ्गः स्यात् ।
उपजीव्ये ऽशोधिते परीक्षयाप्रमाणादविविक्ते उपजीवकेन बाधिते न दोषः ।
उपजीव्यत्वमस्त्वलमिति ।
प्रकृतोदाहरणे प्रथमपुपजीव्योपजीवकभावमभ्युपैति ।
उपजीव्यत्वमित्युपलक्षणम् ।
उपजीवकत्वं चेत्यपि द्रष्टव्यम् ।
पूर्वोत्तरज्ञानयोरिति शेषः ।
अलंशब्दो ऽवधारणे ।
११,२३६फ़्.
इदमुक्तं भवति ।
(अस्त्वेव) अस्त्येवेदं रजतं नेदं रजतमिति ज्ञानयोरुपजीव्योपजीवकभाव उपजीव्यस्योपजीवकेन बाधश्च ।
तथाप्युपजीव्यविरोधेनोपजीवकं बाध्यत इति नियमभङ्गो नास्ति ।
अयं खल्वस्य नियमस्यार्थः ।
परीक्षया शोधितमुपजीव्यं विरोध्युपजीवकं बाधते स्वयं तेन न बाध्यत इति ।
नतु यथाश्रुतः ।
अस्य तु तदा भङ्गः स्यात् ।
यदि परीक्षितमुपजीव्यं विरोधिनोपजीवकेन बाध्यं (बाधितं) क्वचिदुपलभेमहि ।
नचैवम् ।
इदं रजतमिति ज्ञानं तु न शोधितम् ।
ततस्तस्मिन्नुपजीवकेन बाधिते न नियमभङ्गः ।
नहि निर्विशेषणस्य व्यभिचारे विशिष्यं व्यभिचरत्यतिप्रसङ्गात् ।
नच वाच्यं विशिष्यस्य प्रयोजकताकल्पनं निर्मूलमिति ।
उभयथा(पि) बाध्यबाधकभावदर्शनात् ।
विशेषणानपेक्षायामव्यवस्थापातात् ।
ननु परीक्षायामङ्गीकृतायां तयैवालम् ।
परीक्षितेनापरीक्षितं बाध्यत इत्येतावतः क्वचिद्वयभिचाराभावात्किमुपजीव्योपजीवकभावेन ।
उच्यते ।
भवेदेवं यद्यात्यन्तिकीं परीक्षामत्राङ्गीकुर्मः ।
नचैवम् ।
किन्तु यावच्छक्तिपरीक्षामेव ।
नच तावन्मात्रस्य बाधकत्वनियमो ऽस्ति ।
यावच्छक्तिपरीक्षितस्यापि बाधदर्शनात् ।
अतो युक्तं विशिष्यस्योपादानम् ।
आत्यन्तिकपरीक्षैव बाधकत्वोपयोगिनी भवतु किमुपजीव्यत्वेनेत्यपि न वाच्यम् ।
तस्यापि सांव्यावहारिकत्वात् ।
यथोक्तम् ।
‘सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य’ इति ।
प्रकृते तु वेदः परीक्षित उपजीव्यश्चेति ।
११,२४१
द्वितीये परिहारमाहभ्रमे ऽपीति ।
भ्रमे ऽप्यभ्रमभागो ऽस्ति … । (अनुव्याख्यानम्)३,४.१६०अ ।
न्यायसुधा-
हीति वक्ष्यमाणमत्रापि सम्बद्धयते ।
यद्यप्येकमेवेदं रजतमिति ज्ञानं तथापि विषयोपाधिवशाद् विभागम् ।
तत्र प्रकारे भ्रमत्वे ऽपि स्वरूपे ऽभ्रमत्वमेव ।
तत्र कदापि बाधाभावात् ।
तथान्येप्याहुः ।
सर्वं ज्ञानं धर्मिणि प्रमाणं प्रकारे तु विपर्यय इति ।
भागाभ्युपगमादेव न विरोधचोदनावकाशः ।
ततः किमित्यत आहतन्मात्रमिति ।
… तन्मात्रमुपजीव्य हि ।
बाधकज्ञानवृत्तिः स्यान् … । (अनुव्याख्यानम्)३,४.१६०ब्च् ।
न्यायसुधा-
अभ्रमभागमात्रम् ।
तेनैव धर्मिणः सिद्धेः ।
रजताकारस्य निषेध्यत्वेन धर्मित्वाभावादिति हिशब्दार्थः ।
एतदुक्तं भवति ।
अस्मिन्पक्षे यदुपजीव्यं न तदुपजीवकेन बाध्यते यच्च बाध्यते न तदुपजीव्यमित्यतो नेदमस्मदीयनियमभङ्गस्योदाहरणमिति ।
११,२४१फ़्.
अत्रान्तरे मायावादिनश्चोदयन्ति ।
यदुक्तमुपजीव्यविरोधादद्वैतश्रुतीनामप्रामाण्यमिति ।
तदसत् ।
तत्राप्यस्य समाधानस्य सुवचत्वात् ।
तथाहि ।
यः सर्वज्ञ इत्यादीनां तत्त्वमस्यादीनां च कथमुपजीव्योपजीवकभाव इति वक्तव्यम् ।
सिद्धं न निवर्तकत्वादित्यादिवचनात् ।
तत्त्वमस्यादिवाकयमैक्यविरोधिनां सावर्ज्ञादीनां दुःखादीनां च प्रतिषेधकमङ्गीकृतम् ।
नच प्राप्तिं विना प्रतिषेधो ऽस्तीति प्राप्तिरूपं यः सर्वज्ञ इत्यादिकमुपजीव्यम्, तत्त्वमस्यादिकं तूपजीवकमिति वा, असिद्धे धमिर्णि
प्रतिषेधानुपपत्तेर्धर्मिप्रतिपादकमाद्यमुपजीव्यमुपजीवकं चोत्तरमिति वा ।
आद्ये रजतज्ञानस्येवापरीक्षितत्वादुपजीव्यस्यापि प्रथमस्योत्तरेण बाधे न काप्यनुपपत्तिः ।
द्वितीये शुक्तिस्वरूपमात्रमिव ब्रह्मस्वरूपमात्रमुपजीव्यं न सार्वज्ञादिविशिष्यम् ।
तथाच यदुपजीव्यं न तदुत्तरेण बाध्यते ।
यद्बाध्यते सार्वज्ञादिकं न तदुपजीव्यमिति न कश्चिद्विरोध इति ।
११,२४२
अत्र परिहारद्वयमपि प्रतिषेधतिनचैवमिति ।
… नचैवं … । (अनुव्याख्यानम्)३,४.१६०द् ।
न्यायसुधा-
प्रसिद्धयोर्भ्रान्तिबाधयोरिवात्र समाधानं न वक्तुं शक्यते ।
वैषम्यादिति भावः ।
११,२४४
तत्कथमित्यतः प्रथमपक्षे तावद्वैषम्यं दर्शयतिसुपरीक्षित इति ।
… सुपरीक्षिते । (अनुव्याख्यानम्)३,४.१६०द् ।
न्यायसुधा-
प्रथमप्रमाणे सुपरीक्षिते सति न चैवमिति सम्बन्धः ।
एतदुक्तं भवति ।
इदं रजतमिति ज्ञानमुपजीव्यमप्यपरीक्षितत्वादुपजीवकेन नेदं रजतमति ज्ञानेन बाध्यते ।
उपजीव्योपजीवकन्यायस्य यावच्छक्तिपरीक्षाविषयत्वाति ह्यस्माभिरभिहितम् ।
अस्मन्न्यायेन च परेण प्रत्यवस्थायते ।
नच तद्युक्तम् ।
यः सर्वज्ञ इत्यादीनामहं दुःखीत्यादीनां च सुपरीक्षितत्वात् ।
उपपादितं खलु यः सर्वज्ञ इत्यादिश्रुतीनां तत्त्वावेदकत्वं साक्षिणश्च नियमेनाव्यभिचारित्वमिति ।
द्वितीयपक्षे वैषम्यं दर्शयतिसर्वमिति ।
सर्वं तदुपजीव्यैव प्रमाणं वर्तते यतः । (अनुव्याख्यानम्)३,४.१६०एफ़् ।
११,२४४फ़्.
न्यायसुधा-
यतः कारणात्तत्सर्वं सार्वज्ञादिकमुपजीव्यैव तत्त्वमसीत्यादिकं प्रमाणं प्रवर्तते ऽतो न चैवमिति सम्बन्धः ।
इदमुक्तं भवति ।
यथा नेदं रजतमिति ज्ञानं पुरोवर्तिनः स्वरूपमात्रं धर्मीकृत्य प्रवर्तते न तु रजतत्वविशिष्यं न तथा तत्त्वमस्यादिवाक्यं प्रवर्तितुमर्हति ।
किन्तु सर्वज्ञत्वादिविशिष्यं ब्रह्मस्वरूपं दुःखादिविशिष्यं जीवस्वरूपं च धर्मीकृत्यैव ।
तथाच धर्मिग्राहकविरोधो ऽपरिहार्य इति ।
अत्र सर्वमिति सर्वज्ञत्वाद्यन्यतमस्योपलक्षणम् ।
११,२४७
ननु तत्त्वमस्यादिवाक्यमपि यदि स्वरूपमात्रमुपजीव्य प्रवर्तेत तदा कीदृशो दोष इत्यत आहकथमिति ।
कथं ब्रह्मेति तज्ज्ञेयं सर्वज्ञत्वादिलक्षणम् ।
विहाय यस्मात्कस्माच्चित् स्वरूपस्यैव चेद् यदि । (अनुव्याख्यानम्)३,४.१६१ ।
उपजीव्यत्वम् … । (अनुव्याख्यानम्)३,४.१६२अ ।
न्यायसुधा-
वाक्यद्वयमेतत् ।
तत्रैकस्यार्थः ।
धर्मान्विहाय स्वरूपस्यैवोपजीव्यत्वं चेत्तर्हि तत्कथं ज्ञेयं यत्तत्त्वमसीति बोध्यते ।
एतदुक्तं भवति ।
शब्देनानूद्य हि स्वरूपं तत्त्वमसीति वक्तव्यम् ।
नच निर्धर्मस्य प्रतिपादकः शब्दो ऽस्ति ।
अतः स्वरूपमात्रस्य बुद्धावनारोहाद्बोधनमेवानुपपन्नमिति ।
न ब्रूमः स्वरूपमात्रस्योपजीव्यत्वम् ।
किन्तु भेदकान्सर्वज्ञत्वादिधर्मान्विहाय तत्त्वादिना विशिष्यस्य ।
तथाच न कश्चिद्दोष इत्यतः शिष्यं वाक्यम् ।
यदि तत्त्वादिधर्मोपेतस्योपजीव्यत्वं तर्हि सर्वज्ञत्वादिकं विहाय यस्मात्कस्माच्चित्तत्त्वादेस्तद्ब्रह्मेति कथं ज्ञेयम् ।
यद्यप्यस्मिन्पक्षे नोक्तदोषस्तथापि बोध्यस्य ब्रह्मास्मीति ज्ञानमनुपपन्नमेव ।
सर्वज्ञत्वादेर्ब्रह्मलक्षणत्वेन तदनुपादाने ब्रह्मणो बुद्धावनारोहात् ।
तत्त्वादेर्घटादिसाधारणत्वादिति भावः ।
सर्वज्ञत्वादिपरित्यागेनोपजीवने बाधकमभिधाय विपर्यये पर्यवसानमाहएतस्मादिति ।
… एतस्माद् व्यावृत्तं यावता भवेत् ।
तावतैवोपजीव्यत्वं … । (अनुव्याख्यानम्)३,४.१६२अच् ।
न्यायसुधा-
अपरथा ज्ञानासम्भवात् ।
यावता धर्मेण ।
तावतोपेतस्यैव ।
ननु नेदं रजतमिति ज्ञानं यथा स्वरूपमात्रमुपजीव्य प्रवृत्तम् ।
तथेदमपि प्रवर्त्स्यति को दोष इत्यत आहस्वरूपस्यैवेति ।
… स्वरपस्यैव न क्वचित् । (अनुव्याख्यानम्)३,४.१६२द् ।
न्यायसुधा-
उपजीव्यत्वमिति वर्तते ।
उक्तानुपपत्तेरेव दृष्टान्तो ऽपि न समस्त इत्यर्थः ।
११,२४९
ननु यत्सर्वज्ञं तत्त्वमसीति न बोधनीयम् ।
किन्तु तत्त्वमसीत्येव ।
न चोक्तदोषः ।
तच्छब्दो ब्रह्म वदति ।
योग्यान्विताभिधायिनश्चशब्दाः ।
लक्षणं च ब्रह्मणान्वेतुं योग्यम् ।
ततश्च तच्छब्देनैव व्यावृत्तस्य प्रतीतेरित्याशयवानाशङ्कतेसर्वेति ।
सर्वलक्षणयुक्तं तु स्वरूपं यदि भण्यते । (अनुव्याख्यानम्)३,४.१६३अब् ।
न्यायसुधा-
चशब्दो ऽवधारणे ।
भण्यते तच्छब्देन इति यदि भण्यते इत्यावृत्त्या योज्यम् ।
सम्प्रतिपत्तिमुत्तरमाहअस्त्विति ।
अस्तु … । (अनुव्याख्यानम्)३,४.१६३च् ।
न्यायसुधा-
यत्परेणोक्तं तदस्त्वित्यर्थः ।
प्रतिवाद्युक्तार्थाङ्गीकारे प्रतिज्ञाहानिः कथं न भवेदित्यत आहन इति ।
… नो नैव हानिः स्यात् … । (अनुव्याख्यानम्)३,४.१६३च् ।
न्यायसुधा-
अनभिमतप्रमेयाङ्गीकारे हि प्रतिज्ञाहानिः स्यात् ।
अनेन चाङ्गीकृतेन नो ऽस्माकं (न प्रतिज्ञाहा)नैव हानिः स्यात् ।
परस्य धर्मिग्राहिविरोधो ह्यस्माभिरुच्यते ।
तत्परिहाराय परेण चेदमुदितम् ।
नचानेन तत्परिहारम् ।
प्रत्युत दृढीकृतमिति भावः ।
किं प्रकृतप्रमेयाविरोधित्वमात्रेणेदमङ्गीक्रियते उत तथाभूतत्वेनेति जिज्ञासायामाहस्वपक्षश्चेति ।
… स्वपक्षश्चायमञ्जसा । (अनुव्याख्यानम्)३,४.१६३द् ।
न्यायसुधा-
अञ्जसेति नाभ्युपगममात्रेणेत्यर्थः ।
तदुपपादयतियस्मादिति ।
यस्मादन्वित एवार्थः शब्दानामपि सर्वशः । (अनुव्याख्यानम्)३,४.१६४अब् ।
न्यायसुधा-
सर्वशो ऽपीति सम्बन्धः ।
इत्येतत्सूत्रसामर्थ्येन प्रागुपपादितमिति शेषः ।
११,२५१
किञ्चास्मिन्नपि पक्षे ब्रह्मणो बुद्धावनारोहस्तदवस्थ एव ।
यतस्तदादिशब्दाः सामान्यत एव योग्यान्वितं ब्रुवते ।
सर्वज्ञादिशब्दा एव विशेषतः ।
तथानुभवात् ।
नच सामान्यतो ऽन्विताभिधायिना व्यावृत्तप्रतीतिरित्याशयवानाहविशेषेति ।
विशेषसामन्यतया स्वरूपमखिलं भवेत् । (अनुव्याख्यानम्)३,४.१६४च्द् ।
न्यायसुधा-
अखिलं योग्यान्वितं स्वरूपं विशेषसामान्यतया शब्दबोध्यं भवेत् ।
११,२५२
अन्विताभिधानमात्रमङ्गीक्रियत एव ।
तच्चैकस्य पदस्य सामान्यत एव न विशेषत इति न बुद्धौ ब्रह्मारोहः ।
यदि च विशेषस्तदा धर्मिग्राहिविरोधस्तदवस्थ एवेति समुदायार्थः ।
केचिन्मायावादिनो ऽन्विताभिधानमङ्गीकुर्वते विज्ञानघनादय सति नाप्राप्तशङ्केयम् ।
११,२५३
व्यावर्तकधर्मैर्व्यावृत्तस्यैवोपजीव्यत्वमिति यदुक्तं तन्नास्ति ।
बाधकज्ञानेषु तदभावात् ।
नच तत्रापि व्यावृत्तस्यैवोपजीव्यत्वं न स्वरूपमात्रस्येत्युक्तमिति वाच्यम् ।
पूर्वस्मिन्भ्रमज्ञाने व्यावृत्तत्व(स्य)स्यैवासिद्धत्वात् ।
सिद्धौ च भ्रमत्वानुपपत्तेः ।
‘तन्मात्रमुपजीव्य हि’ इत्युक्तविरोधाच्चेत्यत आहपुरोवर्तित्वेति ।
पुरोवर्तित्वपूर्वाणि देवदत्तादिकभ्रमे ।
व्यावर्तयन्ति तद्रूपं चैत्रमात्रद् विनैव हि । (अनुव्याख्यानम्)३,४.१६५ ।
न्यायसुधा-
देवदत्तादौ यश्चैत्रादिभ्रमस्तत्र पुरोवर्तित्वपूर्वाणि विशेषणानि देवदत्तादिस्वरूपं देवदत्तादेरविदितत्वाच्चैत्रमात्राद्विनैवापुरोवर्त्यादिभ्यो
व्यावर्तयन्ति यस्मात्तस्माद्बाधकज्ञानं व्यावृत्तमेवोपजीवतीति नियमो नानुपपन्नः ।
नापि भ्रमानुपपत्तिः ।
आरोप्यव्यावृत्तेरनङ्गीकरणात् ।
तन्मात्रशब्देन चारोप्यमात्रव्यावर्तनान्नोक्तविरोधो ऽपीति भावः ।
११,२५४
नन्वनेन नात्यन्तव्यावृत्तिरु(पजीव्यत्वो)पयोगिनी ।
किन्तु व्यावृत्तिमात्रमित्युक्तं भवति ।
तत्प्रकृते ऽप्यस्ति ।
तत्त्वादिना ब्रह्मणो ऽपि व्यावृत्तत्वेनोपजीव्यत्वसम्भवादिति चेन्न ।
तावन्मात्रेण बोध्यस्यापि ब्रह्मास्मीति ज्ञानानुपपत्तेरुक्तत्वात् ।
११,२५५
दोषान्तरं चाहब्रह्मण इति ।
ब्रह्मणो निर्विशेषत्वाद् व्यावर्तयति किं पुनः । (अनुव्याख्यानम्)३,४.१६६अब् ।
न्यायसुधा-
ब्रह्मणः पुनरिति सम्बन्धः ।
किं कर्तृ, ब्रह्म व्यावर्तयति, न किमपि ।
तत्त्वादीनामङ्गीकारे ऽपि दोषमाहयस्मादिति ।
यस्मात्कस्माच्चिदप्यर्थात् तावच्चेत् सिद्धसाधनम् । (अनुव्याख्यानम्)३,४.१६६च्द् ।
न्यायसुधा-
तत्त्वादि विशेषणेन यस्मात्कस्मादप्यर्थात्तत्त्वादिरहितम् ।
तावद्वयावृत्तं चेदुपजीव्यत्वमस्तीति बोध्यते ।
तदेदं वाक्यं सिद्धसाधनं ज्ञातस्यैव ज्ञापकं स्यात् ।
बोध्येनास्यार्थस्य प्रागेव विदितत्वात् ।
तथा चाशास्त्रं स्यात् ।
११,२५६
मा भूत्तत्त्वादिना व्यावृत्तं ब्रह्मोपजीव्यम् ।
विज्ञानमानन्दं ब्रह्मेत्यादिश्रुत्या ब्रह्मलक्षणत्वेनोक्तेन चिन्मात्रत्वादिना तु भविष्यतीत्यत आहचिन्मात्रत्वं चेति ।
चिन्मात्रत्वं च नैवेष्यमविशेषत्ववादिनः । (अनुव्याख्यानम्)३,४.१६७अब् ।
न्यायसुधा-
मात्रशब्देन चितः सर्वविषयत्वादिकं व्यावर्तयति ।
आनन्दत्वादेरप्युपलक्षणमेतत् ।
ब्रह्मण इति शेषः ।
चिन्मात्रत्वादिकं न ब्रह्मणो भिन्नम् अतो निर्विशेषत्वाविरोधात्तदङ्गीक्रियत इत्यत आहतावन्मात्रमिति ।
तावन्मात्रं यदीष्यं स्यात् सर्वज्ञत्वं कुतो न तत् । (अनुव्याख्यानम्)३,४.१६७च्द् ।
न्यायसुधा-
तत्तर्हि तस्यापि श्रुतत्वादभिन्नत्वाच्चेति भावः ।
अभेदे कथं लक्षणत्वमिति चेत् ।
समं विज्ञानादावपि ।
उक्तश्च लक्ष्यलक्षणप्रकारो लक्षणसूत्र इति ।
११,२५७
श्रुतत्वसाम्ये ऽपि चिन्मात्रत्वादिकमेव धर्मिणि निवेश्यते ।
अविरुद्धत्वात् ।
न सर्वज्ञत्वादिकं विरुद्धत्वात् ।
यथा नेदं रजतमिति ज्ञाने ऽविरुद्धपुरोवर्तित्वाद्युपेतस्य धर्मित्वं न विरुद्धरजतत्वाद्युपेतस्येत्यत आहचिन्मात्रेति ।
चिन्मात्राभेदसाध्ये ऽपि … । (अनुव्याख्यानम्)३,४.१६८अ ।
न्यायसुधा-
चिन्मात्रेणाभेदश्चिन्मात्राभेदः सः साध्यः प्रतिपाद्यो यस्य तत्तथोक्तम् ।
तत्त्वमस्यादिवाक्ये चिन्मात्राभेदसाध्ये ऽङ्गीकृते ऽपि तद्वाक्यं सिद्धसाधनं भवेदित्यन्वयः ।
तत्कथमित्यत आहसिद्धमिति ।
… सिद्धं तत् प्रतिवादिनः । (अनुव्याख्यानम्)३,४.१६८ब् ।
न्यायसुधा-
तच्चिदैक्यं प्रतिवादिनो बोध्यस्य यत इति शेषः ।
कथं सिद्धमित्यत आहस्वेति ।
स्वाभेदाङ्गीकृतेरेव … । (अनुव्याख्यानम्)३,४.१६८च् ।
न्यायसुधा-
स्वस्य स्वेनाभेदाङ्गीकृतेः ।
एवशब्दस्य सिद्धमिति पूर्वेण सम्बन्धः ।
स्वाभेदाङ्गीकृतौ चिदभेदः कथं सिद्ध इत्यत आहचित्त्वमिति ।
… चित्त्वं स्वस्यापि यन्मतम् । (अनुव्याख्यानम्)३,४.१६८द् ।
११,२५८
न्यायसुधा-
स्वस्य बोध्यस्य यद्यस्मान्मतं सम्मतम् ।
एतदुक्तं भवति ।
विरोधभयात्सर्वज्ञत्वादिविशिष्यं न धर्मीक्रियते इति वदता चिदानन्दरूपमपि न धर्मीकर्तव्यम् ।
ज्ञातज्ञापनप्रसङ्गात् ।
विरोध इव ज्ञातज्ञापनस्याप्यशास्त्रताहेतुत्वे विशेषाभावात् ।
चिन्मात्रं त्वदतिरिक्तं नास्तीति वाक्यार्थ इति चेन्न ।
अप्रतिभासनात् ।
गत्यन्तराभावादित्थं कल्प्यत इति चेत्(न्न) ।
सूत्रकृतैवार्थान्तरस्योक्तत्वात् ।
११,२५९
न विरोधभयाद्वयं सार्वज्ञादिकं धर्मिणि न निवेशयामः ।
किन्तु सर्वज्ञत्वादिकं (हि) न ब्रह्मणो भिन्नम् ।
नेह नानेत्यादिश्रुतिविरोधात् ।
नापि स्वरूपम् ।
तस्य वियदादिसर्वसापेक्षत्वात् ।
सर्वस्य च मिथ्यात्वात् ।
नहि तथाभूतस्य सत्यस्वरूपता सम्भवति ।
चिदानन्दादेस्तु ब्रह्मस्वरूपत्वे न क्वाप्यनुपपत्तिरित्याशयवानाशङ्कतेसर्वेति ।
सर्वापेक्षतया सर्वज्ञत्वमित्येव तन्नहि ।
इति चेच् … । (अनुव्याख्यानम्)३,४.१६९अच् ।
न्यायसुधा-
सर्वज्ञत्वं वर्तत इति शेषः ।
इतिशब्दो हेतौ ।
एवशब्दस्य तदेवेत्यनेन सम्बन्धः ।
नहि मिथ्येत्यर्थः ।
परिहरतिचेतनत्वं चेति ।
… चेतनत्वं च … । (अनुव्याख्यानम्)३,४.१६९च् ।
न्यायसुधा-
यत्परसापेक्षं तन्न सदित्यङ्गीकारे ब्रह्मणश्चेतनत्वं च न स्यादित्यर्थः ।
कुत इत्यतो (ल्युट् प्रत्य)युप्रत्ययस्यानेकार्थत्वात्कर्तृवाचितां तावदुपादाय व्याचष्टेज्ञत्वमिति ।
… ज्ञत्वं … । (अनुव्याख्यानम्)३,४.१६९द् ।
न्यायसुधा-
चेतनत्वं नाम तावज्ज्ञत्वमित्यर्थः ।
ततः किमित्यत आहनेति ।
… न ज्ञेयवर्जितम् । (अनुव्याख्यानम्)३,४.१६९द् ।
न्यायसुधा-
ज्ञत्वमिति वर्तते ।
किन्तु ज्ञेयसापेक्षमेव ।
ज्ञानक्रियां प्रति कर्तृत्वं खलु ज्ञत्वम् ।
सकर्मकक्रियावचनश्च जानातिः ।
अतः कर्मापेक्षक्रियाकर्तृत्वमपि सापेक्षमेव ।
११,२६१
तथापि कुतश्चेतनत्वं न स्यादिति चेत् ।
ज्ञस्य ब्रह्मणो ज्ञेयं स्वयमेव वा स्यात्परं वा ।
नाद्य इत्याहस्वेति ।
स्वज्ञेयत्वं च नैवासौ मन्यते सविशेषतः । (अनुव्याख्यानम्)३,४.१७०अब् ।
न्यायसुधा-
चस्त्वर्थः ।
असौ मायावादी ।
कुतो न मन्यत इत्यत आहसविशेषत इति ।
सविशेषत्वप्रसङ्गात् ।
प्रत्यक् पराग्भावलक्षणो हि कर्तृकर्मभावो नैकत्रैकस्य युज्यते ।
यदि च स्यात्तदा भेदप्रतिनिधिना विशेषेण घटनीयः ।
अतो ब्रह्मणो ज्ञत्वज्ञेयत्वयोरङ्गीकारे विशेषो ऽङ्गीकर्तव्यः स्यात् ।
निविर्शेषं च ब्रह्माङ्गीकृतमिति स्वज्ञेयत्वं न मन्यते ।
ततश्च परमेव ज्ञेयं वक्तव्यम् ।
तच्च मिथ्याभूतमिति कथं तदपेक्षं चेतनत्वं सत्स्यादिति ।
एवं ज्ञत्वस्य ज्ञानसापेक्षत्वमपि वक्तव्यम् ।
११,२६२
किञ्चैवं वदता स्वरूपमात्रमुपजीव्यमित्यपि वक्तुं न शक्यते ।
तस्यापि स्वशब्देन परापेक्षताप्रतीतेरित्याहस्वशब्दो ऽपीति ।
स्वशब्दो ऽपि परापेक्षस् … । (अनुव्याख्यानम्)३,४.१७०च् ।
न्यायसुधा-
परेपेक्षः परापेक्षस्यार्थस्य प्रतिपादकः ।
कथमित्यत आहतस्मादिति ।
… तस्माद् व्यावृत्तिरेव हि ।
स्वशब्दार्थ इति प्रोक्तः … । (अनुव्याख्यानम्)३,४.१७०दे ।
न्यायसुधा-
परस्मात् ।
हिशब्दो हेतौ ।
अर्थः प्रवृत्तिनिमित्तम् ।
इति प्रोक्तः शब्दशक्तिज्ञैः ।
स्वं च तद्रूपं चेति हि स्वरूपम् ।
रूपशब्दश्च स्वपरसाधारणः ।
तेन स्वस्मिन्प्राप्ते ऽप्युच्यमानः स्वशब्दः परिसङ्खयान्यायेन परव्यावृत्तिमेव प्रतिपादयतीति ज्ञायते ।
जोस्हि३१
११,२६४
सत्यमेतदेवं व्याख्याने ।
नचैवमित्यत आहस्वरूपमिति ।
… स्वरूपं नाम किं न चेत् । (अनुव्याख्यानम्)३,४.१७० ।
न स्वरूपाभिधायि स्याद् वैयर्थ्यं स्वरवस्य यत् ।
रूपशब्देन पूर्णत्वात् तच्च सामान्यतावचः । (अनुव्याख्यानम्)३,४.१७१ ।
न्यायसुधा-
अस्मदभिप्रेतं व्याख्यानं न चेदङ्गीक्रियते तदा स्वरूपं नाम किं, न किमपि ।
स्वरूपशब्दो निरर्थकः स्यादित्यर्थः ।
रूपशब्दसमानार्थः स्वरूपशब्द इत्यतः कथमेतदिति चेदत्र वक्तव्यम् ।
स्वं च तद्रूपं चेति व्युत्पत्तिमङ्गीकृत्यैवमुच्यते ।
उताखण्ड एवायं शब्द इत्युपेत्य ।
आद्ये दोषमाहवैयथ्यर्मिति ।
यस्मादस्मिन्पक्षे स्वशब्दस्य वैयर्थ्यं तस्मात्स्वरूपं नाम किमित सम्बन्धः ।
कुतो वैयर्थ्यमित्यत आहरूपेति ।
स्वरूपशब्दे यो रूपशब्दस्तेनैव रूपशब्दार्थाभिधानस्य पूर्णत्वात् ।
नहि रूपशब्दो रूपशब्दार्थं नाभिधव इति सम्भवति ।
अन्यथोत्पलनीलोत्पलशब्दावप्येकार्थौ स्याताम् ।
द्वितीयं निराकरोतितच्चेति ।
तत् रूपपदम् ।
चो यस्मादित्यर्थे ।
सामान्यतावचः सामान्याकारस्य वाचकम् ।
चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ्प्रत्ययः ।
एतदुक्तं भवति ।
प्रतीतिप्रमाणक एव शब्दार्थनिश्चय इति हि शाब्दाः ।
तत्र रूपशब्दः सामान्याकारस्याभिधायकः ।
सर्वेषां ततस्तत्प्रत्ययात् ।
स्वरूपशब्दश्चासाधारणाकारस्य ।
तस्मात्तत्प्रतीतेः ।
तस्मान्न तयोरेकार्थत्वमिति ।
११,२६६
यदुक्तं चेतनत्वं ब्रह्मणो न स्यादिति तदिष्यापादनम् ।
न हि वयं ब्रह्मणश्चेतनत्वमङ्गीकुर्मः ।
क्रियावेशलक्षणस्य कर्तृत्वस्य निर्विकल्पके ऽभावात् ।
किन्तु चैतन्यमेव ब्रह्म ।
तदर्था एव चेतनत्ववादा व्याख्यातव्या इत्यतश्चैतन्यमपि न परेण शक्याङ्गीकारमिति भावेन तद्वयाख्यातिचेतनस्येति ।
चेतनस्य स्वभावो हि चैतन्यमिति गीयते । (अनुव्याख्यानम्)३,४.१७२अब् ।
न्यायसुधा-
भावः शब्दप्रवृत्तिनिमित्तम् ।
तस्यात्रानागन्तुकत्वं ज्ञापयितुं स्वशब्दः ।
इति हि गीयत इत्यनेन गुणवचनब्राह्मणादिभ्यः कर्मणि चेति स्मृतिं सूचयति ।
चेतनशब्दप्रवृत्तिनिमित्तं च ज्ञानम् ।
चिती सञ्ज्ञान इति पाठात् ।
ततश्च ज्ञानं ब्रह्मेत्युक्तं भवति ।
११,२६७
ततः किमित्यत आहतस्मादिति ।
तस्माद् विशेषबाहुल्यं चैतन्यस्य विशेषतः । (अनुव्याख्यानम्)३,४.१७२च्द् ।
न्यायसुधा-
यस्माच्चैतन्यं नाम ज्ञानं तस्माच्चैतन्यस्य ब्रह्मणो, विशेषतो ऽतिशयेन, विशेषबाहुल्यं प्रसज्यते ।
ज्ञानं हि ज्ञेयज्ञातृकरणसापेक्षं भवति ।
ज्ञानत्वादिधर्माश्चानिवार्याः ।
नच सविशेषं ब्रह्म परेणाङ्गीक्रियते ।
ज्ञेयादिकं च न स्वयम् ।
विरोधात् ।
परन्तु मिथ्येति तत्सापेक्षं ज्ञानं कथं सत्स्यात् ।
ब्रह्मणो ज्ञानत्वे ज्ञेयाद्युपेतता कुत इति चेत् ।
ज्ञानत्वात् ।
प्रसिद्धज्ञानवत् ।
नच ज्ञानत्वमसिद्धमिति युक्तम् ।
अङ्गीकारविरोधात् ।
व्याप्तिमुपपादयतिनेति ।
न ज्ञेयज्ञातृहीनं हि ज्ञानं नाम क्वचिद् भवेत् । (अनुव्याख्यानम्)३,४.१७३अब् ।
न्यायसुधा-
यदुक्तं प्राग्ब्रह्मणश्चेतनत्वे ज्ञेयज्ञानोपेतत्वेन भाव्यमिति, तत्रापि ज्ञत्वात्सम्मतवदिति नियामकमभिप्रेतम् ।
प्रसङ्गात्तस्यापि व्याप्तिमुपपादयतिज्ञेयेति ।
ज्ञेयज्ञानविहीनश्च ज्ञ इत्यत्र च न प्रमा । (अनुव्याख्यानम्)३,४.१७३च्द् ।
न्यायसुधा-
आद्यश्चशब्दो ज्ञेयादिराहित्यज्ञत्वयोः समुच्चये ।
द्वितीयस्तु व्यभिचारद्वयसमुच्चये ।
११,२६८
ननु प्रसिद्धस्य ज्ञानस्य ज्ञेयाद्युपेतत्वे ऽपीदं ब्रह्मस्वरूपं ज्ञानं तद्रहितं भवतु किं बाधकमित्यत आहज्ञातृज्ञेयेति ।
११,२६९
ज्ञातृज्ञेयविहीनं च ज्ञानं चेद् भोक्तृभोज्यतः ।
हीनं भोजनमेव स्यात् ताडनं कर्तृताड्यतः । (अनुव्याख्यानम्)३,४.१७४ ।
न्यायसुधा-
हीनमेवेति सम्बन्धः ।
कर्तृ ताड्यत इति ताडयितृताड्याभ्यां हीनं स्यादित्यर्थः ।
धात्वर्थो ऽपि ज्ञानं यदि कर्तृरहितं स्यात् ।
आकाङ्क्षावशात्सकर्मकतया प्रतीयमानमपि च यदि निष्कर्मकं स्यात्तदोक्तो बहुतरो ऽतिप्रसङ्गः, विशेषाभावादिति ।
ज्ञविषये ऽप्येवं भोज्यभोजनविहीनो भोक्तापि स्यादित्यादिरतिप्रसङ्गो वाच्यः ।
नहि सकर्मकक्रियायाः कर्ता क्रियादिरहितो युक्त इति ।
११,२७०
ज्ञाता ज्ञेयमिति च कारकाभिधानमेतत् ।
कारकमुत्पादकमिति च पर्यायावेतौ ।
कार्यमेव चोत्पादकमपेक्षते ।
अकार्यं च ब्रह्माख्यं ज्ञानमिति न तस्य कर्त्राद्यपेक्षेत्याशयवान् शङ्कतेनित्यत्वादिति ।
नित्यत्वात् तादृशं च स्यादिति चेन् … । (अनुव्याख्यानम्)३,४.१७५अब् ।
न्यायसुधा-
नित्यत्वमकार्यत्वस्योपलक्षणम् ।
अनित्यस्य भोजनादेर्भोक्त्राद्यपेक्षायामपीदं नित्यत्वात्तादृशं ज्ञात्रादिरहितं च स्यादित्यनेन व्यापकविरुद्धोपलब्ध्या व्याप्यविपर्ययः शङ्कितः ।
नोत्पादकमेव कारकम् ।
तथा सत्यस्ति गगनमित्यादौ गगनादीनामकारकत्वप्रसङ्गात् ।
किन्तु धात्वर्थाश्रयः कर्ता, तद्विषयः कर्मेत्यादि ।
आकाङ्क्षानाकाङ्क्षे एव च तदन्वितत्वानन्वितत्वयोः प्रयोजके ।
नतु कार्यत्वाकार्यत्वे ।
अत एव कश्चिद्धात्वर्थः कर्माद्यन्वितः कश्चिन्नेति युज्यत इत्याशयवानाकाङ्क्षामप्रयोजकीकृत्य कार्यत्वाद्येव
प्रयोजकीकुर्वाणस्यातिप्रसङ्गमाहनित्येति ।
… नित्यवागपि ।
वाच्यवक्तृविहीना स्यान् … । (अनुव्याख्यानम्)३,४.१७५ब्च् ।
न्यायसुधा-
अकार्यस्य कारकानन्वितत्वे ऽकार्या वेदवाक् वाच्यवक्तृविहीना स्यात् ।
कार्यस्य च कारकान्वितत्वे कर्माद्यन्विततानियमो ऽपि स्यादित्यपेरर्थः ।
विपर्यये पर्यवसानमाहनहीति ।
… नहि सा चैव तादृशी । (अनुव्याख्यानम्)३,४.१७५द् ।
न्यायसुधा-
सा तादृशी नैव हीति सम्बन्धः ।
द्वितीयप्रसङ्गस्य विपर्ययपर्यवसानं चशब्देनाह ।
कथं न सा तादृशीत्यत आहद्रष्टार इति ।
११,२७१
द्रष्टारो वेदवाचो हि सन्ति वाच्यानि चाञ्जसा । (अनुव्याख्यानम्)३,४.१७६अब् ।
न्यायसुधा-
वक्तार इति वक्तव्ये द्रष्टार इत्युक्तमपौरुषेयत्वाविघातार्थम् ।
अञ्जसेति वाच्यसद्भावे न काचिदनुपपत्तिरित्युक्तम् ।
११,२७२
ननु सन्ति स्थितिसमये वेदवाचो वसिष्ठादयो द्रष्टार इन्द्रादयश्च वाच्याः ।
नतु महाप्रलय इत्यत आहनित्य इति ।
११,२७३
नित्यो द्रष्टा च वाच्यश्च भगवानेव च स्वयम् । (अनुव्याख्यानम्)३,४.१७६च्द् ।
न हि वक्तृविहीना च वाच्यहीनापि वाक् क्वचित् । (अनुव्याख्यानम्)३,४.१७७अब् ।
न्यायसुधा-
द्वौ चशब्दावन्योन्यसमुच्चये ।
तृतीयो यस्मादित्यर्थे वेदवाच इति वर्तते ।
हिशब्दः तस्मादित्यर्थे ।
वाक् वेदवाक् ।
क्वचित् प्रलये ऽपि ।
यथा वेदवाग्वाच्याद्युपेतापि क्वचित्तद्रहिता तथा ब्रह्म (स्व)रूपं ज्ञानं व्यवहारे ज्ञेयाद्यन्वितमपि परमार्थतस्तद्रहितं भविष्यतीति प्रत्याशां
वारयितुमिदं वचनम् ।
यस्मादेवं कार्यत्वादिकमप्रयोजकं किन्त्वाकाङ्क्षानिमित्तो नियतसम्बन्ध एव ।
तस्मान्नित्यवागिव नित्यमपि ज्ञानं ज्ञेयाद्युपेतमेवाङ्गीकार्यमित्युपसंहरतिज्ञातृज्ञेयेति ।
ज्ञातृज्ञेयविहीनं च ज्ञानमेवं न तद् भवेत् । (अनुव्याख्यानम्)३,४.१७७च्द् ।
न्यायसुधा-
ननु वाङ् न धात्वर्थः ।
अपि तु धात्वर्थं प्रति कर्म ।
तत्कथमत्रोदाहरणम् ।
उच्यते ।
आकाङ्क्षानिमित्तं प्रतिसम्बन्ध्यन्वितत्वं नित्यत्वेन न हीयत इत्येतावन्मात्रे(ण) वागुदाहरणस्य गृहीतत्वान्न दोषः ।
वागित्युक्ते हि किंवक्तृका किंवाच्येत्याकाङ्क्षा भवत्येव ।
वर्णानामप्यथर्वत्त्वस्य स्थितत्वान्न नित्यत्ववाच्यवत्त्वयोर्व्यधिकरणत्वम् ।
११,२७५
ज्ञस्यापि नित्यत्वेन ज्ञेयादिरहितत्वशङ्कैवमेव परिहार्येत्याहनहीति ।
न हि नित्यो ऽपि वक्तास्ति वाक्यवाच्यविवर्जितः ।
ज्ञानज्ञेयविहीनश्च ज्ञो ऽप्येवं नैव विद्यते । (अनुव्याख्यानम्)३,४.१७८ ।
न्यायसुधा-
नित्यो ऽपि वक्ता परमेश्वरो वाक्यवाच्यविवजिर्तो नास्ति ।
यस्मात्तस्मादेवं नित्यो ऽपि ज्ञो ज्ञानज्ञेयविहीनो नैव विद्यते ।
शक्तिः कारकमिति पक्षस्य स्थित्वान्नित्यो वक्तेति युज्यते ।
अनेनोभयत्र व्याप्त्यभावेन व्यापकविरुद्धोपलब्धिरसिद्धेत्युक्तं भवति ।
११,२८३
मिथ्याभूतपरसापेक्षस्य सार्वज्ञस्यापि मिथ्यात्वमङ्गीकुर्वाणस्य चेतनत्वाद्यभावप्रसङ्गो ऽभिहितः ।
इदानीं प्रपञ्चमिथ्यात्वं चाप्रामाणिकमित्याहकिञ्चेति ।
किञ्च सर्वविलोपश्च केन मानेन गम्यते । (अनुव्याख्यानम्)३,४.१७९अब् ।
११,२८४
न्यायसुधा-
सर्वविलोपः सर्वस्य मिथ्यात्वम् ।
न तावत्प्रत्यक्षेण, तस्य सत्यताग्राहित्वात् ।
नाप्यनुमानेन, प्रत्यक्षबाधितस्य तस्य प्रामाण्याभावात् ।
नचागमेन ।
प्रपञ्चमिथ्यात्वं प्रतिपादयतः तस्याभावादित्याक्षेपार्थः ।
ननु नेह नानास्ति किञ्चनेत्यागमस्य सद्भावात्कथं विश्वमिथ्यात्वे मानाभाव इति चेदत्र पृच्छामः ।
अत्र सर्वस्य मिथ्यात्वं प्रतिपादयति वाक्ये सर्वान्तर्गतत्वेनेदं वाक्यमेतद्वाक्यार्थश्च गृह्यते न वेति ।
आद्यमनूद्य दूषयतिसर्वेणेति ।
सर्वेण सह तद् वाक्यामर्थश्च यदि गृह्यते ।
तदभावेन सर्वस्य नापलापो भवेत् तदा । (अनुव्याख्यानम्)३,४.१७९च्फ़् ।
न्यायसुधा-
तदभावेन वाक्यवाक्यार्थयोर्मिथ्यात्वेन कारणेन ।
वाक्याभावे प्रतिपादकाभावाद्वाक्यार्थस्य सर्वमिथ्यात्वस्याभावे च व्याघातात् ।
द्वितीयमनूद्य दूषयतिन गृह्यते चेदिति ।
न गृह्यते चेद् तन्न्यायादपलापो न हि क्वचित् । (अनुव्याख्यानम्)३,४.१८०अब् ।
न्यायसुधा-
क्वचिद्वियदादिविषये ऽप्यपलापो निषेधो न युज्यते ।
तन्न्यायाद्वाक्यादिन्यायात् ।
अयमर्थः ।
वाक्यवाक्यार्थौ कुतः सर्वस्माद्बहिष्क्रियेते इति वाच्यम् ।
अनुपपत्तेरिति चेत् ।
किमनुपपन्नं न प्रतिपादनीयम् ।
अद्धेति चेत ।
एवं तर्हि वियदादिमिथ्यात्वमप्यनुपपन्नत्वान्न प्रतिपादनीयमिति ।
११,२८५
ननु वाक्योदाहरणे कृते नैवंविधं वाक्यमस्तीति वा (ए)नैषां पदानामत्र शक्तिरर्(ना)स्तीति वा नास्य वाक्यस्यात्र तात्पर्यमस्तीति वा वक्तव्यम् ।
अनेन विकल्पनिराकरणेन तु किं कृतं स्यादित्यत आहउपपत्तीति ।
उपपत्तिविहीनस्य वाक्यस्यार्थो न गम्यते । (अनुव्याख्यानम्)३,४.१८०च्द् ।
न्यायसुधा-
विहीनस्य विरुद्धस्य ।
अर्थस्तात्पर्यम् ।
एतदुक्तं भवति ।
न ब्रूमो वयं नास्तीदं वाक्यमिति ।
नाप्येषां पदानामत्र शक्तिर्नास्तीति ।
किन्त्वस्य वाक्यस्य प्रपञ्चमिथ्यात्वे तात्पर्यं नास्तीति ।
उपपत्तिविरोधाभावो हि प्रतीतार्थे तात्पर्यस्य ज्ञापकः ।
अत्र चास्त्युपपत्तिविरोध इति ज्ञापनाय विकल्प्य दूषणाभिधानं कृतमिति ।
स्यादेतत् ।
उपक्रमोपसंहाराभ्यासापूर्वताफलार्थवादोपपत्तयः श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्याश्च तात्पर्यलिङ्गानि ।
तत्रोपपत्तिविरोधे ऽप्यन्यैर्लिङ्गैरस्य वाक्यस्य प्रपञ्चमिथ्यात्वे तात्पर्यमवगम्यतामित्यत आहउपक्रमादीति ।
उपक्रमादिलिङ्गानां बलीयो ह्युत्तरोत्तरम् ।
श्रुत्यादौ पूर्वपूर्वं च … । (अनुव्याख्यानम्)३,४.१८१अच् ।
११,२८५फ़्.
न्यायसुधा-
उपक्रमादिलिङ्गानां मध्ये यद्यदुत्तरं तत्तद्बलीय इत्युपपत्तिरेव बलीयसी ।
श्रुत्यादौ लिङ्गसमूहे च यद्यत्पूर्वं तत्तद्बलीय इति ।
तत्रापि लिङ्गशब्दोदितोपपत्तिरेव बलवती ।
ततो बलवद्विरोधे सतामन्येषां लिङ्गानां न तात्पर्यनिश्चायकत्वं युक्तम् ।
कुत एतदित्यत आहब्रह्मतर्केति ।
११,२८६
… ब्रह्मतर्कविनिर्णयात् । (अनुव्याख्यानम्)३,४.१८१द् ।
न्यायसुधा-
ब्रह्मतर्काख्ये तर्कशास्त्रे तथा निर्णीतत्वात् ।
एतेनोपक्रमस्योपसंहारात्प्राबल्यं वदन्तो निरस्ताः ।
यथा चैतत्तथोक्तं न्यायविवरणे ।
११,२८७
इतश्च नाप्यस्य वाक्यस्य प्रपञ्चमिथ्यात्वे तात्पर्यमाहप्रत्यक्षमिति ।
११,२८७फ़्.
प्रत्यक्षमुपपत्तिश्च बहवश्चागमा यदा ।
विरुद्धयन्ते नचार्थो ऽस्ति यत्र लिङ्गविरोधिता । (अनुव्याख्यानम्)३,४.१८२ ।
स एवार्थः कथं ग्राह्य … । (अनुव्याख्यानम्)३,४.१८३अ ।
११,२८८
न्यायसुधा-
सद्गगनमित्यादि प्रत्यक्षम् ।
तच्च साक्षिरूपत्वाद्बलवत् ।
उपपत्तिश्चार्थक्रियाकारित्वादिका ।
सा च व्याप्त्यादिमत्त्वाद्बलवती ।
आगमाश्च विश्वं सत्यमित्याद्याः ।
तेषा प्राबल्यव्युत्पादनाय बहव इत्युक्तम् ।
निरवकाशत्वाद्युपलक्षणमेतत् ।
यदा यस्मिन्नर्थे ऽङ्गीकृते ।
यत्र यदर्थप्रतिपादने ऽर्थः प्रयोजनं च नास्ति ।
ब्रह्मणो ऽद्वितीयतासिद्धिः प्रयोजनमिति चेन्न ।
तस्या एवाप्रामाणिकत्वात् ।
आत्मनो मुक्तिसिद्धिरिति चेन्न ।
विनाशेनापि तत्सिद्धेः ।
बहुजीववादिनामिवादर्शनेनाप्युपपत्तेः ।
वैराग्यार्थमिति चेन्न ।
दुःखसाधनताज्ञापनेन तत्सिद्धेः ।
अर्थग्रहणमुपलक्षणम् ।
उपक्रमादीनामप्यानुकूल्यं नास्तीति च द्रष्टव्यम् ।
न केवलं लिङ्गानुकूल्याभावः ।
किन्नाम यत्र लिङ्गविरोधिता च ।
एतद्द्वयं ग्रन्थान्तरे तत्र तत्रोक्तं ज्ञातव्यम् ।
११,२८९
तर्हि निरवकाशं वाक्यमप्रमाणं प्रसज्यत इत्यत आहउपपन्न इति ।
… उपपन्ने ऽविरोधिनी । (अनुव्याख्यानम्)३,४.१८३ब् ।
न्यायसुधा-
प्रत्यक्षादिप्रमाणोपक्रमादिलिङ्गाविरोधिनि तदानुकूल्योपपन्ने च भगवति स्वगतभेदाभावे ऽर्थे वाक्यस्य सति स एवार्थः कथं ग्राह्यः ।
नेह नानेति वाक्यस्यापव्याख्याने निराकृते लब्धमाहमुख्यार्थ इति ।
मुख्यार्थे विद्यमाने तु क्व सावर्ज्ञ्यं निषिद्धयते । (अनुव्याख्यानम्)३,४.१८३च्द् ।
न्यायसुधा-
प्रतिषेधस्य सङ्कोचे कारणाभावेन प्रपञ्चमिथ्यात्वं मुख्यो ऽर्थः ।
तस्मिन्नविद्यमाने तु सावर्ज्ञं न प्रतिषेद्धुं शक्यते ।
मिथ्यार्थसापेक्षतया हि तन्निषेध्यम् ।
यद्वोपपन्न इत्यादिकमेकं वाक्यम् ।
उपपन्ने ऽविरोधिनि च ।
अत एव मुख्यार्थे वाक्यस्य विद्यमाने सति ।
अनेन प्रपञ्चमिथ्यात्वासिद्धेः क्व सार्वज्ञं निषिध्यत इति योजना ।
सङ्गतिस्तूक्तसङ्गतिसमाहारेण द्रष्टव्या ।
११,२९०
सर्वं तदुपजीव्यैवेत्यादिनोक्तमर्थमुपसंहरतिअत इति ।
अतः सर्वगुणैर्युक्तं ब्रह्माङ्गीकायर्मेव हि । (अनुव्याख्यानम्)३,४.१८४अब् ।
न्यायसुधा-
अङ्गीकार्यम् धर्मितयेति शेषः ।
तथा चोपजीव्यविरोधस्तत्त्वमस्यादिवाक्यस्य दुर्वार इति हेरर्थः ।
११,२९१
स्यादेतत् ।
सार्वज्ञादिगुणोपेतमेव ब्रह्म धर्मीकुर्मः ।
किन्तु तेषां मिथ्यात्वान्नोपजीव्यविरोधो ऽद्वैतागमस्य ।
यथा यः पुरुषः स स्थाणुरित्यत्रारोपितेन पुरुषत्वेन व्यावृत्तं वस्तु धर्मीकृत्य प्रवृत्तावपि नोपजीव्यविरोध इत्यत आहअपलापो ऽपीति ।
अपलापो ऽपि सर्वस्य न कथञ्चन युज्यते । (अनुव्याख्यानम्)३,४.१८४च्द् ।
न्यायसुधा-
मिथ्यात्वाभिधानम् ।
अपिशब्दः पूर्ववाक्यार्थसमुच्चये ।
सर्वशब्देन प्रकृतं गुणजातमुच्यते ।
कथञ्चनेति प्रमाणाभावात् श्रुत्यादिप्रमाणविरुद्धत्वाच्च ।
अप्राप्तत्वेनानुवादत्वाभावस्य चोक्तत्वादित्यर्थः ।
११,२९२
ननु च तत्त्वमस्यादिवाक्यमेव जीवब्रह्मणोरेकतां प्रतिपादयत्सार्वज्ञादिगुणजातस्य मिथ्यात्वं गमयति ।
नहि तस्य सत्यत्वे जीवब्रह्मैकत्वमुपपद्यते ।
तत्कथं गुणानां मिथ्यात्वे प्रमाणाभाव इति चेन्न ।
सिद्धे तत्त्वमस्यादिवाक्यस्य जीवब्रह्मैकत्वनिष्ठत्वे गुणानां मिथ्यात्वसिद्धिः ।
तत्सिद्धौ च तत्सिद्धिरिति परस्पराश्रयतादोषात् ।
दोषान्तरं चाहअनादीति ।
अनादियोग्यता चोक्ता तेन ग्राह्यैव सर्वथा । (अनुव्याख्यानम्)३,४.१८५अब् ।
न्यायसुधा-
यस्माज्जीवानामनादियोग्यतोक्ता प्रमाणैरुपपादिता ।
तेन कारणेन सा ग्राह्यैव सर्वथा ।
एतदुक्तं भवति ।
यदा देवमानवदानवरूपा तदवान्तरभेदरूपा च जीवानां योग्यतानादिनित्या प्रमिता तदा का वार्ता जीवब्रह्मणोरेकत्वस्य ।
तथा च कथं तत्सिद्धये गुणानां मिथ्यात्वकल्पनमिति ।
अत्रैव हेत्वन्तरमाहमुक्तानामिति ।
मुक्तानां तारतम्यं च मानैरुक्तैर्न चाल्यते । (अनुव्याख्यानम्)३,४.१८५च्द् ।
न्यायसुधा-
मानैरुक्तैरिति मानानामुक्तत्वादित्यर्थः ।
न चाल्यते नान्यथयितुं शक्यते ।
यदा मुक्तावपि तारतम्यं प्रमितम् ।
तदा का जीवब्रह्मैक्यप्रत्याशा ।
कथं च तत्त्वमस्यादिवाक्यस्य तत्परत्वम् ।
यतो गुणानां मिथ्यात्वकल्पनं युक्तं स्यादिति ।
११,२९३
मुक्तानां तारतम्ये प्रमाणान्तरमाहज्ञानिनो ऽपीति ।
ज्ञानिनो ऽपि यतो नित्यं कुर्वन्ति शुभमेव हि ।
तारतम्यं तु मुक्तौ च तेनैवाध्यवसीयते । (अनुव्याख्यानम्)३,४.१८६ ।
न्यायसुधा-
एवशब्देन पापं परिहरन्ति चेति सूचयति ।
तुशब्देन शुभाशुभकरणपरित्यागयोः तारतम्यं द्योतयति ।
हिशब्देन तत्र प्रमाणप्रसिद्धिम् ।
प्रमाणानि तु दशकल्पमित्यादीनि प्रागुदाहृतान्येव ।
तेनैवेत्यस्य प्रमाणस्य निरवकाशतामाह ।
प्राङ्मोक्षसाधनानां तारतम्यान्मोक्षतारतम्यमुक्तम् ।
इदानीं तु ज्ञानेन निश्चितमोक्षाणामपि शुभाशुभकरणपरित्यागतारतम्यादुच्यत इति भेदः ।
विपक्षे बाधकमाहतारतम्यमिति ।
११,२९४
तारतम्यं न चेन्मुक्तौ कुतः कुर्युः शुभं पुनः । (अनुव्याख्यानम्)३,४.१८७अब् ।
न्यायसुधा-
पुनरिति ज्ञानोत्तरम् ।
यदि ब्रह्माद्या मुक्तौ तारतम्यवन्तो न स्युस्तदा ज्ञानमात्रेण मोक्षस्य प्राप्तप्रायत्वाज्ज्ञानोत्तरकालं शुभं न कुर्युः ।
अशुभं च न परित्यजेयुरित्यथर्ः ।
विपर्ययपर्यवसानमाहकृच्छ्रेणेति ।
कृच्छ्रेणापि तपो ज्ञानं कर्माप्येते चरन्ति हि । (अनुव्याख्यानम्)३,४.१८७च्द् ।
बिभ्यति स्माशुभान्नित्यं सकामाश्च शुभे सदा । (अनुव्याख्यानम्)३,४.१८८अब् ।
न्यायसुधा-
तपो ज्ञानं कर्मापीत्यनेन शुभमित्युक्तं भवति ।
ज्ञानमिति श्रवणादिकमुच्यते ।
कर्मेति यज्ञादि एते ज्ञानिनः कृच्छ्रेणापीत्यादिविशेषणानां फलमनुपदमेव ज्ञास्यते ।
सकामाश्च शुभे सदेत्येकस्य तपआदेश्चरणकाले तपआद्यन्तरं कामयन्त इत्यर्थः ।
तस्माज्ज्ञानोत्तरकालानुष्ठितेन विचित्रेण शुभेन विचित्रामानन्दबुद्धिं प्राप्नुवन्तीति शेषः ।
११,२९५
भवेदेतद्यदि ज्ञानोत्तरकालकृतानां शुभानां फलवत्त्वं स्यात् ।
न चैवम् ।
तेषां कर्मस्वनधिकारात् ।
अनधिकारिणा च कृतं विफलमिति प्रसिद्धमेव ।
अनुष्ठानं त्वन्यथाप्युपपद्यते ।
ते हि प्राग्ज्ञानोदयादादरनैरन्तर्याभ्यां शुभान्यनुष्ठितवन्तस्तत्स्वाभाव्यमापन्ना ज्ञानोदयानन्तरमप्यनुतिष्ठन्तीत्याङ्कय परिहरतिनचेति ।
न च स्वभाव एवायं भयपूर्वप्रवृत्तितः । (अनुव्याख्यानम्)३,४.१८८च्द् ।
न्यायसुधा-
अयं ज्ञानिनां शुभाचरणरूपः ।
अकरणे प्रत्यवायो भविष्यतीत्येवं भयपूर्वप्रवृत्तितः कृच्छ्रेणैवाचरणाच्च, शुभस्यैवेति प्रेक्षापूर्वमशुभपरित्यागेनेत्यर्थः ।
११,२९६
कृच्छ्रेणाचरणाच्चैव शुभस्यैव पुनः पुनः । (अनुव्याख्यानम्)३,४.१८८एफ़् ।
न्यायसुधा-
एतेन कृच्छ्रेणापीत्यादिविशेषणफलमुक्तं भवति ।
नहि स्वभावकृता प्रवृत्तिरेवं भवितुमर्हति ।
११,२९७
नन्वेते प्रागनुष्ठानकाले भयपूर्वं कृच्छ्रेणाशुभपरित्यागेनैवानुष्ठितवन्तः ।
अतः तत्स्वभावा एव संवृत्तार इदानीमपि तत्स्वाभाव्येन तथैव कुर्वन्तीत्यङ्गीकारे को दोष इत्याशङ्कयाहतादृशो ऽपीति ।
तादृशो ऽपि स्वभावश्चेदज्ञस्यापि भवेत् तथा । (अनुव्याख्यानम्)३,४.१८९अब् ।
न्यायसुधा-
भयपूर्वप्रवृत्त्यादिरूपो ऽपि ।
ज्ञानिनस्तावदनुष्ठाने ऽज्ञेभ्यो न विशिष्यन्ते ।
तत्र ज्ञानिनां शुभप्रवृत्तिः पूर्वतरपूर्वतमस्वभावबलायातैव नतु फलवतीत्यङ्गीकुर्वाणं प्रति यदि कश्चिद् ब्रूयात् अज्ञानिनामपि शुभा प्रवृत्तिः
पूर्वतरपूर्वमस्वभावगतैव न तु फलवती विशेषाभावादिति, तदा किं वाच्यमिति ।
प्रतिबन्दीं मोचयितुमाशङ्कतेफलवत्त्व इति ।
फलवत्त्वे प्रमाणं चेत् तत्र ज्ञस्य समं हि तत् । (अनुव्याख्यानम्)३,४.१८९च्द् ।
न्यायसुधा-
अज्ञानिनां कर्मणो ऽस्तीति शेषः ।
साम्ये हि प्रतिबन्दीग्रहः ।
नच तदत्रास्ति ।
यतो ऽज्ञानिकृतकर्मणां सफलत्वे’कर्मजं बुद्धियुक्ता हि’ इत्यादिकं प्रमाणमस्ति ।
उपलक्षणं चैतत् ।
अधिकारिणश्चैते विधिगोचराश्चेत्यपि द्रष्टव्यम् ।
नह्येवं सति स्वभावकल्पनावकाशो ऽस्तीति ।
एवं तर्हि ज्ञानिष्वपि न स्वभावकल्पना युक्तेत्याशयवानाहतत्रेति ।
तत्र कर्मणः फलवत्त्वे ।
तत् प्रमाणम् ।
अत्राप्यधिकारादिकमुपलक्षणीयम् ।
११,२९८
किं तत्प्रमाणमित्यतस्तद्दर्शयतिनिष्काममिति ।
निष्कामं ज्ञानपूर्वं च निवृत्तमिह चोच्यते ।
निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम् । (अनुव्याख्यानम्)३,४.१९० ।
न्यायसुधा-
इह प्रवृत्तनिवृत्तयोर्मध्ये ।
अभ्येति अतिशयेनैति ।
आनन्दोद्रेकसाहित्येन मुक्तो भवतीत्यर्थः ।
एतत्स्मृतिवाक्यार्थविवरणाय वाक्यान्तरं पठतिशुभेनेति ।
शुभेनानन्दवृद्धि स्याद्घ्रासश्चैवाशुभेन हि ।
ज्ञानिनो ऽपि यतस्तेन कर्तव्यं शुभमेव तैः । (अनुव्याख्यानम्)३,४.१९१ ।
न्यायसुधा-
ह्यासश्चानन्दस्य ।
शुभमेव कर्तव्यमशुभं त्याज्यं च ।
अनेन विधिसद्भावो ऽपि सिद्धः ।
ततो ऽधिकारश्च ।
अत्र श्रुतिमप्याहउपास्त इति ।
उपास्ते स य आत्मानं क्षीयते नास्य कर्म ह ।
अस्माद्धयेवात्मनो यद्यत् कामयेत् सृजते च तत् । (अनुव्याख्यानम्)३,४.१९२ ।
११,२९८फ़्.
न्यायसुधा-
अनेन’स य आत्मानमेव लोकमुपास्ते न ह्यस्य कर्म क्षीयते ऽस्माद्धयेवात्मनो यद्यत्कामयते तत्तत्सृजते’ इति श्रुतिमुपादत्ते ।
आत्मानं परमात्मानम् ।
लोकं सर्वाश्रयम् ।
उपास्ते कारणेन कार्योपलक्षणं पश्यतीत्यर्थः ।
स विद्वान्मुक्तो भूत्वा यद्यत्कामयते तत्तत्कर्मास्माद्धयेवात्मनो ऽस्यात्मनः प्रसादेन सृजते ।
११,२९९
अविद्वान् बहुकर्मापि ह्यन्तवत् फलमाप्नुयात् । (अनुव्याख्यानम्)३,४.१९३अब् ।
न्यायसुधा-
अविद्वानित्यनेन’यद्यप्यनेवंविन्महत्पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एव’ इति श्रुतिमुपादत्ते ।
अनया चार्थाज्ज्ञानिकर्मणः साफल्यं सिद्धयति ।
उपरि चोपयोगो भविष्यति ।
यदेव विद्यया कुर्यात् तदेव ह्यतिवीर्यवत् ।
इत्यादिवाक्यसामर्थ्यात् तारतम्यं विमुक्तिगम् । (अनुव्याख्यानम्)३,४.१९३च्फ़् ।
न्यायसुधा-
यदेवेत्यनेन’यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’ इति श्रुतिमुपादत्ते ।
विद्यया ब्रह्मसाक्षात्कारपूर्वकमुपनिषदा स्वयोग्य(म्)या वीर्यवत्तरमधिकफलमित्यादिवाक्यसामर्थ्याज्ज्ञानिकृतकर्मणां फलवत्त्वं
तावत्प्रतीयते ।
ततस्तेषां वैचित्र्याद्विमुक्तिगं तारतम्यं च सिद्धमित्यर्थः ।
११,३००
स्यादेतत् ।
नैतानि वाक्यानि ज्ञानिकर्मणां साफल्यं प्रतिपादयन्ति ।
स य आत्मानमित्यत्र तावदुपासककर्मणामक्षयफलत्वश्रवणात् ।
इतरत्र च ज्ञानविद्याशब्दयोः परोक्षज्ञानार्थत्वस्याप्युपपत्तेरित्याशङ्कां परिहरतिनचेति ।
नचात्रोपासकस्यैव फलमक्षयमुच्यते । (अनुव्याख्यानम्)३,४.१९४अब् ।
न्यायसुधा-
अत्र वाक्येषु ।
फलं कर्मणाम् ।
तथा ज्ञानादिपदं परोक्षज्ञानार्थतया न व्याख्येयमित्यपि ग्राह्यम् ।
कुतो नेत्यत आहनहीति ।
न हि ज्ञानं विना क्वापि फलस्याक्षयता भवेत् । (अनुव्याख्यानम्)३,४.१९४च्द् ।
न्यायसुधा-
ज्ञानं ब्रह्मसाक्षात्कारम् ।
क्वापि मोक्षे ऽन्यत्र च ।
फलस्य कर्मणाम् ।
इदमुक्तं भवति ।
ब्रह्मसाक्षात्काररहितेनोपासकेन कृतानि कर्माण्यक्षयफलानि केन प्रकारेणेति चिन्त्यम् ।
किमक्षयं मोक्षं कुर्वन्तीति ।
उत स्वर्गादिकम् ।
नाद्यः ।
नान्यः पन्था इति श्रुतिविरोधात् ।
न द्वितीयः ।
पुण्यचितो लोकः क्षीयत इति स्वर्गादिफलानां क्षयित्वश्रवणात् ।
‘अनेवंविन्महत्पुण्यं कर्म करोतिऽ‘तदेव वीर्यवत्तरं भवति’ इत्युदाहृतश्रुतिविरोधश्च पक्षद्वये ऽपि ।
तदेवमज्ञपक्षे वाक्यार्थानुपपत्तेरुपासकपदस्य ज्ञान्युपलक्षकत्वमेव युक्तम् ।
तथा ब्रह्माभ्येतीति श्रवणाज्ज्ञानपदस्य साक्षात्कारवाचित्वमेव युक्तमिति ।
अत एव वाक्यसामर्थ्यादित्युक्तम् ।
यद्यपि पश्यन्नपीममात्मानमित्याद्याः स्पष्टार्थाः श्रुतयो ऽत्र सन्ति ।
तथापि मीमांसार्थमेतासामुदाहरणम् ।
११,३०१
नन्वज्ञपक्षे ऽपि नानुपपत्तिः ।
उपासकेन कृतानि खल्वसङ्कल्पितफलानि कर्माणि ज्ञानमुपजनयन्ति ।
कर्मणा ज्ञानमातनोतीति श्रुतेः ।
ज्ञानेन मोक्षो भवतीत्यज्ञकृतकर्मणामपि ज्ञानद्वारेणाक्षयफलत्वोपपत्तेरित्याशङ्कयाहज्ञानेति ।
ज्ञानद्वारेण चेत् तस्य नास्मत्पक्षप्रतीपता । (अनुव्याख्यानम्)३,४.१९४एफ़् ।
न्यायसुधा-
कर्मफलस्याक्षयतेति वर्तते ।
तस्य परकृतव्याख्यानस्य ।
अस्मत्पक्षप्रतीपता मुक्ततारतम्यविरोधिता ।
प्रत्युत तदनुकूलतैव ।
मुक्तौ तारतम्यमसहमानेन खल्वेवमन्यथा व्याख्यानं क्रियते तन्मुक्ततारतम्यमेव साधयति ।
कर्माणि हि जिज्ञासवो विचित्राणि कुर्वन्ति ।
तैश्च जायमानेन ज्ञानेन विचित्रेणैव भाव्यम् ।
अन्यथा कृतविप्राणाकृताभ्यागमापत्ते ।
विचित्रेण ज्ञानेन विचित्र एव मोक्षो भावनीयः ।
पूर्वोक्तादेव हेतोरिति ।
तदेवं स्वमतविरोधिपरानुकूलमन्यथाव्याख्यानं न कार्यमेव ।
तथा चास्मद्वयाख्याने स्थिते प्रकृतं युक्तमिति ।
११,३०२
अस्तु वान्यथाव्याख्यानं युक्तम् ।
ततश्चैतेषां वाक्यानां प्रकृतासाधकत्वम् ।
एवमपि ज्ञानोत्तरकर्मणो मोक्षान्तर्गतफलहेतुतायाः प्रमाणान्तरेण सिद्धेर्मुक्ततारतम्यं न हातुं शक्यमित्यभ्युपगमवादेनाहज्ञानोत्तरस्येति ।
ज्ञानोत्तरस्यैवमपि ह्यक्षयत्वं … । (अनुव्याख्यानम्)३,४.१९५अब् ।
न्यायसुधा-
कर्मणो ऽक्षयत्वमक्षयमोक्षानुप्रवेशिफलत्वं सिद्धयति ।
कथमित्यत आहनचेति ।
… नचान्यथा । (अनुव्याख्यानम्)३,४.१९५ब् ।
न्यायसुधा-
प्रकारान्तराभावात् ।
परिशेषप्रमाणादिति यावत् ।
एतेन ज्ञानोत्तरस्य कर्मणः साफल्ये ऽपि तस्य फलस्य मोक्षानुप्रवेशितायां प्रमाणाभावान्न मोक्षतारतम्यसिद्धिरित्यपि प्रत्युक्तम् ।
११,३०३
परिशेषमेव दर्शयतिपूर्वेति ।
पूर्वभाविशुभानां हि ज्ञानेनैव कृतार्थता । (अनुव्याख्यानम्)३,४.१९५च्द् ।
प्रारब्धानां तु भोगेन तज्ज्ञानोत्तरकर्मणाम् ।
मुक्तावनुप्रवेशः स्यादन्यथा तत्कृतिर्नहि । (अनुव्याख्यानम्)३,४.१९६ ।
न्यायसुधा-
ज्ञानिकृतेषु कर्मस्वेता विधास्तावत्सम्भवन्ति ।
ज्ञानार्थत्वं वा भोगार्थत्वं वा व्यर्थत्वं वेति ।
तत्र ज्ञानिकर्मणां ज्ञानार्थत्वं तावन्नोपपद्यते ।
पूर्वभाविशभैरेव ज्ञानस्य कृतत्वात् ।
तत्र हेतुः पूर्वभावीति ।
ज्ञानात्पूर्वभाविनां शुभानां यसमाज्ज्ञानेनैव कार्येण कृतार्थता नान्येन ।
तेषां कार्यान्तराभावात् ।
ज्ञानार्थत्वाभावे वैयर्थ्यं स्यादित्यर्थः ।
पूर्वजातं प्रति पश्चाद्भाविनः कारणत्वायोगाच्च ।
नापि भोगार्थत्वम् ।
प्राचीनप्रारब्धकर्मभिरेव भोगस्य जायमानत्वात् ।
तत्र हेतुः प्रारब्धानां च कर्मणां भोगेनैव कृतार्थतेति ।
पूर्ववत्तात्पर्यम् ।
वैयर्थ्यनिरासहेतुरन्यथेति ।
ज्ञानिकर्मणां व्यर्थत्वे तदनुष्ठानं न स्यात् ।
नहि प्रेक्षावन्तो व्यर्थं (कर्म) कुर्वन्ति ।
करणस्वाभाव्यादिति चेत् ।
अबुद्धिपूर्वताप्रसङ्गात् ।
लोकसङ्ग्रहार्थमिति चेन्न ।
तत्प्रयोजनस्यापि वाच्यत्वात् ।
ईश्वरवदिति चेन्न ।
मुक्तावपि प्रसङ्गात् ।
परिशेषफलकथनं तत्तस्माज्ज्ञानोत्तरकर्मणां मुक्तावनुप्रवेशो मुक्तिगतानन्दवृद्धयर्थत्वं स्यादिति ।
११,३०४
पूर्वभाविशुभानि ज्ञानार्थानीत्युक्तम् ।
तत्र सर्वेषां ज्ञानार्थतायां प्रसक्तायां विशेषमाहज्ञानादीति ।
ज्ञानात् पूर्वाणि सर्वाणि शुभानि ज्ञानसिद्धये ।
अकाम्यानि … । (अनुव्याख्यानम्)३,४.१९७अच् ।
न्यायसुधा-
ज्ञानात्पूर्वाण्यकाम्यान्येव शुभानि कर्माणि पुण्यकर्माणि ज्ञानसिद्धये भवन्ति न तु काम्यानि ।
शुभानीति विशेषणस्य कृत्यमाहनिषिद्धानीति ।
… निषिद्धानि ज्ञानरोधाय भुक्तये । (अनुव्याख्यानम्)३,४.१९७च्द् ।
११,३०५
न्यायसुधा-
ज्ञानानुत्पाद उत्पन्नस्याप्यभिभवो वा ज्ञानरोधः ।
भुक्तये दुःखस्य ।
एवं काम्यस्यापि विनियोगो ज्ञातव्यः ।
एतच्च(च)तुर्थे व्युत्पादनीयम् ।
११,३०६
ननु यथाकाम्यानि शुभानीति च विशेषणमुपादीयते तथा नित्यनैमित्तिकव्यतिरिक्तानीत्यपि विशेषणमुपादेयम् ।
नित्यादेरपि प्रत्यवायपरिहाराथर्त्वेन ज्ञानकारणत्वाभावादित्यत आहयोग्यताया इति ।
योग्यताया बलाद् यच्च शुभबाहुल्यमादितः ।
ज्ञानबाहुल्यमेवैतत् कुर्यान्नान्यस्य … । (अनुव्याख्यानम्)३,४.१९८अद् ।
न्यायसुधा-
योग्यात ब्राह्मणत्वादिरूपा पितृमरणादिरूपा च ।
आदितो ज्ञानात्पूर्वं कृतम् ।
अन्यस्य प्रत्यवायमात्रपरिहारस्य ।
‘आध्यानाय प्रयोजनाभावात्’ इत्यत्रास्यार्थस्य समर्थितत्वान्नेह हेतुरुक्तः ।
अत्र योग्यताया बलाच्छुभमादितः कृतमेतच्च ज्ञानमेव कुर्यादिति च वक्तव्ये यदुभयत्र बाहुल्यग्रहणं कृतं तत्तस्य
नास्मत्पक्षप्रतीपतेत्युक्तप्रपञ्चनार्थमिति ।
११,३०८
अत्र’पुरुषार्थो ऽतःशब्दाद्’ इत्यादिना ज्ञानस्य मोक्षसाधनत्वमुक्तम् ।
अत्र च कर्मतारतम्याज्ज्ञानतारतम्यं ज्ञानतारतम्यान्मोक्षतारतम्यमिति वदता च सूचितम् ।
ज्ञानपदं चावबोधमात्रस्य प्रतिपादकमिति प्रतीतिनिरासार्थमाहज्ञानस्येति ।
ज्ञानस्य भक्तिभागत्वाद् भक्तिर्ज्ञानमितीर्यते । (अनुव्याख्यानम्)३,४.१९९अब् ।
न्यायसुधा-
अस्मिञ्छास्त्रे यत्र यत्र ज्ञानस्य मोक्षसाधनत्वमुच्यते तत्र तत्र ज्ञानमिति पदेन भक्तिरीर्यते लक्ष्यते ।
कुतः ।
सम्बन्धात् ।
ज्ञानस्य भक्तिभागत्वात् ।
माहात्म्यज्ञानस्नेहसमुदायो हि भक्तिरित्युक्तम् ।
ततो ज्ञानं भक्तेर्भाग एकदेशः ।
तथा चैकदेशैकदेशित्वलक्षणात्सम्बन्धादित्युक्तं भवति ।
एकदेशेनैकदेशिलक्षणा च द(शम)शामात्रं दत्तमित्यादौ प्रसिद्धैव ।
११,३११
प्रकारान्तरमाहज्ञानस्यैवेति ।
ज्ञानस्यैव विशेषो यद् भक्तिरित्यभिधीयते । (अनुव्याख्यानम्)३,४.१९९च्द् ।
न्यायसुधा-
यद्यदा ज्ञानस्यैव विशेषः स्नेहादिसाहित्यलक्षणो धर्मो भवति तदा स पिण्डो भक्तिरित्यभिधीयते ।
एतदुक्तं भवति ।
ज्ञानं स्नेहश्च भक्तेरंशौ ।
तत्रैकेनांशेनांशान्तरस्योपलक्षणम् ।
तथाचाहजल्लक्षणया भक्तिरेव सिध्यतीति ।
एकदेशान्तरेणैकदेशान्तरस्योपलक्षणे दृष्टान्तमाहपरोक्षत्वेति ।
परोक्षत्वापरोक्षत्वे विशेषौ ज्ञानगौ यथा । (अनुव्याख्यानम्)३,४.२००अब् ।
न्यायसुधा-
यथा ज्ञानस्य परोक्षत्वापरोक्षत्वलक्षणौ द्वौ धर्मौ ।
तत्र तमेवं विद्वानिति परोक्षज्ञानस्य मोक्षसाधनत्वे ऽभिहिते परोक्षत्वेनापरोक्षत्वं लक्ष्यत इत्यर्थः ।
दार्ष्यान्तिकं दशर्यतिस्नेहयोगो ऽपीति ।
स्नेहयोगो ऽपि तद्वत् स्याद् विशेषो ज्ञानगोचरः । (अनुव्याख्यानम्)३,४.२००च्द् ।
न्यायसुधा-
स्नेहश्चासौ योग उपायश्चेति स्नेहयोगः ।
स्नेहेन योगः सम्बन्ध इति वा ।
तत ए(केनै)कदेशेनैकदेशान्तरलक्षणा च स्यादिति शेषः ।
११,३१३
लाक्षणिकप्रयोगे सूत्रकारस्य किं प्रयोजनमित्यत आहइत्यभिप्रायत इति ।
इत्याभिप्रायतः प्रायो ज्ञानमेव विमुक्तये ।
वदन्ति श्रुतयः … । (अनुव्याख्यानम्)३,४.२०१अच् ।
न्यायसुधा-
द्विविधलक्षणाभ्किमयेण श्रुतयः तरति शोकमात्मविदित्याद्याः ।
इदमुक्तं भवति ।
द्विविधा लक्षणा भवति रूढारूढभेदात् ।
तत्र द्वितीयायां प्रयोक्तुः प्रयोजनानुसन्धानेन भाव्यम् ।
न त्वाद्यायामभिधातुल्यायाम् ।
इयं च रूढलक्षणा ।
श्रुतिषु प्रायिकव्यवहारादर्शनात् ।
अतः किं प्रयोजनान्वेषणेनेति ।
११,३१४
भक्तिशब्दो माहात्म्यज्ञानपूर्वकस्य स्नेहस्य वाचक इत्युक्तं तथा ज्ञानशब्दो भक्त्यर्थ इति ।
तदुभयमप्यनुपपन्नम् ।
भक्तिज्ञानाभ्यां मोक्षो भवतीत्यपि दर्शनात् ।
तत्र भक्तिशब्दस्योक्तार्थत्वे ज्ञानग्रहणवैयर्थ्यात् ।
(तस्य तत्रान्तर्भूतत्वात्) ।
ज्ञानपदस्य चोभयार्थत्वे भक्तिग्रहणवैयर्थ्यादित्यत आहसो ऽयमिति ।
… सो ऽयं विशेषो ऽपि ह्युदीर्यते । (अनुव्याख्यानम्)३,४.२०१च्द् ।
भक्तिर्ज्ञानमिति क्वापि … । (अनुव्याख्यानम्)३,४.२०२अ ।
न्यायसुधा-
क्वापि भक्तिर्ज्ञानमिति पदाभ्यां सो ऽयं स्नेहलक्षणो बोधलक्षणश्च विशेषो ऽप्युदीर्यते ।
न तूक्त एवार्थ इति नियमस्तस्मान्नानुपपत्तिः ।
यत्र भक्तिज्ञाने(ज्ञानं) सहोच्यते तदा पुनरुक्तिप्रसङ्गाद्भक्तिपदं स्वार्थैकदेशत्यागेन स्नेहांशस्य लक्षकम् ।
नतु मुख्यार्थनिष्ठम् ।
ज्ञानपदं चानुपपत्त्यभावान्मुख्यार्थमेव नतु लक्षकमिति भावः ।
ननु विना स्नेहाज्ज्ञानमात्रेण यदि मुक्तिरनुपपन्ना स्यात् ।
तदा ज्ञानपदस्य लक्षकत्वमाश्रयणीयम् ।
नचैवम् ।
पुरुषार्थस्य भक्त्येकसाध्यत्वे प्रमाणाभावात् ।
द्वेषिणामपि शिशुपालादीनां मोक्षदर्शनाच्च ।
द्वेषिणः स्निग्धा इत्यस्य च विप्रतिषिद्धत्वात् ।
अतो ऽनुपपन्नं लक्षणाश्रयणमित्यतो द्वेषस्य मोक्षसाधनत्वं तावन्निराकरोतिन हीति ।
… न हि द्वेषयुता दृशिः ।
पुरुषार्थाय भवति सर्वश्रुतिविरोधतः । (अनुव्याख्यानम्)३,४.२०२ब्द् ।
११,३१५
न्यायसुधा-
अत्र द्वेषस्य पुरुषार्थसाधनत्व निषिद्धयते ।
दृशिरिति तु प्रसङ्गादुक्तम् ।
ज्ञानस्यावश्यकतामुपादाय स्नेहनिरासाय हि परः प्रत्यवस्थितः ।
कैमुत्यार्थं वा ।
माहात्म्यज्ञानमपि न द्वेषयुक्तं मोक्षहेतुः ।
किमुत केवलो द्वेष इति ।
यथोक्तम् ।
‘नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं विरञ्जनम्’ इति ।
११,३१६
द्वेषस्य मुक्तिसाधश्रत्वाङ्गीकारे कथं सर्वश्रुतिविरोध इत्यतस्तावदेकां श्रुतिं पठतिचेतनस्येति ।
चेतनस्य द्वयं भोग्यं संसारो मुक्तिरेव च ।
संसारस्त्रिविधस्तत्र स्वर्गो मध्यमधस्तथा । (अनुव्याख्यानम्)३,४.२०३ ।
मुक्तिश्च द्विविधा तत्र सुखं नित्यं तथापरम् ।
नित्यदुःखमिति ज्ञेयं साधनं संसृतावपि ।
काम्यं कर्म निषिद्धं च साज्ञानमिति निश्चयः । (अनुव्याख्यानम्)३,४.२०४ ।
द्वेषो भक्तिश्च मुक्तौ तु मुक्तिद्वयविधायकम् ।
इति पैङ्गिश्रुतेर्द्वेषो नैव सन्मुक्तिकारणम् । (अनुव्याख्यानम्)३,४.२०५ ।
न्यायसुधा-
जीवजातस्य ।
द्वयमेव ।
तत्र मुक्तिसंसारयोर्मध्ये ।
मध्यं मानुषत्वम् ।
अधो नरकादि ।
नित्यं सुखमेकं मुक्तित्वेन ज्ञेयम् ।
तथा नित्यदुःखमपरमिति ज्ञेयम् ।
संसृतौ संसृतिविषये, साधनमपि द्वेषो भक्तिश्चेति योग्यतया सम्बन्धः ।
विधायकं कारकम् ।
नित्यसुखरूपा सन्मुक्तिः ।
इति ज्ञायत इति शेषः ।
११,३१७
सन्मुक्तिकारणत्वस्याप्रतिषेधात्कथमेवमुच्यत इत्यत आहअसदिति ।
असन्मुक्तेः कारणं च … । (अनुव्याख्यानम्)३,४.२०६अ ।
न्यायसुधा-
नित्यदुःखस्वरूपाणां मुक्तेः कारणत्वेन तावद् द्वेष उक्तः ।
तेन सन्मुक्तिकारणं न भवतीति ज्ञायते विरोधादिति ।
नन्वस्यां श्रुतौ मुक्तिविषयौ भक्तिद्वेषौ सदसन्मुक्तिकारणत्वेनोच्येत ।
विष्णुविषयौ तु प्रकृतौ ।
अतः किं केन सङ्गतमित्यत आहमुक्ताविति ।
… मुक्तावित्यत्र केशवः ।
मुक्तिशब्दोदितो … । (अनुव्याख्यानम्)३,४.२०६ब्च् ।
११,३१८
न्यायसुधा-
मुक्तावित्यत्र सप्तम्यन्ते पदे मुक्तीति प्रातिपदिकेनोदितः ।
केवलं मुक्तिशब्दोदित इत्युक्ते मुक्तिद्वयेत्यत्रापि प्राप्तिः ।
अतो मुक्तावित्यत्रेत्युक्तम् ।
केन निमित्तेनेत्यत आहमोक्षमिति ।
… मोक्षं स्वभक्तानां करोति यत् । (अनुव्याख्यानम्)३,४.२०६च्द् ।
न्यायसुधा-
मुच्ळ् मोक्षण इत्यस्मात्स्त्रयां क्तिनिति क्तिन्प्रत्ययः ।
स च बहुलग्रहणात्कर्तर्यपि भवति ।
यद्वा करोतीति करणे कर्तृत्वोपचारः ।
मुच्यते ऽनेनेति मुक्तिरित करणे क्तिन्प्रत्ययः ।
जोस्हि३२
११,३१९
द्वेषस्य मोक्षसाधनत्वाङ्गीकारे युक्तिविरोधं चाहद्वेषतो ऽपीति ।
द्वेषतो ऽपि विमुक्तिश्चेन्महातात्पर्यरोधनम् । (अनुव्याख्यानम्)३,४.२०७अब् ।
न्यायसुधा-
न केवलं भक्त्या किन्तु द्वेषतो ऽपि विशिष्या मुक्तिश्चेदङ्गीक्रियते तदा यत्सर्वश्रुत्यादीनां भगवद्गुणोत्कर्ष एव महातात्पर्यं तद्विरुद्धमापद्येत ।
कथमित्यत आहभक्त्येति ।
भक्तया प्रसन्नतो देवान्मुक्तिरित्येव तद्गुणान् ।
वदन्ति श्रुतयः सर्वाः पुराणान्यागमा अपि । (अनुव्याख्यानम्)३,४.२०७च्फ़् ।
न्यायसुधा-
अन्ये ऽप्यागमाः ।
श्रुत्यादयो मुक्तिप्रयोजनाः परमेश्वरगुणविषयाश्चेति तावत्प्रसिद्धम् ।
तत्र सम्बन्धो ऽयमेव ।
यद्भगवत एव जीवानां मुक्तिः ।
सा च प्रसन्नादेव ।
प्रसादश्च भक्त्यैव ।
भक्तिश्च गुणज्ञा(नादेवे)न एवेत्येवं श्रुत्याद्यास्तद्गुणान्वदन्तीति ।
तथाच कथं द्वेषतो मुक्त्यङ्गीकारे न महातात्पर्यविरोधः ।
११,३२०
भक्तेर्मोक्षसाधनत्वमनेन गम्यते ।
नच तदस्माभिरपाक्रियते ।
किन्तु भक्तिवद् द्वेषस्यापीत्यत आहयदीति ।
यदि द्वेषेण मुक्तिः स्याद् वक्तव्यो दोषसञ्चयः । (अनुव्याख्यानम्)३,४.२०८अब् ।
न्यायसुधा-
तदा द्वेषोत्पादनार्थमिति शेषः ।
नचैवम् ।
गुणमात्रप्रतिपादनस्य प्रतिपादितत्वात् ।
ततो मोक्षार्थं प्रवृत्तो वेदादिर्गुणानेव प्रतिपादयन्मोक्षस्य भक्तिमात्रसाध्यत्वमभिप्रैतीति गम्यत इति भावः ।
ननु द्वेषाच्चैद्यादयो नृपा इत्यादीनि द्वेषस्यापि मोक्षसाधनतां प्रतिपादयन्ति वाक्यानि सन्ति ।
तत्कथं द्वेषस्य मुक्तिसाधनत्वाभाव इत्यत आहस्मर्तव्य इति ।
स्मर्तव्यो भगवान् नित्यमित्यर्थेनैव हि क्वचित् ।
द्वेषादिव गुणानाह पुराणे क्रुद्धवाक्यवत् । (अनुव्याख्यानम्)३,४.२०८च्फ़् ।
न्यायसुधा-
पुराणे क्वचित्प्रदेशे ।
भगवान्नित्यं स्मर्तव्य इत्यभिप्रायेणैव द्वेषान्मुक्तिमाहेव पुराणकृदिति सम्बन्धः ।
तस्मान्नोक्तविरोध इति हेरर्थः ।
११,३२०फ़्.
इदमुक्तं भवति ।
पुराणवाक्यं द्वेषस्य मुक्तिसाधनत्वं प्रतिपादयदिवापाततो यद्यपि प्रतीयतेत ।
तथापि तन्न तदभिप्रायम् ।
किन्तु मुमुक्षुणा भगवन्सर्वदा स्मर्तव्य इति तस्याभिप्रायः ।
यथा’वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः ।
अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत्’ इत्यत्र नाकार्यकरणे तात्पर्यं किन्तु सर्वथा भर्तव्यत्वे, तथेहापीति ।
गुणानाहेति तात्पर्यान्तरम् ।
चैद्यादीनां द्वेषतो मुक्तिं प्रतिपादयद्वाक्यं भगवतः कृपालुत्वादीन्गुणानाहेति ।
शापादिना द्वेषिणो ऽपि चैद्याद्यास्तात्कालिकद्वेषमनिरूप्य पूर्वतनीं भक्तिमेवापेक्ष्य भगवता सूचिताः ।
अहो कृपालुत्वं निर्विकारत्वं सत्यसङ्कल्पत्वं च तस्येत्यत्र तात्पर्यं तेषां वाक्यानामित्यर्थः ।
द्विविधानि वाक्यानि, वैरेण यन्नृपतय इत्यादीनि स्मरणप्रधानानि तेषां प्रथमा गतिः ।
द्वेषाच्चैद्यादय इत्यादीनि द्वेषप्रधानानि तेषां द्वितीयेति हृदयम् ।
प्रथमव्याख्याने लौकिकदृष्टान्तमाहक्रुद्धवाक्यवदिति ।
क्रुद्धवाक्यस्य यथा न प्रतीत एवार्थप्रमाण्यम् किन्त्वन्यत्र, तथैवेत्यर्थः ।
११,३२३
एतद्विवृणोतियथेति ।
यथा क्रुद्धः पिता पुत्रं मरेत्याक्षेपपूर्वकम् ।
प्रोक्तस्यान्यस्य कृत्यर्थं वदत्येवं पुराणगम् । (अनुव्याख्यानम्)३,४.२०९ ।
वाक्यं … । (अनुव्याख्यानम्)३,४.२१०अ ।
न्यायसुधा-
मरेति प्रकृत्यन्तरस्यैतद्रूपम् ।
‘जीव वा मर वा साधो व्याध मा जीव मा मर’ इति प्रयोगदर्शनात् ।
आक्षेपो निन्दा ।
स्वेन प्रोक्तस्यान्यस्य कार्यस्य ।
पिता किञ्चित्पुत्रं प्रति विधत्ते इदं कुर्वीति ।
स तु श्रमादिभीरुरकुर्वाण एवावतिष्ठते ।
तदा क्रुद्धः पिता ब्रवीति ।
अरे जाल्म वैधवेय म्रिअयस्वेति ।
तस्य वाक्यस्य यथा न पुत्रमरणविधाने तात्पर्यं किन्तु स्वविहितकरणे ।
तथाच द्वेषेण स्मरणे मुक्तिर्भवतीति पुराणवाक्यस्यापि न द्वेषस्य मुक्तिसाधनत्वे तात्पयर्म् ।
किन्तु स्मरणस्य कर्तव्यतायामिति ।
११,३२४
इयं च व्यञ्जनावृत्तिरिति केचित् ।
तात्पर्यवृत्तिरित्यपरे ।
वाक्यलक्षणा(अ)नुमा(नमित्या)नं चेत्याचार्याः ।
प्रतीत एवार्थः किन्न स्यादित्यत आहश्रुतीति ।
… श्रुतिविरोधेन स्वविरोधेन चाञ्जसा ।
बह्वागमविरोधाच्च न द्वेषान्मुक्तिवाचकम् । (अनुव्याख्यानम्)३,४.२१०अद् ।
न्यायसुधा-
पुराणगं वाक्यमिति वर्तते ।
श्रुतयो ऽतीतपादे ऽत्र चोदाहृताः ।
यत्र द्वेषस्य मुक्तिसाधनत्वमुच्यते तत्रैव तद्विरुद्धमुच्यत इति स्वविरोधः ।
सो ऽपि हिरण्यकशिपुश्चेत्यादिभागावतवाक्यानां पठितत्वात्प्रदर्शित एव ।
अञ्जसा मुख्यया वृत्त्या ।
द्वेषान्मुक्तिं प्रतिपादयन्न भवति ।
११,३२९
आगमविरोधं दर्शयतितम इति ।
तमो द्वेषेण संयान्ति भक्तया मुक्तिं तथैव च ।
विष्णौ विष्णुप्रसादेन विलोमत्वेन चाञ्जसा ।
इति षाड्गुण्यवचनमप्युक्तार्थनियामकम् । (अनुव्याख्यानम्)३,४.२११ ।
न्यायसुधा-
विष्णौ भक्त्या जातेन विष्णुप्रसादेनैव मुक्तिं संयान्ति ।
तथा विष्णौ द्वेषेण जातेन विलोमत्वेन विष्णुकोपेनाञ्जसा तमः संयान्तीति योजना ।
चशब्दौ समुच्चयार्थौ ।
उक्तार्थनियामकं विष्णुभक्तिरेव मुक्तिसाधनं न द्वेष इत्यस्यार्थस्य नियामकम् ।
एतद्वाक्यसमाख्यया चेतनस्येति श्रुतौ मुक्तावितिशब्दो विष्णोर्वाचक इति सिद्धयति ।
तथाच द्वेषो भक्तिश्चेत्येतद् द्वयं सन्मुक्तेः केवलो द्वेषस्त्वसन्मुक्तेः कारणमित्यन्यथाप्रतीतिरपास्ता भवति ।
इतश्च नैतद्वाक्यं पतीतार्थपरमित्याहमहातात्पर्येति ।
महातात्पर्यरोधे च कथं वाक्यं प्रमाणताम् ।
याति … । (अनुव्याख्यानम्)३,४.२१२अच् ।
११,३३०
न्यायसुधा-
मोक्षप्रयोजनानां सर्वागमानां भगवद्गुणेष्वेव यन्महातात्पर्यं तदन्यथानुपपत्त्या भक्तिरेव मुक्तिसाधनं न द्वेष इत्यवगम्यते ।
अतो महातात्पर्यविरोधेन च द्वेषवाक्यं प्रतीतार्थे कथं प्रमाणतां याति ।
ननु श्रुत्यादीनां कथं प्राबल्यम् ।
येन तद्विरोधादिदं वचनं स्वार्थात्प्रच्याव्यते ।
उच्यते ।
श्रुतेः श्रुतित्वाद् एव प्राबल्यम् ।
स्ववाक्यस्य निरवकाशत्वात् ।
अत एव तत्रोक्तमञ्जसेति ।
इतरागमानां च बहुत्वेन ।
अत एव बह्वागमेत्यभिहितम् ।
महातात्पर्ययुक्तेर्वाक्यतः प्राबल्यमुपपादयितुमाह सर्वेति ।
… सर्वार्थरूपं हि महातात्पर्यमिष्यते । (अनुव्याख्यानम्)३,४.२१२च्द् ।
न्यायसुधा-
सर्वेषां शास्त्राणामनन्यार्थतया यदेकार्थप्रतिपादकत्वं तद्रूपमित्यर्थः ।
११,३३१
कथमिदं लभ्यते ।
अर्थशब्दो मुख्यं प्रतिपाद्यमाह ।
‘सत एव पदाथर्स्य’ इति यथा ।
स चैकवचनान्तः ।
तेन च तत्प्रतिपादकत्वं लक्ष्यत इति ।
कथमयं महातात्पर्यशब्दार्थ इत्यत आहवाचकत्वं हीति ।
वाचकत्वं हि तात्पर्यं … । (अनुव्याख्यानम्)३,४.२१३अ ।
न्यायसुधा-
तत् परं प्रतिपाद्यं यस्य तत्तत्परम् ।
तस्य भावस्तात्पर्यमित्ये(वमर्थवा)वं वाचकत्वं प्रतिपादकत्वं हि तात्पर्यमुच्यते ।
तस्य च महच्छब्देन विशेषणे योग्यतयैषो ऽर्थो महातात्पर्यशब्दस्य भवतीति भावः ।
ततः किमित्यत आहयदर्था इति ।
… यदर्था अखिला रवाः ।
सो ऽर्थः कथं परित्याज्य एकशब्दस्य संशये । (अनुव्याख्यानम्)३,४.२१३ब्द् ।
न्यायसुधा-
यो ऽर्थो येषां ते यदर्थाः ।
रवा आगमाः ।
एकशब्दस्य संशये एकवाक्यसम्बन्धिनि संशये सत्येकं सन्दिग्धं विरुद्धार्थं वाक्यमादायेत्यर्थः ।
एतदुक्तं भवति ।
सर्वाणि वाक्यानि सम्भूयानन्यार्थतया यमेकमर्थं प्रतिपादयन्ति तद्विरुद्धार्थं प्रतिपादयत्तदवान्तरवाक्यं यदुण्लभ्यते सावकाशं च
तन्महावाक्यार्थविरोधादन्यथा क्रियते न तु तद्विरुद्धो महावाक्यार्थस्त्यज्यत इति तावत्प्रसिद्धम् ।
महावाक्यस्य प्रधानत्वादुपक्रमादिभिर्निश्चितार्थत्वाच्च ।
अवान्तरवाक्यस्याप्रधानत्वात्सन्दिग्धार्थत्वाच्च ।
प्रकृते तु भक्तिरेव मुक्तिसाधनं न द्वेष इति सर्वैर्वाक्यैः सम्भूय प्रतिपादितो ऽर्थः ।
अर्थाक्षि(अक्षि)प्तस्यापि प्रतिपाद्यस्येव तदर्थत्वात् ।
द्वेषान्मुक्तिं प्रतिपादयदेकं तदवान्तरवाक्यं सावकाशं चोक्तप्रकारेण ।
तस्मादिदमेव बाध्यत इति ।
११,३३४
द्वेषस्य मुक्तिसाधनत्वनिराकरणमुपसंहरतिअत इति ।
अतो विज्ञानभक्तिभ्यां पुरुषार्थः परो भवेत् । (अनुव्याख्यानम्)३,४.२१३एफ़् ।
न्यायसुधा-
माहात्म्यज्ञानस्नेहाभ्यामेव न तु द्वेषेणेत्यर्थः ।
मोक्ष इति वक्तव्ये परः पुरुषार्थ इति वदता ज्ञानादिकमपि द्वेषिणां न भवतीति सूचितम् ।
ज्ञानादेरपि धर्माद्यपेक्षया परपुरुषार्थत्वात् ।
११,३३५
एवं द्वेषस्य मुक्तिसाधनत्वं निराकृत्येदानीं भक्तेः परमपुरुषार्थसाधकत्वे प्रमाणं नास्तीति यदुक्तं तन्निरासाय प्रमाणान्तरमाहयस्येति ।
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः । (अनुव्याख्यानम्)३,४.२१४ ।
भक्त्या ज्ञानं ततो भक्तिस्ततो दृष्टिस्ततश्च सा ।
ततो मुक्तिस्ततो भक्तिः सैव स्यात् सुखरूपिणी । (अनुव्याख्यानम्)३,४.२१५।
भक्तया प्रसन्नो भगवान् दद्याज्ज्ञानमनाकुलम् ।
तयैव दर्शनं यातः प्रदद्यान्मुक्तिमेतया । (अनुव्याख्यानम्)३,४.२१६ ।
नाहं वेदैर्न तपसा न दानेन नचेज्यया ।
शक्य एवंविधो द्रष्टुं प्रदद्यान्मुक्तिमेतया । (अनुव्याख्यानम्)३,४.२१७ ।
भक्तया त्वनन्यया शक्य अहमेवंविधो ऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्युं च परन्तप । (अनुव्याख्यानम्)३,४.२१८ ।
इत्यादिवाक्यतश्चैव सो ऽयमुक्तार्थ ईयते । (अनुव्याख्यानम्)३,४.२१९अब् ।
न्यायसुधा-
यथा देवे देवयोग्या तथा गुरौ गुरुयोग्येत्यर्थः ।
अनेन ज्ञानस्य भक्तिसाध्यत्वमुच्यते ।
भक्त्या ज्ञानमित्यनेन ज्ञानादेः ।
ज्ञानं परोक्षनिश्चयो जायते ।
ततो ज्ञानात्पक्वा भक्तिर्भवति ।
ततो दृष्टिस्ततश्च सा परिपक्वा भक्तिः ।
ततो मोक्षानन्तरं भक्तिरवतिष्ठते ।
सा सुखरूपिण्येव स्यान्न फलवती ।
भक्त्या प्रसन्न इत्यनेनापीदमेवोच्यते ।
ज्ञानाभावे भक्त्याभावादनाकुलमित्युक्तम् ।
तयैव पक्वया एतया परिपक्वया ।
वेदैरिति भक्तिरहितश्रवणादिभिरित्यर्थः ।
न विद्यते ऽन्यो विषयो यस्याः सानन्या ।
‘यादृशी तत्र भक्तिः स्यात्तादृश्यन्यत्र नैव चेत ।
अनन्यभक्ति सा ज्ञेया विष्णावेव च सा भवेत्’ इति च स्मृतिः ।
विवक्षितस्तु सन्धिभर्वतीति वचनाच्छक्य अहमिति युज्यते ।
तत्त्वेन याथार्थ्येन ज्ञातुम् ।
इत्यादिवाक्यतश्चेति चशब्देन चेतनस्य द्वयमित्यादीनि पूर्वोदाहृतवाक्यानि समुच्चिनोति ।
वाक्यत एव न त्वर्थात् ।
११,३३७
अनुमानेनाप्युक्तमर्थं साधयतिनचेति ।
न च प्रसादमाप्नोति द्वेषाद् भक्त्या तमाप्नुयात् ।
इति दृष्टानुसारित्वमप्यस्मिन्नर्थ ईयते । (अनुव्याख्यानम्)३,४.२१९च्फ़् ।
११,३३८
न्यायसुधा-
भगवद्द्वेषाद्भगवत्प्रसादं नैवमाप्नोति ।
भगवद्भक्त्या तं भगवत्प्रसादं प्राप्नुयादित्यस्मिन्नर्थे दृष्टानुसारित्वं पत्यक्षदृष्टव्याप्तिकानुमानानुसारित्वमपीयते ज्ञायते ।
एतदुक्तं भवति ।
भगवत्प्रसादादेव मोक्ष इति तावन्निष्यङ्कितम् ।
भगवत्प्रसादो भगवद्द्वेषसाध्यो न भवति ।
भगवत्प्रसादत्वात् ।
यो यत्प्रसादो नासौ तद्द्वेषसाध्यो यगा गुरुप्रसादः ।
यद्वा भगवद्द्वेषो भगवत्प्रसादसाधनं न भवति ।
भगवद्द्वेषत्वात् ।
यो यद्द्वेषः स तत्प्रसादसाधनं न भवति ।
यथा गुरुद्वेषः ।
अथवा भगवान्स्वद्वेषिणि न प्रसीदति प्रेक्षावत्पुरुषत्वात् देवदत्तवत् ।
यद्वा भगवद्द्वेषी भगवत्प्रीतिविषयो न भवति भगवद्द्वेषित्वात् ।
यो यद्द्वेषी नासौ तत्प्रीतिविषयः ।
यथा सम्प्रतिपन्न इति द्वेषस्य प्रसादसाधनत्वे ऽपास्ते मुक्तिसाधनत्वमेवापास्तं भवति ।
तथा भगवत्प्रसादो भगवद्भक्तिसाध्यो भगवत्प्रसादत्वात् ।
यो यत्प्रसादः स तद्भक्तिसाध्यो यथा गुरुप्रसादः ।
यद्वा भगवद्भक्तिः भगवत्प्रसादसाधनं भगवद्भक्तित्वात् ।
या यद्भक्तिः सा तत्प्रसादसाधनं यथा गुरुभक्तिः ।
अथवा भगवान्स्वभक्ते प्रसीदति प्रेक्षावत्पुरुषार्थत्वात् ।
सम्मतवत् ।
यद्वा भगवद्भक्तो भगवत्प्रीतिविषयो भगवद्भक्तत्वात् ।
यो यद्भक्तो ऽसौ तत्प्रीतिविषयः ।
यथा गुरुभक्त इति ।
भक्तेः प्रसादसाधनत्वे सिद्धे मुक्तिसाधनत्वमेव सिद्धं भवतीति ।
नन्वलौकिके भगवति लोकदृष्टान्तेनैवमनुमानं न युज्यते ।
अन्यथाणुत्वादिनियमस्याप्यनुमानापत्तेः ।
अतो लोकविलक्षणो द्विष्यो ऽपि प्रसीदतीत्याङ्गीकारे न बाधकमिति शङ्कामागमवाक्येन परिहरतिय इति ।
ये पृथग् विहिता विष्णोर्गुणा वेदेन सादरम् ।
त एव दृष्टवैलोम्यादङ्गीकार्या नचापरम् । (अनुव्याख्यानम्)३,४.२२० ।
अन्यद् दृष्टानुसारेण वासुदेवे ऽपि गृह्यते । (अनुव्याख्यानम्)३,४.२२१अब् ।
न्यायसुधा-
पृथग् लोकवैलक्षण्येन, सादरं तात्पर्येण, दृष्टवैलोम्याद् दृष्टवैलोम्यमनादृत्य ।
अपरं वेदानुक्तं लोकविलक्षणं गुणजातं नैवाङ्गीकार्यम् ।
किन्तु वेदोक्तादणुत्वमहत्त्वयौगपद्यादेरन्यद्गुणजातम् ।
गुणा इत्यस्य प्रयोजनमुच्यतेदोषाभाव इति ।
दोषाभावाश्च ये वेदैरुदिता अविहाय तान् । (अनुव्याख्यानम्)३,४.२२१च्द् ।
११,३३९
न्यायसुधा-
दोषाभावाश्च ये वेदैरुदिता अविहाय तान् । (अनुव्याख्यानम्)३,४.२२१एफ़् ।
अनुक्ता अपिच ग्राह्या महातात्पर्यशक्तितः ।
एवं बृहत्संहितावाक् सिद्धान्तो हि तदीरितः । (अनुव्याख्यानम्)३,४.२२२ ।
न्यायसुधा-
चस्त्वर्थः ।
लोकविलक्षणा अविलक्षणाश्चेति शेषः ।
महातात्पर्यशक्तित सति ।
सर्वथापि दोषो भगवति नास्तीत्यत्र सामान्यतः सर्वशास्त्राणां तात्पर्यस्य निर्णीतत्वादित्यर्थः ।
वेदानुक्तस्याप्रामाणिकार्थस्य ग्रहणमयुक्तमित्याशङ्कामनेन निराचष्टे ।
विशेषतो ऽनुक्तावपि सामान्यतः सिद्धेरिति भावः ।
तत् तस्मादीरितो ऽर्थः सिद्धान्तः प्रामाणिकः ।
यद्वा बृहत्संहितेरितो ऽर्थो हि सिद्धान्त इति तत्र बहुमानमुत्पादयति ।
११,३४०
एवं भक्तेरेव मोक्षसाधनत्वमुपपादितम् ।
भक्तिश्च केवलं भगवद्विषयैवेति प्रतीतिमपाकर्तुमाहतारतम्येनेति ।
तारतम्येन तद्भक्तेष्वपि भक्तिर्विनिश्चयात् ।
कर्तव्या … । (अनुव्याख्यानम्)३,४.२२३अच् ।
न्यायसुधा-
न केवलं विष्णौ किन्तु तद्भक्तेषु रमादिष्वपि, विनिश्चयात् सर्वथा, सा च क्रियमाणा तारतम्येनैव ।
कुत इत्यत आहएषापीति ।
… एषापि तद्भक्तिर् … । (अनुव्याख्यानम्)३,४.२२३च् ।
न्यायसुधा-
यतस्तद्भक्तेषु क्रियमाणैषापि भगवद्भक्तिरेवातस्तद्विषये ऽपि भक्तिः कर्तव्या ।
एतदुक्तं भवति ।
विष्णुभक्तिस्तावत्कर्तव्येत्युपपादितम् ।
सा च तद्भक्तभक्त्यैव साङ्गा नान्यथेति ।
एतदपि कुत इत्यत आहलोकेति ।
… लोकवेदानुसारतः । (अनुव्याख्यानम्)३,४.२२३द् ।
११,३४१
न्यायसुधा-
लोकशब्देन लेकसिद्धव्याप्तिमदनुमानमुच्यते ।
वेदशब्देनागममात्रम् ।
लोकानुसारितां दर्शयतियो हीति ।
यो हि भक्तः प्रधाने स्यात् तदीयेष्वपि भक्तिमान् ।
दृश्यते ऽसौ नियमतो विपरीतो विपर्यये । (अनुव्याख्यानम्)३,४.२२४ ।
न्यायसुधा-
प्रधाने राजादौ ।
विपर्यये तदीयभक्तिराहित्ये ।
विपरीतः प्रधानभक्तिरहितः ।
नियमेन दृश्यते ।
अनेनान्वयव्यतिरेकावुक्तौ ।
तथा चायं प्रयोगः ।
विमतो भगवद्भक्तभक्तिमान्भवेत् भगवद्भक्त्या पुरुषार्थभाक्त्वात् ।
यो यद्भक्त्या पुरुषाथर्भाग्यथा सम्मत इति ।
ननु दैत्यादयो ब्रह्मादिषु भक्तिमन्तो ऽपि तद्भक्तेष्विन्द्रादिषु भक्तिरहिता दृश्यन्ते ।
ततो व्यभिचार इत्यत आहव्यभिचार इति ।
व्यभिचारो यदि क्वापि भक्तिह्रासो ऽत्र कल्प्यते । (अनुव्याख्यानम्)३,४.२२५अब् ।
११,३४२
न्यायसुधा-
यदि क्वापि परेण व्यभिचारश्चोद्यते तदास्माभिरत्र पुरुषे भक्तिह्रासः कल्प्यते विफलभक्तित्वमुच्यते ।
तथाच विपक्षे विशिष्यस्य हेतोरभावान्न व्यभिचार इत्यर्थः ।
कुत एवं कल्प्यत इत्यत आहभक्तीति ।
भक्तिदोषो ह्यसौ यन्न तद्भक्तेष्वपि भक्तिमान् । (अनुव्याख्यानम्)३,४.२२५च्द् ।
न्यायसुधा-
तद्भक्तेष्वपि भक्तिमान्नेति यदसौ प्रधानभक्तेरेव दोषो हि ।
तेन प्रधानभक्तिरेव दुष्या न फलायालमिति प्रसिद्धम् ।
हिरण्यगर्भादिभिर्दैत्यादिभ्यो ऽमरत्वादिकं सच्छलमेव दीयते मृषा न भवतीति पुराणेषु सुप्रसिद्धमेवेति ।
वेदानुसारित्वं तूत्तरत्र प्रदर्शयिष्यते ।
तद्भक्तभक्तिः कर्तव्येत्येतदनुमानेनोपपाद्य सा च तारतम्येन कार्येत्येतदनुमानेन साधयतितारतम्येनेति ।
तारतम्येन तेष्वद्धा भक्तिर्दृष्टानुसारतः ।
विष्णुप्रसादानुसारात् कार्या दोषस्तदन्यथा । (अनुव्याख्यानम्)३,४.२२६ ।
११,३४३
न्यायसुधा-
तेषु तद्भक्तेषु क्रियमाणा भक्तिरद्धा सर्वथा तारतम्येन कार्या ।
कुतः दृष्टानुसरतः ।
तारतम्येनेत्यस्यैव विवरणं विष्णुप्रसादानुसारादिति ।
यस्मिन्नधिको विष्णुप्रसादस्तस्मिन्नधिकेत्यादि ।
तदन्यथा साम्येन वैपरीत्येन च करणे ऽनर्थो भवति ।
दृष्टानुसारत इत्युक्तं दर्शयतिस्वेति ।
स्वप्रीत्यनुसृतौ प्रीतिर्लोके ऽप्यद्धैव दृश्यते । (अनुव्याख्यानम्)३,४.२२७अब् ।
न्यायसुधा-
अत्र स्वशब्देन राजादिः कथ्यते ।
तत्प्रीत्यनुसारेण तस्य यस्मिन्यथा प्रीतिस्तदनुसारेण भक्तिकरणे सति तस्मिन्भक्ते तस्य राजादेः प्रीतिरद्धा नियमेनैव दृश्यते ।
अयमत्र प्रयोगः ।
ईश्वरः स्वप्रीत्यनुसारेण स्वभक्तेषु भक्तेः प्रसीदति ।
प्रेक्षावत्पुरुषत्वाद्राजवदिति ।
अनेन प्रमेयान्तरमपि सिद्धमित्याहतारतम्येति ।
तारतम्यपरिज्ञानमप्येतेनैव साधनम् । (अनुव्याख्यानम्)३,४.२२७च्द् ।
न्यायसुधा-
एतेनैव भगवद्भक्तेषु रमाब्रह्मादिषु तारतम्येनैव मुक्तिः करणीयेति समर्थितेनैव देवतातारतम्यपरिज्ञानं यत्प्रागुक्तं तदपि मोक्षस्य साधनमिति
सिद्धम् ।
न ह्यविदिते तारतम्ये तारतम्यानुरोधेन मुक्तिकरणं सम्भवति ।
अनेनैव प्रकारेणानुमानसम्भवादिति वातिदेशार्थः ।
११,३४४
भगवत्प्रसादतारतम्यानुसारेण तदीयेषु मुक्तिः कार्येत्यत्रागममप्याहलक्ष्मीति ।
लक्ष्मीविरिञ्चवाणीशगिरिजेन्द्राङ्गिरस्सुताः ।
सूर्यादयश्च क्रमशो भगवत्प्रीतिगोचराः । (अनुव्याख्यानम्)३,४.२२८ ।
तेषु भक्तिः क्रमेणैव कार्या नित्यं मुमुक्षुभिः । (अनुव्याख्यानम्)३,४.२२९अब् ।
न्यायसुधा-
तेन भगवत्प्रीतिक्रमेणैव ।
तिष्ठतु क्रमस्तेषु भक्तिकरणमेव कुतः ।
भगवत्प्रीतिगोचरत्वादेव ।
कारणान्तरं चोच्यतेसर्वे ऽपीति ।
सर्वे ऽपि गुरवश्चैते पुरुषस्य सदैव हि । (अनुव्याख्यानम्)३,४.२२९च्द् ।
तस्मात् पूज्याश्च नम्याश्च ध्येयाश्च परितो हरिम् ।
इति षाड्गुण्यवचनादप्येषो ऽर्थो ऽवसीयते । (अनुव्याख्यानम्)३,४.२३० ।
हरिभक्तिः क्रमेणैव तदीयेषु हरिस्मृतिः ।
हरिस्तुतिस्तत्स्मृतिश्च तत्स्तुतिर्हरिपूजनम् । (अनुव्याख्यानम्)३,४.२३१ ।
तत्पूजाविहितत्याग इति मुक्तेः क्रमेण हि ।
नियमात् साधनान्येव नित्यसाध्यानि चाखिलैः । (अनुव्याख्यानम्)३,४.२३२ ।
इति प्रवृत्तवचनं साधनस्य विनिर्णये । (अनुव्याख्यानम्)३,४.२३३अब् ।
न्यायसुधा-
गुरुत्वं विद्याप्रवर्तकत्वेन प्रसिद्धमेव ।
पूज्याश्चेत्यादिना भक्तेरेव प्रपञ्चनं हरिं परितो न तु पृथक् ।
वेदानुसारत इति यदुक्तं तदप्यनेन दशिर्तं भवति ।
क्रमेणैव तयीयेषु भक्तिस्तत्स्मृतिरित्यादौ तच्छब्देन तदीया उच्यन्ते ।
क्रमेणैवेति सर्वत्र सम्बद्धयते ।
क्रमेणेति हरिविषयाणि भक्त्यादीनि मुख्यसाधनानि तदीयविषयाणि त्वमुख्यसाधनानीत्यर्थः ।
मुक्तिसाधनत्वादखिलैर्मुमुक्षुभिर्नित्यसाध्यानि ।
साधनस्य विनिर्णय इति साधनविनिर्णयाख्ये ऽवान्तरप्रकरणे ऽस्तीत्यर्थः ।
एतदेव विवृणोतिप्रवृत्त इति ।
प्रवृत्ते पञ्चरात्रे हि साधनस्य विनिर्णयः । (अनुव्याख्यानम्)३,४.२३३च्द् ।
११,३४५
न्यायसुधा-
पञ्चरात्रे प्रवृत्तं नामावान्तरो ग्रन्थः ।
तत्रापि साधनस्य विनिर्णयो नाम प्रकरणमस्तीत्यर्थः ।
उक्तार्थेष्वनुमानान्तराण्याहहरीति ।
११,३४६
हरिद्वेषो न शुभद ;सद्द्वेषत्वाद् यथा गुरोः ।
क्रमाद् भक्तिर्हरिप्रीतिकारणं तत्प्रियौपगा ।
भक्तिर्यतो यथा स्वस्मिन्नित्याद्या युक्तिरत्र च । (अनुव्याख्यानम्)३,४.२३४ ।
न्यायसुधा-
सद्द्वेषत्वात् उत्तमपुरुषद्वेषत्वात् ।
वैष्णवैर्दैत्यादिषु क्रियमाणे द्वेषे व्यभिचारं वारयितुं सदित्युक्तम् ।
गुरोर्द्वेषः ।
प्राग्द्वेषस्य भगवत्प्रसादसाधनत्वाभावे सामान्यव्याप्तिमाश्रित्य भगवद्द्वेषत्वं हेतुरुक्तः, अत्र तु शुभमात्रसाधनत्वाभावे
विशेषव्याप्तिमेवाश्रित्य सद्द्वेषत्वमिति महान्भेदः ।
क्रमाद्भक्तिरिति ।
क्रममनुसृत्य रमादिषु भक्तिर्धर्मिणीत्यर्थः ।
तत्प्रियोपगा भक्तिर्यत इति ।
हरिप्रियविषयभक्तित्वादित्यर्थः ।
तत्प्रियानुगच्छति विषयीकरोतीति तत्प्रियोपगा ।
या यत्प्रियविषया भक्तिः सा तत्प्रीतिकारणात् ।
यथा स्वस्मिन्भक्तिः ।
अत्र स्वशब्देन देवदत्त उच्यते ।
यथा राजप्रिये देवदत्ते भक्ती राजप्रीतिकारणमित्यर्थः ।
इह क्रमादिति प्रतिज्ञायां विशेषणप्रक्षेपेण भगवद्भक्तभक्तेः कर्तव्यत्वं तत्तारतम्यस्य चावश्यकत्वं सिद्धयति ।
यद्वानेन प्रयोगद्वयं सूचयति ।
भागवतभक्तिर्भगवत्प्रीतिकारणं भगवत्प्रियभक्तित्वादिति ।
भगवान्रामादिषु तारतम्योपेतभक्त्यैव प्रसीदति ।
तारतम्येनैव तद्विषयप्रीतिमत्त्वादिति च ।
युक्तिश्चेति सम्बन्धः ।
अत्र प्रागुक्ते ऽर्थे ।
किं सामान्यव्याप्त्या, विशेषव्याप्तिरप्यस्तीत्याशयेन प्रयोगान्तरमुच्यतेप्राधान्येति ।
प्राधान्यतारतम्यानुसारिणी भक्तिरुत्तमा ।
प्रीतिदैव हरेर्यस्माद् भक्तिः सा स्वोपगा यथा । (अनुव्याख्यानम्)३,४.२३५ ।
इति वा … । (अनुव्याख्यानम्)३,४.२३६अ ।
न्यायसुधा-
उत्तमत्वतारतम्यानुसारिणी रमादिषु भक्तिर्हरेः प्रीतिदैव ।
यस्मात्सोत्तमा भक्तिः ।
शास्त्रविहितभक्तित्वादित्यर्थः ।
स्वोपगा सा विष्णुविषया भक्तिर्यथेत्यर्थः ।
इति वा अनुमातव्यमिति शेषः ।
अत्रापि पूर्ववद्विशिष्यसाधात्पृथक्प्रयोगद्वयेन वा साध्यद्वयसिद्धिः ।
। इति उभयलिङ्गाधिकारिकाधिकरणे ।
__
११,३४८