। अथ पूर्वविकल्पाधिकरणम् ।
। ओं पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवत् ओं ।
किं प्रथमप्राप्त एव गुरुरुत तं परित्यज्यान्यो ऽपि स्वीकर्तुं शक्यत इति संशये’गुरुमन्त्रपरित्यागी रौरवं नरकं व्रजेत्’ इति गुरुपरित्यागे
दोषस्मरणात्प्रथमप्राप्त एवेति प्राप्ते विकल्प उच्यते ।
स हीनसमोत्तमेषु किंविषय इति न ज्ञायते ।
दोषस्मरणस्य का गतिरित्यतो व्यक्तं व्याख्यातिगुणाधिकमिति ।
पूर्वविकल्पः प्रकरणात्स्यात् क्रियामानसवत् । ब्ब्स्_३,३.४५ ।
गुणाधिकं गुरुं प्राप्य तद्धीनं नाप्नुयात् क्वचित् । (अनुव्याख्यानम्)३,३.१८८अब् ।
न्यायसुधा-
क्वचित्प्रयोजनविशेषे ऽपि ।
दोषस्मरणं तद्विषयमिति भावः ।
एवं तर्हि सौत्रो विकल्पो ऽधिकगुरुप्राप्तिविषयः किमिति नेत्याहविपर्ययस्त्विति ।
विपर्ययस्तु कर्तव्यः सर्वथा मुक्तिमिच्छता । (अनुव्याख्यानम्)३,३.१८८च्द् ।
न्यायसुधा-
अधमगुरुपरित्यागेनोत्तमगुरुस्वीकार इत्यर्थः ।
अन्यथा दैवादादावल्पं गुरुं प्राप्तस्य शिष्यस्य प्रज्ञोत्कर्षवतो जातयोः संशयविपर्यासयोरज्ञानस्य च निवृत्तिर्न स्यात् ।
तदिदमुक्तं शुभमिच्छतेति ।
एवं तर्ह्यनुपदिशत उत्तमस्य त्यागेनोपदिशतो ऽधमस्य स्वीकारो ऽपि कर्तव्यः स्यात् ।
सत्यम् ।
प्रतिषेधवचनेन तत्रापोदितो ऽयं न्यायः ।
तर्हि सौत्रस्य विकल्पस्य को विषय इत्यत आहसम इति ।
१०,३५९
समे विकल्प एव स्यात् … । (अनुव्याख्यानम्)३,३.१८९अ ।
न्यायसुधा-
पूर्वस्वीकृतेन गुरुणा समे गुरौ स्वयमेव प्राप्ते सति स्वीकारस्य विकल्प एव स्यात् ।
न तु नियमः ।
सम एवेति वा सम्बन्धः ।
दोषस्मृतेर्विषयान्तरं च दर्शयितुमाहपूर्वेति ।
… पूर्वानुज्ञा च सर्वथा । (अनुव्याख्यानम्)३,३.१८९ब् ।
न्यायसुधा-
समगुर्वन्तरस्वीकारे पूर्वस्यानुज्ञा च सर्वथा भाव्या ।
विनानुज्ञया समानपूर्वपरित्यागविषयं दोषस्मरणमिति भावः ।
१०,३६०
पूर्वानुज्ञा चेत्येतद्गुर्वन्तरप्राप्तिमात्रविषयमिति मन्दप्रतीतिनिरासायाहतदुत्तमेति ।
तदुत्तमगुरुप्राप्त्यै पूर्वानुज्ञा न मृग्यते । (अनुव्याख्यानम्)३,३.१८९च्द् ।
न्यायसुधा-
तदिति पूर्वप्राप्तस्य परामर्शः ।
तस्मादुत्तमस्य गुरोः प्राप्त्यै पूर्वस्यानुज्ञा न मार्गणीया ।
गुरुप्रसादः सर्वथा भाव्य इति सूत्रकृतोक्तम् ।
तद्विद्यादेवतयोरपि प्रसादस्योपलक्षणमिति विवक्षुर्गुरुविद्यादेवतास्वरूपं तावदाहगुरुरिति ।
गुरुबर्रह्माखिलानां च विद्या चैव सरस्वती ।
देवता भगवान् विष्णुः सर्वेषामविशेषतः । (अनुव्याख्यानम्)३,३.१९० ।
१०,३६१
न्यायसुधा-
येषां तेषामिति विशेषं विहाय सर्वेषामेव ।
ततः किमित्यत आहतदिति ।
तत्प्रसादेन मुक्तिः स्यान्नान्यथा तु कथञ्चन । (अनुव्याख्यानम्)३,३.१९१अब् ।
न्यायसुधा-
न केवलं गुरुप्रसादेन किन्तु विद्यादेवतयोरपीत्यर्थः ।
मुक्तिरिति ज्ञानादेरुपलक्षणम् ।
साधारणगुरुमुक्त्वासाधारणानाहस्योत्तमास्त्विति ।
स्वोत्तमास्तु क्रमेणैव सर्वेषां गुरवः श्रुताः । (अनुव्याख्यानम्)३,३.१९१च्द् ।
१०,३६२
न्यायसुधा-
क्रमेणैवेति साक्षादुत्तमो गरुस्ततो ऽप्युत्तमो गुरुतर इत्यादि ।
एवं विद्याविशेषे तद्देवताविशेषो ऽपि ज्ञातव्यः ।
नन्वस्तु विद्यात्वं विद्याभिमानित्वात्सरस्वत्यादीनाम् ।
देवतात्वं च विद्याप्रतिपाद्यत्वाद्विष्णोः ।
ब्रह्मणो गुरुत्वं तु कुतः ।
विद्योपदेष्यृत्वं हि गुरुत्वम् ।
नच सर्वान्प्रति ब्रह्मणस्तदस्तीत्यत आहउपदेश इति ।
उपदेशो ब्रह्मणस्तु सर्वेषामेव मुक्तये । (अनुव्याख्यानम्)३,३.१९१एफ़् ।
न्यायसुधा-
इह जन्मान्तरे वा हिरण्यगर्भोपदेशेन विना न कस्यापि मुक्तिरित्यतस्तस्य गुरुत्वमुपपन्नम् ।
तदितरेषामप्युत्तमानां विद्यासम्प्रदायप्रवर्तकत्वाद्गुरुत्वमप्रवर्तकानां त्वनुग्राहकत्वादिनेति ।
। इति पूर्वविकल्पाधिकरणम् ।
__
१०,३६४