। अथ कामचाराधिकरणम् ।
। ओं स्तुतये ऽनुमतिर्वा ओं ।
अत्राधिकरणे ज्ञानिनः सदसत्प्रवृत्तिभ्यां विशेषसद्भावः समर्थ्यते ।
तथा चाज्ञानिसामान्यसमर्थनार्थस्यास्य न ज्ञानसामर्थ्यप्रतिपादनार्थे ऽस्मिन्पादे ऽन्तर्भावः सम्भवतीत्यतो ऽधिकरणस्य तात्पर्यमाहविकर्मेति ।
स्तुतये ऽनुमतिर् वा । ब्ब्स्_३,४.१४ ।
विकर्मलेपो नैवास्ति सम्यग्दृष्टिमतां क्वचित् । (अनुव्याख्यानम्)३,४.४अब् ।
न्यायसुधा-
यद्यप्यत्र मुखतो ज्ञानिनां सदसत्प्रवृत्तिभ्यां विशेषसद्भावः प्रतिपाद्यते ।
तथापि सम्यग्दृष्टिमतां क्वचिदपि विकर्मलेपो वक्ष्यमाणरूपो नैवास्तीत्यस्यार्थस्य फलतो लाभाद्युक्तो ऽस्यान्तर्भावः ।
न ह्यज्ञानिनां विकर्मलेपाभावो ऽस्तीति भावः ।
यथोक्तम्’कामचारेण चैके’ इति ।
विकर्मलेपाभावे कथमसत्प्रवृत्त्या विशेषसद्भावो ऽङ्गीक्रियत इति चेत् ।
आनन्दादिगुणहानोविर्कर्मकर्तुर्विशेषस्य स्वीकारात् ।
अलेपस्त ततो ऽन्य इति वक्ष्यते ।
११,१३
किं सर्वेषामपि ज्ञानिनां विकर्मसम्भवो गुणहानिश्चास्तीत्यपेक्षायामाहगुणहानिश्चेति ।
गुणहानिश्च नैवास्ति ब्रह्मणस्त्वविकर्मतः । (अनुव्याख्यानम्)३,४.४च्द् ।
देवानामपि न प्रायः … । (अनुव्याख्यानम्)३,४.५अ ।
११,१३फ़्.
न्यायसुधा-
ब्रह्मणस्तु सर्वथा विकर्म नास्ति ।
‘न भारती मे ऽङ्ग मृषोपलक्ष्यते’ इत्यादिवचनात् ।
अविकर्मतो गुणहानिश्च नैवास्ति ।
हिरण्यगर्भेतरदेवानामपि प्रायो विकर्मगुणहानी न स्तः ।
ईषद्विकमर्तन्निमित्ता गुणहानिश्चास्तीत्यर्थः ।
११,१४
यदि देवानां विकर्म सम्भवति तेन चानन्दादिगुणहानिः स्यात्तदायमस्मादेतावता न्यूनो ऽस्मादेतावताधिको ऽनेन समान इति शास्त्रीयनियमो
भज्येत ।
तथाच शास्त्रस्याप्रामाण्यं स्यात् ।
नच तदैव प्रतियोगिपरम्परा विकृतिः प्रमाणवतीत्यत आहक्ळ्प्तस्येति ।
… क्ळ्प्तस्य तु कथञ्चन । (अनुव्याख्यानम्)३,४.५ब् ।
न्यायसुधा-
हानिर्नेति वर्तते ।
यस्या देवस्य यावद् गुणत्वं क्ळ्प्तं तस्य तु कथञ्चन केनापि विकर्मणा हानिर्न भवतीत्यर्थः ।
११,१६
तर्हि देवनां विकर्मणेषद्गुणहानिर्भवतीत्यस्य को ऽथर् इत्यत आहप्राप्तेति ।
प्राप्तह्रासो भवेत् क्वापि महता तु विकर्मणा । (अनुव्याख्यानम्)३,४.५च्द् ।
न्यायसुधा-
प्राप्तशब्देन प्रसक्तमुच्यते ।
देवानामल्पेन विकर्मणा न किञ्चिद्धीयते ।
क्वापि प्राप्तेन महता तु विकर्मणा प्राप्तस्यैव गुणस्य ह्रासो
भवेत् ।
स्वयोग्यपरिपूर्तये यावत्साधनमनुष्ठेयं ततो ऽतिरिक्तेन साधनेनानुष्ठितेन यदानन्दादिकं प्रसक्तं तस्याभावो भवेत् ।
यदि स्वयोग्यपरिपूर्त्यर्थं साधनातिरिक्तमपि साधनं देवैरनुष्ठीयते तदा तारतम्यनियमो भज्येत ।
यो हि देवो ऽरतिरिक्तसाधनमनुष्ठाय न महद्विकर्म करोति तस्योत्पत्तव्यमेव तेन गुणेन ।
ईश्वराराधनस्य वैफल्यानुपपत्तेः ।
नच तदैवान्येषां विक्रियायां प्रमाणमस्ति ।
ततश्च शास्त्रस्याप्रामाण्यमित्यत आहतथापीति ।
तथापि तत् क्ळ्प्तमेव … । (अनुव्याख्यानम्)३,४.५ए ।
न्यायसुधा-
यद्यपि देवैः स्वयोग्यपरिपूर्त्यर्थं साधनातिरिक्तमपि साधनमनुष्ठीयते ।
तथापि तेषां तद्विघातकं तद्विकर्म महत्क्ळ्प्तं नियतमेव ।
‘स्वाधिकाराधिको यत्नः कथञ्चिन्नोपपद्यते ।
कथञ्चिदधिके यत्ने दोषः कश्चित्समापतेत्’ इति वचनात् ।
‘क्ळ्प्तस्य तु कथञ्चनऽ‘तथापि तत्क्ळ्प्तमेव’ इत्युक्तम् ।
द्वयस्यापि साध्यमाहतस्मादिति ।
… तस्मान्न नियमोज्खितिः । (अनुव्याख्यानम्)३,४.५फ़् ।
न्यायसुधा-
क्ळ्प्तहायभावादधिकानुष्ठाने विकर्मपत्तिनियमाच्च ।
श्रौततारतम्यनियमभङ्गो नास्तीत्यर्थः ।
उक्तार्थमुदाहरतिचन्द्रेति ।
चन्द्रसुग्रीवयोश्चैव स्वोच्चदारपरिग्रहात् ।
प्राप्तहानिरभून्नैव क्ळ्प्तहानिः यथञ्चन । (अनुव्याख्यानम्)३,४.६ ।
न्यायसुधा-
चशब्दो यथेत्यर्थे ।
एवशब्दस्य प्राप्तहानिरेवेत्यन्वयः ।
ह्रासो ऽपि मानुषादीनामानन्दस्य विकर्मणा ।
भवेन्मुक्तौ विशेषेण स्वोच्चानामपराधतः । (अनुव्याख्यानम्)३,४.७ ।
न्यायसुधा-
देवानां विकर्मणा प्रसक्तहानिरेव भवति न तु क्ळ्प्तहानिरित्युक्तम् ।
तदतिरिक्तानां तु कथमित्यपेक्षायामाहह्रासो ऽपीति ।
क्ळ्प्तस्यापीत्यपेरर्थः ।
आनन्दस्येत्युपलक्षणम् ।
ह्रासोनामानभिव्यक्तिः ।
सा चेश्वरेच्छाधीना ।
प्रकृत्याद्यावरणानामपास्तत्वात् ।
विकर्मस्वप्यधिकं निर्धारयन्नाहविशेषेणेति ।
स्वोत्तमविषयापराधाद्विशेषेणानन्दह्रासो भवति ।
। ओं कामचारेण चैके ओं ।
स्यादेतत् ।
अत्राधिकरणे कामचारेण चैक इति सूत्रेण ज्ञानोत्तरकालं कृतेन विकर्मणा ज्ञानिनो लेपाभावो ऽभिधीयते ।
तथोपमर्दं चेति सूत्रेण ज्ञानात्पूर्वेषां कर्मणां ज्ञानेन विनाशः ।
एतदुभयं चतुर्थे ऽध्याये तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशाविति सूत्रेणोच्यते ।
तत्कथं च पुनरुक्तिदोष इत्यतस्तावत्कामचारेण चैक इत्यस्य पुनरुक्तिदोषं परिहरतिज्ञानोत्तरस्येति ।
कामकारेण चैके । ब्ब्स्_३,४.१५ ।
११,२०
ज्ञानोत्तरस्य पापस्य चतुर्थे ऽलेप उच्यते । (अनुव्याख्यानम्)३,४.८अब् ।
न्यायसुधा-
चतुर्थे ऽध्याये उत्तराघस्याश्लेष इत्यनेन ज्ञानोत्तरस्य पापस्यालेपस्तत्फलनराकादिप्राप्त्यभाव उच्यते ।
विषयान्तरमाहअशुचित्वादिकं चेति ।
अशुचित्वादिकं तस्य न भवेदिति तत्फलम् । (अनुव्याख्यानम्)३,४.८च्द् ।
न्यायसुधा-
अस्य ज्ञानिनरस्तत्फलं ज्ञानोत्तरपापफलमशुचित्वासम्भाष्यत्वादिकं न भवेदिति चोत्तराघस्याश्लेष इत्यनेनोच्यते ।
ततः किमित्यत आहअत्रेति ।
अत्र ज्ञानफलस्यैव मुक्तेर्नियततोच्यते । (अनुव्याख्यानम्)३,४.८एफ़् ।
न्यायसुधा-
अत्र तृतीये ऽध्याये कामचारेण चैक इत्यनेन ज्ञानफलस्य मुक्तेर्नियतता ।
ज्ञानिना कृतानि पापानि ज्ञानफलं मोक्षं न विहन्तुमलभित्येषो ऽर्थ उच्यते ।
अतो न पुनरुक्तिदोष इति ।
। ओं उपमर्दं च ओं ।
द्वितीयां पुनरुक्तिं परिहर्तुमुपमर्दं चेत्यस्य प्रतिपाद्यमाहप्रारब्धेति ।
उपमर्दं च । ब्ब्स्_३,४.१६ ।
प्रारब्धकर्मजस्यैव विषभक्षान्मृतेरिव ।
प्राप्तस्याप्यनिवर्त्यस्य किञ्चिद् भुक्तस्य संविदा ।
उपमर्द इह प्रोक्तो … । (अनुव्याख्यानम्)३,४.९अए ।
११,२०फ़्.
न्यायसुधा-
चतुर्थे ऽध्यायो पूर्वार्धस्य स्वरूपविनाशः कथ्यते ।
अनारब्धकार्ये एवेति वचनात् ।
इह तृतीये ऽध्याये तूपमर्दं चेति सूत्रेण प्रारब्धकर्मजस्य फलस्यैव संविदोपमर्दः प्रोक्तः ।
नतु प्रारब्धस्याप्रारब्धस्य वा कर्मणो नाश इति न पुनरुक्तिदोषः ।
नन्वत्र प्रारब्धकर्मण इत्येव कस्मान्नोक्तं किं तज्जनितफलग्रहणेन ।
नैवंय शङ्कयम् ।
‘भोगेन त्वितरे’ इति प्रारब्धस्य कर्मणो भोगविनाश्यत्वोक्तेः ।
संविद्विनाश्यत्वाङ्गीकारे तद्विरोधात् ।
ईषद्विनाशस्तु फलद्वारेणैव ।
कर्मणां निर्भागत्वात् ।
ननु च फलोपमर्दे कर्मोपमर्द एवोक्तो ऽर्थतः स्यात् ।
तथाच भोगेनेति सूत्रविरोधस्तदवस्थ इत्यत उक्तं किञ्चिद् भुक्तस्येति ।
न सर्वस्य प्रारब्धकर्मफलस्योपमर्दः संविदोच्यते ।
किन्नाम किञ्चिद्भुक्तस्यातो न सूत्रविरोधः ।
कर्माणि ज्ञानिनं न तावत्स्वफलं भोजयन्ति यावदज्ञानिनमिति भावः ।
यथोक्तम् ।
‘न वै जनो जातु कथञ्चनाव्रजेन्मुकुन्दसेव्यन्यवदङ्ग संसृतिम्’ इति ।
ननु’अवश्यमनुभोक्तव्यं कृतं कर्म शुभाशुभम्’ इति ।
प्रारब्धकर्मफलोपभोगस्यापरिहायर्त्वस्मरणात्कथमेतदित्यत उक्तम् अनिवर्त्यस्य प्राप्तस्यापीति ।
अपरिहार्यतया प्रसक्तस्यापीत्यर्थः ।
अनिवर्त्यतया प्रसक्तस्यापीत्यर्थः ।
अनिवर्त्यस्यापीत्येतावत्येव वक्तव्ये प्राप्तस्येत्यनेन विरोधपरिहारं सूचयति ।
अत्र दृष्टान्तमाहविषेति ।
११,२१
यथा विषभक्षणान्मृत्तिरनिवर्त्यतया प्रसक्तैव न पुनरतिवर्त्यैव ।
विषहरमन्त्रौषधादिना निवृत्तेर्दर्शनात् ।
तथा प्रारब्धकर्मफलभोगो ऽप्यनिवर्त्यतया प्रसक्त एव न त्वनिवर्त्य एव ।
ज्ञानादिना निवृत्तेरुपपादयिष्यमाणत्वात् ।
तथाच विषभक्षणान्मरणमवश्यं भावीति वचनवदवश्यमनुभोक्तव्यमिति वचनस्याप्यर्थो ऽवगन्तव्यः ।
उत्सर्गतः प्रारब्धकर्मफलानि भोक्तव्यान्येव ।
अपवादेन तूपमृद्यन्त इति ।
किं सर्वेषां ज्ञानिनां प्रारब्धकर्मफलोपमर्द एकविध एवोत नानाविध इत्यपेक्षायामाहदेवादीनामिति ।
११,२२
किं सर्वेषां ज्ञानिनां प्रारब्धकर्मफलोपमर्द एकविध एवोत नानाविध इत्यपेक्षायामाह देवादीनामिति ।
… देवादीनां यथाक्रमम् । (अनुव्याख्यानम्)३,४.९ ।
न्यायसुधा-
येषामधिकं ज्ञानं तेषामधिक इत्यादि ।
एतेन’नाविशेषात्’ इति मध्ये पठितस्य सूत्रस्य पूर्वत्रोत्तरत्र चोपयोग
इत्युक्तं भवति ।
प्रारब्धकर्मणां भोगेन विना न क्षयः ।
किन्तु ब्रह्मज्ञानेन फलह्रासो भवतीत्युक्तम् ।
तत्रैके मन्यन्ते ।
अचिन्त्यो हि ब्रह्मज्ञानस्य महिमा ।
अतस्तत्सामर्थ्यादप्रारब्धानीव प्रारब्धान्यपि कर्माण्यभुक्तफलानि क्षीयन्ते ।
नाभुक्तं क्षीयते कर्मेत्यादिवाक्यानि त्वज्ञानिविषयाणि ।
ततश्च ज्ञानाग्निः सर्वकर्माणीति सर्वशब्दो ऽयपीडितः स्यादिति ।
अन्ये तु परमेश्वरेच्छोपोद्बलितानि प्रारब्धानि भोजयन्त्येव सर्वं स्वफलम् ।
न कश्चिदपि फलह्रासो ऽस्तीति ।
तत्राद्यं मतं तावदपाकरोतिसर्वात्मनेति ।
सर्वात्मना त्वभोगो हि प्रारब्धस्यैव कर्मणः ।
न ब्रह्मदर्शिनो ऽपि स्यात् … । (अनुव्याख्यानम्)३,४.१०अच् ।
११,२३
न्यायसुधा-
ब्रह्मदर्शिनो ऽपि प्रारब्धस्य कर्मणः सर्वात्मना त्वभोगो न स्यादेव ।
विना भोगेन ब्रह्मज्ञानादेव प्रारब्धान्यपि कर्माणि क्षीयन्त इति मतमनुपपन्नमित्यर्थः ।
तथा सति ब्रह्मविदां संसारावस्थानं न स्यात् ।
निर्बीजत्वात् ।
लोकानुग्रहार्थमेव विग्रहांस्ते बिभ्रतीति चेन्न ।
शापादिनिमित्तानामापादामपीतिहासपुराणेषु बहुलमुपलम्भात् ।
तस्य तावदेव चिरमित्यादिश्रुत्या चावगम्यते कर्मावस्थानमिति हिशब्दार्थः ।
द्वितीयं मतमपाकर्तुमाहफलेति ।
… फलह्रासस्तु विद्यते । (अनुव्याख्यानम्)३,४.१०द् ।
न्यायसुधा-
प्रारब्धस्य कमर्ण इति वर्तते ।
ओम्मित्यच्चार्यान्तरिममात्मानमभिपश्योपमृद्य पुण्यं च पापं च काममाचरन्तो ब्रह्मानुव्रजन्ति’ इत्यागमादिति भावः ।
यस्त्वागमप्रारब्धविषयं व्याख्याय प्रारब्धकर्मफलस्येषदपि ह्रासो नास्तीति ब्रूयान्तं प्रत्याहसर्वात्मनेति ।
सर्वात्मना फलह्रासो यदि नारब्धकर्मणः ।
स्यात् काम्यविधिवैयर्थ्यम् … । (अनुव्याख्यानम्)३,४.११अच् ।
न्यायसुधा-
ईषदपीत्यर्थः ।
ब्रह्महत्यादिकर्मविपाकक्षयरोगादिनिवृत्त्यर्थाः प्रायश्चित्तविधयो ऽत्र काम्यविधयो विवक्षिताः ।
११,२४
अयमत्रोत्तरक्रमः ।
‘ब्रह्महा क्षयरोगी स्यात्’ इति स्मरणात्क्षयादिकं तावद्ब्रह्महत्यादेः फलम् ।
तत उत्पादितक्षयादिकं ब्रह्महत्यादिप्रारब्धमेव ।
तस्य च प्रारब्धकर्मफलस्य क्षयादेः प्रायश्चित्तकरणे निवृत्तिर्दृश्यते ।
तत्कथं प्रारब्धकर्मकफलस्य सर्वथाप्यनुपमर्दः ।
अथ मन्येत ।
प्रायश्चित्तं न क्षयनिवृत्तिहेतुः किन्तु भोगनिमित्तकर्मक्षय एवेति ।
तदा प्रायश्चित्तविषयो व्यर्थाः स्युः ।
गृहदाहेष्ययादिवत्प्रायश्चित्तानां नैमित्तिकत्वं भविष्यतीति चेन्न ।
क्षयादिसंयोगेन विधीयमानानामेषां तद्विघातफलसम्भवे फलान्तरकल्पनानुपपत्तेः ।
किञ्चात्र नियतपश्चाद्भावित्वमसमाहितमेव ।
तदिदमुक्तं काम्येति ।
तथापि ब्रह्मज्ञानं न तदर्थं विहितमिति चेन्न ।
फलश्रयणेनैव विधिकल्पनात् ।
अनेनैव न्यायेन प्रायश्चित्तानां कमर्क्षयहेतुत्वाभावो ऽपि निरस्तः ।
तथा सति प्रायश्चित्तविधीनां वैयर्थ्यापत्तेः ।
नैमित्तिकत्वपक्षस्य च दृष्टादृष्टहानोपादानप्रसङ्गेन निरस्तत्वात् ।
अथ कर्मणो द्वयी शक्तिः ।
एका तावत्फलजननी अपरा त्वसंव्यवहार्यत्वहेतुः ।
प्रायश्चित्तैर्द्वितीयापाक्रियत इति चेत् ।
एवं तर्हि कर्मविपाकप्रायश्चित्तानामपीयमेव गतिरिति कथं नोपमर्दः ।
किञ्च न सर्वो रोगः सर्वं च दुरितमसंव्यवहार्यताहेतुरिति तत्र प्रायश्चित्तवैयर्थ्यमेव स्यात् ।
अपि च क्षयकुष्ठाद्युपहतो ऽपि न प्रायश्चित्ताचरणमात्रेण संव्यवहार्यः ।
किन्तु क्षयाद्यपगम एवेति तत्कारणत्वमेव प्रायश्चित्तानामङ्गीकार्यम् ।
मरणान्तिकप्रायश्चित्तानामानर्थक्यं च स्यात् ।
श्राद्धादिव्यवहारसिद्धयर्थं तदिति चेन्न ।
परिव्राजकानां तदभावापातादित्यलम् ।
उपसंहरतिइत्युक्तेति ।
… इत्युक्तनियमो भवेत् । (अनुव्याख्यानम्)३,४.११द् ।
११,२५
न्यायसुधा-
इतिशब्दस्तस्मादित्यर्थे ।
प्रारब्धकर्मणां भोगादेव क्षयस्तथापि फलह्रासो ऽपि विद्यत इत्युक्तनियमो भवेदुपपन्न इति शेषः ।
जोस्हि२७
११,३०
एवमुत्पन्ननिर्देषः’ इत्यादिनोक्तार्थे स्मृतिसम्मतिमाहएवमादीति ।
एवमद्यापि सम्प्रोक्तं तन्त्रभागवते स्फुटम् । (अनुव्याख्यानम्)३,४.११एफ़् ।
न्यायसुधा-
आदिपदेनैतदुपयुक्तमन्यत् ।
भाष्यादावुदाहृतैवर्चनैरपीत्यपेरर्थः ।
यद्वैवमादीत्येतदधिकरणप्रमेयं तदुपयुक्तं च गृह्यते ।
अपिपदेन प्रथमाधिकरणप्रमेयस्य समुच्चयः ।
अथवाधिकरणप्रमेयस्य समुच्चयः ।
अथवाधिकरणद्वयाथर् एवमादीत्यनेन गृहीतः ।
द्वितीयाद्यधिकरणार्थग्रहणायापिशब्दः ।
पुरुषार्थाधिकरणे स्तुत्यधिकरणे च ज्ञानफलस्य तारतम्यमभिहितम् ।
तत्संसारिकफलस्य न विप्रतिपन्नमिति मुक्तिगतस्य साधयितुमुत्तरो ग्रन्थः ।
ये मोक्षे भेदमेव नाङ्गीकुवर्ते ये चाङ्गीकृत्यापि भेदमानन्दादिकं नाभ्युपयन्ति न तान्प्रति तारतम्यसाधनस्यावकाशः ।
किन्तु भेदादिसाधनमेव कतर्व्यम् ।
करिष्यते च चतुर्थे ऽध्याये ।
ये पुनर्भेदमानन्दादिकं चाङ्गीकृत्यापि तारतम्यं न मन्यन्ते तान्प्रत्यय प्रयत्नः क्रियते ।
यावदधिकारमित्यधिकरणार्थस्यैवायं प्रपञ्च इति न दोषः ।
११,३१
तत्र तावच्छत्या मुक्तावानन्दतारतम्यमुपपादयतितारतम्यमिति ।
तारतम्यं फले नो चेद् ब्रह्मादीनां कथं श्रुतिः ।
अवृजिनो ऽकामहत इति मुक्तिं निगद्य च ।
आनन्दतारतम्यं च तेषां ब्रूयात् पृथक् पृथक् । (अनुव्याख्यानम्)३,४.१२ ।
११,३२
न्यायसुधा-
ब्रह्मादीनां ज्ञानफले मुक्तिगामित्यानन्दे यदि यदि तारतम्य नो भवेत्तर्हि कथं’स यो हवै मनुष्याणां राद्ध’ इत्यादिका वाजसनेयिनां
सैषाऽनन्दस्य मीमांसा भवति’ इत्यादिका तैत्तिरीयाणां च श्रुतिस्तेषां ब्रह्मादीनामानन्दस्य तारतम्यं ब्रूयात् ।
सर्वे ऽप्युत्तरोत्तरं शतगुणनन्दा इत्यनभिधाय पृथक्पृथगेव ब्रवीति ।
तेन तत्र तात्पर्यसद्भावश्चावगम्यते ।
ब्रह्मादीनामानन्दस्य यश्च श्रुतिर्ब्रवीति मुक्तानां तु तत्साध्यत इति किं केन सङ्गतमित्यत उक्तमवृजिन इति ।
यश्च श्रोत्रियो ऽवृजिनो ऽकामहत इत्याद्या ।
श्रोत्रियस्य चाकामहतस्येति द्वितीया ।
यद्यपि श्रोत्रियत्वमपि मुक्तिज्ञापकमित्यन्यत्रोक्तम् ।
तथापि बहुसंविधानसाध्यं तदिति न सङ्कीतिर्तम् मुक्तिं च निगद्य तेषां मुक्तानामानन्दतारतम्यं च ब्रवीति ।
चशब्दौ मिथः समुच्चये ।
तैत्तिरीयश्रुतिरप्यत्रोपलक्षितेत्युत्तरत्र ज्ञास्यते ।
११,३३
श्रुतिद्वयोक्तमानन्दतारतम्यं संसारविषयमेव न मुक्तिविषयमित्याशङ्कय परिहरतिसंसार इति ।
संसार एव चेदेतत् तारतम्यं न मुख्यतः ।
अकामहतशब्दार्थो ऽवृजिनत्वं च नो भवेत् । (अनुव्याख्यानम्)३,४.१३ ।
न्यायसुधा-
एतच्छत्युक्तं तारतम्यं संसार इत्येवोक्ते सिद्धान्तिनो नानिष्यम् ।
मुक्तामुक्तविषयताया वक्ष्यमाणत्वात् ।
अत एवेत्युक्तं तस्यैव विवरणं न मुख्यत इति ।
सप्तम्यर्थे तसिः ।
एतत्तारतम्यं संसार एव न तु मुख्ये पुरुषार्थे मोक्षे इति चेदित्यर्थः ।
तर्ह्यकामहतशब्दार्थो ऽकामहतत्वमवृजिनत्वं च नो भवेत् ।
युक्तमिति शेषः ।
तथाहि ।
यश्च श्रोत्रियो ऽवृजिनो ऽकामहत इति श्रोत्रियस्य चाकामहतस्येति चोक्ताकामहतत्वादिकं किं प्रकृतानां संसारिणामेव विशेषणमुत
संसार्यन्तरसमुच्चयार्थम् ।
नाद्यः ।
यतः सम्भवे व्यभिचारे च विशेषणमर्थवत् ।
नच ब्रह्मादयः केचिदश्रोत्रियत्वादिगुणाः सन्ति ।
येन व्यभिचारनिवारणार्थमेतत्स्यात् ।
नापि संसारिष्वकामहतत्वादिकं सम्भवति ।
अत एव द्वितीयो ऽपि परास्तः ।
११,३४
ननु संसारिष्वप्यकामहतत्वादिकं कथञ्चित्सम्भवति ।
सत्यम् ।
मुख्यतो न सम्भवतीति ब्रूमः ।
नच विना बाधकेनामुख्याङ्गीकारो युक्तः ।
एतेनावृजिनो ऽकामहत इति मुक्तिं निगद्येत्येतद्विवृतं भवति ।
कथमकामहतत्वादेः संसारिष्वसम्भव इत्यतो ऽकामहतत्वस्य तावदुपपादयतिकामस्येति ।
कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि ।
इति यल्लक्षणं मुक्तेः श्रुतिराह बलीयसी । (अनुव्याख्यानम्)३,४.१४ ।
कामाहतिः कुतो ऽन्यत्र … । (अनुव्याख्यानम्)३,४.१५अ ।
न्यायसुधा-
यत्र लोके कामस्येच्छायाः कामा विषया आप्ताः पर्याप्तास्तत्र माममृतं मुक्तं अपि कुर्विति वायुं प्रति प्रार्थनम् ।
यद्यस्मादिति श्रुतिरित्याप्तकामत्वं मुक्तेर्लक्षणत्वेनाह ।
विशेषणस्येतरव्यावृत्त्यर्थत्वात् ।
निरवकाशत्वादिना बलीयसाः श्रुतेरन्यथयितुमशक्यत्वात् ।
तस्मात्कामाहतिरकामहतत्वं मुक्तादन्यत्र कुतः सम्भवेत् ।
आप्तकामत्वस्य मुक्तलक्षणत्वेन श्रुत्युक्तत्वे तदेवं संसारिष्वसम्भवि स्यात् ।
अकामहतत्वं तु कथमसम्भवीत्यत आहप्राप्तेति ।
… प्राप्तकामस्य सा भवेत् । (अनुव्याख्यानम्)३,४.१५ब् ।
न्यायसुधा-
सा कामहतिः ।
अकामहतत्वस्याप्तकामत्वं हेतुः ।
नच निमित्ताभावे नैमित्तिकस्य सम्भवो ऽस्ति ।
तत्र निमित्तं चाप्तकामत्वं संसारिषु न सम्भवतीत्युक्तम् ।
ततो नैमित्तिकमकामहतत्वमपि तत्रासम्भवीति ।
११,३६
आप्तकामत्वस्याकामहतत्वं प्रति निमित्तत्वं विवृणोतिअप्रयत्नेनेति ।
अप्रयत्नेन कामानामवाप्तिः सा यदा भवेत् ।
तदैवाकामहतता कुत एवान्यथा भवेत् । (अनुव्याख्यानम्)३,४.१५च्फ़् ।
न्यायसुधा-
साकामहतेति सम्बन्धः ।
याकामहतशब्दात्प्रतीयते सेत्यर्थः ।
अन्यथाप्रयत्नेन कामानामवाप्त्यभावे कुत एव कारणात्साकाशमहतया भवेन्न कुतो ऽपीत्यन्वयव्यतिरेकावुक्तौ ।
एतदुक्तं भवति ।
कामेनोपद्रवो हि कामहतता तदभावश्चाकामहतता ।
कामनिमित्तोपद्रवाभावश्चानायासेन तत्तद्विषयप्राप्तावेव भवति नान्यथेत्यनुभवसिद्धम् ।
अतः प्राप्तकामत्वाकामहतत्वयोर्निमित्तनैमित्तिकभावो युक्त एवेति ।
नायमस्ति नियमः, यदाप्तकामस्यैव, कामनिमित्तोपद्रवाभावो नान्यथेति ।
कामभावे ऽपि तन्निमित्तोपद्रवाभावसम्भवादिति चेत् ।
किमनेनोक्तस्य व्यभिचारमात्रं चोद्यते किं वा प्रकृतेषु संसारिष्वप्याप्तकामत्वाभावे ऽप्यकामत्वेनाकामहतता सम्भवतीत्याशास्यते ।
नाद्यः ।
वक्ष्यमाणन्यायेन विशेषणप्रक्षेपात् ।
न द्वितीयः ।
ब्रह्मादयो न कामरहिता असुप्तामूढचेतनत्वाद्देवदत्तवदित्यनुमानविरोधादित्याशयवाननुमानस्य व्याप्तिमुपपादयतिचेतनस्येति ।
चेतनस्य त्वसुप्तस्य कुत्र दृष्टा ह्यकामता । (अनुव्याख्यानम्)३,४.१६अब् ।
११,३६फ़्.
न्यायसुधा-
घटादौ व्यभिचारपरिहाराय चेतनस्येत्युक्तम् ।
सुप्तमुग्धयोस्तत्परिहारायासुप्तस्येति ।
अमुग्धस्येत्यपि द्रष्टव्यम् ।
ननु सुप्तौ मोहे च न चेतयत एव ।
अतश्चेतनस्येत्यनेनैव तद्वयवच्छेदसिद्धेर्व्यर्थं विशेषणमिति ।
मैवम् ।
चेतनशब्देनात्मत्वमात्रस्य विवक्षितत्वात् ।
चैतन्ययोगे हि विवक्षिते कामाभावाङ्गीकारसाहसादबिभ्यत्परश्चैतन्याभावमपि ब्रह्मादीनामङ्गीकुर्यादित्यसिद्धिः स्यात् ।
तदिदमुक्तं तुशब्देन ।
कुत्रेत्याक्षेपे ।
हिशब्दो यस्माद्वयाप्ति सिद्धेति शेषः ।
नोपादेयमेव वा हेतावसुप्तत्वादिविशेषणम् ।
नच तथा सति व्यभिचारापातः ।
सुप्त्यादावप्यात्मनः कामसद्भावात् ।
नचैवं सति यत्र सुप्तो न कञ्चन कामं कामयत इत्यादिश्रुत्यानुपलम्भेन च विरोधः ।
विद्यमानानामपि कामानां तदानीमव्यक्तत्वेन श्रौताभावव्यवहारस्यानुपलम्भस्य चोपपत्तेः ।
११,३८
व्यक्तकामाभिप्रायेण प्राग्विशेषणमुपात्तमित्याशयवानाहअव्यक्तिरेवेति ।
अव्यक्तिरेव कामानां न नाशो मोहसुप्तयोः । (अनुव्याख्यानम्)३,४.१६च्द् ।
न्यायसुधा-
नाशो ऽभावः ।
सुप्तं सुप्तिः ।
नपुंसके भावे क्तः ।
११,३९
स्यादेतत् ।
सुप्त्यादौ कामसद्भावे सिद्धे युक्तमव्यक्तिकल्पनम् ।
स एव तु कुतः सिद्ध इत्यत आहयत्काम इति ।
यत्कामः स्वापमाप्नोति तदेवोत्थापितः कुतः ।
अवशो ऽपि व्याहरति कुतः सुप्तावकामता । (अनुव्याख्यानम्)३,४.१७ ।
न्यायसुधा-
मोहो ऽत्रापि ग्राह्यः ।
व्याहरतीत्यतः परं यतस्तस्मादित्यध्याहार्यम् ।
यद्भोजनादिकं कामयमानो देवदत्तः स्वापादिकमाप्नोत्युत्थापितः पुनस्तदेव कदाचिद्वयाहरतीति तावदनुभवसिद्धम् ।
तस्माद्वयाहरणविशेषाच्च तस्य तदा तत्र कामो ऽस्तीत्यनुमीयते ।
स च न तावदुत्थानानन्तरमुत्पन्नः ।
तदा देवदत्तस्यावाशत्वात् ।
वस्तुदर्शने ऽनुमानादिनेष्यसाधनताज्ञाने च सति खलु कामोदयः स्यात् ।
नचावशस्यैषा कामसामग्री कल्पयितुं शक्यते ततः प्राक्तन एव कामः सुप्त्यादौ सन्नतरो(व्यक्तो)ऽनुवर्तमानः पुनः सहकारिलाभक्रमेण
व्यज्यत इत्येवाङ्गीकार्यम् ।
तथाचाह पतञ्जलिः ।
अविद्याक्षेत्रत्वमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणामिति ।
यत एवं तस्मात्कुतः सुप्त्यादावात्मनो ऽकामता स्यात् ।
११,४१
नन्वयं केवलो विशिष्यो वा चेतनत्वहेतुर्मुक्तेष्वनैकान्तिकः ।
तेषां कामाभावादित्यत आहसर्वेति ।
सर्वकामानवाप्नोति ब्रह्मणा सह मुक्तिगः ।
पर्येति तत्र जक्षंश्च क्रीडन् रतिमवाप्नुवन् । (अनुव्याख्यानम्)३,४.१८ ।
कामान्नी कामरूपी सन्निमान् लोकांश्च सञ्चरन् ।
आस्ते गायन् साम मुक्त इत्यादिश्रुतिसद्बलात् । (अनुव्याख्यानम्)३,४.१९ ।
अकामः स्यात् कथं मुक्तः … । (अनुव्याख्यानम्)३,४.२०अ ।
न्यायसुधा-
अनेन’सो ऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता’ इति श्रुतिमुपादत्ते ।
पर्येतीत्यनेन’स तत्र पर्येति जक्षन्क्रीडन्रममाणः’ इति ।
जक्षन्निति वैदिकत्वात्साधुः ।
कामान्नीत्यनेन’इमांल्लोकान्कामान्नी कामरूप्यमनुसञ्चरन् ।
एतत्साम गायन्नास्ते’ इति ।
आदिपदेन’स एकधा भवतीत्यादेः सङ्ग्रहः ।
बलात्कामसद्भावावगतेरिति शेषः ।
यद्येप्येताः श्रुतयो न साक्षान्मुक्तस्य कामसद्भावमाचक्षते ।
तथापि सामर्थ्यात्तं गमयन्त्येव ।
तदिदमुक्तं श्रुतिबलादिति ।
तच्च सामर्थ्यमव्यभिचरितमेव न तु सम्भावनामात्रमिति सच्छब्देनाह ।
तथाहि ।
कामकर्मत्वाद्धि विषयाः कामाः ।
कर्मणि घञो विधानात् ।
तया च सो ऽश्नुते सर्वान्कामानित्यत्र सन्निधेस्तत्कामकर्मभूतान्विषयानश्नुत इत्युक्तं स्यात् ।
निष्कामस्य शिलासमस्य कामावाप्तिः कीदृशी स्यात् ।
पर्यटनादिकं च कामकार्यं न विनान कामेन सम्भवति ।
स्त्रीभिर्निष्कामस्य स्मरणमत्यन्तासम्भावितम् ।
अन्नादीनां च कामत्वं काम्यतयैवेति पूर्ववत्कामावगतिः ।
यद्यपि स यदि पितृलोककामो भवतीत्याद्या विस्पष्टाः श्रुतयो ऽत्र सन्ति तथापि शिष्यैर्न्यायमनुसन्दधानैर्भाव्यमित्येतासामुदाहरणम् ।
मुक्तस्याकामत्वाभावान्नानैकान्त्यं हेतोरिति ।
११,४३
ननु मुक्तानां कामाभावे ऽपि’यदा सर्वे प्रमुच्यन्ते कामा ये ऽस्य हृदि श्रिताः ।
अथ मर्त्यो ऽमृतो भवत्यत्र ब्रह्म समश्नुते’ इत्याद्या श्रुतिरस्ति ।
तत्कथं कामवत्त्वनिश्चय इत्यत आहकामा ये ऽस्येति ।
… कामा ये ऽस्य हृदि श्रिताः ।
इत्यन्तःकरणस्थानां कामानां मोक्षमेव हि ।
आह श्रुतिर् … । (अनुव्याख्यानम्)३,४.२०ब्ए ।
न्यायसुधा-
इति श्रुतिरित्यन्वयः ।
अन्तःकरणस्थानामेवेति च ।
नतु सर्वथापीत्येवार्थः ।
हिशब्दो यस्मादित्यर्थे ।
तस्मादकामः स्यात्कथं मुक्त इति सम्बन्धः ।
कुतः श्रुतेरर्थसङ्कोचः क्रियत इत्यत आहहृदीत्येवेति ।
… हृदीत्येव न चेद् व्यर्थं विशेषणम् । (अनुव्याख्यानम्)३,४.२०एफ़् ।
न्यायसुधा-
नचेदेषा श्रुतिरुक्तरीत्या व्याख्यायेत ।
सर्वथापि कामाभावपरेति व्याख्यायेतेति यावत् ।
तदा हृदि श्रिता इति कामानां विशेषणं व्यर्थमेव स्यात् ।
व्यावर्त्याभावात् ।
अतो विशेषणं प्रयुञ्जाना श्रुतिरन्तःकरणपरिणतीनां कामानामेव मुक्तावभावो ऽन्तःकरणस्यैवाभावान्न तु सर्वेषां स्वरूपभूतानां
कामानामवस्थानादित्येतमर्थं गमयतीति ।
११,४४
भवेदेतत् ।
यदीदं विशेषणं स्यात् ।
नचैवम् ।
व्यावर्त्याभावात् ।
एतत्सर्वं मन एवेति श्रुत्या सर्वेषामपि कामानां मनःपरिणाम(व)त्वमेव न त्वात्मधर्मः कामो ऽस्तीत्यवगमात् ।
अतो हृदि श्रिता इत्येतत्स्वरूपकथनमात्रमित्याशयेनाशङ्कय निषेधतिहृद्येवेति ।
हृद्येष तेषां श्रयणमिति पक्षो न भासते । (अनुव्याख्यानम्)३,४.२१अब् ।
न्यायसुधा-
अन्तःकरण एव ।
तेषां कामानाम् ।
भासते शोभते ।
कुतो न भासत इत्यत आहमुक्तनामिति ।
मुक्तानां कामितामाह पृथक्छाखासु यच्छ्रुतिः । (अनुव्याख्यानम्)३,४.२१च्द् ।
न्यायसुधा-
अन्तःकरणविधुराणामपीत्यर्थः ।
यद्यस्मात्तस्मान्न शोभत इति सम्बन्धः ।
श्रुतिः पूर्वोदाहृता ।
नन्वेतदयुक्तम् ।
प्रागुदाहृतश्रुतेः प्रतिपक्षतयोद्भाविताया अस्याः श्रुतेस्तथैव बाधस्योच्यमानत्वात् ।
मैवम् ।
प्रागुदाहृतश्रुतेः प्रबलत्वेन बाधकत्वोपपत्तेः ।
तथाहि ।
कामश्रुतिस्तावन्निरवकाशा ।
तदभावश्रुतिस्तूक्तरीत्या सावकाशा ।
विशेषणस्वरूपकथनत्वसन्देहे ऽपि न निरवकाशत्वम् ।
एतत्सर्वं मन एवेत्यपि सावकाशश्रुतिरिति साङ्खयाधिकरणे ऽभिहितम् ।
किञ्च कामश्रुतिः सर्वास्वपि शाखास्वस्ति ।
तथैवोदाहृतत्वात् ।
तदभावश्रुतिस्तु क्वचिदेवेति कथं न बाध्यबाधकभावः ।
तदिदमुक्तं पृथक्शाखास्विति ।
११,४५
कामस्य यत्रेत्यादिनोक्तमर्थमुपसंहरतिअत इति ।
अतो ऽकामहतत्वं तु मुक्तानामेव मुख्यतः । (अनुव्याख्यानम्)३,४.२२अब् ।
११,४५फ़्.
न्यायसुधा-
कामनिमित्तोपद्रवाभावस्याकामहतत्वस्याकामत्वाप्तकामत्वाभ्यामेवोपपत्तेरकामत्वस्य चेतनमात्रे ऽसम्भवादाप्तकामत्वस्य च
मुक्तलक्षणत्वेन तत्रैव सम्भवादमुक्तेष्वसम्भवादित्यर्थः ।
मुक्तानामेव धर्म इति सिद्धमिति शेषः ।
११,४६
सत्यम् ।
मुख्यया वृत्त्याकामहतत्वं मुक्तेष्वेव सम्भवति ।
तथापि कामनिमित्तबहुतरोपद्रवाभावाद्ब्रह्मादिष्वप्यमुख्यं युज्यत एव ।
अतः संसारिण एव श्रुतिप्रतिपाद्याः किन्न भवन्तीति चेत् ।
किं मुख्यार्थपरिग्रहे बाधकसद्भावात्तत्परित्यागः क्रियते किंवा वृथैव ।
नाद्यः ।
तदभावात् ।
बाधकाभासानां च निराकरिष्यमाणत्वात् ।
द्वितीयं दूषयतिमुख्यार्थस्येति ।
मुख्यार्थस्य वृथा त्यागो मायिनामेव भूषणम् । (अनुव्याख्यानम्)३,४.२२च्द् ।
न्यायसुधा-
अपरीक्षका एव मायावादिप्रभृतयो विना बाधकेन मुख्यार्थं त्यजन्ति ।
वाच्यार्थपरमेश्वरपरित्यागेन निर्गुणलक्षणाङ्गीकारात् ।
नतु न्यायविद इति ।
अपापत्वमदुःखत्वं चावृजिनत्वमिहोदितम् । (अनुव्याख्यानम्)३,४.२३अब् ।
न्यायसुधा-
एवमकामहतत्वस्यामुक्तेष्वसम्भवमभिधायावृजिनत्वस्याप्यभिधास्यन्नवृजिनत्वं तावद्वयाख्यातिअपापत्वमिति ।
इहोदितमवृजिनत्वं तावदपापत्वमदुःखत्वं चेति योजना ।
कुत एतदित्यत आहअप्रियमिति ।
अप्रियं वृजिनं दुःखमकं तोद इतीयर्ते । (अनुव्याख्यानम्)३,४.२३च्द् ।
तत्कारणत्वात् पापं वा वृजिनं नाम कथ्यते ।
इत्युक्तः स्वयमीशेन नामार्थः शब्दनिर्णये । (अनुव्याख्यानम्)३,४.२४ ।
न्यायसुधा-
दुःखमप्रियमित्यादिशब्दैरीर्यत इति सम्बन्धः ।
तत्कारणत्वाद् दुःखकारणत्वात् ।
दधित्रपुसं प्रत्यक्षो ज्वर इति यथा ।
एतेन वृजिनशब्दो दुःखे मुख्यः ।
पापे तादर्थ्यात्ताच्छब्द्यमित्युक्तं भवति ।
अत एव वाशब्दः ।
नामार्थो वृजिननामार्थः ।
वृजिनशब्दस्य दुःखाद्यर्थत्वे ऽवृजिनशब्दस्यादुःखाद्यर्थत्वं सिद्धमेवेति भावः ।
११,४९
ततः किं यद्यपापत्वादिकमवृजिनशब्दार्थ इत्यत आहअपापत्वं चेति ।
अपापत्वं च नैवास्ति यावत्संसारमस्य हि ।
आरब्धपापमस्त्येव दुःखं च ज्ञानिनो ऽपि हि । (अनुव्याख्यानम्)३,४.२५ ।
न्यायसुधा-
चशब्दो वक्ष्यमाणसमुच्चयार्थः ।
अस्य जीवस्य ।
हिशब्दः संसारित्वादिति हेतुसूचनार्थः ।
तद्यथा इषीकातूलमित्यादिश्रौतेर्ज्ञानिनः पापाभावात्कथमेतदित्यत उक्तमारब्धेति ।
अनारब्धविषया श्रुतिरिति भावः ।
ज्ञानिनो ऽप्यारब्धपापमस्त्येवेति सम्बन्धः ।
दुःखं चास्त्येव पापसद्भावादिति हिशब्दार्थः ।
तस्मादवृजिनत्वमपि मुक्तेभ्यो ऽन्यत्रासम्भवीति सिद्धम् ।
११,५०
केचिदेतां श्रुतिं अन्यथा व्याचक्षते ।
यश्च श्रोत्रियो ऽवृजिनो ऽकामहत इति श्रोत्रियस्य चाकामहतस्येति च वाक्यं न मुक्तसङ्ग्रहार्थम् ।
किन्नाम प्रकृतमनुष्यगन्धर्वादिविषयमेव ।
नच तत्रासम्भवः ।
श्रोत्रियञ्छन्दोधीत इति स्मरणाच्छ्रोत्रियशब्दस्य छन्दो ऽधिगतिनिमित्तत्वात् ।
मनुष्यगन्धर्वादीनां च सर्वज्ञकल्पत्वात्प्रारब्धपापसद्भावे ऽपि न ते तदा पापमाचरन्तीत्यवृजिना एवोच्यन्ते ।
विषयवैराग्योपेतत्वादकामहताश्च भवन्तीति ।
नच व्यावर्त्याभावेन वैयर्थ्यमिति युक्तम् ।
नहि वयं श्रोत्रियत्वादिकं विशेषणत्वेन ब्रूमः ।
किन्तु मनुष्येभ्यो मनुष्यगन्धर्वाणां शतगुणानन्दत्वे ऽभिहिते तत्र हेत्वाकाङ्क्षायामिदमुच्यते ।
एवं मनुष्यगन्धर्वेभ्यो देवगन्धर्वाणां शतगुणानन्दाभिधाने कुत इत्याकाङ्क्षायां श्रोत्रियत्वादिहेतुरुच्यते ।
एवमुत्तरत्रापि ।
नच वाच्यं सर्वेष्वपि विद्यमानं श्रोत्रियत्वादिकमानन्दातिशये कथं हेतुः स्यादिति ।
मनुष्यादप्यतिशयेन मनुष्यगन्धर्वः श्रोत्रियो ऽवृजिनो ऽकामहतश्च यतः ।
एवं पूर्वपूर्वनिर्दिष्यादप्यतिशयेनोत्तरोत्तरः श्रोत्रियत्वादिमान् यस्मादिति व्याख्यानादिति ।
तदेतन्न्निराचष्टे तस्मादिति ।
तस्मात् तस्मादकामत्वमिति चाश्रुतकल्पना । (अनुव्याख्यानम्)३,४.२६अब् ।
न्यायसुधा-
चस्त्वर्थः ।
तस्मात्तस्मात्पूर्वपूर्वनिर्दिष्यादतिशयेनोत्तरोत्तरस्याकामत्वम् ।
उपलक्षणमेतत् ।
श्रोत्रियादिकं चेति व्याख्याने त्वश्रुतकल्पनं स्यात् ।
तस्मादित्यतिशयेनेति चाश्रुतस्य कल्पनीयत्वात् ।
अन्यथा विवक्षितार्थस्यालाभात् ।
दोषान्तरमाहअकामेति ।
अकामहत इत्युक्तेः श्रुतहानिरपि स्फुटा । (अनुव्याख्यानम्)३,४.२६च्द् ।
न्यायसुधा-
श्रुतावकामहत इत्युक्तेः परेण चाकाम इति व्याख्यातत्वाच्छतस्य हतशब्दस्य हानिरपि स्फुटाऽपद्यते ।
नहि हतशब्दस्य किञ्चित्प्रयोजनमस्ति ।
अतः श्रुताश्रुतत्यागोपादानप्रसङ्गादयुक्तमिदं व्याख्यानमिति ।
११,५२
अपरे तु व्याचक्षते ।
यश्चो श्रोत्रिय इति श्रोत्रियस्य चेति च न मुक्तविषयं नापि प्रकृतमनुष्यगन्धर्वादिविषयं किन्तु पुरुषान्तरविषयम् ।
तथाहि ।
मनुष्येभ्यो मनुष्यगन्धर्वाणां शतगुणस्तावदानन्दः ।
यश्चापरः श्रोत्रियो ऽवृजिनो मनुष्यगन्धर्वपदे कामरहितश्च ।
तस्यापि मनुष्येभ्यः शतगुणो मनुष्यगन्धर्वसमान एवानन्दो भवतीत्येवं तेषु तेषु पदेष्वकामस्य तत्तत्समानानन्दत्वमत्रोच्यते ।
नच वाच्यं विरक्तानां सर्वत्र कामाभावात्कथमियं तारतम्योक्तिरिति ।
तदतिरिक्तपदेषु कामसद्भावस्य विवक्षितत्वात् ।
यो यो यावदायासान्मुक्तो ऽसावसौ तावदानन्दवानित्यर्थो ह्यत्र प्रतिपिपादयिषित इति ।
एतदपि श्रुतहानाश्रुतकल्पनाप्रसङ्गादेव निरस्तम् ।
अत्रापि हतशब्दस्य प्रयोजनाभावेन ह्यातव्यत्वात् ।
तस्मिन्पद इत्यस्यान्यत्र सकाम इत्यस्य च कल्पनीयत्वात् ।
अधिकं दोषमाहकुत्रचिदिति ।
कुत्रचित् कामिनः पुंसः कामाभावात् क्वचित् क्वचित् ।
इन्द्रादिसुखभोगो ऽस्तीत्यनुभूतिर्हि कुप्यति । (अनुव्याख्यानम्)३,४.२७ ।
११,५३
न्यायसुधा-
कुत्रचिदिन्द्रादिपदव्यतिरिक्ते कामिनः पुंसः क्वचित्क्वचिदिन्द्रादिपदे कामाभावादिन्द्रादिसमानसुखानुभवो ऽस्तीति व्याख्याने ऽनुभवविरोधः
स्यात् ।
राज्यमकामयमानस्य राजसमानसुखानुभूतेरनुभवबाधितत्वस्य स्पष्टत्वात् ।
वैराग्यप्रशंसातो न तत्त्वं मार्गणीयमिति चेन्न ।
निरवधिकानन्दस्वरूपो ऽयमात्मा कामाद्युपद्रवावरणात्तु तथा न भासते ।
अतो यावद्यावत्कामक्षयस्तावत्तावदानन्दोत्कर्षो दृश्यत इत्यस्यार्थस्य प्रदर्शनार्थमस्य प्रकरणस्यावतारितत्वात् ।
आनन्दोत्कर्षे(ऽत्र)तु तात्पर्यं शतगुणत्वे तु न निर्भरः कार्य इति चेन्न ।
देवपदाकामादिन्द्रपदाकामस्यानन्दविशेषादर्शनादिति ।
११,५६
तर्हि कः श्रुत्यर्थ इत्यत आहतस्मादिति ।
तस्मादमुक्तसुखगं तारतम्यं पृथक् पृथक् ।
उक्त्वा यश्चेति मुक्तानां तारतम्यं सुखे श्रुतिः ।
आहेति पेशलं … । (अनुव्याख्यानम्)३,४.२८अए ।
न्यायसुधा-
अर्थान्तरप्रतीतेर्निरस्तत्वात् ।
अमुक्तमनुष्यादिसुखसम्बन्धितारतम्यं ते ये शतमित्यादिवाक्यैः पृथक् पृथगुक्त्वा यश्चेति श्रोत्रियस्य चेति च वाक्येन मुक्तानां
मनुष्यगन्धर्वादीनां सुखे तारतम्यं श्रुतिरतिदेशेनाहेति व्याख्यानमेव पेशलम् ।
नन्वेवं सति वाक्यभेदो दोषः स्यात् ।
मैवम् ।
ज्ञापकसद्भावादित्याहतच्चेति ।
… तच्च चशब्दादेव गम्यते । (अनुव्याख्यानम्)३,४.२८एफ़् ।
११,५६फ़्.
न्यायसुधा-
यश्चेति वाक्यस्य प्रकृतादन्यो विषय इत्येतच्च चशब्देनैव गम्यते ।
किमुतैकवाक्यगतायामुक्तानुपपत्त्येत्येवार्थः ।
चशब्दो ह्ययं समुच्चयस्य द्योतकः प्रतीयते ।
देवदत्तो धनिको यज्ञदत्तश्चेति तथा ।
नचैकविषयतायामेवं युज्यते ।
नहि भवति वसिष्ठो ब्रह्मिष्ठो ऽरुन्धतीपतिश्च तथेति प्रयोगः ।
विशेषणसमुच्चये चशब्दः किन्न स्यादिति चेन्न ।
मुख्यार्थे बाधकाभावेन त्यागायोगात् ।
वचनव्यत्ययश्चैकवाक्यतायां स्फुट एव ।
तथात्वे खलु ते ये शतं कर्मदेवानामानन्दाः ।
स एक आजान(ज)देवानामानन्दो ये श्रोत्रिया अवृजिना अकामहताश्चेति स्यात् ।
तथा तेत ये शतं मानुषा आनन्दाः स एको मनुष्यगन्धर्वाणामानन्दः श्रोत्रियाणामकामहतानामिति भवेत् ।
११,५७
नन्वेवं तर्हि कथं बृहदारण्यकवाक्यं भाष्ये मुक्तमात्रविषयं व्याख्यातम् ।
यश्चेति विशेषणसमुच्चयपरमुक्तम् ।
अयमभिप्रायो भाष्यकारस्य ।
सर्वथा वाक्यद्वयमेवेदं भिन्नविषयम् ।
एकवाक्यताश्रद्धायामपि मुक्तमात्रविषयमस्तु ।
तत्रानुपपत्तीनामल्पत्वात् ।
नामुक्तमात्रविषयम् अनुपपत्तिबाहुल्यादिति ।
११,५८
मानुषादिहिरण्यगर्मान्तानाममुक्तानां मुक्तानां चोत्तरोत्तरं शतगुणानन्दत्वं श्रुतिद्वयमाहेत्ययुक्तम् ।
मानुषानन्दनिर्देशो मुक्तज्ञापकाभावात् ।
नहि तत्राकामहतत्वादिकमन्यद्वा किमपि श्रूयते इत्याशङ्कां निराकुर्वन् श्रुत्यर्थं विवृणोति ।
राद्ध इतयादिनाभिवीक्षत इत्यन्तेन ।
तत्र तावत् बृहदारण्यके मनुष्यमुक्तस्य ज्ञापकं दर्शयतिराद्ध इति ।
राद्धः संसिद्ध इत्येव मुक्त एवावगम्यते ।
साधुना विष्णुना युक्तो मुक्तः साधुयुवा मतः । (अनुव्याख्यानम्)३,४.२९।
११,५९
न्यायसुधा-
स यो मनुष्याणां राद्धः समृद्धो भवतीत्युपक्रमवाक्ये राद्ध इति पदेन मुक्त एव गृह्यते नामुक्तः ।
कया वृत्त्याभिधयैव न तूपचर्यते ।
येन मुख्यार्थानुपपत्त्यादिकं व्युत्पादनीयं स्यात् ।
कथम्? संसिद्ध इति ।
एतदुक्तं भवति ।
राध साध संसिद्धाविति पठ्यते ।
राधधातोश्च’गत्यर्थाकर्मकश्लिषशीङ्स्थाऽसवसजनरुहजीर्यतिभ्यश्च’ इत्यकर्मकत्वात्कर्तरि क्तः ।
ततो राद्धः संसिद्ध इत्युक्तं भवति ।
संसिद्धिश्च मुक्तिरेव नित्यत्वेन दुःखासम्भिन्नत्वेन च समीचीनसिद्धित्वात् ।
नेतरा, अनित्यत्वेन दुःखसम्भिन्नत्वेन चासमीचीनत्वात् ।
नच मुख्ये सम्भवत्यमुख्यार्थो ऽङ्गीकर्तुं शक्यत इति ।
एवं समृद्धशब्दो ऽपि मुक्तस्यैव वाचकः ।
मुक्तिं विना सम्यगृद्धेरभावात् ।
अन्येषामधिपतिरित्यादिकं तु मुक्तामुक्तसाधारणम् ।
यथा च मुक्ते सम्भवति तथोक्तं भाष्ये ।
११,६०
इदानीं तैत्तिरीयश्रुतौ मुक्तमनुष्यज्ञापकं दर्शयन्युवा स्यादित्यादीनि पदानि व्याचष्टेसाधुनेति ।
साधुना विष्णुना युक्तो मुक्तः साधुयुवा मतः । (अनुव्याख्यानम्)३,४.२९च्द् ।
यौवनं नित्यमेतस्य मुक्तस्येति युवा स च ।
फलमध्ययनस्याप्तं तेनाध्यायक ईरितः । (अनुव्याख्यानम्)३,४.३० ।
निर्ह्रासानन्दसम्प्राप्त्या चाशिष्ट इति गीयते ।
स्थितस्यानन्यथा प्राप्तेर्दृढिष्ठ इति चोदितः । (अनुव्याख्यानम्)३,४.३१ ।
बलिष्ठश्च स्वभावेन मुक्तो भवति केवलम् । (अनुव्याख्यानम्)३,४.३२अब् ।
११,६०फ़्.
न्यायसुधा-
निर्देषो हि साधुरित्युच्यते ।
नच विष्णोरितरो निर्देषो ऽस्ति ।
अतः साधुना विष्णुनेत्युक्तम् ।
तृतीयान्ते साधुशब्द उपपदे यु मिश्रण इत्यसमात्’अन्येभ्यो ऽपि दृश्यन्ते’ इति क्वनिप्प्रत्यये कृते साधुयुवेति भवति ।
यद्वा युजिर् ।
योग इत्यस्येदं रूपम् ।
दृशिग्रहणसामर्थ्याद्धातोरन्तलोपः ।
तथाच भगवत्सामीप्यलक्षणमोक्षवानित्युक्तं भवति ।
युवशब्दादप्यतिशयेन साधुयुवशब्दो मुक्तस्य ज्ञापक इति क्रममतिलङ्घयादौ व्याख्यातः ।
यद्यपि युवशब्दो यौवननिमित्तस्तथापि मुख्यामुख्ययोर्मुख्ये सम्प्रत्यय इति नित्ययौवनमङ्गीकार्यम् ।
तच्चैतस्य मनुष्यस्य मुक्तस्यैव युज्यते न संसारिण इति हेतोर्युवा च स मुक्त एव ।
अध्यायकशब्दो यद्यप्याङधिपूर्वादिङध्ययन इत्यस्मात् ण्वुलि प्रत्यये सति निष्पन्नः सम्यगध्ययनस्य कर्तारमाह ।
तथाप्यत्र पुरुषार्थप्रसङ्गादध्ययनस्यापुरुषार्थत्वादध्ययनफलप्राप्तेर्लक्षको वर्णनीयः ।
अध्ययनस्य फलं च तेन मुक्तेनैवाप्तम् ।
मुक्तेरेव तत्फलत्वात् ।
तेन कारणेन मुक्त एवाध्यापक ईरितः ।
आ सम्यक् समन्ताच्च शमस्येत्याशः ।
अतिशयेनाश आशिष्ठः ।
सम्यक्त्वादि च ह्रासाभावादिकमेव ।
ततो निर्ह्रासस्य योग्यतानुसारेण पूर्णस्यानन्दस्य सम्प्राप्त्या कारणेन मुक्त एवाशिष्ठ इति च गीयते ।
अविकारो हि दृढो नाम ।
अतिशयेन दृढो दृढिष्ठः ।
छान्दसत्वात्’र ऋतो हलादेर्लघोः’ इत्येतन्न भवति ।
मुक्त एव स्थितस्यानन्यथाप्राप्तेः अतिशयेन निर्विकारत्वात् दृढिष्ठ इति चोदितः ।
बलमस्यास्तीति बली ।
अतिशयेन बली बलिष्ठः ।
अतिशयश्च स्वाभाविकत्वम् ।
स्वभावेन बलिष्ठश्च केवलं मुक्तो भवति ।
नामुक्तः ।
अतो बलिष्ठ इति स एवोच्यत इति ।
११,६५
ननु मुक्तस्य’तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात्’ इति वित्तपरिपूर्णपृथिवीपतित्वमुच्यमानं कथं युज्यत इत्यत आहतस्येति ।
तस्येयं पृथिवीत्यादि पूर्वभावव्यपेक्षया । (अनुव्याख्यानम्)३,४.३२च्द् ।
न्यायसुधा-
पूर्वभावो ऽमुक्तत्वं मुक्तामुक्तमनुष्ययोर्विवक्षया हि युवा स्यादित्यादिकमारब्धम् ।
तत्र युवा स्यादित्यादिका मुक्तं प्रतिपाद्यामुक्तविवक्षया तस्येत्यादिवाक्यं प्रवृत्तमित्यर्थः ।
अनेनैव न्यायेनान्येषामधिपतिरित्यादिकममुक्तविषयं प्रतिपत्तव्यम् ।
नन्वेवं युवा स्यादित्यादेर्मुक्तामुक्तविषयताङ्गीकृतावेकविषयताप्रतीतिविरोध इत्याशङ्कानिरासायामुक्तेति वक्तव्ये पूर्वभावेत्युक्तम् ।
एक एव चेतनो युवादिशब्दैः प्रतिपाद्यते ।
तस्य चावस्थाभेदेन विशेषणानि व्यवस्थाप्यते ।
एक एव चेतनो युवादिशब्दैः प्रतिपाद्यते ।
तस्य चावस्थाभेदेन विशेषणानि व्यवस्थाप्यन्ते ।
तस्मादेकविषयताप्रतिभासो नानुपपन्न इति ।
११,६६
एवं वाजसनेयश्रुतौ’स यो ह वै मनुष्याणामित्यादेः सम्पन्नतम इत्यन्तस्य, तैत्तिरीयश्रुतौ च युवा स्यादित्यादेः पूर्णा स्यादित्यन्तस्य’
मुक्तामुक्तपरत्ववर्णनेन स मनुष्याणां परम आनन्दो ऽथ(ते)ये शतं मनुष्याणामानन्दा इत्येतत्स एको मानुष आनन्दस्ते ये शतं मानुषा
आनन्दा इत्येतच्च मुक्तामुक्तविषयमिति सिद्धे तैत्तिरीयश्रुतिगतं स एको मनुष्यगन्धर्वाणामानन्दः श्रोत्रियस्य चाकामहतस्येत्येतावद्वयाचष्टेस
एक इतीति ।
स एक इति संसारगतमुक्तवा सुखं पुनः ।
श्रोत्रियस्येति वदति मुक्ताच्छतगुणात्मताम् । (अनुव्याख्यानम्)३,४.३३ ।
न्यायसुधा-
संसारगतं सुखमुक्त्वेति संसारिमनुष्यसुखाच्छतगुणं संसारिणो मनुष्यगन्धर्वस्य सुखमुक्त्वेत्यर्थः ।
मुक्ताच्छतगुणात्मतामिति मुक्तमनुष्यस्य सुखान्मुक्तमनुष्यगन्धर्वस्य शतगुणसुखात्मतां वदतीत्यर्थः ।
श्रुतिरिति शेषः ।
स एक इति वाक्येन श्रोत्रियस्येति वाक्येन ।
११,६७
अनेनैव न्यायेन ते ये शतं मनुष्यगन्धर्वाणामानन्दा इत्यादिकं व्याख्येयमित्याशयवानाहसंसारगादिति ।
संसारगाच्च संसारगतस्यैव शताधिकम् ।
मुक्तान्मुक्तस्य … । (अनुव्याख्यानम्)३,४.३४अच् ।
न्यायसुधा-
संसारिमनुष्यगन्धर्वादिसुखादित्यर्थः ।
संसारगतस्य देवगन्धर्वादेः शताधिकं शतगुणाधिकं सुखमुक्त्वेति वर्तते ।
मुक्तान्मुक्तस्येति मुक्तमनुष्यगन्धर्वादिसुखाच्छतगुणं मुक्तदेवगन्धर्वादेः सुखं वदतीत्यर्थः ।
अनेन ते ये शतमित्युभयमेकोक्त्या परामृश्य स एक इति श्रोत्रियस्येति च यथायोग्यं पृथक् शतगुणानन्दत्वमुच्यत इत्युक्तं भवति ।
अनयैव रीत्या स एकः पितॄणामित्यादि वाजसनेयश्रुतिवाक्यमपि व्याख्येयम् ।
उपक्रमे मुक्तश्रवणादाजान(ज)देवादौ यश्च श्रोत्रिय इत्यादिना तच्छ्रवणान्मध्ये ऽपि यश्च श्रोत्रिय इत्यनुवर्तनीयम् ।
श्रुतिद्वयविसंवादस्तु भगवत्पादैरन्यत्र परिहृत इति ।
११,७०
श्रुतिद्वयव्याख्यानमुपसंहरतियुक्तं स्यादिति ।
… युक्तं स्याच्छ्रुत्युक्तमभिवीक्षितः । (अनुव्याख्यानम्)३,४.३४च्द् ।
न्यायसुधा-
श्रुत्युक्तमभिवीक्षतो ऽभिवीक्षमाणस्य सम्यग्विचारयतो मतेनैतदेव व्याख्यानं युक्तं स्यात् ।
अथवाभिवीक्षो ऽभिवीक्षणं सम्यग्विचारस्तस्मादिदमेव श्रुत्युक्तं युक्तं स्यादिति ।
११,७१
एवं श्रुत्या मुक्तौ तारतम्यमुपपाद्य युक्त्याप्युपपादयतियुक्तं चेति ।
युक्तं च साधनाधिक्यात् साध्याधिक्यं सुरादिषु । (अनुव्याख्यानम्)३,४.३५अब् ।
न्यायसुधा-
सुरादिषु मानुषादिभ्यः साध्याधिक्यं मुक्तिगतफलाधिक्यं साधनाधिक्याद्धेतोर्युक्तमनुमितं चेत्यर्थः ।
देवादयो मानुषादिभ्यो ऽधिकमौक्तफलभाजस्तदपेक्षयाधिकतत्साधनवत्त्वादित्युक्तं भवति ।
विपक्षे बाधकाभावन्दप्रयोजको ऽयं हेतुरित्यत आहनाधिक्यमिति ।
नाधिक्यं यदि साध्ये स्यात् प्रयत्नः साधने कुतः । (अनुव्याख्यानम्)३,४.३५च्द् ।
न्यायसुधा-
सुरादिष्विति वर्तते ।
मानुषादिभ्य इति च ।
साधने साधनाधिक्ये ।
यदि देवादयो मानुषादिभ्यो ऽधिकमौक्तफलभाजो न स्युस्तदा तदधिकतत्साधनार्थप्रयत्नवन्तो न स्युः ।
अनधिकफलाय चाधिकं प्रयत्नमातिष्ठमाना न प्रेक्षावन्तो भवेयुरिति विपक्षे बाधकान्नाप्रयोजको हेतुः ।
११,७३
प्रमाणाभावात्स्वरूपासिद्धो ऽस्त्वित्यत आहयत्नश्चेति ।
यत्नश्च दृश्यते तेषां महानेव महात्मनाम् । (अनुव्याख्यानम्)३,४.३६अब् ।
न्यायसुधा-
महात्मनां महाफलभाक्त्वेनानुमेयानां तेषां देवादीनां मानुषादिभ्यो महान्यत्नो ऽधिकं मोक्षसाधनानुष्ठानं च दृश्यत एव प्रमाणैः ।
तान्यपि वक्ष्याम इति भावः ।
व्याप्तिमुपपादयतियत्रेति ।
११,७४
यत्र साधनबाहुल्यं साध्यबाहुल्यमत्र च ।
दृष्टं नियमतो … । (अनुव्याख्यानम्)३,४.३६च्ए ।
न्यायसुधा-
यत्र पुरुषे यदपेक्षया साधनाधिक्यमस्त्यत्र तदपेक्षया साध्याधिक्यं च नियमेन दृष्टम् ।
कर्षकवाणिग्राजपुरुषादिषु लोके, वेदे चाग्न्याहितादिषु, यो यदधिकसाधनवानसौ तदधिकसाध्यवानिति नियमेन तत्तत्प्रमाणैरुपलब्धमेवेत्यर्थः ।
यस्त्वग्न्याधानादिफलानां तारतम्यमजानानः कृष्टादिस्थले च धान्यादौ तारतम्यं कारणान्तरायत्तं न कृष्टादिसाधनतारतम्याधीनमिति मन्यमानो
दृष्टान्तेष्वपि विप्रतिपद्यते तं प्रत्याहनो चेदिति ।
… नो चेन्न यत्नं कुर्यरञ्जसा । (अनुव्याख्यानम्)३,४.३६एफ़् ।
न्यायसुधा-
यदि लोके वेदे च साधनाधिक्यात्साध्याधिक्यं नो भवेत् ।
तदा के ऽप्यञ्जसा यत्नं साधनातिशयानुष्ठानं न कुर्युः किन्तु सममेव कुर्युः ।
इतरथा प्रेक्षावन्तो न भवेयुः ।
न ह्यग्न्याधानेन यावान्स्वर्गो ऽश्वमेधेनापि तावत एव लाभे ऽश्वमेधे कश्चित्प्रवर्तेत ।
प्रवर्तमानो वाबुद्धिमान्भवेत् ।
द्रो(णावा)णवापमात्रकर्षणेन यावान्धान्यलाभस्तावत एव स्वार्(यावा)रीवापकर्षणेन भावे न कश्चित्तत्र प्रवर्तेत ।
तथात्वे च मन्दः स्यात् ।
दृष्टं वृष्टयादिकमदृष्टं धर्मादिकं च साधनान्तर्भूतमेवेति न व्यभिचारः शङ्कनीयः ।
एवं मानुषादयो देवादिभ्यो ऽल्पमुक्तिफलभाजस्तदपेक्षयाल्पसाधनवत्त्वाद्यो यदपेक्षयाल्पसाधनवान्स ततो ऽल्पफलवान्दृष्टः यथा सम्मतः ।
देवादयो मानुषान्ता मुक्तौ फलतारतम्यवन्तः साधनतारतम्योपेतत्वाद्ये यत्साधनतारतम्यवन्तस्ते तत्साध्यतारतम्यवन्तो यथा सम्मताः ।
ब्रह्मादीनां मानुषान्तानां मोक्षफलानि तारतम्यवन्ति तारतम्यवत्साधनसाध्यत्वात्सम्मतवदित्यनुमानान्यप्यत्र द्रष्टव्यानि ।
अनुकूलतर्कादिकं च पूर्ववदूहनीयमिति ।
जोस्हि२८
११,७६
स्यादेतत् ।
मुक्ता अप्युपासनं कर्म चानुतिष्ठन्तीति गुणोपसंहारपादे समर्थितम् ।
न चैकप्रकारमेव तेषामनुष्ठानमिति नियामकमस्ति ।
तथाच तेषामुपासनादितारतम्ये सत्यपि तत्प्रयुक्तफलतारतम्याभावादयुक्तान्येव सतर्काण्यनुमानानि ।
मुक्तैरनुष्ठितं साधनमेव न भवति साध्याभावादिति चेत् ।
अमुक्तै(मुमुक्षुभि)रनुष्ठितस्याप्यधिकस्य तथात्वोपपत्तेः ।
अनुष्ठानं च मुक्तवल्लीलात्मकं भविष्यतीत्यत आहकृच्छ्रेणेति ।
११,७७
कृच्छ्रेण साधनादेव न मुक्तवदुदीर्यते । (अनुव्याख्यानम्)३,४.३७अब् ।
न्यायसुधा-
मुमुक्षुभिः कृच्छ्रेणैव साधनानां साधनादनुष्ठानात्कारणान्मुक्तवन्मुक्तानामिवलीलयानुष्ठानं न भवति ।
अनेन विशेषणप्रक्षेपादनैकान्त्यादि परिहृतम् ।
मुक्तानां कृच्छ्राभावाल्लीलावैलक्षण्यदर्शनादन्यथासिद्धिरप्यपास्ता ।
नहि कृच्छ्रवती लीला भवतीत्युक्तं भवति ।
कृच्छ्रेण मुमुक्षूणां साधनानुष्ठाने किं प्रमाणमित्यत आहउदीर्यत इति ।
एतदागमेनोदीर्यत इत्यर्थः ।
तदागमं पठतिदशकल्पमिति ।
११,७८
दशकल्पं तपश्चीर्णं रुद्रेण लवणार्णवे ।
त्यक्तवा सुखानि सर्वाणि क्लिष्टेन लवणाम्भसा । (अनुव्याख्यानम्)३,४.३७च्फ़् ।
शक्रेण वर्षकोटिश्च धूमः पीतो ऽतिदुःखतः ।
वर्षायुतं च सूर्येण तपो ऽवाक्छिरसा कृतम् । (अनुव्याख्यानम्)३,४.३८ ।
सुदुःखेन सुखं त्यक्तवा धर्मेणाकाशशायिना ।
पीता मयीचयो वर्षसाहस्रमतिसादरम् । (अनुव्याख्यानम्)३,४.३९ ।
अतिकृच्छ्रेण कुर्वन्ति यत्नं ब्रह्मविदो ऽपि हि ।
इत्य् … । (अनुव्याख्यानम्)३,४.४०अच् ।
न्यायसुधा-
कल्पो ब्रह्मणो दिवसः ।
पात्रादित्वान्नपुंसकम् ।
कालाध्वनोरत्यन्तसंयोग इति द्वितीया ।
यद्वा दशकल्पमिति बहुव्रीहिः ।
तपसो विशेषणम् ।
सहस्रं परिमाणमस्येति साहस्रः सङ्घः ।
तदस्य परिमाणमित्यर्थे शतमानविंशतिकसहस्रवसनादणित्यणो विधानात् ।
अन्ये ऽप्यतिकृच्छ्रेण यत्नं कुवर्न्ति किमैहिकफलार्थं नेत्युच्यते ब्रह्मविदो ऽपीति ।
विषयवैराग्यमनेनोपलक्ष्यते ।
ब्रह्मज्ञानोत्त(र)रं साधनानुष्ठानेन मोक्षतारतम्यस्योपरि साधयिष्यमाणत्वादत्र सामान्यमात्रं विवक्षितम् ।
इतिशब्दो वाक्यसमाप्तौ ।
११,८६
अनुमानमुपसंहरतिएतदिति ।
… एतदखिलं मोक्षविशेषाभावतः कथम् । (अनुव्याख्यानम्)३,४.४०च्द् ।
न्यायसुधा-
एतदखिलं कृच्छ्रेण साधनानुष्ठानम् ।
विशेषो वैचित्र्यम् ।
सप्तम्यर्थे तसिः ।
कथं युज्यते ।
ततो ऽनेन मोक्षविशेषः सिद्ध इति शेषः ।
स्यादेतत् ।
मुक्तौ तारतम्यानुमानं कालात्ययापदिष्यम् ।
परमं साम्यमुपैतीत्यादिश्रुतिविरुद्धत्वादिति ।
मैवम् ।
श्रुतेः श्रुतिस्मृतिबाधितत्वेन बाधकत्वासम्भवादित्याशयवान्मोक्षतारतम्यवादिनीः श्रुतिस्मृतीस्तावत्पठतिदैवीति ।
दैवी सम्पद् विमोक्षाय निबन्धायासुरी मता ।
इति मोक्षविशेषश्च स्वयं भगवतोदितः । (अनुव्याख्यानम्)३,४.४१ ।
११,८७
न्यायसुधा-
तमेव यूयं भजतात्मवृत्तिभिर्मनोवचःकायगुणैः स्वकर्मभिः ।
अमायिनः कामदुघाङ्घ्रिपङ्कजं यथाधिकारावसितार्थसिद्धये । (अनुव्याख्यानम्)३,४.४२ ।
अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः ।
आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे । (अनुव्याख्यानम्)३,४.४३ ।
इत्यादीनि च वाक्यानि तारतम्यं विमुक्तिगम् ।
व्यक्तं वदन्ति … । (अनुव्याख्यानम्)३,४.४४ ।
न्यायसुधा-
सम्पद्योग्यता ।
विमोक्षो विशिष्यमोक्षः ।
निबन्धो नीचस्थाने ऽन्धे तमसि बन्धः ।
तादर्थ्ये चतुर्थी ।
चशब्द एवार्थे ।
भगवता स्वयमेवोक्त इति सम्पद्यते ।
अन्यथा वीत्युपसर्गस्य वैयर्थ्यापत्तेः ।
तमेवेति मुनीन्प्रति पृथोर्वाक्यम् ।
तं विष्णुमेव ।
आत्मवृत्तिभिरित्यस्यैव विवरणं मनोवचःकायकार्यैः स्वकर्मभिरिति ।
अमायिनश्छद्मरहिता निष्कामाः ।
यथाधिकारं योग्यतानुसारेणावसितस्य निश्चितार्थस्य मोक्षस्य सिद्धय इति मोक्षतारतम्योक्तिः ।
अमायिन इत्युक्तत्वादर्थशब्देन मोक्षस्यैवोक्तेः ।
अक्षण्वन्तो ऽक्षिमन्तः ।
अनो नुडिति नुट् ।
कर्णवन्तः प्राप्तसमस्तेन्द्रियफलाः ।
परस्परं सखायो मुक्ता ।
मनोजवेषु मनोजवः प्रज्ञातिशयो बहुवचनमाद्यर्थे ज्ञानादिगुणेषु असमास्तारतम्योपेता बभूवुः ।
भगवत्सामीप्ये च तारतम्यमुच्यते ।
तेषु केचिदादध्नास आस्यशब्दस्याऽभावः ।
आस्यं परिमाणस्येत्यादध्नममृतं तदेतेषामस्ति स्थानमित्यर्शआदिभ्यो ऽच् ।
आस्यपरिमाणे सुधानिधौ विहरन्त इति दूरत्वमुच्यते ।
यद्वा तरतमशब्द इव दध्नशब्दो ऽप्रत्ययो ऽप्यस्ति ।
ततश्च सम्यग्दध्ना मग्ना इत्यर्थः ।
त्वे केचिदुपगताः कक्षं वनमुपकक्षाः ।
उशब्द एवार्थः ।
श्वेतद्वीपगतवनक्रीडारता एवेति मध्यत्वमुच्यते ।
आञ्जसेरसुगित्यसुक् ।
त्वे(एव)एके स्नात्वाः स्नातव्याः ।
कृत्यर्थे’तवैकेन् केन्यत्वन’ इति त्वन् ।
हृदा इव गम्भीराः परमेश्वरं ददृश्रे ददृशुः ।
हरयोरे ।
अनेनातिसामीप्यमुच्यते ।
‘श्रुत्वा विष्णुं कर्णफलम्’ इत्यादिस्मृत्यास्य मन्त्रस्यैव व्याख्यातत्वान्नार्थान्तरं कल्पनीयम् ।
इत्यादीनि चेति चशब्देन प्रागुदाहृतकाण्वतैत्तिरीयश्रुती समुच्चिनोति ।
व्यक्तं निरवकाशम् ।
ततः किमित्यत आहतत्केनेति ।
११,८८
… तत् केन साम्यं मुक्तेषु गम्यते । (अनुव्याख्यानम्)३,४.४४च्द् ।
न्यायसुधा-
तत्तस्मान्निरवकाशश्रुतिस्मृतिबाधितत्वात्केन न केनापि ।
यदुदाहृतं वाक्यं तन्न तत्परमिति भावः ।
११,९७
तर्हि कस्तस्यार्थ इत्यत आहदुःखादीति ।
दुःखाद्यभावसाम्यं च साम्यवाक्यार्थ ईयते । (अनुव्याख्यानम्)३,४.४५अब् ।
न्यायसुधा-
चशब्दो ऽवधारणे परमानन्दसाम्यसमुच्चये वा ।
यथोक्तम् ।
‘दुःखाभावः परानन्दो लिङ्गभेदः समा मता’ इति ।
किञ्चनेदमनुमानमुत्प्रेक्षितम् ।
किन्त्वागमसिद्धम् ।
तत्र कथं कालातीताशङ्केत्याशयेनाहभक्त्यादीति ।
भक्तयादिगुणसद्भावे ह्यतुल्यत्वं च भारते ।
उक्तं … । (अनुव्याख्यानम्)३,४.४५च्ए ।
११,९७फ़्.
न्यायसुधा-
तारतम्येन भक्त्यादिगुणसद्भावे सति भक्त्यादिसाधनगुणानां तारतम्येन हेतुनेति यावत् ।
अतुल्यत्वं मोक्षफलस्य ।
न केवलमस्माभिः किन्तु भारते चोक्तम् ।
हीति तद्वाक्यस्य प्रसिद्धानां सूचयति ।
यथा सति हि गुणे प्रवदन्त्यतुल्यतामिति ।
सति साधौ गुणष भक्त्यादावतुल्ये सति फलस्याप्यतुल्यतां वदन्ति हीत्यर्थः ।
साधनतारतम्यं प्रमाणैर्दृश्यत इत्युक्तम् ।
कानि तानीत्यतः कृच्छ्रेणानुष्ठानं प्रदर्शयितुमुदाहृतं तावदेकं वाक्यम् ।
अन्यान्यपि सन्तीत्याहसाधनेति ।
… साधनवैशेष्यमपि सर्वत्र कथ्यते । (अनुव्याख्यानम्)३,४.४५एफ़् ।
न्यायसुधा-
साधकानां साधनवैचित्र्यं सर्वत्रापि ग्रन्थेषु ।
११,९९
तानि वाक्यानि पठतिदुर्ज्ञेयमिति ।
दुर्ज्ञेयं घोररूपस्य त्रैलोक्यध्वंसिनः प्रभोः ।
दैवतैर्मुनिभिः सिद्धैर्महायोगिभिरेव च । (अनुव्याख्यानम्)३,४.४६ ।
न्यायसुधा-
प्रभोर्नृसिंहस्य ध्यानचक्रं देवतादिभिर्दुर्ज्ञेयम् ।
कुतो घोरं भयङ्करं रूपमस्येति तथोक्तः ।
त्रैलोक्यं ध्वंसितुं शीलमस्येति ।
एवशब्देन न सञ्ज्ञामात्रेण महायोगिनः किन्त्वर्थत एवेत्याहतदेवोक्तं नित्यमुक्तैरित्यादिना ।
नित्ययुक्तैर्महाभागैर्विमुक्तक्लेशसाध्वसैः ।
महोत्साहैर्महाधैर्यैः सत्त्वस्थैर्व्यवसायिभिः । (अनुव्याख्यानम्)३,४.४७ ।
अतीतानागतज्ञानप्रभवाप्ययवेदिभिः ।
शौचस्वाध्यायसन्तोषतपस्सत्यदयान्वितैः । (अनुव्याख्यानम्)३,४.४८ ।
किमु मर्त्यैर्भयभ्रान्तिध्वंसमोहरुजान्वितैः ।
अल्पायुर्वीर्यधीसत्त्वव्यवसायश्रुतिव्रतैः । (अनुव्याख्यानम्)३,४.४९ ।
न्यायसुधा-
सर्वदा ध्यानाद्युद्योगवद्भिः ।
भागो भाग्यमिन्द्रियजयादि ।
मोहो मिथ्याज्ञानम् ।
क्लेशा अविद्यायाः ।
साध्वसं विघ्नादिभयम् ।
न केवलं सदोद्युक्ताः किन्तु स चोद्योगो महानित्युच्यते महोत्साहैरिति ।
सत्त्वस्यैः सदा सत्त्वगुणप्रचुरैः ।
व्यवसायो निश्चयः ।
ज्ञानशब्देन ज्ञेयमुपलक्ष्यते ।
अतीतानागतानि ज्ञानानि प्रभावाप्ययौ सृष्टिसंहारौ च वेत्तुं शीलमेषामिति तथोक्ताः ।
प्रभावाप्ययज्ञानस्य महाफलत्वात्पृथगुक्तिः ।
मर्त्यैर्दुर्ज्ञेयमिति किमु वक्तव्यम् ।
ध्वंसो मनोविशरणम् ।
मोहो ऽज्ञानम् ।
श्रुतिः श्रवणम् ।
अत्र वैहायससंहितावाक्ये देवादिभ्यो मनुष्याणामल्पं साधनमिति स्फुटं प्रतीयते ।
मानुषत्वापगमानन्तरमाधिकं भविष्यतीति चेन्न ।
मानुषत्वादेरनपगमस्यानन्तरमेव वक्ष्यमाणत्वात् ।
११,१०१
कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ।
ब्रह्मैव किञ्चिज्जानाति न तदन्यो हि कश्चन । (अनुव्याख्यानम्)३,४.५० ।
न्यायसुधा-
कस्तामिति श्रुतिर्यमवाक्यम् ।
सुरासुराणां सुखदुःखहेतुत्वान्मदामदः ।
अनेन यमस्यान्येभ्यो ज्ञानाधिक्यमुच्यते ।
ब्रह्मैवेत्यनेन ब्रह्मणः ।
अत एव मदन्य इति ब्रह्मादीन्विनेति व्याख्येयम् ।
मुक्तानामपि सिद्धानां नारायणपरायणः ।
सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामते । (अनुव्याख्यानम्)३,४.५१ ।
न्यायसुधा-
मुक्तानामिति भागवतवाक्ये मुक्तानां शरीराद्यभिमानरहितानां सिद्धानां ज्ञानिनां कोटिष्वपि नारायणपरायणः प्रशान्तात्मा सुदुर्लभः कश्चिदेव ।
‘नारायणायनाः शान्तात्मानस्तु सर्वे ऽपीति’ स्फुटं साधनतारतम्यं प्रतीयते ।
अत्र विशेषणद्वयेन वैराग्यभक्ती कथ्येते ।
इयं विसृष्टिर्यत आ बभूव यदि वा दधे यदि वा न ।
यो अस्याध्यक्षः परमे व्योमन् त्सो अङ्ग वेद यदि वा न वेद । (अनुव्याख्यानम्)३,४.५२ ।
११,१०२
न्यायसुधा-
इयं विसृष्टिरिति मन्त्रस्यायमर्थः ।
इयं प्रत्यक्षादिसिद्धा विविधा सृष्टिर्यतो हिरण्यगर्भादा समन्ताद्बभूव ।
यश्चास्य प्रपञ्चस्याध्यक्षो ऽधिपतिः सो ऽपि परमात्मानं परमे व्योमन् व्याम्नि हृदयाकाशे यदि वा दधे यदि वा न तथा वेद यदि वा न ।
अङ्गेति कस्यचित्सम्बुद्धिः ।
इतरापेक्षयाऽधिक्येन ध्यायति जानाति च कार्त्स्येन तु न ध्यायति न जानाति चेति ।
व्योमन्निति सप्तम्या लुक् यो अस्य सो अङ्गेति प्रकृत्यान्तःपादमव्यपर इति प्रकृतिभावः ।
यः स्वात्ममायाविभवं स्वयं गतो नाहं नभस्वांस्तमथापरे कुतः ।
ब्रह्मापि यं वेत्ति नैवेह सम्यगन्ये कुतो देवमुनीन्द्रमर्त्याः । (अनुव्याख्यानम्)३,४.५३ ।
न्यायसुधा-
यः स्वात्ममायेत्यादिषु भागवतवचनेषु कैमुत्योक्त्या ज्ञानतारतम्यमवगम्यते ।
यो भगवान्स्वात्ममायाया विभवं स्वरूपमहिम्नो विस्तरं स्वयमेव गतो ज्ञानवान् ।
ब्रह्मवाक्यमिदम् ।
यं हरिमिह जीवेषु ।
नमस्ते ऽमिततत्त्वाय धर्मादीनां च सूतये ।
निर्गुणाय च सत्काष्ठां नाहं वेदापरे कुतः । (अनुव्याख्यानम्)३,४.५४ ।
न्यायसुधा-
तत्त्वं स्वरूपम् ।
सूतिः कारणम् ।
यस्य सत्काष्ठां सम्यग्दिङ्मात्रम् ।
ब्रह्मवाक्यमिदम् ।
नाहं परायुर् ऋषयो न मरीचिमुख्या जानन्ति यद्विरचितं खलु सत्त्वसङ्गाः ।
यन्मायया मुषितचेतस ईशदैत्यमर्त्यादयः किमुत शश्वदभद्रवृत्ताः । (अनुव्याख्यानम्)३,४.५५ ।
न्यायसुधा-
नाहं परायुरिति शिववचनम् ।
यद्विरचितं यस्य चरित्रम् ।
ईशेति भगवत्सम्बुद्धिः ।
११,१०२फ़्.
अहं महेन्द्रो निरृतिः प्रचेताः सोमो ऽग्निरीशः पवनो ऽर्को विरिञ्चः ।
आदित्यविश्वे वसवो ऽथ साध्या मरुद्गणा रुद्रगणाः ससिद्धाः । (अनुव्याख्यानम्)३,४.५६ ।
अन्ये च ये विश्वसृजो ऽमरेशा भृग्वादयो ऽस्पृष्टरजस्तमस्काः ।
यस्येहितं न विदुः स्पृष्टृमायाः सत्त्वप्रधाना अपि किं ततो ऽन्ये । (अनुव्याख्यानम्)३,४.५७ ।
सवर्स्यादौ स्मृतो ब्रह्मा तस्माद् देवादनन्तरः ।
जानाति देवप्रवरं भूयश्चातो ऽधिकं नृप । (अनुव्याख्यानम्)३,४.५८ ।
११,१०३
न्यायसुधा-
अहमिति यमवचनम् ।
ईहितं चेष्यितम् ।
सर्वस्य प्रपञ्चस्यादौ स्मृतः ।
आद्यतया प्रमितः ।
अतो ज्ञानिवर्गात् ।
भूयो ऽधिकमतिशयेनाधिकम् ।
न त्वामतिशयिष्यन्ति मुक्तावपि कथञ्चन ।
मद्भक्तियोगाज्ज्ञानाच्च सर्वानतिशयिष्यसि । (अनुव्याख्यानम्)३,४.५९ ।
यथा भक्तिविशेषो ऽत्र दृश्यते पुरुषोत्तमे ।
तथा मुक्तिविशेषो ऽपि ज्ञानिनां लिङ्गभेदने । (अनुव्याख्यानम्)३,४.६० ।
सायुज्यं समनुप्राप्ता अपि देवादयो ऽखिलाः ।
तारतम्याद्धि तिष्ठन्ति तारतम्यं हि साधने । (अनुव्याख्यानम्)३,४.६१ ।
मनुष्याणां सहस्रेषु कश्चिद् यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः । (अनुव्याख्यानम्)३,४.६२ ।
न्यायसुधा-
न त्वामिति ब्रह्माणं प्रति भगवद्वाक्यम् ।
अत्र संसारे ।
लिङ्गभेदने लिङ्गशरीरभङ्गे जाते सति ।
सिद्धये ज्ञानस्य ।
यततामपि मध्ये केचित्सिद्धा भवन्ति ।
सिद्धानां मध्य इति योज्यम् ।
तत्त्वतः प्राचुर्येण ।
एकं च तत्त्वतो ज्ञातुमिति यथा ।
११,१०३फ़्.
य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः । (अनुव्याख्यानम्)३,४.६३ ।
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।
भविता न च मे तस्मादन्यः प्रियतरो भुवि । (अनुव्याख्यानम्)३,४.६४ ।
अध्येष्यते च य इमं धर्म्यं संवादमावयोः ।
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः । (अनुव्याख्यानम्)३,४.६५ ।
श्रद्धावाननसूयुश्च शृणुयादपि यो नरः ।
सो ऽपि मुक्तः शुभान् लोकान् प्राप्नुयात् पुण्यकर्मणाम् । (अनुव्याख्यानम्)३,४.६६ ।
११,१०४
न्यायसुधा-
(य)इममिति व्याख्यातुरध्येतुः श्रोतुश्च तारतम्यमुच्यते ।
व्याख्यानादिप्राचुर्यं च प्रत्येकं मोक्षसाधनमित्यन्यत्रोक्तम् ।
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।
अन्ये साङ्खयेन योगेन कर्मयोगेन चापरे । (अनुव्याख्यानम्)३,४.६७ ।
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते ।
ते ऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः । (अनुव्याख्यानम्)३,४.६८ ।
न्यायसुधा-
ध्यानेनेत्यस्य भगवत्पादकृतं गीतातात्पर्यगतं व्याख्यानं द्रष्टव्यम् ।
सुसूक्ष्मैरप्यशेषैश्च विशेषैः सह पश्यति ।
स्वात्मानं भगवान् विष्णुः सर्वरूपो ऽपि सर्वदा । (अनुव्याख्यानम्)३,४.६९ ।
सवर्त्र चान्यदप्येवं तेनादृष्टं न हि क्वचित् ।
सर्वत्र सर्वदैवेशं पश्यत्येव रमापि तु । (अनुव्याख्यानम्)३,४.७० ।
नतु सर्वैर्विशेषैस्तं पश्यन्त्यप्यन्यतो ऽधिकम् ।
स्वात्मानमन्यच्चाशेषं पश्यत्येव हि सर्वदा । (अनुव्याख्यानम्)३,४.७१ ।
ब्रह्मा तु सर्वगं पश्येद् गुणानप्यतो ऽधिकम् ।
नतु सर्वेषु कालेषु तथा पश्यत्यमुक्तिगः । (अनुव्याख्यानम्)३,४.७२ ।
मुक्तस्तु सर्वदा पश्येत् सर्वगत्वेन चापि तु ।
न रमावद् विशेषाणां दर्शनं शक्नुयात् क्वचित् । (अनुव्याख्यानम्)३,४.७३ ।
स्वात्मानमन्यच्च सदा विशेषैरखिलैरपि ।
पश्यन्त्यञ्जस्तथा वाणी विशोषांस्तावतो नतु ।
त्रैगुण्यात् परतः पश्येद् व्याप्तं शतगुणं हरिम् । (अनुव्याख्यानम्)३,४.७४ ।
११,१०४फ़्.
न्यायसुधा-
सुसूक्ष्मैरित्यादिना सर्वेषां ज्ञानतारतम्यमुच्यते ।
स्वतो ऽन्यद्विश्वमप्येवं पश्यति ।
अपि तु किन्तु ।
तर्हि भगवत्समाना किमिति प्रश्नार्थः ।
अन्यतो ज्ञानवर्गादधिकं पश्यन्त्यपि सर्वैर्विशेषैर्युक्तं तं नैव पश्यति विष्णोः स्वस्माच्चान्यदशेषम् ।
अन्यतः सरस्वत्यादेरधिकं पश्येत् ।
ब्रह्मणो ऽप्यवस्थाभेदेन विशेष उच्यते नतु सर्वेष्विति ।
तथा सर्वगतत्वेन सरस्वत्यादिदृष्टाधिकगुणत्वेन सवर्गतत्वेन चेति ।
चशब्देनोक्तगुणवत्त्वं समुच्चिनोति ।
तर्हि मुक्तस्य ब्रह्मणो रमासाम्यं किमिति प्रश्नःअपि त्विति ।
दर्शनं कर्तुम् ।
अन्यत् भगवतः ।
यथ ब्रह्म रमादृष्टान्न पश्यति तथा ।
यावन्तो ब्रह्मदृष्टास्तावतः ।
११,१०५
गिरिशो गरुडश्चैव तमोमात्रगतं हरिम् ।
पश्येद् विशेषानपि हि वाणीदृष्टान् न पश्यति । (अनुव्याख्यानम्)३,४.७५ ।
उमा सुपर्णी च महत्तत्त्वं यावत् प्रपश्यति ।
रुद्रदृष्टान् विशेषांश्च नैव पश्येत् कदाचन । (अनुव्याख्यानम्)३,४.७६ ।
स्वरूपमन्यरूपं च मुक्ता देवाः समस्तशः ।
जानन्तीन्द्रश्च कामश्च ब्रह्म यावदहङ्कृतिः । (अनुव्याख्यानम्)३,४.७७ ।
पश्यन्तो मनुदक्षाद्या बुद्धितत्त्वस्थितं हरिम् ।
पश्यन्ति सोमसूर्यौ तु मनस्थं परमेश्वरम् । (अनुव्याख्यानम्)३,४.७८ ।
अन्ये भूतस्थितं विष्णुं देवाः पश्यन्ति सर्वदा ।
बहुसाहस्रवर्षेण महत्तत्त्वे क्वचित् क्वचित् । (अनुव्याख्यानम्)३,४.७९ ।
अन्ये चैव यथायोग्यमण्डान्तर्वर्तिनं हरिम् ।
श्वेतद्वीपपतिं चैव हृद्येवान्ये तु केचन ।
कदाचिदेव तत्रापि केचित् पश्यन्ति केशवम् । (अनुव्याख्यानम्)३,४.८० ।
न्यायसुधा-
तमोगुणमात्रगतमेवेति सम्बन्धः ।
पश्येदित्यादेः प्रत्येकं सम्बन्धः ।
अन्यरूपं स्वाधमरूपम् ।
बहुसाहस्रवर्षेणेति ।
बहुसहस्रवर्षानुष्ठितसाधनेन ।
क्वचित्क्वचिदिति महत्तत्त्वप्रविभागानभिप्रैति ।
यथायोगमेव केचन (तु) श्वेतद्वीपपतिमेव ।
तत्राप हृद्यपि ।
११,११६
परिमाणदर्शनवद्विशेषदर्शने तारतम्यं न विस्पष्टमुक्तमत आहउमेति ।
उमा यावदनन्तांशान् पूर्वदृष्टेभ्य एव तु ।
विशेषान् वासुदेवस्य पश्चादुक्ता विचक्षते । (अनुव्याख्यानम्)३,४.८१ ।
शक्रकामादयश्चैव विशेषान् ब्रह्मणि स्थितान् ।
उमादिभिः प्रबुद्धेभ्यः शतांशानेव चक्षते । (अनुव्याख्यानम्)३,४.८२ ।
न्यायसुधा-
उमापर्यन्तं तु पश्चात्पश्चादुक्ताः पूर्वपूर्वैर्दृष्टेभ्यो दृष्टानामनन्तांशानेव वासुदेवस्य विशेषशन्विचक्षते ।
शक्रकामादयश्चेति चस्त्वर्थः ।
एवशब्दस्योमादिभिरेवेत्यन्वयः ।
प्रबुद्धेभ्य इति पूर्ववत् षष्ठयर्थे ।
चक्षते पश्यन्ति ।
११,१२१
उदाहृतानां वचनानां प्रयोजनमाहइत्यादीति ।
इत्यादिवेदस्मृतिगवचनेभ्यो यथार्थतः ।
तारतम्यं विमुक्तानां साधनानां च दृश्यते । (अनुव्याख्यानम्)३,४.८३ ।
न्यायसुधा-
यथार्थत इति ।
न परमतानुवादरूपेणेत्यर्थः ।
मुक्तानां च साधनानां चेति योजना ।
साधनतारतम्यप्रतिपादनायोदाहृतेष्वेवे केषुचिद्वाक्येषु मुक्तानां तारतम्यं प्रतीयते ।
तदपि प्रकृतत्वाद् ग्राह्यमित्यर्थः ।
११,१२२
अस्तु मुमुक्षूणां साधनेषु तारतम्यं मा च भूम्नोक्षे तारतम्यमित्याशङ्कायां प्राग्बाधकमुक्तम् ।
इदानीं शङ्कैवैषा नोपपद्यते दूरे दूषणाभिधानमित्याहसाध्येति ।
साध्यसाधनवैरूप्यम् … । (अनुव्याख्यानम्)३,४.८४अ ।
न्यायसुधा-
साध्यमविचित्रं साधनं विचित्रमिति साध्यसाधनयोर्वैरूप्यं केन बीजेन कल्प्यते शङ्कयते न केनापि ।
अयमभिसन्धिः ।
पक्षे विपक्षत्वशङ्का खलु केनचिद्बीजेन स्यात् ।
निर्बीजं शङ्कमानो न लौकिको नापि परीक्षक इत्युन्मत्त इवोपेक्षणीयः ।
बीजं च व्यभिचारदर्शनं वोपाधिदशर्नं वा तयोरन्यतरशङ्का वा ।
तत्राद्यं तावदिह नास्ति ।
तदिदमाहअदृष्टमिति ।
… अदृष्टं केन कल्प्यते । (अनुव्याख्यानम्)३,४.८४ब् ।
न्यायसुधा-
नापि द्वितीयम् ।
पक्षे साध्यसद्भावस्य श्रुत्यादिसिद्धत्वेन यस्य कस्यचिदाशङ्कयमानस्यावश्यं साध्यव्यापकत्वाभावेनोपाधित्वासम्भवात् ।
पक्षे ऽपि तद्वृत्तौ साधनव्यापकत्वात् ।
अत एवोपाधिशङ्कापि निरस्ता ।
ततो व्यभिचारशङ्कापि ।
उदाहृतवाक्यैर्व्याप्तेरुक्तत्वात् ।
अतो बीजाभावाच्छङ्कैवैषानुपपन्नेति ।
११,१२३
ईश्वरो मुमुक्षुभ्यो विचित्रं फलं ददाति विचित्रसाधनैराराधितत्वात् ।
विचित्रसाधनान्यपेक्ष्य फलदातृत्वादित्यनुमानान्तरं हृदि निधायान्यथासिसिद्धिनिरासार्थं विपक्षे बाधकमाहवैषम्यमिति ।
वैषम्यं निर्घृणत्वं च तेन स्यातां परस्य च । (अनुव्याख्यानम्)३,४.८४च्द् ।
न्यायसुधा-
तेन साध्यसाधनवैरूप्येण ।
द्वितीयश्चशब्दः प्रमाणान्तरसूचनार्थः ।
यदीश्वरो ऽनुष्ठिताल्पसाधनायानुष्ठितमहासाधनसमानफलं दद्यात् ।
तदासौ विषमः प्रसज्येत ।
यदि वानुष्ठितमहासाधनायानुष्ठिताल्पसाधनसमानफलं दद्यात् ।
तदा निर्घृणः स्यादित्यर्थः ।
ईश्वरस्य वैषम्याद्यापत्तिर्नानिष्या ।
दुःखाद्यहेतुत्वादित्यत आहसापेक्षत्वादिति ।
११,१२४
सापेक्षत्वादिति च तौ विद्याधीशेन वारितौ । (अनुव्याख्यानम्)३,४.८४एफ़् ।
न्यायसुधा-
अनेन’वैषम्यनैर्घण्ये वा सापेक्षत्वात्’ इति सूत्रमुपादत्ते ।
तौ चेति सम्बन्धः ।
तौ वैषम्यनैर्घण्यलक्षणौ दोषौ ।
यद्धि प्रमाणविरुद्धमप्रामाणिकं वा तदुच्यते ऽनिष्यमिति ।
वैषम्यं(म्यादिकं)चे(मी)श्वरस्य सूत्रकारेण वारितत्वात्प्रमाणविरुद्धमिति कथं नानिष्यम् ।
अङ्गीकृतसूत्रप्रामाण्यान्प्रत्ययं यत्न इति नासङ्गतिः ।
ये तु सूत्रप्रामाण्यमनङ्गीकृत्येश्वरस्य वैषम्याद्यापत्तेरिष्टत्वं मन्यन्ते ।
तान्प्रति वेदाप्रामाण्यहेतुत्वेन वैषम्यादेर्देषत्वं सूचयितुं पुल्लिङ्गनिर्देशः ।
अन्यथा प्रकरणात्ते वारिते इत्यवक्ष्यत् ।
नपुंसकप्रयोगे ऽपि दूषणे इति शक्यते ज्ञातुमिति चेन्न ।
ते वैषम्यनैर्घृण्ये इति निराकाङ्क्षत्वात् ।
११,१२७
प्रसङ्गस्य विपर्यये पयर्वसानमुपपादयतितारतम्यादिति ।
तारतम्यात् साधनानां साध्यतादृक्तवमीशतः ।
अवैषम्यादिहेतुः स्यात् सदैव परमेश्वरे । (अनुव्याख्यानम्)३,४.८५ ।
न्यायसुधा-
साधनानां तारतम्यात्सदैव नियमेनेशतो भवतः साध्यस्य तारतम्यं परमेश्वरे ऽवैषम्यादिहेतुः स्यात् ।
आपादकविपर्ययस्य खल्वापाद्यविपयर्यं प्रति निर्वाहकत्वे भवेत्प्रसङ्गस्य विपर्ययपर्यवसानम् ।
निरग्निकत्वविपर्ययो हि निर्धूमत्वविपर्ययं घटयति ।
अस्ति चैतत्प्रकृत इति ।
यद्वा कथं वैषम्यादि सूत्रकारेण वारितमित्यतः सापेक्षत्वस्य वैषम्याद्यभावेन सह हेतुहेतुमद्भावं व्युत्पादयतितारतम्यादिति ।
पूर्वैव योजना ।
११,१२८
व्यर्थमिदं सूत्रकारस्य साधनसंस्कारपूर्वकर्मापेक्षाङ्गीकारेण वैषम्यादिनिवारणम् ।
फले तत्परिहारे ऽपि साधनादौ परिहर्तुमशक्यत्वात् ।
तथाहि ।
साधनादौ परमेश्वरस्य प्रयोजकत्वमस्ति न वा ।
नेति पक्षे परमेश्वरत्वहानिः ।
आद्ये निर्निमित्तं विचित्राणि साधनानि प्रयोजयतः कथं न वैषम्यादीत्यतो ऽनुपपन्नस्य सूत्रस्य कथं बाधकत्वमिति ।
मैवम् ।
अस्याक्षेपस्य सूत्रकृतैव निरस्तत्वादित्याहस्वातन्त्र्य इति ।
स्वातन्त्र्ये विद्यमाने ऽपि साधनादौ परेशितुः ।
अपेक्ष्यानादिवैचितृयं न दोष इति तद्वचः । (अनुव्याख्यानम्)३,४.८६अद् ।
न्यायसुधा-
स्वातन्त्र्यं प्रयोजककर्तृत्वात् ।
वैचित्र्यं साधनादेः ।
अपेक्ष्य प्रेरणादिति शेषः ।
दोषो वैषम्यादिः ।
तद्वचः सूत्रकृतो वचो ऽस्ति ।
११,१२९
नन्वेवं सवर्त्र सापेक्षस्य हरेः स्वातन्त्र्यहानिर्देषः स्यादित्यत आहस्वतन्त्र्य इति ।
अयमपि दोषो नास्ति ।
कथम् ।
परेशितुः साधनादौ स्वातन्त्र्ये विद्यमाने ऽपि स्वेच्छयानादिवैचित्र्यमपेक्ष्य प्रेरकत्वमित्येतदर्थप्रतिपादकं तद्वचो ऽस्ति यत इति ।
किं तद्वच इत्यतः क्रमेण सूत्रद्वयं पठतिनानादित्वादिति ।
नानादित्वादिति ह्युक्तमुपपद्यत इत्यपि । (अनुव्याख्यानम्)३,४.८६एफ़् ।
न्यायसुधा-
तत्राद्यदोषपरिहाराय’न कर्माविभागादिति चेन्नानादित्वात्’ इत्रत सूत्रं(मनेनो)उपादत्ते ।
द्वितीयपरिहाराय’उपपद्यते च’ इति ।
एवमनुमानस्यान्यथासिद्धिं निरस्य बाधकप्रतिरोधौ निराकरोतिअपेक्ष्येति ।
अपेक्ष्योपायवैषम्यमुपेयस्य तथा स्थितिः ।
मया कया विरुद्धा स्याद् … । (अनुव्याख्यानम्)३,४.८७अच् ।
११,१२९फ़्.
न्यायसुधा-
तथास्थितिर्विषमतेश्वरेण क्रियत इति साध्यमानेति शेषः ।
मया प्रमाणेन ।
कया न कयापि ।
परमं साम्यमित्यादेरन्यथाव्याख्यातत्वदिति भावः ।
अनुमानादेर्व्याप्तिप्रतिपत्तये दृष्टान्तमाहराजादाविति ।
११,१३०
… राजादावपि दृश्यते । (अनुव्याख्यानम्)३,४.८७द् ।
न्यायसुधा-
प्रेक्षावति राजादौ सेवानुरूपफलदानं वैपरीत्यकर्तर्यप्रेक्षावति वैषम्यादिकं च दृश्यत इत्यर्थः ।
साध्यसाधनवैरूप्यकल्पने बाधकान्तरमाहत्याग इति ।
त्यागो दृष्टस्य चादृष्टकल्पनेति सुदुष्करौ ।
मायिभ्यो ऽन्येन केनापि … । (अनुव्याख्यानम्)३,४.८८अच् ।
न्यायसुधा-
सर्वत्र साध्यसाधनैकरूप्यस्य दृष्टत्वात्तद्वैरूप्यस्य क्वाप्यदृष्टत्वात्प्रकृतवैरूप्यं शङ्कमानस्य दृष्टत्यागो ऽदृष्टकल्पना चेति दोषौ प्रसज्येते ।
नच स्यातां ताविति शक्यते वक्तुम् ।
प्रेक्षावता केनाप्यनङ्गीकृतत्वादित्याहसुदुष्करमिति ।
मायावादिनो दृष्टं प्रपञ्चस्य सत्यत्वादिकं त्यजन्ति ।
अदृष्टमनिर्वाच्यादिकं कल्पयन्ति ।
अतो मायिभ्यो ऽन्येनेत्युक्तम् ।
अस्य चोत्तरत्रोपयोगः ।
अन्यैरकृतमपि दृष्टत्यागादिकं कुर्वतां को दोष इत्यत आहतत्किमिति ।
… तत् किमन्यैश्च वादिभिः । (अनुव्याख्यानम्)३,४.८८द् ।
मायिनो ऽत्रानुगम्यन्ते … । (अनुव्याख्यानम्)३,४.८९अ ।
न्यायसुधा-
तत् तर्हि ।
किमिति गूढाभिप्रायः प्रश्नः ।
अत्र दृष्टत्यागाद्यनुष्ठानविषये ।
अनुगम्यन्ते अनुस्रियन्ते ।
एतदुक्तं भवति ।
दृष्टत्यागादिप्रसङ्गेन मायावादिनो दूषयतां पुनरत्र दृष्टत्यागादिकं स्वयं कुर्वतां व्याहतिः स्यादिति ।
११,१३२
साध्यसाधनयोर्वैरूप्यं शङ्कमानस्यानिष्यान्तरमाहश्रुतेति ।
उक्तविधया साध्यसाधनसारूप्यस्य श्रुतत्वादन्यथा चाश्रुतत्वादत्र वैरूप्याङ्गीकारे श्रुतहान्यश्रुतग्रहावपि स्याताम् ।
मायिनां लिङ्गे इति तयोर्विशेषणं प्रयुञ्जानस्योक्त एवाभिसन्धिः ।
मायावादिनो हि श्रुतं सार्वज्ञाद्युपेतं ब्रह्म परित्यज्याश्रुतं निर्गुणमुपयन्ति ।
दृष्टत्यागादिचतुष्ययं कुर्वतां बाधकान्तरमाहतदिति ।
… श्रुतहान्यश्रुतग्रहौ ।
अप्यत्र मायिनां लिङ्गे तत् के दोषास्ततो ऽधिकाः । (अनुव्याख्यानम्)३,४.८९ब्द् ।
न्यायसुधा-
तत् तत्र प्रकृतदोषेषु ।
ततो दृष्टत्यागादेषः ।
अधिका बहिर्भूताः ।
दृष्टत्यागादिकं कुर्वाणेनान्यदपि प्रमितं त्याज्यं स्यात् ।
अदृष्टकल्पनादिकं च कुर्वताप्रामाणिकमन्यदपि कल्पनीयं भवेदिति(त्यर्थः) भावः ।
११,१३३
स्यादेतत् ।
यदि मुक्तास्तारतम्योपेताः स्युस्तदा परस्परं द्वेषवन्तः स्युरिति प्रतिकूलतर्कपराहतं मुक्ततारतम्यानुमानमित्यत आहनिश्शेषेति ।
निश्शेषगतदोषाणां बहुभिर्जन्मभिः पुनः ।
स्यादापरोक्ष्यं हि हरेर्द्वेषेर्ष्यादिस्ततः कुतः । (अनुव्याख्यानम्)३,४.९० ।
११,१३३फ़्.
न्यायसुधा-
निश्शेषेण गता अपगता दोषा येभ्यास्ते तथोक्ताः ।
पुनः श्रवणादिमतामिति शेषः ।
तेषां हरेरापरोक्ष्यमिति तान्प्रति हरेरापरोक्ष्य(रपरोक्षत्व)मित्यर्थः ।
अनुबन्धादिभ्य इत्यत्र प्रतिपादितो ऽयमर्थ इति हिशब्दः ।
यस्मादित्यर्थे वा ।
द्वेषेर्ष्यादिदोषस्ततस्तस्मात्कुतो मुक्तानां नापादयितुं शक्यत इत्यर्थः ।
११,१३४
एतदुक्तं भवति ।
ये तारतम्योपेतास्ते द्वेषादिमन्तो दृष्टा यथा लौकिकाः पुरुषा इति खल्वत्र व्याप्तिरभिधातव्या ।
नचैवम् ।
लौकिकानां द्वेषादिमत्त्वे दोषित्वस्यैव प्रयोजकत्वात् ।
यत्र द्वेषादिमत्त्वं तत्र दोषित्वमित व्याप्तेर्दर्शनम् ।
नच दोषित्वं मुक्तेषु सम्भवति ।
औपाधिका हि तेषु दोषा वक्तव्याः ।
स्वाभाविकानां शङ्कितुमशक्यत्वात् ।
ते च भगवत्साक्षात्कारोदयात्प्रागेव प्राचुर्येण गताः ।
साक्षात्कारेण च समूलघातं हताः ।
मुक्तौ चोपाधेरेवापगतत्वान्नेषदपि स्थातुमर्हति ।
अतो व्यापकाभावाद्वयाप्यस्याप्यभाव इति ।
ननु परेणापि न मुक्तेषु द्वेषादिमत्त्वं साध्यते किन्त्वापाद्यत इति ।
ततस्स्तेभ्यस्तद्वयावृत्तिसाधनमसङ्गतम् ।
मैवम् ।
तर्कमूलभूतव्याप्तावुपाधिः खल्वत्र कथितः ।
तस्य च पक्षाद्वयावृत्तिः स्वव्यावृत्त्या विवक्षितधर्मव्यावर्तनशक्तिश्चावश्यकेति तद्व्युत्पादनस्य क्रियमाणत्वात् ।
अत्र द्वेषेर्ष्यासन्तापपरेष्यप्रतिघातप्रयत्नेच्छा व्याप्याः ।
अविद्याहङ्काराद्या व्यापका इति विवेकः ।
११,१३६
दोषाणामेव द्वेषादौ प्रयोजकत्वमित्येतमर्थं परेणापि स्वीकारयितुं प्रतिबन्दी गृह्णातिभवेयुरिति ।
भवेयुर्यदि चेर्ष्याद्याः समेष्वपि कुतो न ते । (अनुव्याख्यानम्)३,४.९१अब् ।
न्यायसुधा-
तारतम्ये ऽङ्गीकृते मुक्तानामीर्ष्यादयो यदि भवेयुर्यद्यापाद्यन्ते ।
तदा मुक्तेषु समेष्वङ्गीकृतेष्वपि कुतो न भवेयुः ।
यदि मुक्तास्तारतम्योपेतास्तदा द्वेषादिमन्तः स्युरिति वदता न द्वेषादिमन्तस्तस्मात्समा एवेति वाच्यम् ।
नच साम्यमप्यङ्गीकर्तुं शक्यते ।
यदि मुक्ताः समाः स्युस्तदा द्वेषादिमन्तः स्युरिति तत्राप्यनिष्यप्रसङ्गादित्यर्थः ।
साम्ये कथं द्वेषादिप्रसङ्ग इत्यत परप्रसङ्गवत्साम्यस्यापि द्वेषादिसाहचर्यं दृष्टमित्याहतप्यमाना इति ।
तप्यमानाः समान् दृष्ट्वा द्वेषेर्ष्यादियुता अपि ।
दृश्यन्ते बहवो लोके दोषा एवात्र कारणम् । (अनुव्याख्यानम्)३,४.९१च्फ़् ।
न्यायसुधा-
समसत्तामात्रं नापादकत्वेन विवक्षितम् ।
अतिप्रसङ्गात् ।
किन्तु समदर्शनमेवेत्याशयेनोक्तम्समान्दृष्ट्वेति ।
प्रतिबन्दीग्रहणस्य प्रयोजनमाहदोषा इति ।
दोषाणां समुदितानामेव कारणत्वमित्येकवचनम् ।
एवमस्माभिः साम्यवादिनं प्रत्यतिप्रसङ्गे ऽभिहिते तेनैतदेव वक्तव्यम् ।
अत्र लोके दोषा एव द्वेषादेः कारणम् ।
अन्वयव्यतिरेकाभ्यां तन्निश्चयात् ।
नतु साम्यम् ।
सत्यपि साम्ये सखिष्वभावात् ।
असत्यपि क्वचिद्भावात् ।
नच मुक्तेषु दोषास्सन्ति ।
अतः साम्ये ऽपि न (द्वै)दोषादिप्रसङ्ग इति ।
११,१३७
अतः किमित्यत आहयदीति ।
यदि निर्दोषता तत्र किमाधिक्येन दूष्यते । (अनुव्याख्यानम्)३,४.९२अब् ।
न्यायसुधा-
यद्येवं दोषाणामेव द्वेषादिकारणत्वम् ।
तत्र मुक्तेषु ।
निर्देषता चाङ्गीकृता ।
तदा आधिक्येन हीनाधिकभावेनाङ्गीकृतेन ।
किं दूष्यते न किमपि ।
साम्यमङ्गीकुर्वाणेनापि निर्देषतयैव द्वेषादिप्रसङ्गो वारणीयः ।
तारतम्यमङ्गीकुर्वाणैरस्माभिरपि तथैव निराकरिष्यते ।
इयांस्तु विशेषः ।
यत्तारतम्यं प्रमितं न साम्यमिति समुदायार्थः ।
शङ्कतेयदीति ।
यद्यन्यदर्शनाभावादीर्ष्यादिर्विनिवार्यते । (अनुव्याख्यानम्)३,४.९२च्द् ।
११,१३८
न्यायसुधा-
भवेदेतद्यदि साम्येन प्रसक्तं द्वेषादिकं निर्देषतया निवारयामः ।
नचैवम् ।
किन्नाम समसत्तामात्रं हि न द्वेषादिकारणमतिप्रसङ्गात् ।
अपि तर्हि समदर्शनम् ।
नच मुक्तः समं मुक्तान्तरं पश्यत्यतो न द्वेषादीति ।
एवं तर्हि न तारतम्यसत्तामात्रं द्वेषादिकारणं किन्तु स्वतो ऽधिकदर्शनमेव ।
नच मुक्तः स्वतो ऽधिकं मुक्तान्तरं पश्यति ।
तस्मात्सत्यपि तारतम्ये न द्वेषादिप्रसङ्ग इति कुतो न सन्तोष्यव्यमिति परिहारो ऽत्र शक्यते वक्तुम् ।
तथापि नासौ तात्त्विक इत्यन्यदर्शनाभावमेव दूषयतिअदर्शनादिति ।
अदर्शनादरत्यादिः कथं तेन निवार्यते । (अनुव्याख्यानम्)३,४.९२एफ़् ।
न्यायसुधा-
एवमन्यदर्शनाभावेन द्वेषादिकं निवारयता तेनादर्शनात्प्रसक्तमरत्यादिकं कथं निवार्यते ।
अरतिः सुखाभावः ।
आदिपदेन तन्द्री भयं च गृह्यते ।
एतदुक्तं भवति ।
स्यादयं परिहारो यदि मुक्तस्यान्यदर्शनाभावः सम्भवेत् ।
नचैवम् ।
मुक्तो हि न तावदचेतनः ।
अपसिद्धान्तप्रसङ्गात् ।
ततश्चेतनस्य सतो ऽन्यदर्शनाभावे ऽरत्यादिकं प्रसज्यत इति ।
ननु बहिर्मुखा एवान्यदर्शनाभावे ऽरत्यादिकं प्राप्नुवन्ति नच मुक्तास्तथातो नारत्यादिप्रसङ्ग इत्यत आहब्रह्मणो ऽपीति ।
ब्रह्मणो ऽप्यरतिर्दृष्ट्वा पूर्वमेकाकिनः श्रुतौ । (अनुव्याख्यानम्)३,४.९३अब् ।
न्यायसुधा-
‘ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः ।
ऐश्वर्यं चैव धर्मश्च सहसिद्धं चतुष्ययम्’ इत्येवं प्रमितस्यापीत्यर्थः ।
पूर्वम् आदिकाले ।
श्रुताविति जातावेकवचनम् ।
ताः श्रुतीरर्थतः पठतिनैवेति ।
११,१३९
नैव रेमे स चैकाकी तसमान्न रमते क्वचित् ।
द्वितीयमैच्छत् तेनासाविति श्रुतय ऊदिरे । (अनुव्याख्यानम्)३,४.९३च्फ़् ।
न्यायसुधा-
अनेन स वै नैव रेमे तस्मादेकाकी न रमते स द्वितीयमैच्छदिति वाक्यमुपादत्ते ।
स्यादेतत् ।
यद्यन्यदर्शनाभावमात्रमरत्यादेः कारणं स्यात् ।
नचैवम् ।
किन्त्वन्यदर्शनेच्छायां तदभावः ।
मुक्तस्य त्विच्छैव नास्त्यतो ऽन्यदर्शनाभावे ऽपि नारत्यादिकं प्रसज्यत इत्याशङ्कयाहयदीति ।
यदीच्छा तत्र नैवास्तीत्येव तत् कल्प्यते मृषा ।
श्रुत्युक्तनिर्दोषतैव किं नाङ्गीक्रियते स्वयम् । (अनुव्याख्यानम्)३,४.९४ ।
न्यायसुधा-
तत् तत्र मुक्तौ ।
तत्र अन्यदर्शनविषये ।
इच्छा नैवास्तीति मृषैव कल्प्य तेयदीति योजना ।
भिद्यते हृदयग्रन्थिरित्यादिश्रुत्युक्ता ।
स्वयं साक्षाच्छत्युक्तेति सम्बन्धः ।
तर्हीति शेषः ।
तच्छब्दो वा तर्ह्यर्थः ।
इदमुक्तं भवति ।
मुक्तानां साम्यमङ्गीकृत्यान्यदर्शनाभावेन द्वेषादिपरिहृत्यान्यदर्शनेच्छाभावेन चारत्यादिकं परिहरतो ऽप्रामाणिकानेककल्पनं
प्रामाणिकपरित्यागश्च स्याताम् ।
११,१४०
सामान्यदर्शनाभावेनाभाववतदिच्छाभावानामप्रामाणिकत्वात् ।
तारतम्यादेः प्रामाणिकत्वात् ।
ततो वरं तारतम्यमङ्गीकृत्य द्वेषादिनिरासाय श्रौतनिर्देषतास्वीकार इति ।
एतेन तारतम्यं साम्यं वाङ्गीकृत्य निर्देषत्वेन द्वेषादिसमाधानं विधातव्यमिति सन्देहो ऽपि निरस्तो वेदितव्यः ।
उक्तमेव स्पष्टमाहतारतम्यं चेति ।
तारतम्यं च कामं च श्रुतमेवातिहाय तु ।
अश्रुता समता केन कल्प्यते युक्तिमानिना । (अनुव्याख्यानम्)३,४.९५ ।
११,१४१
न्यायसुधा-
अन्यदर्शनं चेत्यपि ग्राह्यम् ।
‘स यो मनुष्याणां राद्धः ।
कामस्य यत्राप्ताः कामाः ।
अक्षण्वन्तः कर्णवन्तः सखायः’ इत्याद्यौ श्रुतम् ।
न ह्यन्यदर्शनाभावे सख्यं सम्भवति ।
समतेत्यन्यदर्शनाभावेच्छाभावयोरप्युपलक्षणम् ।
युक्तिं मन्यत इति युक्तमानी ।
युक्तौ बहुमानवता केनाप्येवं न कल्प्यत इत्यर्थः ।
प्रामाणिकपरित्यागाप्रामाणिकस्वीकारप्रसङ्गो हि तर्कापरनामिका युक्तिः ।
ननु समताया अश्रुतत्वे ऽपि नाप्रामाणिकत्वम् ।
नहि श्रुतिरेव प्रमाणमित्यत आहकिं तदिति ।
किं तन्मानं समत्वे ते मुक्तानामुपलभ्यते । (अनुव्याख्यानम्)३,४.९६अब् ।
न्यायसुधा-
न किञ्चित्तच्छतेरन्यत् ।
अतः प्रमाणान्तराभावे ऽश्रुतत्वेनाप्रामाणिकत्वमेव सिद्धयति ।
यद्यन्यदर्शनाभावादित्यादिनोक्तमुपसंहरतिवृथेति ।
वृथायमाग्रहः केन श्रुतहान्यश्रुतग्रहे । (अनुव्याख्यानम्)३,४.९६च्द् ।
न्यायसुधा-
केन न केनापि कारणेन ।
श्रुतहान्यश्रुतग्रह इति द्वन्द्वैकवद्भावः ।
श्रुतहानिसहितो ऽश्रुतग्रह इति वा ।
विषयसप्तमीयम् ।
ततो न कार्य इति भावः ।
मुक्तानां तारतम्ये ऽनुमानान्तरमाहमोक्षे ऽपीति ।
११,१४२
मोक्षे ऽपि तारतम्येतश्चेतनत्वात् पुरा यथा । (अनुव्याख्यानम्)३,४.९७अब् ।
न्यायसुधा-
तारतम्येनेतः प्राप्तस्तारतम्यवानिति यावत् ।
पुरा संसारे ।
नन्वत्र संसारे वर्तमानं कमपि पक्षीकृत्यायं तारतम्येत इति साध्यते तत्र च मोक्षे ऽपीति सिद्धसाधनतापरिहाराय विशेषणमुपादीयत इति वा ।
मोक्षे ऽपीत्यनेन मुक्तं पक्षीकृत्य तारतम्येत इति वा ।
मुक्तं पक्षीकृत्य तारतम्येत इति साध्यते ।
तत्र प्राचीनेन तारतम्येन सिद्धसाधनतापरिहाराय मोक्षे ऽपीति विशेषणमुपादीयत इति वा ।
नाद्यः ।
तस्य नित्यसंसारित्वस्यापि सम्भवेन बाधापत्तेः ।
निश्चितमोक्षपुरुषविशेषपक्षीकारे ऽपि दृष्टान्तस्य साध्यविकलत्वात् ।
नहि संसारी मुक्तिगततारतम्योपेतः ।
द्वितीये अपिपदवैयर्थ्यम् ।
प्राक्तनतारतम्योपेतत्वेन सिद्धसाधनता च ।
तृतीये ऽपि दृष्टान्तस्य साध्यविकलतैव ।
तारतम्योपेतत्वं च हीनाधिकसद्भावो वान्यतरसद्भावो वा ।
११,१४३
आद्ये परमेश्वरे ऽनैकान्त्यम् ।
द्वितीये सिद्धसाधनता ।
मुक्तानामप्यमुक्तेभ्यो ऽधिकत्वस्य परेणाङ्गीकृतत्वात् ।
मुक्ताधिकत्वसाधने देवदत्ते व्यभिचारस्तत्कथमेतत् ।
उच्यते ।
मुक्तास्तदानीन्तनेन परस्परं तारतम्येनोपेताश्चेतनत्वात्संसारिणो यथेत्ययमर्थो ऽत्र विवक्षितः ।
तारतम्यं च कुतश्चिद्धीनत्वं कुतश्चिदधिकत्वमित्येतयोरन्यतरदिति नोक्तदोषः ।
सामान्यस्य च विशेषनिरासेनापाकरणे चातिप्रसङ्गः ।
यद्वा मक्त्युत्तरक्षणवर्ती मुक्तः प्राग् यतो ऽधिकत्वहीनत्वाभ्यामुपेतस्वरूपो ऽभूदिदानीमपि ताभ्यामुपेत इति प्रतिज्ञार्थो वणर्नीयः ।
सामान्यत एव व्याप्तिरभिधातव्येति ।
११,१४७
आभासानुद्धरतिइत्युक्त इति ।
इत्युक्त उत्तरं किं ते … । (अनुव्याख्यानम्)३,४.९७च् ।
न्यायसुधा-
उक्ते प्रत्युक्ते ।
व्याप्तिपक्षधर्मत्वयोः प्रमितत्वान्न किमप्युत्तरमस्तीति भावः ।
बाधितविषयमनुमानमित्यत आहकल्पनेति ।
… कल्पनामात्रवादिनः । (अनुव्याख्यानम्)३,४.९७द् ।
न्यायसुधा-
कल्पनामात्रेण वदतीति तथोक्तः ।
पूर्वेणैव सम्बन्धः ।
श्रुतीनामन्यार्थत्वात्प्रमाणान्तरस्य चाभावात्स्वोत्प्रेक्षयैव मुक्तानां तारतम्याभावं वदतस्तवोत्तरं किमिति ।
यद्येवमनुमीयेत तदा मुक्ता दुःखाद्युपेताश्चेतनत्वात्संसारिवदित्यप्यनुमीयेतेत्यतिप्रसङ्गपराहतमनुमानमित्यत आहनचेति ।
न च दुःखादिकं कल्प्यं … । (अनुव्याख्यानम्)३,४.९८अ ।
न्यायसुधा-
कल्प्यं अनुमेयं मुक्तस्य ।
आदिपदेनापरिपूर्णानन्दत्वादेः सङ्ग्रहः ।
कुत इत्यत आहनिर्दुःखत्वेति ।
… निर्दुःखत्वश्रुतेर्बलात् । (अनुव्याख्यानम्)३,४.९८ब् ।
न्यायसुधा-
अत्राप्यादिपदं ग्राह्यम् ।
अयमभिसन्धिः ।
समानयोगक्षेमत्वाभिप्रायेण खल्वयमतिप्रसङ्गो वाच्यो नान्यथा व्याप्त्यभावात् ।
नच प्रकृते तदस्ति ।
दुःखादिसाधकस्य निर्दुःखत्वादिकं प्रतिपादयन्त्या श्रुत्या बाधितत्वात् ।
श्रुतेरपौरुषेयत्वेन धर्मिग्राहकत्वेन चानुमानतो बलवत्त्वात् ।
तारतम्यानुमानस्य चाबाधितत्वादिति ।
११,१४८
एतदेव विवृण्वन्मुक्तस्य निर्दुःखत्वादि प्रतिपादयन्तीः श्रुतीस्तावत्पठित्वा तासां तात्पर्यमाहशोकमिति ।
११,१४९
शोकं तरत्यात्मवेत्ता तीर्णः सर्वानदुःखभाक् । (अनुव्याख्यानम्)३,४.९८च्द् ।
येनानन्द्येव भवति न शोचति कदाचन ।
किल्बिषस्पृत् पितुषणिररं हित इहेश्वरः । (अनुव्याख्यानम्)३,४.९९ ।
यं यमन्तमभिप्रेप्सुः स सङ्कल्पाद् भवेदिह ।
इत्यादिश्रुतयो मानं निर्दुःखत्वादिसम्पदि । (अनुव्याख्यानम्)३,४.१०० ।
न्यायसुधा-
अनेन तरति शोकमात्मविदिति श्रुतिमुपादत्ते ।
वेत्ता वेदिता ।
विचारणार्थस्य विन्दतेर्वा रूपमेतत् ।
तीर्णः सर्वानित्यनेन तीर्णो हि तदा सर्वाञ्छोकानिति ।
अदुःखभागित्यनेन नानानन्दं कञ्चिदुपस्पृशतीति ।
येनेत्यनेन तद्वै जैवं मनो येनानन्द्येव भवतीत्यथो न शोचतीति ।
एवशब्देन शोकाभावे लब्धे ऽपि यत्पुनः’न शोचति’ इत्युक्तं तस्याभिप्रायः कदाचनेति ।
किल्पिषस्पृदित्यनेन सर्वे नन्दन्ति यशसाऽगतेन सभासाहेन सख्या सखायः ।
किल्बिषऽस्पृत्पितुऽषणिर्ह्येषामरं हितो भवति वाजिनायेति मन्त्रम्(ऋ १०७१०१०) परस्परं सखायः सर्वे मुक्ता आगतेन स्वागतेन यशसा
(यशस्वता)(शस्विना) यशोवता सभां सहत इति सभासहः कर्मण्यण् ।
तेन सख्या परमेश्वरेण निमित्तेन नन्दन्ति ।
कथम् ।
हि यस्मादीश्वर एषां मुक्तानां किल्बिषस्पृद् ।
दुःखं न सहते ।
स्पर्धतेरर्थे स्पर्धेति धात्वन्तरं ततः क्विप् ।
पितुषणिः अन्नस्य दाता ।
अन्नं वै पितुरिति श्रुतेः ।
षणु दाने ।
अस्मादिकारप्रत्ययः ।
अर(मलं) मत्यर्थम् ।
वाजिनायेन्द्रियाय हितो भवति ।
इन्द्रियं वै वाजिनमिति श्रुतेः ।
इह मुक्तविषये ।
यं यमित्यनेन यं यमन्तमभिकामो भवति सो ऽस्य सङ्कल्पादेव भवतीति ।
अन्तं स्थानम् ।
इह मुक्तौ ।
निर्दुःखत्वादिसम्पदि मुक्तानाम् ।
जोस्हि२९
११,१५४
ततः किमित्यत आहअत इति ।
अतो दुःखाद्यनुमया नावकाशो ऽत्र लभ्यते । (अनुव्याख्यानम्)३,४.१०१अब् ।
न्यायसुधा-
श्रुतिबाधितत्वादित्यर्थः ।
अत्र मुक्तेषु ।
मुक्ता दुःखाद्युपेता इति प्रतिज्ञायाः स्वव्याहतत्वाच्चेत्यपि द्रष्टव्यम् ।
ततो ऽपि किमित्यत आहतारतम्येति ।
तारतम्यानुमा तेन भवेन्नातिप्रसङ्गिनी । (अनुव्याख्यानम्)३,४.१०१च्द् ।
न्यायसुधा-
तस्मात् बाधाभावेन समानयोगक्षेमत्वाभावात् ।
११,१५५
मुक्ततारतम्यसाधनमुपसंहरतिश्रुतीति ।
श्रुतियुक्तिबलादेवं तारतम्यं विभाव्यते ।
मुक्तावपि ततः के ऽत्र विरोधं कर्तुमीशते । (अनुव्याख्यानम्)३,४.१०२ ।
न्यायसुधा-
विभाव्यते सम्यगनुभूयते ।
के वादिनो न केऽपि ।
अत्र मुक्ततारतम्यविषये ।
। इति कामचाराधिकरणम् ।
__