। अथ प्रदानाधिकरणगुरुप्रसादाधिकरणौ ।
। ओं प्रदानवदेव तदुक्तम् ओं ।
अत्र प्रकृष्टं दानं प्रदानम् ।
प्रशब्दो न स्फुटं व्याख्यातो भाष्ये ।
अतः सूत्रार्थमाहसम्यगिति ।
प्रदानवद् एव तद् उक्तम् । ब्ब्स्_३,३.४३ ।
लिङ्गभूयस्त्वात् तद् धि बलीयस् तद् अपि । ब्ब्स्_३,३.४४ ।
सम्यग् गुरुप्रसादश्च मुख्यतो दृष्टिकारणम् । (अनुव्याख्यानम्)३,३.१८७अब् ।
न्यायसुधा-
न केवलं श्रवणादि किन्तु सम्यग्गुरुप्रसादश्च ।
सम्यक् प्रसादपूर्वकं गुरोर्यद्विद्यादानं तच्च भगवद्दृष्टेः कारणमित्यर्थः ।
ननु’प्रज्ञान्तरपृथक्त्ववत्’ इति सूत्रं प्रदानवदेवेत्यतः पश्चात्तनं तत्कुतो व्युत्क्रमः ।
उच्यते ।
योग्यताचिन्तासङ्गतं तदिति प्रकरणशुद्धये पूर्वमेव व्याख्यातमिति न दोषः ।
। ओं लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ओं ।
अत्र गुरुप्र(साद)दानस्य बलवत्त्वमुक्तम् ।
तदयुक्तम् ।
श्रवणादितो हि बलवत्त्वम् ।
तच्च प्रदानशब्दार्थान्तर्गतमेव ।
नहि स्वस्मादेव स्वय बलीय इति सम्भवतीत्यतो व्याचष्टेसम्यगिति ।
मुख्यतः श्रवणाद्यपेक्षयातिशयेन ।
अयमभिसन्धिः ।
प्रदानशब्देन हि सम्यग्गुरुप्रसादपूर्वकं दानं प्रकृतम् ।
तत्र सम्यग्गुरुप्रसादमात्रं तदिति अत्र परामृश्यत इति ।
लिङ्गभूयस्त्वादित्युक्तम् ।
यास्वाख्यायिकासु लिङ्गानि दृश्यन्ते तत्र गुरुप्रसादेनैव ज्ञानप्राप्तिश्रवणात् श्रवणादिकं न करणीयमिति शङ्का स्यात्तां निवारयितुं तदपीत्युक्तम् ।
तद्वयाख्यातिश्रवणादि चेति ।
श्रवणादि च कर्तव्यं नान्यथा दर्शनं क्वचित् । (अनुव्याख्यानम्)३,३.१८७च्द् ।
१०,३५५फ़्.
न्यायसुधा-
कुत इत्यत आहनान्यथेति ।
अन्वयव्यतिरेकाभ्यां श्रुत्या च प्रमाणानामेव प्रमेयाधिगतिसाधनत्वनिश्चयादिति भावः ।
आख्यायिकास्वपि श्रवणादीनामनुक्तिमात्रम् ।
न पुनरभावोक्तिरस्ति ।
इति प्रदानाधिकरणगुरुप्रसादाधिकरणौ ।
__
१०,३५८