। अथ पुरुषार्थाधिकरणम् ।
ज्ञानसामर्थ्यमस्मिन्पाद उच्यत इति पादप्रतिपाद्यं भाष्ये ऽभिहितम् ।
सङ्गतिस्तु प्रागुक्तैव ।
ननु च ज्ञानस्य स्वातन्त्र्येण
मोक्षसाधनत्वं सामर्थ्यम् ।
तच्च विद्यैवेत्युक्तम् ।
किमपरमवशिष्यते ।
यदर्थं पादारम्भः ।
उच्यते ।
सिद्धे(द्धं) स्वतन्त्रस्यैव ज्ञानस्य मोक्षसाधनत्वे(त्वम्) ।
विषयान्तरे तु समर्थ्यते ।
यद्यपि साधकेन मोक्षार्थमेवेदं साधितं तथापि स्वभावबलायतं तत्सामर्थ्यमुपपद्यते ।
यथा दहनार्थमुत्पादितो ऽपि दहनः स्वभाववशात्प्रकाशयत्यपीति ।
ओं पुरुषार्थो ऽतः शब्दादिति बादरायणः ओं ।
किं कर्मानुप्रवेशेन ज्ञानं मोक्षसाधनं किं वा स्वतन्त्रमेवेति संशये स्वतन्त्रस्यैव ज्ञानस्य मोक्षसाधनत्वमनेन समर्थ्यत इति केचिद्वयाचक्षते ।
तदसत् ।
विद्यैवेत्यत्रैवास्यार्थस्य समर्थितत्वात् ।
किन्तु ज्ञानं किं मोक्षमेव साधयत्युतान्यमपि पुरुषार्थमिति संशये ज्ञानिनां पुरुषान्तरे रागाभावान्मोक्षस्यैव साधकं ज्ञानमिति प्राप्ते
सतीदमुच्यत इत्याशयवान्पुरुषार्थो ऽत इत्येतावद्वयाचष्टेएवमिति ।
पुरुषार्थो ऽतः शब्दाद् इति बादरायणः । ब्ब्स्_३,४.१ ।
एवमुत्पन्ननिर्दोषभगवद्दर्शनात् सदा ।
अपेक्षितफलप्राप्तिर् … । (अनुव्याख्यानम्)३,४.१अच् ।
११,२
न्यायसुधा-
अत इति ज्ञानपरामर्शो नोपपद्यते ।
पूर्वत्र प्राधान्येनोपासनस्यैव प्रकृतत्वादित्यत उक्तमेवमुत्पन्नेति ।
न खलूपासनं स्वातन्त्र्येण प्रकृतं किन्नाम भगवद्दशर्नार्थत्वेन ।
अतः साध्यतया तदपि प्रकृतमेवेति भावः ।
एवमुक्तरूपोपासनोत्पन्नात् ।
भगवतो निर्देषत्वसङ्कीतर्नं तदुपपादनाय पातनिकार्थं ज्ञातव्यम् ।
यद्वा भगवद्दर्शनादित्येवोक्ते दैत्यादीनां यदवतारदर्शनं तस्यापि पुरुषाथर्हेतुत्वं स्यात् ।
एवमुत्पन्नेत्यनेनैव तत्परिहृतमिति चेन्न ।
तस्य प्रकृतताप्रदर्शन एव चरितार्थत्वात् ।
तन्न तेषां बिम्बदर्शनमिति चेत् ।
मा भूत् ।
तस्य मोक्षार्थत्वात् ।
अत्र तु पुरुषार्थान्तरस्य प्रस्तुतत्वात् ।
अतो निर्देषाद्भगवद्दर्शनादित्युक्तम् ।
भगवद्ग्रहणेनाद्वैतज्ञानमत्र गृह्यत इति निराचष्टे ।
साद ज्ञानोदयक्षणादारभ्य स्वोदयात्फलदं ज्ञानमिति वचनात् ।
अपेक्षितफलप्राप्तिर्भवतीति मोक्षमात्रं व्यावतर्यति ।
११,४
नन्वेतदसत् ।
ज्ञानिनामप्यभिप्रायस्य कदाचिन्मोघत्वदर्शनादित्यत आहआरब्धस्येति ।
… आरब्धस्यानतिक्रमात् । (अनुव्याख्यानम्)३,४.१द् ।
न्यायसुधा-
प्रारब्धकर्मणो ऽतिक्रममविधायेति पूर्वेणैव सम्बन्धः ।
प्रारब्धप्रतिबद्धं हि ज्ञानं मोक्षमपि न करोति ।
अतस्तत्प्रतिबन्ध(क)वशाज्ज्ञानिनामाप्यभिप्राया मोघाः स्युः ।
ज्ञानस्य पुरुषार्थहेतुत्वे ऽपि विशेषो ऽस्तीत्याहदेवेति ।
देवर्षिमानुषादीनां तत्तज्जात्यनुसारतः । (अनुव्याख्यानम्)३,४.२अब् ।
न्यायसुधा-
जातिशब्देनात्र योग्योच्यते ।
अपेक्षितफलप्राप्तिर्भवतीति सम्बन्धः ।
एतेन नाविशेषादित्यस्यापि तात्पर्यमुकतं भवति ।
११,५
अत्र न ज्ञानं स्वतन्त्रमेव स्वर्गादिसाधनं किन्तु कर्मैव ।
ज्ञानं तु कर्मशेषत्वात्तत्साधनत्वेनोच्यते ।
शेषत्वं च कर्मणैव सिद्धयति पुरुषार्थे ऽतिशयाधायकत्वमिति शेषत्वात्पुरुषार्थवादो यथान्येष्विति जैमिनिरित्यादिसूत्रैः
पूर्वपक्षयित्वाधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनादित्यादिना स्वतन्त्रस्यैव ज्ञानस्य स्वर्गादिसाधनत्वं पुनः सिद्धान्तितम् ।
तत्र पूर्वपक्ष्युपन्यस्तप्रमाणनिरासः स्फुटो भाष्ये ।
जैमिनिमतविरोधपरिहारस्तु कथमित्यत आहजैमिन्युक्तमिति ।
जैमिन्युक्तं मानुषाणां तद्विशेषाश्च केचन । (अनुव्याख्यानम्)३,४.२च्द् ।
न्यायसुधा-
ज्ञानशेषस्य कर्मण एव स्वर्गादिसाधनत्वं मानुषज्ञानिविषयम् ।
न केवलं जैमिन्युक्तं किन्तु स्वर्गादयः कर्मणैव नान्येनेत्यपरे विदुः ।
‘अदृष्टमेव ज्ञानेन दृष्टं नैवोपलभ्यते ।
इति केचिद्विदः प्राहुः’ इत्यादिनोक्तास्तद्विशेषा जैमिनिमतैकदेशा ये केचन ते ऽपि मानुषाणाम् ।
कथमेतेषां जैमिनिमतैकदेशत्वमिति चेत् ।
स्वतन्त्रस्य ज्ञानस्य च स्वर्गादिसाधनत्वमित्येतावत्यंशे साम्यादिति ब्रूमः ।
मानुषा अप्युत्तममध्यमाधमभेदभिन्ना इति यथायोग्यं विचित्रमतविषया भवन्येव ।
११,८
एवं जैमिनिमतविषयमुक्त्वा सूत्रकारमतविषयं दर्शयतिसामान्यमिति ।
सामान्यं भगवत्प्रोक्तं … । (अनुव्याख्यानम्)३,४.३अ ।
न्यायसुधा-
ज्ञानं सकलपुरुषार्थसाधनं भवतीति सामान्यमेव भगवता प्रोक्तम् ।
नतु पुरुषविशेषनिष्ठं ज्ञानमिति ।
अतः सामान्यविशेषनियतत्वान्नैतयोर्मतयोर्विरोधः ।
ननु सामान्येनापि क्वचिद्विशेषे ऽवस्थातव्यम् ।
तदिदमपि क्वावतिष्ठत इत्यत आहदेवादीनामिति ।
… देवादीनां विशेषतः । (अनुव्याख्यानम्)३,४.३ब् ।
न्यायसुधा-
भगवन्मतं विशेषतो ऽपवादैरपोदितं देवादिविषयं व्यवतिष्ठते ।
यद्यप्ययमर्थो लोकत एव सिद्धः ।
यदपवादविषयं परित्यज्य सामान्यं व्यवतिष्ठत इति ।
तथापि मन्दप्रबोधनायाचार्यैरभिहितः ।
११,९
प्रकारान्तरेण मतयोर्विषयभेदं दर्शयतिबलवदिति ।
बलवद्विरोधिसद्भावे जैमिन्याद्युक्तिरिष्यते । (अनुव्याख्यानम्)३,४.३च्द् ।
न्यायसुधा-
अत्रापि सामान्यं भगवत्प्रोक्तमिति वर्तते ।
भगवता ज्ञानं सकलपुरुषार्थसाधनमिति सामान्येनोक्तम् ।
जैमिन्यादयस्तु बलवत्प्रतिबन्धककर्मसद्भावे ज्ञानस्य पुरुषार्थासाधनत्वमभिप्रेत्य न स्वतन्त्रज्ञानात्स्वर्गादिप्राप्तिर्भवतीत्युक्तवन्तः ।
ततश्च सामान्यविशेषविषयत्वान्न विरोधः ।
तथा चाप्रतिबद्धज्ञानविषयं भगवन्मतं व्यवतिष्ठते ।
यथोक्तम् ।
आरब्धस्यानतिक्रमादिति ।
ननु नायं जैमिन्यादिमतस्य विषयो वक्तुं शक्यते ।
बलवद्विरोधसद्भावे कर्मणो ऽपि स्वर्गादिसाधनत्वानुपपत्तेः ।
मैवम् ।
नहि यज्ज्ञानस्य प्रतिबन्धकं कमर् तत्कर्मणो ऽपीत्यस्ति नियमः ।
लोके ऽन्यथा दर्शनात् ।
फलप्रतिबन्धककर्मसद्भावे कथमिति चेत् ।
तदा स्वर्गादिसाधनं कर्मैव नोत्पद्यते ।
उत्पन्नं वा प्रतिबद्धं तिष्ठतीति को विरोधः ।
नहि बलवद्विरोधिसद्भावे सर्वत्रैव
जैमिन्याद्युक्तिरिष्यत इत्युक्तम् ।
इयं च व्यवस्था पूर्वव्यवस्थयोपस्कतर्व्या ।
अन्यथा विरोधापत्तेरिति ।
। इति पुरुषार्थाधिकरणम् ।
__
११,१२