२४ ताद्विद्याधिकरण

। अथ ताद्विद्याधिकरणम् ।
। ओं परेण च शब्दस्य ताद्विध्वं भूयस्त्वात्त्वनुबन्धः ओं ।
भक्तिरेवैनं नयतीत्यादिश्रुतेर्भक्तिरेव मोक्षादिसाधनं न परमात्मा ।
यथैकलव्यस्य गुरुभक्तिरेव विद्याप्राप्तिसाधनं न गुरुरित्येवं प्राप्ते इदमुक्तम् ।
तत्र भाष्यम् ।
प्रधानसाधनत्वाद्भक्तिः करणत्वेनोच्यत इति ।
तत्रप्रकृतत्वाद्भगवदपेक्षयैव भक्तेः प्राधान्यमिति प्रतीतिः सयात्तां निवारयितुमाहसाधनेभ्य इति ।
परेण च शब्दस्य ताद्विध्यं भूयस्त्वात् त्व् अनुबन्धः । ब्ब्स्_३,३.५२ ।
साधनेभ्यो ऽधिका भक्तिर् … । (अनुव्याख्यानम्)३,३.१९२अ ।
न्यायसुधा-
मोक्षसाधनेभ्यो ज्ञानादिभ्यः ।
एतदपि तादृगेव भगवतो ऽपि मोक्षसाधनत्वादित्यत आहनैवेति ।
… नैवान्यत् तादृशं क्वचित् । (अनुव्याख्यानम्)३,३.१९२ब् ।
न्यायसुधा-
क्वचिन्मुक्तौ ज्ञानादौ वा भगवतोन्यत्साधनं भक्तिसदृशं नैवास्तीत्यर्थः ।
भक्तिरिति सामान्येनोक्तं न ज्ञायते किंविषया कथं चेति ।
अत आहभक्तिश्चेति ।
भक्तिश्चैव हरावेव मुख्यान्यत्र यथाक्रमम् । (अनुव्याख्यानम्)३,३.१९२च्द् ।
न्यायसुधा-
हरावेव मुख्या सर्वाधिका न तथान्यत्र ।
अन्यत्रापि यथाक्रममेव न तु साम्येनाक्रमेण वेत्यर्थः ।
तदियत्तामाहस्वाधिकेति ।
१०,३६५
स्वाधिका त्वेव सर्वत्र स्वोत्तमेषु क्रमेण च । (अनुव्याख्यानम्)३,३.१९३अब् ।
न्यायसुधा-
साक्षात्स्वोत्तमे स्वाधिकैव कर्तव्या ।
अन्यत्र स्वोत्तमेषु तदुत्तमत्वक्रमेणेत्यर्थः ।
यद्यप्येषो ऽथर्ः प्रागुक्तस्तथापि तात्पर्यातिशयद्योतनाय पुनरुक्तः ।
भक्तिः साधनं चेन्मुक्तिप्राप्त्यनन्तरं नास्तीति प्रतीतिः स्यात् ।
फलप्राप्तौ साधननिवृत्तिदर्शनात् ।
तन्निवृत्त्यर्थमाहअनुवर्तते चेति ।
१०,३६६
अनुवर्तते च सा भक्तिर्मुक्तावानन्दरूपिणी । (अनुव्याख्यानम्)३,३.१९३च्द् ।
न्यायसुधा-
प्रेमविशेषो हि भक्तिर्नाम ।
उपकारकत्वज्ञानाज्जाता हि प्रेमा कृतमहोपकारे नितरां वर्धत इत्येव खलु युक्तं न तु हीयत इति ।
तदेतत् अस्तीत्यनुक्त्वानुवर्तत इति वदता सूचितम् ।
तर्हि तस्याः फलमपि किञ्चित्स्यादित्यत आहआनन्दरूपिणीति ।
प्राक्कर्तव्यतया प्रकृता ।
अतः साधनरूपा ।
मुक्तौ तु स्वभावभूताविर्भूताफलरूपैव ।
पादार्थमुपसंहरतितदिति ।
तत्पूर्वकोपासनैवं कर्तव्या मुक्तये गुणैः । (अनुव्याख्यानम्)३,३.१९३एफ़् ।
न्यायसुधा-
भक्तिपूर्वा ।
एवमिति योग्यतादेः ।
गुणैरुपेतस्य हरेः ।
। इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना कृतायां टीकायां विषमपदवाक्यार्थविवृतौ
तृतीये ऽत्रोपासाविषयचरणः पर्यवसितः ।



११,१